<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">चतुरासीति सहस्स थूपकथा</p>

<p rend="bodytext" n="12"><hi rend="paranum">१२</hi><hi rend="dot">.</hi> एवं असोको धम्मराजा चतुरासीति विहारसहस्समहं कत्वा महाथेरो वन्दित्वा पुच्छि दायादोम्हि भन्ते बुद्धसासने’ति। किस्स दायादो त्वं महाराज, बाहिरको त्वं सासनस्साति। भन्ते छन्‍नवुतिकोटिधनं विस्सज्‍जेत्वा चतुरासीति विहारसहस्सानि सचेतियानि कारापेत्वा अहं न दायादो, अञ्‍ञे को दायादोति, पच्‍चय दायको नाम त्वं महाराज, यो पन अत्तनो पुत्तञ्‍च धीतरञ्‍च पब्बाजेति, अयं सासने दायादो नामाति।</p>

<p rend="bodytext">एवं वुत्ते असोको राजा सासने दायादभावं पत्थयमानो अविदूरे ठितं महिण्दकुमारं दिस्वा सक्खिस्ससित्वं तात पब्बजितुन्ति आह। कुमारो पकतिया पब्बजितुकामो रञ्‍ञो वचनं सुत्वा अतिविय पामोज्‍जजातो पब्ब्जामि देव, मं पब्बाजेत्वा सासने दायादो होथाति आह तेन च समयेन राजधीता सङ्घमित्तापि तस्मिं ठाने ठिता होति तं दिस्वा आह-’त्वम्पि अम्म पब्बजितुं सक्खिस्ससी’ति, साधु ताताति सम्पटिच्छि। राजा पुत्त न मनं लभित्वा पहट्ठचित्तो भिक्खुसङ्घं उपसङ्कमित्वा भन्ते इमे दारके पब्बाजेत्वा मं सासने दायादं करोथाति सङ्घो रञ्‍ञो वचनं सम्पटिच्छित्वा कुमारं मोग्गलिपुत्त तिस्सत्थेरेन उपज्झायेन महादेवत्थेरेन च आचरियेन पब्बज्‍जापेसि। मज्झन्तिकत्थेरेन आचरियेन उपसम्पादेसि उपसम्पदामालकेयेव सहपटिसम्भिदाहि अरहत्तं पापुणि।</p>

<p rend="bodytext">सङ्घमित्तायपि राजधीताय आचरिया आयुपालत्थेरि नाम, उपज्झाया पन धम्मपालत्थेरी नाम अहोसि। अथ महिण्दत्थेरो उपसम्पन्‍न कालतोप्पभूति अत्तनो उपज्झायस्सेव सन्तिके धम्मञ्‍च विनयञ्‍च परियापुणन्तो द्वेपि सङ्गितियो आरुळ्हं तिपिटक सङ्गहीतं साट्ठकथं थेरवादं तिण्णं वस्सानं अब्भन्तरे उग्गहेत्वा अत्तनो उपज्झायस्स अन्तेवासिकानं सहस्समत्तानं भिक्खूनं पामोक्खं अहोसि।</p>

<p rend="bodytext">तेन <pb ed="V" n="0.0036"/> खो पन समयेन मोग्गलिपुत्ततिस्सत्थेरो कत्थ नु खो अनागते सासनं सुप्पतिट्ठितं गवेय्याति उपपरिक्खन्तो पच्‍चन्तिमेसु जनपदेसु सुप्पतिट्ठितं भविस्सतीति ञत्वा तेसं तेसं भिक्खूनं भारं कत्वा ते ते भिक्खु तत्थ तत्थ पेसेसि।</p>

<p rend="bodytext">मज्झन्तिकत्थेरं कस्मीर गण्धार रट्ठंपेसेसि त्वं एतं रट्ठं गन्त्वा तत्थ सासनं पतिट्ठापेहीति महादेवत्थेरं तथेव वत्वा महिंसकमण्डलं पेसेसि। रक्खितत्थेरंवनवासीं, योनकधम्मरक्खितत्थेरं अपरन्तकं, महाधम्मरक्खितत्थेरं महारट्ठं महारक्खितत्थेरं योनक लोकं। मज्झिमत्थेरं हिमवन्तदेस भागं, सोणत्थेरं-उत्तरत्थेरञ्‍च सुवण्णभूमिं। अत्तनो सद्धिविहारिकं महिण्दत्थेरं इट्टियत्थेरेन उत्तियत्थेरेन भद्दसालत्थेरेन सम्बलत्थेरेन च सद्धिं तम्बपण्णिदीपं गन्त्वा एत्थ सासनं पतिट्ठापेथाति। सब्बेपि तं तं दिसाभागं गच्छन्ता अत्तपञ्‍चमा अगमिंसु सब्बेपि थेरा गतगतट्ठाने मनुस्से पसादेत्वा सासनं पतिट्ठापेसुं।</p>

<p rend="bodytext">महिण्दत्थेरो पन तम्बपण्णिदीपं गन्त्वा सासनं पतिट्ठापेहीति उपज्झायेन भिक्खुसङ्घेन च अज्झिट्ठो कालो नु खो मे तम्बपण्णिदीपं गन्तुं नोति उपधारेन्तो मुटसीवरञ्‍ञो महल्‍लकभावं चिन्तेसि। अयं महाराजा महल्‍लको, न सक्‍का इमं गण्हित्वा सासनं पग्गहेतुं, इदानि पनस्स पुत्तो देवानम्पियतिस्सो रज्‍जं कारेस्सति। तं गण्हित्वा सक्‍का भविस्सति सासनं पग्गहेतुं, हण्द याव सो समयो आगच्छति ताव ञातके ओलोकेम, पुन’दानि इमं जनपदं आगच्छेय्याम वा न वाति।</p>

