<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">८. चित्तयमकं</p>

<p rend="subhead">उद्देसवारवण्णना</p>

<p rend="bodytext" n="1-62"><hi rend="paranum">१-६२</hi><hi rend="dot">.</hi> इदानि तेसञ्‍ञेव मूलयमके देसितानं कुसलादिधम्मानं लब्भमानवसेन एकदेसमेव सङ्गण्हित्वा अनुसययमकानन्तरं देसितस्स चित्तयमकस्स अत्थवण्णना होति। तत्थ पाळिववत्थानं ताव वेदितब्बं। इमस्मिञ्हि चित्तयमके मातिकाठपनं, ठपितमातिकाय विस्सज्‍जनन्ति द्वे वारा होन्ति। तत्थ मातिकाठपने पुग्गलवारो, धम्मवारो, पुग्गलधम्मवारोति आदितोव तयो सुद्धिकमहावारा होन्ति।</p>

<p rend="bodytext">तत्थ ‘‘यस्स चित्तं उप्पज्‍जति, न निरुज्झती’’ति एवं पुग्गलवसेन चित्तस्स उप्पज्‍जननिरुज्झनादिभेदं दीपेन्तो गतो पुग्गलवारो नाम। ‘‘यं चित्तं उप्पज्‍जति, न निरुज्झती’’ति एवं धम्मवसेनेव चित्तस्स उप्पज्‍जननिरुज्झनादिभेदं दीपेन्तो गतो धम्मवारो नाम। ‘‘यस्स यं चित्तं उप्पज्‍जति, न निरुज्झती’’ति एवं उभयवसेन <pb ed="M" n="0.0332"/> चित्तस्स उप्पज्‍जननिरुज्झनादिभेदं <pb ed="V" n="0.0331"/> दीपेन्तो गतो पुग्गलधम्मवारो नाम। ततो <pb ed="P" n="0.0099"/> ‘‘यस्स सरागं चित्त’’न्ति सोळसन्‍नं पदानं वसेन अपरे सरागादिपदविसेसिता सोळस पुग्गलवारा, सोळस धम्मवारा, सोळस पुग्गलधम्मवाराति अट्ठचत्तालीसं मिस्सकवारा होन्ति। ते सरागादिपदमत्तं दस्सेत्वा सङ्खित्ता। ततो ‘‘यस्स कुसलं चित्त’’न्तिआदिना नयेन छसट्ठिद्विसतसङ्खानं अभिधम्ममातिकापदानं वसेन अपरे कुसलादिपदविसेसिता छसट्ठिद्विसतपुग्गलवारा, छसट्ठिद्विसतधम्मवारा छसट्ठिद्विसतपुग्गलधम्मवाराति अट्ठनवुतिसत्तसता मिस्सकवारा होन्ति। तेपि कुसलादिपदमत्तं दस्सेत्वा सङ्खित्तायेव। यानिपेत्थ सनिदस्सनादीनि पदानि चित्तेन सद्धिं न युज्‍जन्ति, तानि मोघपुच्छावसेन ठपितानि।</p>

