<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">२. <pb ed="V" n="0.0011"/> परिनिब्बानकथा</p>

<p rend="bodytext">सत्था पन ततो पञ्‍चचत्तालीसवस्सानि तिपिटकपरियत्तिधम्मं देसेत्वा वेनेय्यजने संसारतो चतुअरियमग्गफलपटिलाभवसेन उद्धारेत्वा निब्बाने पतिट्ठापेत्वा पच्छिमे काले वेसालिनगरं उपनिस्साय चापालचेतियं निस्साय विहरन्तो मारेन परिनिब्बानत्थाय आराधितो सतो सम्पजानो आयुसङ्खारे विस्सज्‍जेसि। तस्स विस्सट्ठभावं आनन्दोयेव अञ्‍ञासि। अञ्‍ञो कोचिपि जानन्तो नाम नत्थि। तस्मा भिक्खुसङ्घम्पि जानापेस्सामीति जेतवनमहाविहारं गन्त्वा सब्बं भिक्खुसङ्घं सन्‍निपातापेत्वा भिक्खवे तथागतस्स न चिरस्सेव तिण्णं मासानं अच्‍चयेन परिनिब्बानं भविस्सति, तुम्हे सत्ततिंसबोधि पक्खियधम्मेसु समग्गा हुत्वा एकीभावा होथ, तुम्हे विवादं मा करोथ। अप्पमादेन तिस्सो सिक्खा सम्पादेथाति वत्वा पुन दिवसे वेसालियं पिण्डाय चरित्वा पिण्डपाता पटिक्‍कमित्वा भण्डगामं गतो। भण्डगामतो हत्थिगामं हत्थिगामतो अम्बगामं अम्बगामतो जम्बुगामं जम्बुगामतो निग्रोधगामं निग्रोधगामतो भोगनगरं भोगनगरतो पावानगरं पावानगरतो कुसिनारानगरं पत्तो। तत्थ यमकसालानमन्तरे ठीतो आनन्दत्थेरं आमन्तेत्वा उन्तरसीसकं कत्वा मञ्‍चकं पञ्‍ञापेहि किलन्तोस्मि आनन्द निपज्‍जिस्सामि’ति आह। तं सुत्वा आनन्दत्थेरो उत्तरसीसकं कत्वा मञ्‍चकं पञ्‍ञापेत्वा चतुग्गुणं सङ्घाटिं अत्थरित्वा पञ्‍चचत्तालीसवस्सानि असयितबुद्धसेय्यं सयन्तो दक्खिणपस्सेन सतो सम्पजानो अनुट्ठानसञ्‍ञं मनसिकरित्वा सीहसेय्यं कप्पेसि।</p>

<p rend="gatha1">अतीतमद्धान भवे चरन्तो,</p>

<p rend="gatha2">अनन्तसत्ते करुणायुपेतो।</p>

<p rend="gatha3">कत्वान पुञ्‍ञानि अनप्पकानि,</p>

<p rend="gathalast">पत्तो सिवं लोकहिताय नाथो॥</p>

<p rend="gatha1">एवं <pb ed="V" n="0.0012"/> हि सो दसबलोपि विहीनथामो,</p>

<p rend="gatha2">यमस्स सालान निपज्‍जि मज्झे।</p>

<p rend="gatha3">कत्वान सञ्‍ञञ्हि अनुट्ठहानं,</p>

<p rend="gathalast">स इद्धिमा मारमुखं पविट्ठो॥</p>

<p rend="bodytext">तस्मिं खणे समकसाला सुपुप्फिता अहेसुं। न केवलं यमकसालायेव सुपुप्फीता, अथ खो दससहस्सी लोकधातु चक्‍कवाळेसु सालरुक्खापि पुप्फिता। न सालरुक्खायेव सुपुप्फिता, अथ खो यं किञ्‍चि पुप्फुपगफलूपग रुक्खजातं सब्बम्पि पुप्फञ्‍च फलञ्‍च गण्हि। जलेसु जलपदुमानि थलेसु थलपदुमानि खन्धेसु खन्धपदुमानि साखासु साखापदुमानि लतासु लतापदुमानि आकासे ओलम्बपदुमानि पिट्ठिपासाणे हिन्दित्वा सतपत्तपदुमानि सुपुप्फितानि अहेसुं। पथवितो याव ब्रह्मलोको ताव दससहस्सि चक्‍कवाळा एकमालागुणा विय अहेसुं। देवा आकासतो दिब्बमन्दारवपारिच्छत्तककोविळारपुप्फानि च चन्दनचुण्णानि च समाकिरन्ति। दिब्बतुरियसङ्गितियो च अन्तलिक्खे पवत्तन्ति। अनेकानि अच्छरियसहस्सानि अहेसुं। एवं पूजाविसेसे पवत्तमाने पठमयामे सुभद्दपरिब्बाजकं विनेत्वा मज्झिमयामे दससहस्सि लोकधातु देवतानं अनुसासित्वा पच्छिमयामावसाने पठमज्झानं समापज्‍जित्वा ततो वुट्ठाय दुतियज्झानं चतुत्थज्झानं समापज्‍जि। ततो वुट्ठाय आकासानञ्‍चायतनं विञ्‍ञाणञ्‍चायतनं आकिञ्‍चञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनं समापज्‍जित्वा ततो वुट्ठाय निरोधसमापत्तिं समापज्‍जि। ततो वुट्ठाय पठमज्झानं दुतियज्झानं ततियज्झानं चतुत्थज्झानञ्‍च समापज्‍जि। ततो वुट्ठाय एत्थन्तरतो अनुपादिसेसनिब्बानधातुया परिनिब्बायि।</p>