<p rend="bodytext">सो एवं चिन्तेत्वा उपज्झायञ्‍च भिक्खुसङ्घञ्‍च वन्दित्वा असोकारामतो निक्खम्म तेहि इट्टियादीहि चतूहि थेरेहि सङ्घमित्ताय पुत्तेन सुमनसामणेरेन भण्डुकेनक च उपासकेन सद्धिं राजगहनगर उपवत्तके दक्खिण गिरिजनपदे चारिकं चरमानो ञातके ओलोकेन्तो छ मासे अतिक्‍कामेसि अथानुपुब्बेन मातुनिवेसनट्ठानं वेटिस नगरं नाम सम्पत्तो सम्पत्तञ्‍च पन थेरं दिस्वा थेरमाता देवी पादे सिरसा वन्दित्वा भिक्खं दत्वा थेरं अत्तना कतं वेटिसगिरि विहारं नाम आरोपेसि।</p>

<p rend="bodytext">थेरो तस्मिं विहारे निसन्‍नो चिन्तेसि अम्हाकं इध कत्तब्ब किच्‍चं निट्ठितं। समयो नु खो इदानि लङ्कादिपं गन्तुन्ति। ततो चिन्तेसि-अनुभवतु ताव मे पितरा पेसितं अभिसेकं <pb ed="V" n="0.0037"/> देवानम्पियतिस्सो रतनत्तयगुणञ्‍च सुणातु, छणत्थञ्‍च नगरतो निक्खमित्वा मिस्सकपब्बतं अभिरूहतु तदा तं तत्थ दक्खिस्सामाति। अथापरं एकमासं तत्थेव वासं कप्पेसि।</p>

<p rend="bodytext">मासातिक्‍कमे सक्‍को देवानमिन्दो महिण्दत्थेरं उपसङ्कमित्वा एतदवोच।’ कालकतो भन्ते मुटसीवराजा, इदानि देवानम्पियतिस्स राजा रज्‍जं कारेति। सम्मासम्बुद्धेन च तुम्हे व्याकता अनागते महिण्दो नाम भिक्खु तम्बपण्णिदीपं पसादेस्सती’ति। तस्मा तिह वो भन्ते कालो दीपवरं गमनाय, अहम्पि वो सहायो भविस्सामी।</p>

<p rend="bodytext">थेरो तस्स वचनं सम्पटिच्छित्वाअत्तसत्तमो वेटिस पब्बतविहारा वेहासं उप्पतित्व अनुराधपुरस्स पुरत्थिमाय दिसाय मिस्सकपब्बते पतिट्ठहि यं एतरहि चेतियपब्बतोतिपि सञ्‍जानन्ति तस्समिं दिवसे तम्बपण्णिदिपे जेट्ठमूल नक्खत्तं नाम होति राजा नक्खत्तं घोसापेत्वा छणं करोथाति अमच्‍चे आणापेत्वा चत्तालीस पुरिस सहस्सपरिवारो नगरम्भा निक्खमित्वा येन मिस्सकपब्बतो तेन पायासि मिगवं कीळितुकामो अथ तस्मिं पब्बते अधिवत्था देवता रञ्‍ञो थेरे दस्सेस्सामीति रोहित मिगरूपं गहेत्वा अविदूरे तिणपण्णानि खादमाना विय चरति।</p>

<p rend="bodytext">राजा दिस्वा अयुत्तं दानि पमत्तं विज्झितुन्ति जीयं पोठेसि। मगो अम्बत्थलमग्गं गहेत्वा पलायितुं आरभि राजापि पिट्ठितो पिट्ठितो अनुबण्धन्तो अम्बत्थलमेव आरुहि। मिगो थेरानं अविदूरे अन्तरधायि।</p>

<p rend="bodytext">महिण्दत्थेरो राजानं अविदूरे आगच्छन्तं’ममंयेव राजा पस्सतु, मा इतरे’ति अधिट्ठहित्वा’तिस्स! तिस्स! इतो एही’ति आह। राजा सुत्वा चिन्तेसि-इमस्मिं तम्बपण्णिदीपे जातो मं तिस्सोति नामं गहेत्वा आलपितुं समत्थो नाम नत्थि। अयम्पन छिन्‍नभिन्‍नपटधरो भण्डुकासाव वसनो मं नामेन आलपति, को नु खो अयं भविस्सति मनुस्सो वा अमनुस्सो वाति। थेरो आह।</p>

<p rend="gatha1">समणा मयं महाराज - धम्मराजस्स सावका,</p>

<p rend="gathalast">तवेव अनुकम्पाय - जम्बुदीपा इधागताति।</p>

<p rend="bodytext">तेन समयेन देवानम्पियतिस्स राजा च असोकधम्मराजा च अदिट्ठ सहायका होन्ति। देवानम्पियतिस्स रञ्‍ञे च पुञ्‍ञानुभावेन छातपब्बतपादे एकस्मिं वेळुगुम्बे तिस्सो वेळुयट्ठियो निब्बत्तिंसु एका लतायट्ठि नाम, एका पुप्फयट्ठि नाम एका सकुणयट्ठि नाम। तासु लतायट्ठि सयं रजतवण्णा होति तं अलङ्करित्वा उप्पन्‍नलता कञ्‍चन वण्णा खायति पुप्फयट्ठियं पन <pb ed="V" n="0.0038"/> नील-पीत-लोहित-ओदात-काळवण्णानि पुप्फानि सुचिभत्तवण्ट पत्त किञ्‍जक्खा हुत्वा खायन्ति सकुणयट्ठियं हंसकुक्‍कुट-जीवंजीवकादयो सकुणा नानाप्पकारानि च चतुप्पदानि सजीवानि विय खायन्ति समुद्दतोपिस्स मुत्ता-मणि-वेळुरियादि अनेकविहितं रतनं उप्पज्‍जि।</p>