<p rend="bodytext">तेसु पन तीसु वारेसु सब्बपठमे सुद्धिकपुग्गलमहावारे उप्पादनिरोधकालसम्भेदवारो, उप्पादुप्पन्‍नवारो, निरोधुप्पन्‍नवारो, उप्पादवारो, निरोधवारो, उप्पादनिरोधवारो उप्पज्‍जमाननिरोधवारो, उप्पज्‍जमानुप्पन्‍नवारो, निरुज्झमानुप्पन्‍नवारो, उप्पन्‍नुप्पादवारो, अतीतानागतवारो, उप्पन्‍नुप्पज्‍जमानवारो, निरुद्धनिरुज्झमानवारो, अतिक्‍कन्तकालवारोति चुद्दस अन्तरवारा। तेसु उप्पादवारो, निरोधवारो, उप्पादनिरोधवारोति इमेसु तीसु वारेसु अनुलोमपटिलोमवसेन छ छ कत्वा अट्ठारस यमकानि। उप्पन्‍नुप्पादवारे अतीतानागतकालवसेन अनुलोमतो द्वे, पटिलोमतो द्वेति चत्तारि यमकानि। सेसेसु आदितो निद्दिट्ठेसु तीसु, अनन्तरे निद्दिट्ठेसु तीसु; अवसाने निद्दिट्ठेसु चतूसूति दससु वारेसु अनुलोमतो एकं, पटिलोमतो एकन्ति द्वे द्वे कत्वा वीसति यमकानि। एवं सब्बेसुपि चुद्दससु अन्तरवारेसु द्वाचत्तालीस यमकानि, चतुरासीति पुच्छा अट्ठसट्ठिअत्थसतं होति। यथा च एकस्मिं सुद्धिकपुग्गलमहावारे, तथा सुद्धिकधम्मवारेपि सुद्धिकपुग्गलधम्मवारेपीति तीसु महावारेसु छब्बीसतियमकसतं, ततो दिगुणा पुच्छा, ततो दिगुणा अत्था च वेदितब्बा। इदं पन वारत्तयं सरागादिवसेन सोळसगुणं, कुसलादिवसेन छसट्ठिद्विसतगुणं कत्वा इमस्मिं चित्तयमके अनेकानि यमकसहस्सानि, ततो दिगुणा पुच्छा, ततो दिगुणा अत्था च होन्तीति <pb ed="P" n="0.0100"/>। पाठो पन संखित्तोति। एवं ताव इमस्मिं चित्तयमके पाळिववत्थानं वेदितब्बं।</p>

<p rend="centre">मातिकाठपनवण्णना।</p>

<p rend="title">निद्देसो</p>

<p rend="title">१. पुग्गलवारवण्णना</p>

<p rend="bodytext" n="63"><hi rend="paranum">६३</hi><hi rend="dot">.</hi> इदानि <pb ed="M" n="0.0333"/> <pb ed="V" n="0.0332"/> ठपितानुक्‍कमेन मातिकं विस्सज्‍जेतुं <hi rend="bold">यस्स चित्तं उप्पज्‍जति न निरुज्झती</hi>तिआदि आरद्धं। तत्थ <hi rend="bold">उप्पज्‍जती</hi>ति उप्पादक्खणसमङ्गिताय उप्पज्‍जति <hi rend="bold">न निरुज्झती</hi>ति निरोधक्खणं अप्पत्तताय न निरुज्झति। <hi rend="bold">तस्स चित्त</hi>न्ति तस्स पुग्गलस्स ततो पट्ठाय चित्तं निरुज्झिस्सति नुप्पज्‍जिस्सतीति पुच्छति। <hi rend="bold">तेसं चित्त</hi>न्ति येसं परिच्छिन्‍नवट्टदुक्खानं खीणासवानं सब्बपच्छिमस्स चुतिचित्तस्स उप्पादक्खणो वत्तति, एतेसं तदेव चुतिचित्तं उप्पादप्पत्तताय उप्पज्‍जति नाम, भङ्गं अप्पत्तताय न निरुज्झति। इदानि पन भङ्गं पत्वा तं तेसं चित्तं निरुज्झिस्सति, ततो अप्पटिसन्धिकत्ता अञ्‍ञं नुप्पज्‍जिस्सति। <hi rend="bold">इतरेस</hi>न्ति पच्छिमचित्तसमङ्गिं खीणासवं ठपेत्वा अवसेसानं सेक्खासेक्खपुथुज्‍जनानं <hi rend="bold">निरुज्झिस्सति चेव उप्पज्‍जिस्सति चा</hi>ति यं तं उप्पादक्खणप्पत्तं तं निरुज्झिस्सतेव। अञ्‍ञं पन तस्मिं वा अञ्‍ञस्मिं वा अत्तभावे उप्पज्‍जिस्सति चेव निरुज्झिस्सति च। दुतियपुच्छाविस्सज्‍जनेपि तथारूपस्सेव खीणासवस्स चित्तं सन्धाय ‘आमन्ता’ति वुत्तं। <hi rend="bold">नुप्पज्‍जति निरुज्झती</hi>ति भङ्गक्खणे अरहतो पच्छिमचित्तम्पि सेसानं भिज्‍जमानचित्तम्पि। ततो पट्ठाय पन अरहतो चित्तं न निरुज्झिस्सतीति सक्‍का वत्तुं उप्पज्‍जिस्सतीति पन न सक्‍का। सेसानं उप्पज्‍जिस्सतीति सक्‍का वत्तुं, न निरुज्झिस्सतीति न सक्‍का। तस्मा ‘नो’ति पटिसेधो कतो। दुतियपञ्हे यस्स चित्तं न निरुज्झिस्सति, उप्पज्‍जिस्सतीति सो पुग्गलोयेव नत्थि, तस्मा नत्थीति पटिक्खेपो कतो।</p>

