<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">दुतीयगाथा-परमत्थदीपनी</p>

<p rend="bodytext" n="11"><hi rend="paranum">११</hi><hi rend="dot">.</hi> एवं आदिगाथायतंतं पयोजन सहिते पञ्‍च अत्थे दस्सेत्वा इदानि ते अभिधम्मत्थे उद्देसतो दस्सेन्तो दुतीयगाथमाह। तत्थ <hi rend="bold">तत्था</hi>ति भासिस्सं अभिधम्मत्थ सङ्गहन्ति वुत्ते तस्मिं अभिधम्मत्थसङ्गहपदे मया वुत्ता अभिधम्मत्था सब्बथापरमत्थतो चतुधा होन्तीति योजना। एत्थच -</p>

<p rend="bodytext"><hi rend="bold">[१२] टीकायं</hi> ताव</p>

<p rend="bodytext">तत्थ तस्मिं अभिधम्मत्थसङ्गहपकरणेतिवा अभिधम्मत्थ पदेतिवा अभिधम्मेतिवा तसद्दत्थो निद्दिट्ठो। <hi rend="bold">विभावनियं</hi> पन तस्मिं अभिधम्मेति। सब्बं नसुन्दरं।</p>

<p rend="bodytext">न हि अभिधम्मत्थ सङ्गहपकरणे मया वुत्ता अभिधम्मत्थाति युज्‍जति। पकरणंपि हि उपरि वुच्‍चमानमेव होति। नतु वुत्तं। कुतो अभिधम्मत्थाति। न च संवण्णनापकरणेसु आदिम्हियेव ताव तसद्दो अप्पधानपदानि पच्‍चामसतीति अत्थि। तस्मा अट्ठसालिनियं आदिम्हि तत्थ केन ट्ठेन अभिधम्मोति वाक्येविय इध तसद्दत्थो वेदितब्बोति। एवञ्हि सति –</p>

<p rend="bodytext"><hi rend="bold">[१३] टीकासु</hi></p>

<p rend="bodytext">सब्बथा वुत्ताति योजनापि पटिक्खित्ता होति।</p>

<p rend="bodytext">सा हि वक्खमानेहि सब्बयापि द्वादस, सब्बथापि अट्ठारसातिआदीहि नसमेतीति। तत्त <hi rend="bold">सब्बथा</hi>ति धम्मसङ्गणियं वुत्तेन कुसलादिना <pb ed="M" n="0.0017"/> सब्बप्पकारेनपि चतुधाव होन्ति, विभङ्गे विभत्ते न खन्धादिना सब्बप्पकारेनपि चतुधाव होन्तीति अत्थो। धातु कथायं वुत्तेनातिआदिनापि वत्तब्बं।</p>