<p rend="bodytext">तम्बपण्णियं पन अट्ठमुत्तं उप्पज्‍जिंसु-भयमुत्ता गजमुत्ता रथमुत्ता आमलकमुत्ता चलयमुत्ता अङ्गुलीवेठकमुत्ता ककुधफलमुत्ता पाकतिकमुत्ताति सो ता च यट्ठियो ता च मुत्तायो अञ्‍ञ्‍च बहुं रतनं असोकस्स धम्मरञ्‍ञो पण्णाकारत्थाय पेसेसि। असोकोपि पसीदित्वा पञ्‍च राजककुधभण्डानिचेव अञ्‍ञे च अभिसेकत्थाय बहूपण्णाकारे पहिणि। न केवलञ्‍च एतं आमिस पण्णाकारं, इमं किर धम्म पण्णाकारम्पि पेसेसि।</p>

<p rend="gatha1">‘‘अहं बुद्धञ्‍च धम्मञ्‍च-सङ्घञ्‍च सरणं गतो,</p>

<p rend="gatha2">उपासकत्तं वेदेसिं-सक्यपुत्तस्स सासने,</p>

<p rend="gatha3">इमेसु तीसु वत्थूसु-उन्‍नमेसु नरुत्तम,</p>

<p rend="gathalast">चित्तं पसादयित्वान-सद्धाय सरणं वजा’ति।’’</p>

<p rend="bodytext">राजा अविरसुतं सासनपवत्तिं अनुस्सरमानो थेरस्स तं ‘‘समणामयं महाराज धम्मराजस्स सावका‘‘ति वचनं सुत्वा अय्या नु खो आगताति तावदेव आवुधं निक्खिपित्वा एकमन्तं निसीदि सम्मोदनीयं कथं कथयमानो, सम्मोदनीयकथं कुरुमानेयेव तस्मिं तानिपि चत्तालीस पुरिससहस्सानि आगन्त्वा तं परिवारेसुं। तदा थेरो इतरेपि जने दस्सेसि।</p>

<p rend="bodytext">राजा दिस्वा इमे कदा आगताति पुच्छि मया सद्धिंयेव महा राजाति। इदानि पन जम्बुदीपे अञ्‍ञ्ञोपि एवरूपा समणा सन्तीति। महाराज एतरहि जम्बुदीपो कासाव पज्‍जोतो इसिवातपरिवातो, तस्मिं-</p>

<p rend="gatha1">‘‘ते विज्‍जा इद्धिपत्ता च चेतोपरियाय कोचिदा,</p>

<p rend="gathalast">खीणासाव अरहन्तो-बहू बुद्धस्स सावकाति’’।</p>

<p rend="bodytext">अथ राजा भन्ते स्वे रथं पेसेस्सामि। तं अभिरूहित्वा आगच्छेय्याथाति वत्वा पक्‍काकमि थेरो अचिरपक्‍कन्तस्स रञ्‍ञो सुमणसामणेरं आमन्तेसि एहि त्वं सुमन धम्मसवनकालं घोसेहीति सामणेरो अभिञ्‍ञापादकं चतुत्थज्झानं समापज्‍जित्वा वुट्ठाय अधिट्ठहित्वा समाहितेन चित्तेन सकलतम्बपण्णिदीपं साचेन्तो धम्मसवनकालं घोसेसि।</p>

<p rend="bodytext">सामणेरस्स सद्दं सुत्वा भुम्मा देवता सद्दमनुस्सावेसु, एतेनुपायेन याव ब्रह्मलोका सद्दो अब्भुग्गञ्छि। तेन सद्देन <pb ed="V" n="0.0039"/> महादेवता सन्‍निपातो अहोसि थेरो महन्तं देवता सन्तिपातं दिस्वा समचित्तसुत्तन्तं कथेसि। कथा परियोसाने असङ्खेय्यानं देवानं धम्माभिसमयो अहोसि। बहू नाग सुपण्णा च सरणेसु पतिट्ठहिंसु। अथ तस्सा रत्तिया अच्‍चयेन राजा थेरानं रथं पेसेसि। थेरा न मयं रथं आरुहाम। गच्छ त्वं, पच्छा मयं आगच्छिस्सामाति वत्वा वेहासं अब्भुग्गन्त्वा अनुराधपुरस्स पच्छिमदिसाय पठमक चेतियट्ठाने ओतरिंसु।</p>

<p rend="bodytext">राजापि सारथिं पेसेत्वा अन्तो निवेसने मण्डपं पटियादेत्वा चिन्तेसि’ निसीदिस्सन्ति नु खो अय्या आसने न निसीदिस्सन्ती‘‘ति। तस्सेवं चिन्तयन्तस्सेव सारथि नगरद्वारं पत्वा अद्दस थेरे पठमतरं आगन्त्वा कायबण्धनं बण्धित्वा चीवरं पारुपन्ते, दिस्वा अतिविय पसन्‍नमानसो हुत्वा आगन्त्वा रञ्‍ञो आरोचेसि आगता देव थेराति।</p>