<p rend="bodytext" n="65-82"><hi rend="paranum">६५-८२</hi><hi rend="dot">.</hi> <hi rend="bold">उप्पन्‍न</hi>न्ति उप्पादसमङ्गिनोपेतं नामं। उप्पादं पत्वा अनिरुद्धस्सापि। तत्थ उप्पादसमङ्गितं सन्धाय <pb ed="P" n="0.0101"/> ‘आमन्ता’ति, उप्पादं पत्वा अनिरुद्धभावं सन्धाय ‘‘तेसं चित्तं उप्पन्‍न’’न्ति वुत्तं। <hi rend="bold">अनुप्पन्‍न</hi>न्ति उप्पादं अप्पत्तं। <hi rend="bold">तेसं चित्तं उप्पज्‍जित्था</hi>ति एत्थापि सब्बेसं ताव चित्तं खणपच्‍चुप्पन्‍नमेव हुत्वा उप्पादक्खणं अतीतत्ता उप्पज्‍जित्थ नाम, निरोधसमापन्‍नानं निरोधतो पुब्बे उप्पन्‍नपुब्बत्ता, असञ्‍ञसत्तानं सञ्‍ञीभवे उप्पन्‍नपुब्बत्ता। <hi rend="bold">उप्पज्‍जित्थ चेव उप्पज्‍जति चा</hi>ति उप्पादं पत्तत्ता उप्पज्‍जित्थ, अनतीतत्ता उप्पज्‍जति नामाति अत्थो।</p>

<p rend="bodytext"><hi rend="bold">उप्पादक्खणे</hi> <pb ed="V" n="0.0333"/> <hi rend="bold">अनागतञ्‍चा</hi>ति उप्पादक्खणे च चित्तं अनागतञ्‍च चित्तन्ति अत्थो।</p>