<p rend="gatha1">महामोहतमं हन्त्वा सत्तानं हदयस्सितं,</p>

<p rend="gatha2">रवीव जोतमानो सो लोकस्स अनुकम्पको।</p>

<p rend="gatha3">वस्सानि <pb ed="V" n="0.0013"/> पञ्‍चतालीसं कत्वा सत्तहितं बहुं,</p>

<p rend="gathalast">अधुना अग्गिक्खन्धोव परिनिब्बायि सो जिनो॥</p>

<p rend="bodytext">एवं पन भगवति परिनिब्बुते विस्सकम्मदेवपुत्तो तथागतस्स सरीरप्पमाणं वरदोणिं रतनेहि मापेत्वा विसुद्धकप्पासेहि तथागतस्स सरीरं वेठेत्वा रतनदोणियं पक्खिपित्वा गन्धतेलेहि पूरेत्वा अपराय दोणिया पिदहित्वा सब्बगन्धदारुचितकं कत्वा येभुय्येन देवतायो लोहितचन्दनघटिकायो आदाय चितकायं पक्खिपित्वा अग्गिं गाहापेतुं नासक्खिंसु। कस्मा? महाकस्सपत्थेरस्स अनागतत्ता। सो आयस्मा महाकस्सपत्थेरो येभुय्येन बहुन्‍नं देवानं पियो मनापो। थेरस्स हि दानं दत्वा सग्गे निब्बत्तानं पमाणो नाम नत्थि। तस्मा देवता तस्मिं समागमे अत्तनो कुलूपगत्थेरं अदिस्वा अम्हाकं महाकस्सपत्थेरो कुहिन्ति ओलोकेन्तो अत्तनो परिवारेहि पञ्‍चमत्तेहि भिक्खुसतेहि सद्धिं मग्गं पटिपन्‍नोति ञत्वा याव थेरो इमस्मिं न सम्पत्तो चितकं ताव न पज्‍जलतुति अधिट्ठहिंसु। तस्मिं काले थेरो येभुय्येन तेरसधुतङ्गधरेहि पञ्‍चमत्तेहि भिक्खुसतेहि सद्धिं आगन्त्वा चितकं तिक्खत्तुं पदक्खिणं कत्वा पादपस्से ठीतो, भन्ते तुम्हाकं दस्सनत्थाय इतो कप्पसतसहस्समत्थके पदुमुत्तरसत्थुनो पादमुले अभिनीहारतो पट्ठाय अविजहित्वा आगतो। इदानि मे अवसानदस्सनन्ति पादे गहेत्वा वन्दितुं अधिट्ठासि।</p>