<p rend="bodytext">राजा रथं आरुळ्हाति पुच्छि न आरूळ्हा देव, अपि च पच्छतो निक्खमित्वा पठमतरं आगन्त्वा पाचीनद्वारे ठिताति। राजा रथं न आरुभिंसूती सुत्वा तेन हि भणे भुम्मत्थरण सङ्खेपेन आसनानि पञ्‍ञापेथाति वत्वा पटिपथा आगमासि अमच्‍चा पथवियं तट्टिकं पञ्‍ञापेत्वा उपरि कोजवकादीनि विचित्तत्थरणानि पञ्‍ञापेसुं राजापि गन्त्वा थेरे वन्दित्वा महिण्दत्थेरस्स हत्थतो पत्तं गहेत्वा महतिया पूजाय च सक्‍कारेन च थेरे पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा अनुलादेवी पमुखा पञ्‍च इत्थिसतानि थेरानं अभिवादनं पूजासक्‍कारञ्‍च कारोनतूति पक्‍कोसापेत्वा एकमन्तं निसीदि। थेरो रञ्‍ञो सपरिजनस्स धम्मरतनवस्सं वस्सेन्तो पेतवत्थुं-विमानवत्थुं-सच्‍चसंयुत्तञ्‍च कथेसि। तं सुत्वा तानिपि पञ्‍च इत्थिसतानि सोतापत्तिफलं सच्छिकरिंसु।</p>

<p rend="bodytext">तदा नागरा थेरानं गुणे सुत्वा थेरे दट्ठुं न लभामाति उपक्‍कोसन्ति अथ राजा इध ओकासो नत्थीति चिन्तेत्वा,’गच्छथ भणे हत्थिसालं पटिजग्गित्वा वालुकं ओकिरित्वा पञ्‍चवण्णानि पुप्फानि विकिरित्वा वितानं बण्धित्वा मङ्गल हत्थिट्ठाने थेरानं आसनानि पञ्‍ञापेथा’ति आह, अमच्‍चा तथा अकंसु।</p>

<p rend="bodytext">थेरो तत्थ गन्त्वा निसीदित्वा देवदूतसुत्तन्तं कथेसि कथा परियोसाने पाणसहस्सं सोतापत्तिफले पतिट्ठहि तथा हत्थिसाला सम्बाधाति दक्खिणद्वारे नण्दनुय्याने आसनं पञ्‍ञापेसुं। थेरो तत्थ निसीदित्वा आसिविसोपम सुत्तन्तं कथेसि। तम्पि सुत्वा पाणसहस्सं सोतापत्तिफलं पटिलभि एवं आगतदिवसतो <pb ed="V" n="0.0040"/> दुतियदिवसे अड्ढतेय्यानं पाणसहस्सानं धम्माभिसमयो अहोसि।</p>

<p rend="bodytext">थेरस्स नण्दनवने आगतागताहि कुलित्थीहि कुलसुण्हाहि कुलकुमारीहि सद्धि समोदमानस्सेव सायण्हसमयो जातो, थेरो कालं सल्‍लक्खेत्वा गच्छामि’दानि मिस्सक पब्बतन्ति उट्ठहि। अमच्‍चा महामेघवनुय्याने थेरे वासेसुं राजापि खो तस्सा रत्तिया अच्‍चयेन थेरस्स समीपं गन्त्वा सुखसयितभावं पुच्छित्वा कप्पति भन्ते भिक्खुसङ्घस्स आरामोति पुच्छि। थेरो कप्पति महाराजाति आह।</p>

<p rend="bodytext">राजा तुट्ठो सुवण्ण भिंकारं गहेत्वा थेरस्स हत्थे उदकं पातेत्वा महामेघवनुय्यानं अदासि थेरो पुनदिवसेपि राजगेहेयेव भुञ्‍जित्वा नण्दनवने अनमतग्गियानि कथेसि। पुन दिवसे अग्गिक्खण्धोपम सुत्तन्तं कथेसि। एतेनेव उपायेन सत्त दिवसानि कथेसि अड्ढ नचमानं पाणसहस्सानं धम्माभिसमयो अहोसि। सत्तमे दिवसे पन थेरो अन्तोपुरे रञ्‍ञो अप्पमाद सुत्तन्तं कथयित्वा चेतियगिरिमेव अगमासि।</p>

<p rend="bodytext">अथ खो राजा थेरो आयाचितो सयमेवागतो, तस्मा तस्स अनापुच्छा गमनम्पि भवेय्याति चिन्तेत्वा रथं अभिरूहित्वा, चेतियगिरिं अगमासि महता राजानुभावेन गन्त्वा थेरानं सन्तिकं उपसङ्कमन्तो अतिविय किलन्तरूपो हुत्वा उपसङ्कमि। ततो नं थेरो आह कस्मा त्वं महाराज एवं किलम मानो आगतोति। तुम्हे मम गाळ्हं ओवादं दत्वा इदानि गन्तुकामा नुखोति जाननत्थं भन्तेति। न मयं महाराज गन्तुकामा, अपि च वस्सुपनायिक कालोनमायं समणेन नाम वस्सुपनायिकं ठानं ञातुं वट्टतीति। राजापि खो तंखणंयेव करण्डक चेतियङ्गणं परिक्खिपित्वा अट्ठसट्ठिया लेणेसु कम्मं पट्ठपेत्वा नगरमेव अगमासि।</p>