<p rend="bodytext" n="12"><hi rend="paranum">१२</hi><hi rend="dot">.</hi> <hi rend="bold">परमत्थतो</hi>ति परमत्थ सच्‍चतो। द्वे हि सच्‍चानि सम्मुतिसच्‍चं, परमत्थसच्‍चन्ति, तत्थ सत्त पुग्गल अत्त जीवादिका पञ्‍ञत्तिअत्था सभावतो अविज्‍जमानायेव होन्ति। धम्मववत्थानञ्‍ञाणरहितानंपन महाजनानं चित्ते महन्तमहन्तापि हुत्वा विज्‍जमानाविय पञ्‍ञायन्ति, तेच महाजना समग्गा हुत्वा तेसं एकन्तेन अत्थिभावं गहेत्वा तथा तथा वोहरन्ति चेव सम्पटिच्छन्तिच। तस्मा ते महाजनेहि समग्गेहि सम्मतत्ताततोयेवच वचीसच्‍चविरतिसच्‍चानं वत्थुभूतत्तासम्मुति सच्‍चन्ति वुच्‍चन्ति। तस्मिं सम्मुतिसच्‍चे ठत्वा सम्मा पटिपज्‍जन्ता सब्ब लोकियसम्पत्तियोच सब्बबोधिसम्भार धम्मेच आराधेन्ति। मिच्छापटिपज्‍जन्ता अपायपूरका होन्ति। एवं महन्तञ्हि सम्मुति सच्‍चन्ति। परमत्थसच्‍चं पन पत्वा तं सच्‍चमेव नहोति। तञ्हि सयं अविज्‍जमानंयेव समानं महाजने विज्‍जमानन्त्वेव गण्हापेति। सक्‍कायदिट्ठि द्वासट्ठिदिट्ठि तिविधमिच्छादिट्ठीनं वत्थु हुत्वा बालजनानं वट्टदुक्खतो निय्यातुं नदेति। एवं विपरीतञ्हि सम्मुतिसच्‍चं। एवं महासावज्‍जञ्‍चाति। परमत्थसच्‍चंपन दुविधं सभावसच्‍चं अरियसच्‍चन्ति। तत्थ धम्मसङ्गणिआदीसु सत्तसु पकरणेसु विभत्ता कुसलादयो धम्मा सभावसच्‍चंनाम। ते हि सयं सभावतो विज्‍जमानत्ता कुसलानाम धम्मा अत्थि सुखानाम वेदना अत्थीति गण्हन्तेन विसंवादेन्तीति। तं पन अरियसच्‍चं पत्वा किञ्‍चि असच्‍चंपि होतियेव। तथाहि अनुभवनभेदमत्तं उपादायेव वेदना सुखा दुक्खा अदुक्खमसुखाति वुत्ता। न सब्बाकारतो सुखभूतत्ता। सब्बेहि पन अनिच्‍चता सङ्खततादीहि अनेकसतेहि आकारेहि सब्बापि वेदना दुक्खाएव। तथा अनवज्‍जसुखविपाकट्ठेन कुसलभावोपि अकुसलं उपादायेव वुत्तो। सब्बेपि हि तेभूमका कुसलसम्मता धम्मा सासवता संकिलेसिकता ओघनिय योगनिय उपादानियता <pb ed="M" n="0.0018"/> सङ्खातेहि वज्‍जेहि सावज्‍जाएव होन्ति। दुक्खसच्‍चभूतानञ्‍च विपाकानं जननट्ठेन एकन्तेन दुक्खविपाकाएव होन्ति। अज्झत्तत्तिकञ्‍च सब्बलोकियसम्मतं उपादाय वुत्तं। सब्बेपि हि चतुब्भू मकधम्मा एकन्तेन अत्तापिनाम नत्थि। कुतो अज्झत्तानाम। बहिद्धाएव होन्ति। सङ्खारे परतो पस्साति हि वुत्तन्ति। अयं नयो सेसत्तिक दुकधम्मेसुपि यथारहं नेतब्बो। अरिय सच्‍चंनाम सब्बेसं तेभूमकधम्मानं एकन्त दुक्खभावो तण्हाय एकन्त दुक्खसमुदय भावो निब्बानस्सेव दुक्खनिरोध भावो अट्ठङ्गिकस्स मग्गस्सेव दुक्खनिरोधमग्गभावोचाति। इधमेव हि परिसुद्धबुद्धीनं अरियानं ञाणे अचलमानं सब्बाकारपरिपुण्णं निप्परियायसच्‍चं होतीति। तेसु इध सम्मुतिसच्‍चं निवत्तेन्तो परमत्थतोति इद माह। तेन वुत्तं परमत्थतोति परमत्थसच्‍चतोति। तत्थ अत्थो दुविधो सभावसिद्धोच परिकप्पसिद्धोच। तत्थ यो विना अञ्‍ञापदेसेन केवलं विसुं विसुं अत्तनो लक्खणेन विज्‍जमानो हुत्वा सिद्धो। सो चित्तादिको अत्थो सभावसिद्धोनाम। योपन अत्तनो लक्खणेन विज्‍जमानोयेव नहोति। विज्‍जमानस्सपन अत्थस्स नाना पवत्तिआकारे उपादाय चित्तेन परिकप्पेत्वा सविग्गहं कत्वा गहितो चित्तमयो चित्तनिम्मितो हुत्वा चित्तेएव उपलब्भमानो होति। सो सत्तपुग्गलादिको अत्थो परिकप्पसिद्धो नाम। तेसु सभावसिद्धोयेव परमत्थोनाम। सो हि सन्ति भवन्ति बुद्धिसद्दा एत्थाति अत्थो। एकन्तविज्‍जमानट्ठेन इतरतो परमो उक्‍कंसगतो अत्थोति परमत्थो। अपि च, ये अयं अत्थि अयं उपलब्भतीति गहेत्वा तस्स अभिञ्‍ञेय्यस्स अभिञ्‍ञत्थाय, परिञ्‍ञेय्यस्स परिञ्‍ञत्थाय, पहातब्बस्स पहानत्थाय, सच्छिकातब्बस्स सच्छिकरणत्थाय, भावेतब्बस्स भावनत्थाय पटिपज्‍जन्ति। तेसं तदत्थसाधने अविसंवादकट्ठेन परमो उत्तमो अत्थोति परमत्थो। इतरोपन अविज्‍जमानत्ता तस्स अभिञ्‍ञादिअत्थाय पटिपज्‍जन्तानं तदत्थसाधने <pb ed="M" n="0.0019"/> विसंवादकोयेव भविस्सति। नपन तदत्थं साधेस्स तीति परमत्थोति वत्तुं नारहतीति।</p>

