<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">पतञ्‍जलिवादविचारणा</p>

<p rend="bodytext" n="3"><hi rend="paranum">३</hi><hi rend="dot">.</hi> अथ तेन ‘‘पातञ्‍जलीमतं परिवत्तेती’’ति वचनम्पि एवं विचारितं।</p>

<p rend="bodytext">(क) ‘‘बुद्धघोसो पतञ्‍जलिस्स वा अञ्‍ञेसं वा उत्तरइन्दियरट्ठिकानं वादं अप्पकमेव अञ्‍ञासि। पतञ्‍जलिवादेसु हि <hi rend="bold">अणिमा लघिमा</hi>ति इदमेव द्वयं दस्सेसि <note>विसुद्धि॰ १.१४४</note> ततुत्तरि योगसुत्तं अजानन्तो, पतञ्‍जलिवादस्स च तुलेत्वा दीपना तस्स गन्थेसु न दिस्सति, पतञ्‍जलिना कतपकरणञ्‍च पतञ्‍जलीति नाममत्तम्पि च तत्थ दीपितं नत्थि। <hi rend="bold">विसुद्धिमग्गे</hi> पन पञ्‍ञाभूमिनिद्देसे ‘पकतिवादीनं पकति विया’ति <note>विसुद्धि॰ २.५८४</note> पकतिवाद (संख्यावाद) नाममत्तं पकासितं, तत्थेव च ‘पटिञ्‍ञा हेतूतिआदीसु हि लोके वचनावयवो <pb ed="M" n="0.0013"/> हेतूति वुच्‍चती’ति <note>विसुद्धि॰ २.५९५</note> उदाहरितं, तेन ञायति ‘बुद्धघोसो इन्दियतक्‍कनयदीपके ञायगन्थस्मिं किञ्‍चि मूलभागमत्तं अपरिपुण्णं जानाती’ति’’।</p>

<p rend="bodytext">तं पन सब्बम्पि केवलं आचरियस्स अब्भाचिक्खणमत्तमेव। अतिगम्भीरस्स हि अतिगरुकातब्बस्स सुपरिसुद्धस्स पिटकत्तयस्स अत्थसंवण्णनं करोन्तेन सुपरिसुद्धोयेव पाळिनयो च अट्ठकथानयो च पोराणथेरवादा चाति ईदिसायेव अत्था पकासेतब्बा, यं वा पन अत्थसंवण्णनाय उपकारकं सद्दविनिच्छयपटिसंयुत्तं लोकियगन्थवचनं, तदेव च यथारहं पकासेतब्बं, न पन अनुपकारानिपि तंतंगन्थतक्‍कत्तुनामानि च, तेहि वुत्तवचनानि च बहूनि, न च तेसं अप्पकासनेन ‘‘न ते अट्ठकथाचरियो जानाती’’ति वत्तब्बो। यदि हि यं यं लोकियगन्थं अत्तना जानाति, तं सब्बं अनुपकारम्पि अत्तनो अट्ठकथायमानेत्वा पकासेय्य, अतिवित्थारा च सा भवेय्य अपरिसुद्धा च असम्मानिता च सासनिकविञ्‍ञूहीति आचरियेन पतञ्‍जलिवादादयो न वित्थारेन पकासिताति ञातब्बं, अञ्‍ञदत्थु येहि येहि लोकियगन्थेहि किञ्‍चि किञ्‍चि आचरियेन आनेत्वा पकासितं, ते ते च गन्था, अञ्‍ञेपि च तादिसा आचरियेन ञातात्वेव जानितब्बा विञ्‍ञूहि, यथा समुद्दस्स एकदेसं दिस्वा सब्बोपि समुद्दो एदिसोति ञायति। आचरियो पन यत्थ यत्थ वेदपटिसंयुत्तवचनानि आगतानि, तत्थ तत्थ वेदगन्थेहिपि किञ्‍चि किञ्‍चि आनेत्वा पकासेसियेव। तथा हि आचरियेन <hi rend="bold">सुमङ्गलविलासिनियं</hi> नाम दीघनिकायट्ठकथायं –</p>

<p rend="indent"><hi rend="bold">‘‘तिण्णं वेदान</hi>न्ति इरुवेदयजुवेदसामवेदान’’न्ति <note>दी॰ नि॰ अट्ठ॰ १.२५६</note> च,</p>