<p rend="bodytext">तेपि थेरो महाजनं ओवदमाना चेतियगिरिम्हि वस्सं वसिंसु। अथायस्मा महामहिण्दो वुत्थवस्सो पवारेत्वा कत्तिकपुण्णमायं उपोसथदिवसे राजानं एतदवोच चिरदिट्ठो नो महाराज सम्मासम्बुद्धो अभिवादन पच्‍चुपट्ठान अञ्‍जलि कम्म सामीचि कम्म करणट्ठानं नत्थि, तेनम्हं उक्‍कण्ठिताति तनु भन्ते तुम्हे अवोचुत्थ परिनिब्बुतो सम्मासम्बुद्धोति किञ्‍चापि महाराज परिनिब्बुतो, अथस्स सरीरधातुयो तिट्ठन्तीति। अञ्‍ञा तम्भन्ते थूपं पतिट्ठापेमि भूमिभागं विचिनथाति। अपि च धातुयो कुतो लच्छामीति सुमनेन सद्धिं मन्तेहि महाराजाति राजा सुमनं उपसङ्कमित्वा पुच्छि’कुतोदानि भन्तेधातुयो लच्छामा’ति सुमनो <pb ed="V" n="0.0041"/> आह-अप्पोस्सुक्‍को त्वं महाराज, वीथियो सोधापेत्वा धज पताक पुण्णघटादीहि अलङ्कारापेत्वा सपरिज्‍जनो उपोसथं समादियित्वा सब्बतालावचरे उपट्ठपेत्वा मङ्गलहत्थिं सब्बालङ्कारेहि पतिमण्डितं कारेत्वा उपरि वस्स सेतच्छत्तं उस्सापेत्वा सायण्हसमये महानागवनुय्यानाभिमुखो या हि अद्धा तस्मिं ठाने धातुयो लच्छसिति, राजा साधूति सम्पटिच्छि। थेरो चेतियगिरिमेव अगमिंसु।</p>

<p rend="bodytext">तत्रायस्मा महिण्दत्थेरो सुमन सामणेरमाह- गच्छ त्वं सामणेर जम्बुदीपे अय्यकं असोकधम्मराजानं उपसङ्कमित्वा मम वचनेन एवं वदेहि’सहायो ते महाराज देवानम्पिय तिस्सो बुद्धसासने पसन्‍नो थूपं पतिट्ठापेतुकामो तुम्हाकं किर हत्थे भगवतो परिभुत्तपत्तो चेवधातु च अत्थि, तम्मे देथा’ति तं गहेत्वा सक्‍कं देवराजानं उपसङ्कमित्वा तुम्हाकं किर महाराज हत्थे द्वे धातुयो अत्थि दक्खिणदाठा च दक्खिणक्खकञ्‍च, ततोतुम्हे दक्खिणदाठंपूजेथ, दक्खिणक्खकं पन मय्हं देथाति, एवञ्‍च नं वदेहि कस्मा त्वं महाराज अम्हे तम्बपण्णिदीपं पहिणित्वा पमज्‍जित्थाति।</p>

<p rend="bodytext">साधु भन्तेति खो सुमनो थेरस्स वचनं सम्पटिच्छित्वा तावदेव पत्तचीवरमादाय वेहासमब्भुग्गन्त्वा पाटलिपुत्तद्वारे ओरुय्ह रञ्‍ञो सन्तिकं गन्त्वा तमत्थं आरोचेसि राजा तुट्ठो सामणेरस्स हत्थतो पत्तं गहेत्वा भोजेत्वा भगवतो पत्तं गण्धेहि उब्बट्टेत्वा वरमुत्तसदिसानं धातूनं पूरेत्वा अदासि।</p>

<p rend="bodytext">सो तुं गहेत्वा सक्‍कं देवराजानं उपसङ्कमि सक्‍को देवाराजा सामणेरं दिस्वा किं भन्ते सुमन आहिण्डसीति आह। त्वं महाराज अम्हे तम्बपण्णिदीपं पहिणित्वा कस्मा पमज्‍जसीति, तप्पमज्‍जामि भन्ते, वदेहि किं करोमीति। तुम्हाकं किर हत्थे द्वे धातुयो अत्थि दक्खिणदाठा च दक्खिणक्खकञ्‍च, ततो तुम्हे दक्खिणदाठं पूजेथ दक्खिणक्खकं पन मय्हं देथाति। साधु भन्तेति खो सक्‍को देवानमिण्दो योजनप्पमानं मणिथूपं उग्घाटेत्वा दक्खिणक्खकं नीहरित्वा सुमनस्स अदासि।</p>

<p rend="bodytext">सो तं गहेत्वा चेतियगिरिम्हियेव पतिट्ठासि अथ खो महिण्दपमुखा सब्बे ते महानागा असोकधम्मराजेन दिन्‍न धातुयो चेतियगिरियम्हियेव पतिट्ठापेत्वा दक्खिणक्खकं आदाय वड्ढमानकच्छायाय महानाग वनुय्यानमगमंसु। राजापि खो सुमनेन वुत्तप्पकारं पूजासक्‍कारं कत्वा हत्थिक्खण्धवरगतो सायं मङ्गलहत्थिमत्थके सेतच्छत्तं धारयमानो महानाग वनुय्यानं सम्पापुणि।</p>