<p rend="gatha1">महाकस्सपथेरो सो भिक्खुसङ्घपुरक्खतो।</p>

<p rend="gathalast">एकंसं चीवरं कत्वा पग्गहेत्वान अञ्‍जलिं॥</p>

<p rend="gatha1">पदक्खिणञ्‍च तिक्खत्तुं कत्वा ठत्वा पदन्तिके।</p>

<p rend="gathalast">पतिट्ठहन्तु सीसे मे जिनपादेति’धिट्ठहि॥</p>

<p rend="gatha1">सहाधिट्ठानं चितका दुस्सानि च विभिन्दिय।</p>

<p rend="gathalast">निक्खमिंसु तदा पादा घनमुत्तोव चन्दिमा॥</p>

<p rend="gatha1">उहो हत्थेहि पग्गय्ह ठपेत्वा अत्तनो सिरे।</p>

<p rend="gathalast">वन्दित्वा सत्थुनो पादे खमापेत्वा विसज्‍जयी॥</p>

<p rend="gatha1">पुण्णचन्दो यथा अब्भं चितकं पाविसि तदा।</p>

<p rend="gathalast">इदं अच्छेरकं दिस्वा रवं रवि महाजनो॥</p>

<p rend="gatha1">उट्ठहित्वान पाचीना वन्दो अत्थङ्गतो यथा।</p>

<p rend="gathalast">पादे अन्तरधायन्ते अरोदिंसु महाजना॥</p>

<p rend="bodytext">तदा मल्‍लराजानो भगवतो सरीरकिच्‍चं करिस्सामाति वत्वा नानावत्थाभरणानि निवासेत्वा परिवारयिंसु। ततो राजानो मनुस्सा च अग्गिं दातुं आरहिंसु। तदा सक्‍को? मयि पन परिनिब्बुते सक्‍को देवराजा मणिजोतिरसं पसारेत्वा निक्खन्तअग्गिना मम सरीरकिच्‍चं करिस्सति। मणिअग्गिनो अवसाने मनुस्सा अग्गिं करिस्सन्तिति। एवं बुद्धवचनं परिभावेत्वा निक्खत्तुं पदक्खिणं कत्वा भगवतो सरीरकिच्‍चं कत्वा समन्ततो उट्ठहतुति अधिट्ठहि।</p>

<p rend="bodytext">तस्मिं खणे सयमेव चितकं अग्गि गण्हि। सरीरं पन भगवतो झायामानं छविचम्ममंसनहारुअट्ठिअट्ठिमिञ्‍जं असेसेत्वा सुमनमकुळमुत्तारासिसदिसमेव धातुयो अवसेसा अहेसुं।</p>

<p rend="gatha1">परिनिब्बुतकालेपि सकलं कलुनं अहु।</p>

<p rend="gathalast">परिदेवो महा आसि मही उद्रियनं यथा॥</p>

<p rend="gatha1">देवतायानुभावेन सत्थुनो चितको सयं।</p>

<p rend="gathalast">ततो एकप्पहारेन पज्‍जलित्थ समन्ततो॥</p>

<p rend="gatha1">यञ्‍च अब्भन्तरं दुस्सं यं दुस्सं सब्बबाहिरं</p>

<p rend="gathalast">दुस्से द्वेव न झायिंसु तेसं दुस्सानमन्तरे।</p>

<p rend="gatha1">यथा निरुद्धतेलस्स न मसी न च छारिका।</p>

<p rend="gathalast">एवमस्स न दिस्सति बुद्धगत्तस्स झायतो॥</p>

<p rend="gatha1">सुमनमकुळसभावा च धोतमुत्ताभमेव च।</p>

<p rend="gathalast">सुवण्णवण्णसंकासा अवसिस्संसु धातुयो॥</p>

<p rend="gatha1">दाठा चतस्सो उण्हीसं अक्खका द्वे च सत्तिमा।</p>

<p rend="gathalast">न विकिण्णा ततो सेसा विप्पकिण्णाव धातुयो॥</p>

<p rend="gatha1">अहोसि तनुका धातु सासपबीजमत्तिका।</p>

<p rend="gathalast">धातुयो मज्झिमा मज्झेभिन्‍नतण्डुलमत्तिका॥</p>

<p rend="gatha1">धातुयो <pb ed="V" n="0.0015"/> महति मज्झे भिन्‍नमुग्गप्पमाणिका।</p>

<p rend="gathalast">धातुवण्णा तयो आसुं बुद्धाधिट्ठानतेजसा॥</p>

<p rend="gatha1">सारिपुत्तस्स थेरस्स सिस्सो सरभुनामको।</p>

<p rend="gathalast">आदाय जिनगीवट्ठिं चितकातोव धातु सो॥</p>

<p rend="gatha1">सद्धिं सिस्ससहस्सेन चेतिये महियङ्गणे।</p>

<p rend="gathalast">ठपेत्वा चेतियं कत्वा कुसिनारमगा मुनि॥</p>

<p rend="gatha1">छळभिञ्‍ञो वसिप्पत्तो खेमो कारुणिको मुनि।</p>

<p rend="gathalast">सहसा चितकातोव वामदाठं समग्गही॥</p>

<p rend="gatha1">आकासतो पतित्वापि निक्खमित्वापि सालतो।</p>

<p rend="gathalast">समन्ततोम्बुमुग्गन्त्वा निब्बापेसुं जलानलं॥</p>

<p rend="gatha1">मल्‍लराजगणा सब्बे सब्बगन्धोदकेन तं।</p>

<p rend="gathalast">चितकं लोकनाथस्स निब्बापेसुं महेसिनो॥</p>

<p rend="bodytext">एवं पन सब्बलोके करुणाधिको सम्मासम्बुद्धो वेसाखपुण्णमुपोसथे अङ्गारदिवसे परिनिब्बुतो। देवमनुस्सानं सङ्गहकरणत्थाय यमकसालानमन्तरे चितकं सत्तरत्तिन्दिवं वसी। ततो वीसं हत्थसतिकस्स उपरि सत्तरत्तिन्दिवं वसि। याव अग्गिपरिनिब्बापनं सत्तरत्तिन्दिवं होति।</p>