<p rend="bodytext"><hi rend="bold">[१४] विभावनियं</hi> पन</p>

<p rend="indent">‘‘परमस्सवा उत्तमस्स ञाणस्स अत्थो गोचरोति परमत्थो’’तिपि वुत्तं। तं न सुन्दरं।</p>

<p rend="bodytext">न हि परमसद्दोञाणे वत्तमानो दिस्सति। नच अत्थसद्दो गोचरेति। यञ्‍च अनुटीकायं सच्‍चमेव सच्‍चिकं। सो एव अत्थो अविपरीतस्स ञाणस्स विसयभावट्ठेनाति सच्‍चिकट्ठोति वुत्तं। तंपि अविपरीतेन ञाणेन अरणीयतो उपगन्तब्ब तो अत्थोति इममत्थं दस्सेति। नपरमसद्दस्स अत्थन्ति। [परमत्थपदं]</p>

<p rend="bodytext" n="13"><hi rend="paranum">१३</hi><hi rend="dot">.</hi> <hi rend="bold">चित्त</hi>न्ति एत्थ चिन्तेतीति चित्तं। एत्थच चिन्तनक्रिया नाम निच्‍चं आरम्मणापेक्खा होति। न हि सा आरम्मणेन विना लब्भतीति। तस्मा आरम्मणग्गहण आरम्मणुपलद्धियेव इध चिन्तनाति दट्ठब्बाति। एवञ्हि सति भवङ्गसमय विसञ्‍ञिसमयेसु चित्तं आरम्मणेन विनापि पवत्ततीति एवं वादीनं वादो पटिक्खित्तो होति। सन्तेसुपिच निस्सय समनन्तरादीसु तस्स पच्‍चयेसु तेहि नामं अलभित्वा आरम्मणपच्‍चयवसेनेवस्स नामं सिद्धन्ति दट्ठब्बं। चिन्तेन्ति सम्पयुत्तका धम्मा एतेनाति चित्तं। तञ्हि आरम्मणग्गहणकिच्‍चे पुब्बङ्गमभूतन्ति तं सम्पयुत्तधम्मापि आरम्मणं गण्हन्ता तस्स वसेनेव गण्हन्तीति। चिन्तनमत्तंवा चित्तं। सब्बेपि हि धम्मा तंतं क्रियामत्ताव होन्ति। न तेसु दब्बंवा सण्ठानं वा विग्गहोवा उपलब्भति। पच्‍चयायत्त वुत्तिनो च होन्ति। न ते अत्तनो थामेनवा बलेनवा वसेनवा सत्तियावा उप्पज्‍जितुंपि सक्‍कोन्ति। पगेव चिन्तेतुंवा फुसेतुंवाति। खणमत्तट्ठायिनोच होन्ति, न कदाचि कस्सचि वसे वत्तितुं सक्‍कोन्तीति। तस्मा तेसु इदं दब्बं, अयं सत्ति, अय क्रियाति एवं विभागो नलब्भतीति दट्ठब्बं। एवञ्‍च कत्वा सब्बेसु परमत्थपदेसु एकं भावसाधनमेव पधानतो लब्भति। तदञ्‍ञ साधनानिपन <pb ed="M" n="0.0020"/> परियायतोव लब्भन्तीति वेदितब्बं। एत्थ च दब्बादिवसेन अभेदस्स चिन्तनस्स अत्थविसेसञापनत्थं विभाग कप्पनावसेन भेदकरणं परियायकथाति दट्ठब्बं। यथा सिला पुत्तकस्ससरीरन्ति, तथा करणञ्‍च तं तं क्रियासङ्खात धम्मविमुत्तस्स परपरिकप्पितस्स कारकभूतस्स अत्त जीव सत्त पुग्गलस्स सब्बसो अभावदीपनत्थं। सति हि अत्तादिम्हि किं अभेदस्स भेदकप्पनायाति।</p>