<p rend="bodytext">अथस्स <pb ed="V" n="0.0042"/> एतदहोसि- सचे अयं सम्मासम्बुद्धस्स धातु, छत्तं अपनमतु, मङ्गलहत्थि जण्णुकेहि भूमियं पतिट्ठाहतु, धातु चङ्गोटकं मय्हं मत्थके पतिट्ठहतूति सह रञ्‍ञो चित्तुप्पादेन छत्तं अपनमि हत्थिजण्णुकेहि पतिट्ठहि धातुचङ्गोटकं रञ्‍ञो मत्थके पतिट्ठहि राजा अमतेनेवाभिसित्तगत्तो परमेन पीतिपामोज्‍जेन समन्‍नागतो हुत्वा पुच्छि धातुं भन्ते किं करोमीति। हत्थिकुम्भियेव ताव महाराज ठपेहीति। राजा धातुवङ्गोटकं हत्थिकुम्भे ठपेसि। पमुदितो नागो कुञ्‍चनादं नदि महामेघो उट्ठहित्वा पोक्खरवस्सं वसिसि उकदपरियन्तं कत्वा महाभूमिचालो अहोसि पच्‍चन्तेपि नाम सम्मासम्बुद्धस्स धातुयो पतिट्ठहिस्सन्तीति।</p>

<p rend="bodytext">अथ सो हत्थिनागो अनेक तालावचरपरिवुतो अतिविय उळारेन पूजासक्‍कारेन सक्‍करियमानो पच्छिमदिसाभिमुखो हुत्वा अपसक्‍कन्तो याव नगरस्स पुरत्थिम द्वारं ताव गन्त्वा पुरत्थिमेन द्वारेन नगरं पविसित्वा सकलनगरे उळाराय पूजाय कयिरामानाय दक्खिणद्वारेन निक्खमित्वा थूपारामस्स पच्छिमदिसाभागे पभेजवत्थु नाम किर अत्थि तत्थ गन्त्वा पुन थूपारामाभिमुखो एव पटिनिवत्ति। सो च पुरिमकानं तिण्णं सम्मासम्बुद्धानं धम्मकरकं कायबण्धनं उदकसाटीकं पतिट्ठापेत्वा कतचेतियट्ठानं होती। तदेतं विनट्ठेसुपि चेतियेसु देवतानुभावेन कण्टक समाकिण्णसाखाहि नानागच्छेहि परिवुतं तिट्ठति। मा नं कोचि उच्‍चिट्ठा सुविमल कचवरेहि सन्दुसेसीति।</p>

<p rend="bodytext">अथ तस्स हत्थिनो पुरतो गन्त्वा राजपुरिसा सब्ब गच्छे छिण्दित्वा भूमिं सोधेत्वा तं हत्थतलसदिसं अकंसु। हत्थिनागो गन्त्वा तं ठानं पुरतो कत्वा तस्स पच्छिमदिसाभागे बोधिरुक्खट्ठने अट्ठासि। अथस्स मत्थकतो धातुं ओरोपेतुं आरभिंसु नागो ओरोपेतुं न देति। थेरं पुच्छि, कस्मा भन्ते नागो धातुं ओरोपेतुं न देतीति</p>

<p rend="bodytext">आरुळ्हं महाराज ओरोपेतुं न वट्टतिति। तस्मिञ्‍च काले अभयवापिया उदकं जिन्‍नं होति समन्ता भूमि फलिता सुउद्धरा मत्तिकपिण्डा। ततो महाजनो सीघसीघं मत्तिकं आहरित्वा हत्थकुम्भप्पमाणं वत्थुमकासि। तावदेव थूपकरणत्थं इट्ठिका कातुं आरभिंसु। याव इट्ठिका परिनिट्ठन्ति ताव हत्थिनागो कतिपाहं दिवा बोधिरुक्खट्ठाने हत्थिसालायं तिट्ठति। रत्तियं थूपपतिट्ठान भूमियं परियायति।</p>

<p rend="bodytext">अथ वत्थुं विनापेत्वा राजा थेरं पुच्छि, कीदिसो भन्ते थूपो कातब्बोति। वीहिरासि सदिसो महाराजाति, साधु भन्तेति राजा जङ्घप्पमाणं <pb ed="V" n="0.0043"/> थूपं चिनापेत्वा धातुओरोपनत्थाय महासक्‍कारं कारेसि।</p>

<p rend="bodytext">ततो सकलनागरा च जानपदा च धातुम्ह दस्सनत्थं सन्तिपतिंसु सन्‍निपतिते च तस्मिं महाजने दसबलस्स धातु हत्थिकुम्भतो सत्ततालप्पमानं वेहासमब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि। तेहि तेहि धातुप्पदेसेहि छब्बण्णरंसियो उदकधरा च अग्गिक्खण्धा च पवत्तन्ति। सावत्थियं गण्डम्बमूले भगवता दस्सित पाटिहारिय सदिसं एव पाटिहारियं अहोसि। तञ्‍च खो नेव थेरानुभावेनन देवतानुभावेन, अपि च खो बुद्धानंयेव आनुभावेन भगवा किर धरमानोव अधिट्ठासि - तम्बपण्णिदीपे अनुराधपुरस्स दक्खिणदिसाभागे पुरिमकानं तिण्णं बुद्धानं चेतियट्ठाने मम दक्खिणक्खकधातु पतिट्ठान दिवसे यमकपाटिहारियं होतूति।</p>

<p rend="gatha1">एवं अचिन्तिया बुद्धा-बुद्धधम्मा अचिन्तिया,</p>

<p rend="gathalast">अचिन्तियेसु पसन्‍नानं-विपाको होति अचिन्तियोति।</p>

<p rend="bodytext">धातुसरीरतो निक्खन्त उदकफुसितेहि सकलेहि तम्बपण्णिदीपतले न कोचि अफुट्ठोकासो नाम अहोसि। एवमस्स तं धातु सरीरं उदकफुसितेहि तम्बपण्णित्थलस्स परिदाहं वूपसमेत्वा महाजनस्स पाटिहारियं दस्सेत्वा ओतरित्वा रञ्‍ञो मत्थके पतिट्ठासि राजा सफलं मनुस्सत्तपटिलाभं मञ्‍ञमानो महन्तं सक्‍कारं कत्वा धातुं पतिट्ठापेसि। सह धातुपतिट्ठानेन महाभूमिचालो अहोसि निट्ठिते पन थूपे राजा च राजा भातिका च देवियो च दे-नाग-यक्खानं विम्भयकरं पच्‍चेकं थूपमकंसु।</p>