<p rend="bodytext">ततो सत्तदिवसानि कुसिनारायं मल्‍लराजपुत्तेसु गन्धोदकेन चितकं निब्बापयमानेसु सालरुक्खतो उदकधारा निक्खमित्वा चितकं निब्बापयिंसु। ततो दसबलस्स धातुयो सुवण्णचङ्गोटके पक्खिपित्वा अत्तनो नगरे सन्थागारे ठपेत्वा सत्तिपञ्‍जरं कत्वा धनुपाकारेहि परिक्खिपापेत्वा सत्ताहं नच्‍चगीतवादितगन्धमालादीहि मल्‍लराजपुत्ता सक्‍कारं करिंसु।</p>

<p rend="gatha1">ततो ते मल्‍लराजानो रम्मं देवसभोपमं।</p>

<p rend="gathalast">सब्बथा मण्डुयित्वान सन्थागारं ततो पन॥</p>

<p rend="gatha1">मग्गं <pb ed="V" n="0.0016"/> अलङ्करित्वान याव मकुटचेतिया।</p>

<p rend="gathalast">हत्थीक्खन्धे ठपेत्वान हेमदोणिं सधातुकं॥</p>

<p rend="gatha1">गन्धादीहिपि पूजेत्वा कीळन्ता साधुकीळितं।</p>

<p rend="gathalast">पवेसेत्वान नगरं सन्थागारे मनोरमे॥</p>

<p rend="gatha1">दसभूमस्मिं पल्‍लङ्के ठपेत्वा जिनधातुयो।</p>

<p rend="gathalast">उस्सयुं ते तदा छत्ते सन्थागारसमन्ततो॥</p>

<p rend="gatha1">हत्थीहि परिक्खिपापेसुं ततो अस्से ततो रथे,</p>

<p rend="gatha2">अञ्‍ञो’ञ्‍ञं परिवारेत्वा ततो योधे ततो धनु।</p>

<p rend="gatha3">इति परिक्खिपापेसुं समन्ता योजनं कमा,</p>

<p rend="gathalast">तदा नच्‍चेहि गीतेहि वादितेहि च पूजयुं॥)</p>

<p rend="centre">परिनिब्बानकथा समत्ता।</p>

<p rend="bodytext">ततो भगवतो परिनिब्बुतभावं सुत्वा अजातसत्तु महाराजा कोसिनारकानं मल्‍लानं सासनं पेसेसि। अहम्पि खत्तियो भगवापि खत्तियो सत्थुनो सरीरधातुनं थूपञ्‍च महञ्‍च करोमीति। तेनेव उपायेन वेसालियं लिच्छविराजानो च कपिलवत्थुम्हि सक्यराजानो च अल्‍लकप्पके बुलयो च रामगामके कोळिया च वेठदीपके ब्राह्मणो च पावायं पावेय्यका च सासनं पेसेत्वा सब्बे एकतो हुत्वा कोसिनारकेहि सद्धिं विवादं उप्पादेसुं। तेसं पन आचरियो द्रोणब्राह्मणो नाम। सो तेसं? मा भोन्तो विग्गहविवादं करोथ, अम्हाकं भगवा खन्तिवादीयेवाति वत्वा तादिसस्स च खन्तिमेत्तानुद्दयसम्पन्‍नस्स सरीरभागे कलहं कातुं अयुत्तन्ति आह।</p>

<p rend="gatha1">(राजा अजातसत्तु च लिच्छवी च नराधिपा।</p>

<p rend="gathalast">सक्या च अल्‍लकप्पा च कोळियापि च रामके॥</p>

<p rend="gatha1">ब्राह्मणो वेठदीपो च मल्‍लपावेय्यकापि च।</p>

<p rend="gathalast">मल्‍ला च धातु अत्थाय अञ्‍ञमञ्‍ञं विवादयुं॥</p>

<p rend="gatha1">एवं <pb ed="V" n="0.0017"/> सन्ते तदा दोणो ब्राह्मणो एतदब्रवी।</p>