<p rend="indent"><hi rend="bold">‘‘इतिहासपञ्‍चमान</hi>न्ति अथब्बणवेदं चतुत्थं कत्वा इतिह आस इतिह आसाति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्‍चमो एतेसन्ति इतिहासपञ्‍चमा, तेसं इतिहासपञ्‍चमानं वेदान’’न्ति <note>दी॰ नि॰ अट्ठ॰ १.२५६</note> च,</p>

<p rend="indent">‘‘यिट्ठं वुच्‍चति महायागो’’ति <note>दी॰ नि॰ अट्ठ॰ १.१७०-१७२</note> च,</p>

<p rend="indent"><hi rend="bold">‘‘अग्गिहोम</hi>न्ति <pb ed="M" n="0.0014"/> एवरूपेन दारुना एवं हुते इदं नाम होतीति अग्गिजुहनं। दब्बिहोमादीनिपि अग्गिहोमानेव, एवरूपाय दब्बिया ईदिसेहि कणादीहि हुते इदं नाम होतीति एवं पवत्तिवसेन पन विसुं वुत्तानी’’ति <note>दी॰ नि॰ अट्ठ॰ १.२१</note> च,</p>

<p rend="indent">‘‘सासपादीनि पन मुखेन गहेत्वा अग्गिम्हि पक्खिपनं, विज्‍जं परिजप्पित्वा जुहनं वा मुखहोम’’न्ति <note>दी॰ नि॰ अट्ठ॰ १.२१</note> च –</p>

<p rend="bodytext">एवमादिना वेदपटिसंयुत्तवचनानि वेदगन्थानुरूपतो वण्णितानि। तानि च पोराणट्ठकथातो भासापरिवत्तनवसेन वुत्तानिपि भवेय्युं, वेदगन्थेसु पन अकोविदेन याथावतो भासापरिवत्तनं कातुम्पि न सुकरमेव, तस्मा आचरियस्स वेदगन्थेसु कोविदभावोपि पाकटोयेव। एवं वेदगन्थेसु च तदञ्‍ञलोकियगन्थेसु च सुकोविदस्सेव समानस्स तेसं वित्थारतो अप्पकासनं यथावुत्तकारणेनेवाति वेदितब्बं।</p>

<p rend="bodytext">अपि च आचरियो अत्तनो गन्थारम्भेयेव –</p>

<p rend="gatha1">‘‘ततो च भासन्तरमेव हित्वा,</p>

<p rend="gatha2">वित्थारमग्गञ्‍च समासयित्वा।</p>

<p rend="gatha3">विनिच्छयं सब्बमसेसयित्वा…पे॰…</p>

<p rend="gathalast">यस्मा अयं हेस्सति वण्णनापी’’ति <note>पारा॰ अट्ठ॰ १.गन्थारम्भकथा</note> च॥</p>

<p rend="gatha1">‘‘अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं।</p>

<p rend="gathalast">तन्तिनयानुच्छविकं, आरोपेत्वा विगतदोसं॥</p>

<p rend="gatha1">समयं अविलोमेन्तो, थेरानं थेरवंसपदीपानं।</p>

<p rend="gatha2">सुनिपुणविनिच्छयानं, महाविहारे निवासिनं।</p>

<p rend="gathalast">हित्वा पुनप्पुनागत-मत्थं अत्थं पकासयिस्सामी’’ति <note>दी॰ नि॰ अट्ठ॰ १.गन्थारम्भकथा</note> च–</p>

<p rend="bodytext">एवं पोराणट्ठकथानं भासापरिवत्तनसंखिपनवसेनेव विसेसेत्वा अभिनवट्ठकथायो करिस्सामीति पटिञ्‍ञं कत्वा यथापटिञ्‍ञातमेव अकासि, न अत्तनो ञाणप्पभावेन विसेसेत्वातिपि वेदितब्बं। तस्मा अट्ठकथासु <pb ed="M" n="0.0015"/> पतञ्‍जलिवादादीनं वित्थारतो अप्पकासनमारब्भ ‘‘बुद्धघोसो पतञ्‍जलिवादादीनि परिपुण्णं न जानाती’’ति वचनं केवलं आचरियस्स अब्भाचिक्खणमत्तमेवाति।</p>

</body>
<back></back>
</text>
</TEI.2>