<p rend="gatha1">एवं जिनो धातुसरीरकेन</p>

<p rend="gatha2">गतोपि सन्तिं जनताहितञ्‍च,</p>

<p rend="gatha3">सुखञ्‍च धम्मा बहुधा करेय्य</p>

<p rend="gathalast">ठितो हि नाथोनुकरं करेय्य।</p>

<p rend="bodytext">साधुजन मनोपसादनत्थाय कते थूपवंसे थूपाराम कथा,</p>

<p rend="bodytext" n="13"><hi rend="paranum">१३</hi><hi rend="dot">.</hi> निट्ठिताय पन धातुपूजाय पतिट्ठिते धातुवरे महिण्दत्थेरो महामेघवनुय्यानमेव गन्त्वावासं कप्पेसि। तस्मिं खो पन समये अनुलादेवी पब्बजितुकामा हुत्वा रञ्‍ञो आरोचेसि। राजा तस्सा वचनं सुत्वा थेरं एतदवोच? भन्ते अनुलादेवी पब्बजितुकामा, पब्बाजेथ नन्त न महाराज अम्हाकं मातुगामं पब्बाजेतुं कप्पति। पाटलिपुत्ते पन मय्हं भगिनि सङ्घमित्ता थेरी नाम अत्थि, तं पक्‍कोसापेहि महाराज, इमस्मिञ्‍च दीपे पुरिमकानञ्‍च <pb ed="V" n="0.0044"/> तिण्णं सम्मासम्बुद्धानं बोधि पतिट्ठंसि अम्हाकम्पि भगवतो सरस रंसिजाल विस्सज्‍जनकेन बोधिना पतिट्ठातब्बं, तस्मा सासनं पहिणेय्यसि यथा सङ्घमित्ता बोधिं गहेत्वा आगच्छेय्याति।</p>

<p rend="bodytext">राजा थेरस्स वचनं सम्पटिच्छित्वा अमच्‍चेहि सद्धिं मन्तेन्तो अरिट्ठं नाम अत्तनो भागिनेय्यं आह सक्खिस्ससि त्वं तात पाटलीपुत्तं गन्त्वा महाबोधिना सद्धिं अय्यं सङ्घमित्तत्थेरिं आनेतुन्ति सक्खिस्सामि देव सचे मे पब्बज्‍जं अनुजानिस्ससीति।</p>

<p rend="bodytext">गच्छ तात थेरिं आनेत्वा पब्बज्‍जाहीति। सो रञ्‍ञो च थेरिस्स च सासनं गहेत्वा थेरस्स अधिट्ठानवसेन एकदिवसे न जम्बुकोलपट्टनं गन्त्वा नावं अभिरूहित्व समुद्दं अतिक्‍कमित्वा पाटलीपुत्तं गन्त्वा रञ्‍ञो सासनं आचिक्खि-पुत्तो ते देव महिण्दथेरो एवमाह। सहायस्स किर ते देवानम्पियतिस्सस्स भातुजाया अनुलादेवी नाम पब्बजितुकामा, तं पब्बाजेतुं अय्यं सङ्घमित्तत्थेरिं पहिणेय्याथ, अय्याय एव च सद्धिं महाबोधिन्ति।</p>

<p rend="bodytext">थेरस्स सासनं आरोचेत्वा सङ्घमित्तत्थेरिं उपसङ्कमित्वा एवमाह। अय्ये तुम्हाकं भाता महिण्दत्थेरो मं तुम्हाकं सन्तिकं पेसेसि देवानम्पियतिस्स रञ्‍ञो भातुजाया अनुलादेवी नाम पञ्‍चहि कञ्‍ञासतेहि पञ्‍चहि च अन्तेपुरिसा सतेहि सद्धिं पब्बजितुकामाति, तं किर आगन्त्वा पब्बाजेथाति।</p>

<p rend="bodytext">सा ताव देव तुरित तुरिता गन्त्वा रञ्‍ञा तैमत्थं आरोचेत्वा गच्छामहं महाराज तम्बपण्णिदीपन्ति आह।</p>

<p rend="bodytext">तेन हि अम्म महाबोधिं गहेत्वा गच्छाहीति वत्वा पाटलीपुत्ततो याव महाबोधि ताव मग्गं पटिजग्गापेत्वा सत्तयोजनायामय तियोजन वित्थताय महतिया सेनाय पाटलिपुत्ततो निक्खमित्वा अरियसङ्घं आदाय महाबोधिसमीपं अगमासि।</p>