<p rend="gathalast">सुणन्तु भोन्तो मे वाचं हितमत्थुपसंहितं॥</p>

<p rend="gatha1">खन्तिवादी इसिकाले धम्मपालकुमारके।</p>

<p rend="gathalast">छद्दन्ते भुरिदत्ते च चम्पेय्ये सङ्खपालके॥</p>

<p rend="gatha1">महाकपिजातकाले अम्हाकं लोकनायको।</p>

<p rend="gathalast">कोपं अकत्वा अञ्‍ञेसु खन्तिमेव अका जिनो॥</p>

<p rend="gatha1">सिट्ठासिट्ठे सुखे दुक्खे लाभालाभे यसायसे।</p>

<p rend="gathalast">तादी लक्खणसम्पन्‍नो खन्तिवादेसु का कथा॥</p>

<p rend="gatha1">एवं भवतं विवादे सम्पहारो न साधुको।</p>

<p rend="gathalast">सब्बेव सहिता होथ समग्गा मोदमानका॥</p>

<p rend="gatha1">तथागतस्स सारीरं अट्ठभागं करोमसे।</p>

<p rend="gathalast">थूपा वित्थारिता होन्तु पसन्‍ना हि बहुज्‍जना॥</p>

<p rend="gatha1">तेन हि विभजेहि त्वं अट्ठभागन्तु ब्राह्मण।</p>

<p rend="gathalast">थूपा वित्थारिता होन्तु पसन्‍ना हि बहुज्‍जना॥</p>

<p rend="gatha1">एवं वुत्ते तदा दोणो ब्राह्मणो गणजेट्ठको।</p>

<p rend="gathalast">सुवण्णं नाळिं कत्वान समं भाजेसि राजुनं॥</p>

<p rend="gatha1">सोळसनाळियो आसुं सब्बा ता सेसधातुयो।</p>

<p rend="gathalast">एकेकपुरवासीनं द्वे द्वे दोणो अदा तदा॥</p>

<p rend="gatha1">धातुयो च गहेत्वान हट्ठतुट्ठा नराधिपा।</p>

<p rend="gathalast">गन्त्वा सके सके रट्ठे चेतियानि अकारयुं॥</p>

<p rend="gatha1">दोणो तुम्बं गहेत्वान कारेसि तुम्बचेतियं।</p>

<p rend="gathalast">अङ्गारथूपं कारेसुं मोरिया हट्ठमानसा॥</p>

<p rend="gatha1">एका दाठा तिदसपुरे एका नागपुरे अहु।</p>

<p rend="gathalast">एका गन्धारविसये एका कालिङ्गराजिनो॥)</p>

<p rend="bodytext">तत्थ <pb ed="V" n="0.0018"/> दोणोति? तदा गणाचरियो। सो धातुयो विभजन्तो एकं दक्खिणदाठाधातुं गहेत्वा वेठन्तरे ठपेसि। तदा सक्‍को अज्‍ज दक्खिणदाठाधातुं को लभतीति चिन्तेत्वा वेठन्तरे पस्सि। सो रतनचङ्गोटकं गहेत्वा अदिस्समानकायेन गन्त्वा धातुं गहेत्वा तावतिंसभवने चूळामणिचेतिय एकयोजनुब्बेधंयेव महन्तं थूपं कत्वा ठपेसि। एकं दक्खिणदठाधातुं पादग्गन्तरे अक्‍कमित्वा गण्हि। एत्तावता तावतिंसभवनदन्तधातुकथा परिपुण्णा वेदितब्बा।</p>

<p rend="bodytext">तदा जयसेनो नाम नागराजा भगवतो परिनिब्बुतभावं सुत्वा अज्‍ज पच्छिमदस्सनं पस्सिस्सामीति महन्तं नागराजसम्पत्तिं गहेत्वा कुसिनारं गन्त्वा महापूजं कत्वा एकमन्तं ठत्वा पादग्गन्तरे ठितं धातुं दिस्वा नागेद्धिबलेन गहेत्वा नागभवनं नेत्वा नागपुरस्स मज्झे रतनखचिते चेतिये ठपेसि। तं तम्बपण्णियं काकवण्णतिस्सराजकाले महादेवत्थेरस्स सिस्सो महिन्दत्थेरो नाम नागभवनं गन्त्वा दक्खिणदाठं गहेत्वा तम्बपण्णियं सेरुनगरं हरित्वा गिरिअभयस्स सेरुनगरपब्बतन्तरे चेतियं कारापेत्वा ठपेसि।</p>

<p rend="bodytext">एत्तावता नागभवनदन्तधातुकथा परिपुण्णा वेदितब्बा।</p>

<p rend="bodytext">तत्रायं गन्धारवासिनोति? एका वामदाठा दोणो नाम आचरियो निवत्थ वत्थन्तरे ठपेत्वा गण्हि। तदा एको गन्धारवासी पुब्बे लद्धब्याकरणो कताभिनीहारो वत्थन्तरे ठतपिदन्तधातुं दिस्वा कुसलचित्तेन ततो दन्तधातुं गहेत्वा गन्धारवासिकेहि सद्धिं अत्तनो रट्ठं गन्त्वा चेतियवने ठपेसि।</p>