<p rend="bodytext"><hi rend="bold">विभावनियं</hi> पन</p>

<p rend="indent">ससविसाणं विय अभूतस्स भूत कप्पना वुत्ता विय दिस्सति। अयमस्साधिप्पायो-धम्मेसु कत्तावा कारे तावा कोचि नत्थि। लोकेपन अत्तप्पधानो क्रिया निप्फादको कत्तानाम सिद्धो। तस्मा चिन्तनकिच्‍चे अत्तप्पधानता दीपनत्थं तं कत्तुभावं चित्ते आरोपेत्वा चिन्तेतीति चित्तन्ति वुत्तं।</p>

<p rend="bodytext">चित्तस्सच बलेन तंसम्पयुत्तानंपि तस्मिं किच्‍चे तदनुकूलप्पवत्तिदीपनत्थं पुनकरणभावं चित्ते कत्तुभावञ्‍च तेसु आरोपेत्वा चिन्तेन्ति सम्पयुत्तका धम्मा एतेनाति चित्तन्ति वुत्तन्ति। अपि चेत्थ चित्तसद्दो विचित्रत्थवाचको दट्ठब्बो। वुत्तञ्हे तं संयुत्तके –</p>

<p rend="indent">दिट्ठं वो भिक्खवे चरणंनाम चित्तन्ति। एवं भन्ते। तम्पि खो भिक्खवे चरणं चित्तं चित्तेनेव चिन्तितन्ति। तेनापि खो भिक्खवे चरणेन चित्तेन चित्तञ्‍ञेव चित्ततरन्ति, ना हं भिक्खवे अञ्‍ञं एकनिकायंपि समनुपस्सामि यं एवं चित्तं। यथयिदं भिक्खवे तिरच्छानगता पाणा। तेपि खो भिक्खवे तिरच्छानगता पाणा चित्तेनेव चित्तिकता। तेहिपि खो भिक्खवे तिरच्छान गतेहि पाणेहि चित्तञ्‍ञेव चित्ततरन्ति।</p>

<p rend="bodytext">तत्थ चरणंनाम चित्तन्ति यत्थविचित्रानि दिब्बविमानादीनि चित्तकम्मानि कत्वा इदञ्‍चिदञ्‍च पुञ्‍ञं करोन्ता इधचिधच निब्बत्ताति दस्सेन्तो विचरन्ति <pb ed="M" n="0.0021"/>। तस्स पटकोट्ठकस्सेतं नामं। चित्तेनाति निस्सक्‍के करणवचनं। यथयिदन्ति यथा इमे। चित्तिकताति विचित्रा कता। एत्थच चित्तविचित्तकाय सञ्‍ञाविचित्ता। सञ्‍ञाविचित्तताय तण्हाविचित्ता। तण्हाविचित्तताय कम्मानि विचित्तानि। कम्मविचित्त ताय योनियो विचित्ता। योनिविचित्तताय तेसं तिरच्छा नगतानं विचित्तता वेदितब्बा। [वचनत्थो]</p>

<p rend="gatha1">तं तं सभावो लक्खणं, किच्‍चसम्पत्तियो रसो।</p>

<p rend="gatha2">गय्हाकारो फलंवापि, पच्‍चुपट्ठान सञ्‍ञितं॥</p>

<p rend="gatha3">आसन्‍नकारणं यं तं, पदट्ठानन्ति तं मतं।</p>

<p rend="gatha1">धम्मानं ववत्थानाय, अलं एते विबुद्धिनो॥</p>

<p rend="bodytext">आरम्मणविजाननलक्खणं चित्तं, पुब्बङ्गमरसं, सन्धानपच्‍चुपट्ठानं, नामरूपपदट्ठानं। [चित्तं]</p>