<p rend="bodytext" n="83"><hi rend="paranum">८३</hi><hi rend="dot">.</hi> अतिक्‍कन्तकालवारे <hi rend="bold">उप्पज्‍जमानं खण</hi>न्ति उप्पादक्खणं। तत्थ किञ्‍चापि उप्पादक्खणो उप्पज्‍जमानो नाम न होति, उप्पज्‍जमानस्स पन खणत्ता एवं <pb ed="M" n="0.0334"/> वुत्तो। <hi rend="bold">खणं वीतिक्‍कन्तं अतिक्‍कन्तकाल</hi>न्ति न चिरं वीतिक्‍कन्तं तमेव पन उप्पादक्खणं वीतिक्‍कन्तं हुत्वा अतिक्‍कन्तकालन्ति सङ्खं गच्छति। <hi rend="bold">निरुज्झमानं खण</hi>न्ति निरोधक्खणं। तत्थ किञ्‍चापि निरोधक्खणो निरुज्झमानो नाम न होति, निरुज्झमानस्स पन खणत्ता एवं वुत्तो। <hi rend="bold">खणं वीतिक्‍कन्तं अतिक्‍कन्तकाल</hi>न्ति किं तस्स चित्तं एवं निरोधक्खणम्पि वीतिक्‍कन्तं हुत्वा अतिक्‍कन्तकालं नाम होतीति पुच्छति। तत्थ यस्मा भङ्गक्खणे चित्तं उप्पादक्खणं खणं वीतिक्‍कन्तं हुत्वा अतिक्‍कन्तकालं होति, निरोधक्खणं खणं वीतिक्‍कन्तं हुत्वा अतिक्‍कन्तकालं नाम न होति। अतीतं पन चित्तं उभोपि खणे खणं वीतिक्‍कन्तं हुत्वा अतिक्‍कन्तकालं नाम, तस्मा ‘‘भङ्गक्खणे चित्तं उप्पादक्खणं वीतिक्‍कन्तं, भङ्गक्खणं अवीतिक्‍कन्तं, अतीतं चित्तं उप्पादक्खणञ्‍च वीतिक्‍कन्तं भङ्गक्खणञ्‍च वीतिक्‍कन्तन्ति विस्सज्‍जनमाह। दुतियपञ्हस्स विस्सज्‍जने यस्मा अतीतं चित्तं उभोपि खणे वीतिक्‍कन्तं हुत्वा अतिक्‍कन्तकालं नाम होति, तस्मा अतीतं चित्तन्ति वुत्तं। पटिलोमपञ्हस्स विस्सज्‍जने यस्मा उप्पादक्खणे च चित्तं अनागतञ्‍च चित्तं उभोपि खणे खणं वीतिक्‍कन्तं हुत्वा अतिक्‍कन्तकालं नाम न होति, तेसं खणानं <pb ed="P" n="0.0102"/> अवीतिक्‍कन्तत्ता। तस्मा ‘‘उप्पादक्खणे चित्तं अनागतं चित्त’’न्ति वुत्तं। दुतियविस्सज्‍जनं पाकटमेव।</p>

<p rend="bodytext" n="84-113"><hi rend="paranum">८४-११३</hi><hi rend="dot">.</hi> धम्मवारेपि इमिनावुपायेन सब्बविस्सज्‍जनेसु अत्थो वेदितब्बो। पुग्गलधम्मवारो धम्मवारगतिकोयेव।</p>

<p rend="bodytext" n="114-116"><hi rend="paranum">११४-११६</hi><hi rend="dot">.</hi> सब्बेपि मिस्सकवारा <hi rend="bold">यस्स सरागं चित्त</hi>न्तिआदिना नयेन मुखमत्तं दस्सेत्वा सङ्खित्ता। वित्थारो पन नेसं हेट्ठा वुत्तनयेनेव वेदितब्बो। तेसु पन ‘‘यस्स सरागं चित्तं उप्पज्‍जति, न निरुज्झति; तस्स चित्तं निरुज्झिस्सति, नुप्पज्‍जिस्सती’’ति एवं वित्थारेतब्बताय पुच्छाव सदिसा होति। यस्मा पन सरागं चित्तं पच्छिमचित्तं न होति, तस्मा ‘‘यस्स सरागं चित्तं उप्पज्‍जति, न निरुज्झति; तस्स चित्तं निरुज्झिस्सति, नुप्पज्‍जिस्सतीति <pb ed="V" n="0.0334"/> नो’’ति एवं विस्सज्‍जितब्बत्ता विस्सज्‍जनं असदिसं होति। तं तं तस्सा तस्सा पुच्छाय अनुरूपवसेन वेदितब्बन्ति।</p>

<p rend="centre">चित्तयमकवण्णना निट्ठिता।</p>

</body>
<back></back>
</text>
</TEI.2>