<p rend="bodytext">एत्तावता वामदन्तधातुकथा परिपुण्णा वेदितब्बा।</p>

<p rend="bodytext">तत्थ अधो वामदन्तधातुं सारिपुत्तत्थेरस्स सिस्सो खेमो नाम मुनि जालचितकतोव उप्पतित्वा वामदाठं गहेत्वा कालिङ्गपुरं नेत्वा ब्रह्मदत्तस्स रञ्‍ञो समीपं गन्त्वा <pb ed="V" n="0.0019"/> दन्तधातुं दस्सेत्वा? महाराज वामदन्तधातुं भगवा तमेव इमस्मिं जम्बुदीपे याव गुहसीवपरम्परा देवमनुस्सानं अत्थं करित्वा परियोसाने गुहसीवरञ्‍ञो पाहेस्सतीति (नीयादेतुं) आहाति नीय्यादेसि।</p>

<p rend="bodytext">अपरभागे हेममाला राजकञ्‍ञा दन्तकुमारेन सद्धिं ब्राह्मणवेसं गहेत्वा दन्तधातुं आदाय पलायित्वा वाणिजे आरोचेत्वा नावा वेगेन गन्त्वा चेव नागसुपण्णेहि महन्तं पूजं कारेत्वा अनुक्‍कमेनागन्त्वा जम्बुकोळपट्टनं पत्वा दिजवरस्स आचिक्खितमग्गेन अनुराधपुरं पत्वा कित्तिस्सिरिमेघस्स पवत्तिं पुच्छित्वा नववस्सआयुसमानो तीसु सरणेसु पसन्‍नभावं सुत्वा मेघगिरि महाथेरस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदित्वा दन्तधातुं जम्बुदीपतो गहेत्वा आगतभावं आरोचेत्वा दस्सेसि। दिस्वा च पन पीतिया फुटो उभिन्‍नम्पि सङ्गहं कत्वा महाविहारं अलङ्कारेत्वा जिनदन्तधातुं ठपेत्वा एकं भिक्खुं पेसेत्वा तं पवत्तिं रञ्‍ञो आरोचापेसि। तं सुत्वा राजा पीतिपामोज्‍जो चक्‍कवत्तिस्स सिरिसम्पत्तो दळिद्दो विय तस्स पाटिहारियं दिस्वा वीमंसित्वा निक्‍कङ्खो हुत्वा सकललङ्कादीपेन पूजेसि। एतेन नयेन पूजं कत्वा एकदिवसेनेव नवलक्खं पूजेसि।</p>

<p rend="gatha1">सीहळिन्दो उभिन्‍नम्पि बहूनि रतनानि च।</p>

<p rend="gathalast">गामे च इस्सरे चेव दत्वान सङ्गहं अका॥</p>

<p rend="bodytext">एत्तावता अधोदाठाधातुकथा परिपुण्णा वेदितब्बा।</p>

<p rend="bodytext">चत्तालीस समा दन्ता केसा लोमा च सब्बसो देवा हरिंसु एकेकं चक्‍कवाळपरम्परा।</p>

<p rend="bodytext">तत्र वचने, चत्तालीस समा दन्ताति? सेसदन्ता च केसा च लोमा च नखा च सब्बसोपि मयि परिनिब्बुत-काले <pb ed="V" n="0.0020"/> मा डय्हन्तु लुञ्‍चित्वा आकासे पतिट्ठन्तु एकेकचक्‍कवाळञ्‍च एकेककेसलोमनखदन्तधातुपरम्परा नेत्वा चेतियं कारेत्वान देवमनुस्सानं अत्थं करोतुति अधिट्ठहि। तस्मा परिनिब्बुतकालतो याव सरीरं न डय्हति ताव छब्बण्णरस्मियो लोमधातु न पजहति। दोणब्राह्मणोपि धातुविभजनावसाने वेठन्तरे च निवासनन्तरे च पादग्गन्तरे च धातुनं विनट्ठभावं ञत्वा पथवियं उत्तानकोयेवजातो। तदा सक्‍को देवराजा दिस्वा अयं देणाचरियो धातु अत्थाय अनुपरिवत्तेत्वा विनासं पापुणेय्य अहं वीणाचरियवेसं गहेत्वा तस्स सन्तिकं गन्त्वा सोकं विनोदेस्सामीति सक्‍करूपं जहित्वा वीणाचरियवेसं गहेत्वा तस्स सन्तिकं गन्त्वा एकमन्तं ठितो दिब्बगीतं गायित्वा वीणं वादेन्तो नानप्पकारं उदानेसि। यं धम्ममेतं पुरिसस्स वादं छिन्दिस्सामीति वत्वा कथाय सोतुनं लोभं परस्स अत्थं विनासेत्वा अतिलोभेन पुरिसो पापको होतीति। हंसराजजातकं दीपेत्वा यं लद्धं तं सुलद्धन्ति आह। तं सुत्वा दोणो अयं वीणाचरियो मय्हं थेनभावं अञ्‍ञासीति सोकं विनोदेत्वा उट्ठाय आवज्‍जमानो तुम्बं दिस्वा येन भगवतो सरीरधातुयो मिता सोपि धातुगतिकोव। इदं थूपं करिस्सामीति चिन्तेत्वा तुम्बं गहेत्वान चेतिये ठपेसि। मोरिया अङ्गारं गहेत्वा अङ्गारचेतियं नाम कारेसुं।</p>