<p rend="bodytext" n="14"><hi rend="paranum">१४</hi><hi rend="dot">.</hi> <hi rend="bold">चेतसिक</hi>न्ति एत्थ चेतसि भवं तदायत्तवुत्तितायाति चेतसिकं। फस्सादि धम्मजातं। एत्थच तदायत्तवुत्तिता नाम एकुप्पादतादीहि लक्खणेहि चित्तेन सह एकी भूतस्स विय पवत्ति। एतेन या चित्तस्स जाति। साएव फस्सादीनं। या चित्तस्स जरा, यं चित्तस्स मरणं, यं चित्तस्स आरम्मणं, यं चित्तस्स वत्थु, तदेव फस्सादीनन्ति एवं एकपुप्फ मञ्‍जरियं एकवण्टुपनिब्बन्धानि पुप्फानि विय चित्तेन सह एकजातियादि उपनिब्बन्धा फस्सादयो धम्मा इध चेतसिकंनामाति सिद्धा होन्ति। एवञ्‍च सति चित्तंपि तेहि फस्सादीहि सह तथेव आयत्तं पवत्ततीति तंपि फस्सिकं वेदनिकन्तिआदिना वत्तब्बन्ति चे। न। चित्तस्सेव जेट्ठकत्ता। मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमयाति हि वुत्तं। एत्थच मनोमयाति मनसाएव पकता निम्मिता चित्तक्रिया भूताति अत्थो। एतेन ते फस्सादयो धम्मा चित्तेन विना नुपलब्भन्तीति दस्सेति। चित्तंपन तेहि केहिचि विनापि पवत्ततियेव। पञ्‍चविञ्‍ञाण चित्तञ्हितेहि केहिचि वितक्‍कादीहि विना उप्पज्‍जतीति। तस्मा तेसञ्‍ञेव तदायत्त वुत्तिता वत्तब्बा न चित्तस्साति।</p>

<p rend="bodytext"><hi rend="bold">[१५] विभावनियं</hi> पन</p>

<p rend="indent">एकालम्बणता <pb ed="M" n="0.0022"/> मत्तेन तेसं तदायत्तवुत्तितं चेतसि कत्तञ्‍च विभावेति। तं न सुन्दरं।</p>

<p rend="bodytext">न हि एकालम्बणतामत्तेन चेतसिकंनाम जातन्ति। एत्थ च लोके नानावण्णधातुयो उदके घंसित्वा वत्थुम्हि नाना चित्तकम्मानि करोन्ति, तत्थ वत्थुम्हि फरणं बन्धनञ्‍च उदकस्सेव किच्‍चं, न वण्णधातूनं। नानारूप दस्सनं वण्णधातूनमेव किच्‍चं, न उदकस्स। तत्थ वत्थुविय आरम्मणं दट्ठब्बं। उदकंविय चित्तं। नाना वण्णधातुयोविय चेतसिकधम्माति। [चेतसिकं]</p>

<p rend="bodytext" n="15"><hi rend="paranum">१५</hi><hi rend="dot">.</hi> <hi rend="bold">रूप</hi>न्ति एत्थ रुप्पतीति रूपं। सीतुण्हादीहि विरोधि पच्‍चयेहि विसम पवत्ति वसेन विकारं आपज्‍जति, तेहि वा विकारं आपादीयतीति अत्थो। यथाह –</p>

<p rend="indent">रुप्पतीति खो भिक्खवे तस्मा रूपन्ति वुच्‍चति। केन रुप्पति। सितेनपि रुप्पति। उण्हेनपि रुप्पति। जिघच्छायपि रुप्पति। विपासायपि रुप्पति। डंस मकस वातातप सरिं सप सप्फस्सेहिपि रुप्पतीति। रुप्पतीतिच रुप्पति, कुप्पति, घट्टीयति, पिळी यति, भिज्‍जतीति।</p>