<p rend="bodytext">सेनाय समुस्सित धजपताकं नानारतन विचित्तं अनेकालङ्कार पतिमण्डितं नानाविध कुसुम समाकिण्णं अनेक तुरिय संघ्रट्ठं महाबोधिं परिक्खिपि ततो राजा पुप्फ-गण्ध-मालादीहि पूजेत्वा तिक्खत्तुं पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दित्वा उट्ठाय अञ्‍जलिम्पग्गय्ह ठत्वा सच्‍चवचनकिरियाय बोधिं गण्हितुकामो रतनपीठं आरुय्ह तुलिकं गहेत्वा मनोसिलाय लेखं कत्वा यदि महाबोधिना लङ्कादीपे पतिट्ठातब्बं, यदि चाहं बुद्धसासने निब्बेमतिको भवेय्यं, महाबोधि सयमेव इमस्मिं सुवण्णकटाहे पतिट्ठहतूति सच्‍चकिरियमकासि सह सच्‍चकिरियाय <pb ed="V" n="0.0045"/> बोधिसाखा मनोसिलाय परिच्छिन्‍नट्ठानेहि छिण्दित्वा गण्ध कलल पूरस्स सुवण्णकटाहस्स उपरि अट्ठासि।</p>

<p rend="bodytext">ततो राजा महाबोधिं बोधिमण्डतो महन्तेन सक्‍कारेन पाटलीपुत्तं आनेत्वा सब्बपरिहारानि दत्वा महाबोधिं गङ्गाय नावं आरोपेत्वा सयम्पि नगरतो निक्खमित्वा विञ्झाटविं समतिक्‍कम्म अनुपुब्बेन सत्तदिवसेहि तामलित्तिं अनुप्पत्तो अन्तरमग्गे देव-नाग-मनुस्सा उळारं महाबोधि पूजमकंसु।</p>

<p rend="bodytext">राजापि समुद्दतीरे सत्तदिवसानि महाबोधिं ठपेत्वा महन्तं सक्‍कारं कत्वा बोधिम्पि संङ्घमित्तत्थेरिम्पि सपरिवारं नावं आरोपेत्वा गच्छति वतरे दसबलस्स सरस रंसिजाला मुञ्‍चमानो महाबोधि रुक्खोति कण्दित्वा अञ्‍जलिम्पग्गहेत्वा अस्सूनि पवत्तयमानो अट्ठासि सापि खो महाबोधि समरूळ्हनावा पस्सतो पस्सतो महाराजस्स महासमुद्दतलं पक्खण्दि महासमुद्देपि समन्ता योजनं वीचि वूपसन्ता पञ्‍चवण्णानि पदुमानि पुप्फितानि अन्तलिक्खे दिब्बतुरियानि वज्‍जिंसु आकासे जल थल सन्‍निस्सिताहि देवताहि पवत्तिता अतिविय उळार पूजा अहोसि। एवं महतिया पूजाय सा नावा जम्बुकोलपट्टनं पाविसि।</p>

<p rend="bodytext">देवानम्पियतिस्स महाराजापि उत्तरद्वारतो पट्ठाय याव जम्बुकोलपट्टना मग्गं सोधापेत्वा अलङ्कारापेत्वा नगरतो निक्खमन दिवसे उत्तरद्वार समीपे सद्दसालावत्थुस्मिं ठितो ताय विभूतिया महासमुद्दे आगच्छन्तंयेव महाबोधिं थेरस्सानुभावेन दिस्वा तुट्ठमानसो निक्खमित्वा सब्बं मग्गं पञ्‍चवण्णेहि पुप्फेहि ओकिरन्तो अन्तरन्तरा पुप्फअग्घियानि ठपेन्तो एकाहेनेव जम्बुकोलपट्टनं गन्त्वा सब्बतालावचर परिवुतो पुप्फ धूपगण्धादीहि पूजयमानो गलप्पमंनं उदकं ओरुय्ह आगतो वत रेदसबलस्स सरस रंसिजालं विस्सज्‍जनको बोधिरुक्खोति पसन्‍नचित्तो महाबोधिं उक्खिपित्वा उत्तमङ्गे सिरस्मिं पतिट्ठपेत्वा महाबोधिं परिवारेत्वा आगतेहि सोळसहि जातिसम्पन्‍नकुलेहि सद्धिं समुद्दतो पच्‍चुत्तरित्वा समुद्दतीरे बोधिं ठपेत्वा तीणि दिवसानि सकल तम्बपण्णि रज्‍जेन पूजेसि।</p>

<p rend="bodytext">अथ चतुत्थे दिवसे महाबोधिं आदाय उळारं पूजं कुरुमानो अनुपुब्बेन अनुराधपुरं सम्पत्ते अनुराधपुरेपि महासक्‍कारं कत्वा चातुद्दसी दिवसे वड्ढमानकच्छायाय महाबोधिं उत्तरद्वारेन पवेसेत्वा नगरमज्झन अतिहरित्वा दक्खिणद्वारेन निक्खमित्वा दक्खिणद्वारतो पञ्‍चधनु सतिके ठाने यत्थ अम्हाकं <pb ed="V" n="0.0046"/> सम्मासम्बुद्धो निरोध समापत्तिं समापज्‍जित्वा निसीदि। पुरिमका च तयो सम्मासम्बुद्धा समापत्तिं अप्पेत्वा निसीदिंसु। यत्थ च ककुसण्धस्स भगवतो सिरीसबोधि, कोनागमनस्स भगवतो उदुम्बरबोधि, कस्सपस्स भगवतो निग्रोधबोधि, पतिट्ठापेसि -तस्मिं महामेघवनुय्यानस्स तिलकभूते कतभूमि परिकम्मे राजवत्थुद्वारकोट्ठकट्ठाने महाबोधिं पतिट्ठापेसि।</p>

<p rend="gatha1">एवं लङ्काहितत्थाय-सासनस्सच वुद्धिया,</p>

<p rend="gathalast">महामेघवने रम्मे-महाबोधि पतिट्ठितोति।</p>

</body>
<back></back>
</text>
</TEI.2>