<p rend="gatha1">(नगरे कपिलवत्थुम्हि सम्मादिट्ठि बहुज्‍जनो।</p>

<p rend="gathalast">तत्थ सारीरिकं थूपं अकासि रतनामयं॥</p>

<p rend="gatha1">नगरे <pb ed="V" n="0.0021"/> अल्‍लके रम्मे बुद्धधातु पतिट्ठिय।</p>

<p rend="gathalast">सिलाय मुग्गवण्णाय थूपं सधातुकं अका॥</p>

<p rend="gatha1">जनो पावेय्यरट्ठस्मिं पतिट्ठिय सारीरिकं।</p>

<p rend="gathalast">सिलाय मणिवण्णाय पावेय्यं चेतियं अका॥</p>

<p rend="gatha1">चीवरं पत्तदण्डञ्‍च मधुरायं अपूजयुं।</p>

<p rend="gathalast">निवासनं कुसघरे पूजयिंसु महाजना॥</p>

<p rend="gatha1">पच्‍चत्थरणं कपिले उण्णलोमञ्‍च कोसले।</p>

<p rend="gathalast">पूजेसुं पाटलिपुत्ते करकं कायबन्धनं॥</p>

<p rend="gatha1">निसीदनं अवन्तिसु चम्पायं’दकसाटकं।</p>

<p rend="gathalast">देवरट्ठे अत्थरणं विदेहे परिस्सावनं॥</p>

<p rend="gatha1">वासि-सूचिघरञ्‍चापि इन्दपत्थे अपूजयुं।</p>

<p rend="gathalast">पासाणके पदं सेट्ठं भण्डसेसं परन्तके॥</p>

<p rend="gatha1">महिंसु मनुजा धातुं अट्ठदोणमितं तदा।</p>

<p rend="gathalast">धातु वित्थारिता आसि लोकनाथस्स सत्थुनो)॥</p>

<p rend="bodytext">ते पन राजानो हि अत्तनोलद्धधातुं गहेत्वा सकसकनगरं गन्त्वा चेतियं कारापेत्वा महन्तं पूजाविधानं करिंसु। चक्खुमन्तस्स भगवतो सरीरधातु अट्ठदोणमत्तं सुवण्णनाळिया एकसतअट्ठवीसतिनाळिका अहोसि? सत्था पन उत्तरासाळ्हनक्खत्तेन मातुकुच्छियं पटिसन्धिं गण्हि। विसाखनक्खत्तेन मातुकुच्छितो निक्खमि। उत्तरासाळ्हनक्खत्तेन महाभिनिक्खमनं निक्खमि। विसाखनक्खत्तेन बुद्धो अहोसि। उत्तरासाळ्हनक्खत्तेन धम्मचक्‍कं पवत्तेसि। तेनेव यमकपाटिहारियं अकासि। अस्सयुजनक्खत्तेन देवोरोहणं अकासि। विसाखनक्खत्तेन परिनिब्बायि। महाकस्सपत्थेरा च अनुरुद्धत्थेरो च द्वे महाथेरा भगवतो सरीरधातुयो विस्सज्‍जापेत्वा अदंसु।</p>

<p rend="bodytext">तेसं <pb ed="V" n="0.0022"/> राजुनं भगवतो सरीरधातुं लभित्वा सत्तदिवससत्तमासाधिकानि सत्तवस्सानि महारहं पूजं कत्वा गतकाले मिच्छादिट्ठिकमनुस्सा? समणो गोतमो परिनिब्बुतो। तस्स धातु अत्थाय अम्हाकं जीवितकप्पनं नासेत्वा पूजं करोती’ति सम्मासम्बुद्धे पदुस्सन्ति। सक्‍को आवज्‍जेन्तो तं कारणं ञत्वा महाकस्सपत्थेरस्स आरोचेसि;’भन्ते मिच्छादिट्ठिका मनुस्सा भगवति पदुट्ठचित्तेन इतो चुता अवीचिनिरयं उप्पज्‍जन्ति। बहुतरा अनागते मिच्छादिट्ठिका मातुपितुघातका राजानो भविस्सन्ति। अज्‍जेव धातुयो निदहितुं वट्टती’ति थेरो विचारेत्वा अद्दस।</p>