<p rend="bodytext">महानिद्देसे वुत्तं। अयमेत्थ पिण्डत्थो, ये धम्मा चिरट्ठितिकाच होन्ति सप्पटिघसभावाच। तेसञ्‍ञेव ठितिक्खणेसु विरोधिपच्‍चयेहि समागमोनाम होति। नपनञ्‍ञेसं परित्तक्खणानं अप्पटिघसभावानन्ति। तेसञ्हि अप्पटिघसभावानं सुखुम रूपानंपि बहिद्धा सीतादीहि समागमोनाम नत्थि। कुतो परित्तक्खणानं अप्पटिघसभावानञ्‍च अरूपधम्मानन्ति। यदिएवं सुखुमरूपानं अरूपतापत्ति सियाति। नसिया। ओळारिकरूपेहि समानगति कत्ता। तानिहि ओळारिकेसु रुप्पमानेसु रुप्पन्तियेवाति। समागमोच नाम इध थपेत्वा आपातगमनं आरम्मणकरणञ्‍च अञ्‍ञमञ्‍ञविरुद्धानं ठितिपत्तानं ओळारिकरूपानं महाभूतानमेववा अञ्‍ञमञ्‍ञाभिघट्टनं <pb ed="M" n="0.0023"/> वुच्‍चति, रुप्पति घट्टीयति पीळीयतीति हि वुत्तं। रुप्पनञ्‍चनाम परसेनायुद्धेन रट्ठखोभोविय कलापन्तरगतधातूनं कुप्पनं भिज्‍जनंच वुच्‍चति। कुप्पति भिज्‍जतीति हि वुत्तं। एत्थच कुप्पतीति खोभति चञ्‍चलति, भिज्‍जतीति विकारं आपज्‍जति। यस्मिं खणे विरोधिपच्‍चयसमागमं लभन्ति। ततो पट्ठाय सयंपि विकारपत्ता होन्ति। ओमत्ताधिमत्तरूपसन्ततीनं उप्पत्तिया पच्‍चयभावं पत्ता होन्तीति अत्थो। अपिचेत्थ रुप्पनं दुविधं वड्ढनं, हायनञ्‍च। तदुभयंपि कप्पवुट्ठाने कप्पसण्ठाने नानाआयुकप्प संवच्छर उतु मास रत्ति दिवादीनं परिवत्तनेच पाकटं होतीति। कस्मा पन रूपन्ति नामं घट्टनवसेन रुप्पनधम्मानमेव सिद्धन्ति। तेसमेव सविग्गहत्ता। रूपधम्मा हि समूहसण्ठानादि भावपत्तिया सविग्गहा होन्ति। तस्मा तेसमेव रुप्पनं पच्‍चक्खतोपि लोकस्स पाकटन्ति तेस्वेव रूपन्ति नामं सिद्धन्ति दट्ठब्बं। अरूपधम्मा पन अविग्गहाति न तेसं विकारो पच्‍चक्खतो लोकस्स पाकटो होति। तं तं रूपविकारं दिस्वावा सुत्वा वा पुच्छित्वायेव वा सो लोकेन जानितब्बो अञ्‍ञत्र परचित्तविदूहि। तस्मा तेसं रूपतापत्ति नत्थीति।</p>

<p rend="bodytext"><hi rend="bold">[१६] विभावनियं</hi> पन</p>

<p rend="indent">तेसं रूपतापत्तिप्पसङ्गो सीतादिग्गहण सामत्थियेन निवत्तितो। यस्मा पन वोहारोनाम लोकोपचारेन विना नसिज्झति। लोकोपचारोच पाकटनिमित्तवसे नेव पवत्तो। तस्मा इध सीतादिग्गहणेन विनापि तप्पसङ्गनिवत्ति लोकतोव सिद्धाति दट्ठब्बा।</p>

<p rend="bodytext">यस्मा च ब्रह्मलोके ब्रह्मानं कायविकार वचीविकारा च इद्धिविकुप्पनावसप्पवत्ता नानारूपविकाराच दिस्सन्तियेव। तेच एकेन परियायेन रुप्पनाकाराएव नाम होन्ति, तस्मा तेसं वसेन तत्थ रूपानं रूपतासिद्धि होतीति वेदितब्बं। रूपयति वा अत्तनो सभावेन पकासतीति रूपं। अरूपधम्मा हि न अत्तनो सभावेन पाकटा होन्ति। रूपसन्‍निस्सयेनेव गहेतब्बा <pb ed="M" n="0.0024"/>। इदं पन अत्तनो सभावेनेव पाकटं पञ्‍चविञ्‍ञाणेहिपि गहेतब्बन्ति। इमस्मिं अत्थे सति ब्रह्मलोके रूपानंपि उजु कतोव रूपतासिद्धि होतीति।</p>

