<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">११. पच्छाजातपच्‍चयो</p>

<p rend="bodytext">पच्छिमं पच्छिमं पच्‍चुप्पन्‍नं चित्तं पुरेजातस्स पच्‍चुप्पन्‍नस्स चतु समुट्ठानिकस्स रूपकायस्स वुड्ढिविरुळ्हिया पच्छाजातपच्‍चयो। यथा तं पच्छिमवस्सेसु अनुवस्सं वस्समानानि वस्सोदकानि पुरिमवस्सेसु जातानं रुक्खपोतकानं वुड्ढिविरुळ्हिया पच्छाजात पच्‍चया होन्तीति।</p>

<p rend="bodytext">तत्थ पच्छिमं पच्छिमं चित्तन्ति पठमभवङ्गतो पट्ठाय याव चुति चित्ता सब्बं चित्तं वुच्‍चति। पुरेजातस्साति पटिसन्धिचित्तेन सहुप्पन्‍नं कम्मजरूपकायं आदिं कत्वा अज्झत्तसन्तानपरियापन्‍नो सब्बो चतुसमुट्ठानिकरूपकायो वुच्‍चति।</p>

<p rend="bodytext">पटिसन्धिचित्तेन सहुप्पन्‍नस्स कम्मजरूपकायस्स पठम भवङ्गादीनि पन्‍नरसभवङ्गचित्तानि पच्छाजातपच्‍चया होन्ति। पटिसन्धि चित्तं पन तेन कायेन सहुप्पन्‍नत्ता <pb ed="M" n="0.0483"/> पच्छजातं न होति। सोळसमभवङ्गचित्तञ्‍च तस्स कायस्स भिज्‍जनक्खेत्ते उप्पन्‍नत्ता पच्‍चयो न होति। तस्मा पन्‍नरसभवङ्गचित्तानीति वुत्तं।</p>

<p rend="bodytext">पटिसन्धिचित्तस्स ठितिक्खणे पन द्वे रूपकाया उप्पज्‍जन्ति कम्मजरूपकायो च उतुजरूपकायोच। तथा भङ्गक्खणेपि। पठमभवङ्गस्स उप्पादक्खणे पन तयो रूपकाया उप्पज्‍जन्ति कम्मजरूपकायो च उतुजरूपकायो च चित्तजरूपकायो च। यदा बहिद्धाहारप्फरणं लभित्वा अज्झत्ताहारो आहारजरूपकायं जनेति, ततो पट्ठाय चतुसमुट्ठानिका चत्तारो रूपकाया दीप जाला विय पवत्तन्ति। ते उप्पादक्खणं अतिक्‍कम्म याव ठितिभावेन धरन्ति, ताव पन्‍नरसचित्तानि तेसं कायानं पच्छाजातपच्‍चया होन्तियेव।</p>

<p rend="bodytext">वुड्ढिविरुळ्हियाति चतुसमुट्ठानिकरूपसन्ततिया उपरूपरि वुड्ढिया च विरुळ्हिया च। तथाहि पुरिमा पुरिमा चत्तारो रूपकाया सचे पच्छाजात पच्‍चयं पुनप्पुनं लभन्ति, एवं सति ते निरुज्झन्तापि पच्छारूपसन्ततिपरम्परानं वुड्ढिया च विरुळ्हिया च वेपुल्‍लाय च बलव पच्‍चया हुत्वा निरुज्झन्तीति। पच्छाजातपच्‍चयदीपना निट्ठिता।</p>

</body>
<back></back>
</text>
</TEI.2>