<p rend="bodytext">अनन्तमत्थं धरमानकाले कत्वान सत्तानमलीनचित्तो सेसानमत्थाय सरीरधातुं ठपेत्व सो मच्‍चुमुखं उपेतो। (कत्वा यो बोधिञाणं विविधबलवरं बुज्झितुं पारमीयो वत्वा सङ्खेय्यपुण्णे अपरिमितभवे उत्तरित्वा सुमुत्तं। आरोहित्वान सीघं अरियसिवपदं अच्‍चुतं सीतिभावं पत्तो सो जातिपारं निखिलपदहनं दुक्‍करं कारयित्वा।</p>

<p rend="gatha1">धात्वन्तरायं दिस्वान थेरो कस्सपसव्हयो।</p>

<p rend="gathalast">निधानं सब्बधातुनं करोहीत्याह भूपतिं॥</p>

<p rend="gatha1">साधूति सो पटिस्सुत्वा मागधो तुट्ठमानसो।</p>

<p rend="gathalast">धातुनिधानं कारेसि सब्बत्थ वत्तितादिय॥</p>

<p rend="gatha1">कारापेत्वान सो राजा कस्सपस्स निवेदयी।</p>

<p rend="gathalast">धातुयो आहरी थेरो इदं कारणमद्दस॥</p>

<p rend="gatha1">भुजङ्गा <pb ed="V" n="0.0023"/> परिगण्हिंसु रामगामम्हि धातुयो।</p>

<p rend="gathalast">चेतिये धारयिस्सन्ति लङ्कादीपे अनागते॥</p>

<p rend="gatha1">ता धातुयो ठपेत्वान थेरो कस्सपसव्हयो।</p>

<p rend="gathalast">रञ्‍ञो अजातसत्तुस्स अदासि धातुयो तदा॥</p>

<p rend="gatha1">गेहे चूपकरणानि चतुसट्ठिसतानि सो।</p>

<p rend="gathalast">अब्भन्तरे ठपेसि राजा सब्बा ता बुद्धधातुयो॥</p>

<p rend="gatha1">करण्डासीति संकिण्णं चेतियासीतिलङ्कतं।</p>

<p rend="gathalast">गेहे बहुसमाकिण्णं थूपारामप्पमाणकं॥</p>

<p rend="gatha1">कारेत्वा सब्बकरणं वालिकं ओकिरी तहिं।</p>

<p rend="gathalast">नानापुप्फसहस्सानि नाना गन्धं समाकिरि॥</p>

<p rend="gatha1">असीतिथेररूपानि अट्ठचक्‍कसतानि च।</p>

<p rend="gathalast">सुद्धोधनस्स रूपम्पि मायापजापतादिनं॥</p>

<p rend="gatha1">सब्बानि तानि रूपानि सुवण्णस्सेव कारयि।</p>

<p rend="gathalast">पञ्‍च छत्तधजसते उस्सापेसि महीपती॥</p>

<p rend="gatha1">जातरूपमये कुम्भे कुम्भे च रतनामये।</p>

<p rend="gathalast">पञ्‍च पञ्‍च सतेयेव ठपापेसि समन्ततो॥</p>

<p rend="gatha1">सोवण्णनिक्खमयेन च कपाले रजतामये।</p>

<p rend="gathalast">पुरेसि गन्धतेलस्स जालापेत्वा पदीपके॥</p>

<p rend="gatha1">पञ्‍च पञ्‍च सतेयेव ठपापेसि दिसम्पति।</p>

<p rend="gathalast">इमे तथेव तिट्ठन्त अधिट्ठासि महामुनि॥</p>

<p rend="gatha1">वित्थारिता धम्मासोको भविस्सति अनागते।</p>

<p rend="gathalast">अक्खरे सोण्णपत्तम्हि छिन्दापेसि महामती॥</p>

<p rend="gatha1">पकप्पित्वा विसुकम्मं धातुगब्भसमन्ततो।</p>

<p rend="gathalast">वातवेगेन यायन्तं यन्तरूपमकारयी॥</p>

<p rend="gatha1">कत्वा सिलापरिक्खेपं पिदहित्वा सिलाहि तं।</p>

<p rend="gathalast">तस्सूपरि करी थूपं समं पासाणथूपियं॥)</p>

<p rend="centre">धातुनिधानकथा समत्ता।</p>

<p rend="bodytext">इति अरियजनप्पसादनत्थाय कते धातुवंसे तथागतस्स परिनिब्बुताधिकारो नाम दुतियो परिच्छेदो।</p>

</body>
<back></back>
</text>
</TEI.2>