<p rend="bodytext"><hi rend="bold">[१७] विभावनियं</hi> पन</p>

<p rend="indent">अनुग्गाहकानं सीतादीनं वसेन तं सभावा नातिवत्तन वसेनच तत्थ रूपतासिद्धि विभाविता। यस्मापन सीते नापि उण्हेनापीतिआदिवचनं निदस्सनमत्तं होति। कम्म चित्ताहारानंपि वसेन रुप्पनस्स सम्भवतो, तथाहि सञ्‍ञा विञ्‍ञाणानिपि रूपारम्मणरसारम्मणेहि एव पाळियं निद्दिट्ठानि। न हि सञ्‍ञा रूपंएव सञ्‍जानाति। न च विञ्‍ञाणं रस मेव विजानाति। निदस्सनमत्तेन देसना होतीति विञ्‍ञायतीति। तस्मा सीतादिग्गहणं अमुञ्‍चित्वाव तत्थ रूपतासिद्धिविभावनेन पयोजन नत्थीति। [रूपं]</p>

<p rend="bodytext" n="16"><hi rend="paranum">१६</hi><hi rend="dot">.</hi> <hi rend="bold">निब्बान</hi>न्ति एत्थ निब्बायन्ति सब्बे वट्टदुक्खसन्तापा एतस्मिन्ति निब्बानं। निब्बायन्तीति ये किलेसावा खन्धावा अभावितमग्गस्स आयतिं उप्पज्‍जनारहपक्खे ठिता होन्ति। तेयेव भावितमग्गस्स अनुप्पज्‍जनारहपक्खं पापुणन्तीति अत्थो। न हि खणत्तयं पत्वा निरुद्धा अतीतधम्मा निब्बायन्ति नाम। पच्‍चुप्पन्‍नेसु आयतिं अवस्सं उप्पज्‍जमानेसुच धम्मेसु वत्तब्बमेव नत्थीति। वट्टदुक्खसन्तापाति किलेसवट्ट कम्मवट्ट विपाकवट्ट दुक्खसन्तापा। न हि तिविध वट्टदुक्खसन्तापरहितानं रुक्खादीनं अनुप्पादनिरोधो निब्बानंनाम होतीति। एतस्मिन्ति विसये भुम्मं। यथा आकासे सकुणा पक्खन्तीति। येहि ते निब्बायन्ति। तेसं तब्बिनिमुत्तं अञ्‍ञं निब्बुतिट्ठानंनाम किञ्‍चि नत्थीति। निब्बायन्ति वा अरियजना एतस्मिन्ति निब्बानं। निब्बन्ति धीरा यथयं पदीपोति हि वुत्तं। निब्बायन्तीति तं तं किलेसानंवा खन्धानंवा पुन अप्पटिसन्धिकभावं पापुणन्तीति अत्थो। एकस्मिन्ति विसयेएव भुम्मं, एतस्मिं अधि गतेतिपि योजेन्ति। टीकासुपन भवाभवं विननतो संसिब्बन तो वानं वुच्‍चति तण्हा। ततो निक्खन्तन्ति निब्बानन्ति वुत्तं।</p>

<p rend="bodytext"><hi rend="bold">[१८] विभावनियं</hi> पन</p>

<p rend="indent">‘‘निब्बाभिवा <pb ed="M" n="0.0025"/> एतेन रागग्गिआदिकोति निब्बान’’न्तिपि वुत्तं। तं न सुन्दरं।</p>

<p rend="bodytext">न हि मग्गेविय निब्बाने कत्थचि करणसाधनं दिट्ठं, नच निब्बानं निब्बूति क्रियासाधने रागादिकस्स कत्तुनो सह कारिपच्‍चयो होतीति। [निब्बानं]</p>

<p rend="centre">दुतीयगाथाय परमत्थदीपना निट्ठिता।</p>

</body>
<back></back>
</text>
</TEI.2>
