<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">३. सतिपट्ठानसंयुत्तं</p>

<p rend="title">१. अम्बपालिवग्गो</p>

<p rend="subhead">१. अम्बपालिसुत्तवण्णना</p>

<p rend="bodytext" n="367"><hi rend="paranum">३६७</hi><hi rend="dot">.</hi> सतिपट्ठानसंयुत्तस्स <pb ed="V" n="3.0211"/> <pb ed="P" n="3.0177"/> <pb ed="M" n="3.0213"/> पठमे <hi rend="bold">अम्बपालिवने</hi>ति अम्बपालिया नाम रूपूपजीविनिया रोपिते अम्बवने। तं किर तस्सा उय्यानं अहोसि। सा सत्थु धम्मदेसनं सुत्वा पसन्‍नचित्ता तत्थ विहारं कारेत्वा तथागतस्स निय्यातेसि। तं सन्धायेतं वुत्तं। <hi rend="bold">एकायन्वाय</hi>न्ति एकायनो अयं। तत्थ <hi rend="bold">एकायनो</hi>ति एकमग्गो। मग्गस्स हि –</p>

<p rend="gatha1">‘‘मग्गो पन्थो पथो पज्‍जो, अञ्‍जसं वटुमायनं।</p>

<p rend="gathalast">नावा उत्तरसेतू च, कुल्‍लो च भिसि सङ्कमो’’ति॥ (चूळनि॰ पारायनत्थुतिगाथानिद्देसो १०१) –</p>

<p rend="unindented">बहूनि नामानि। स्वायं इध अयननामेन वुत्तो। तस्मा <hi rend="bold">एकायन्वायं, भिक्खवे, मग्गो</hi>ति एत्थ एकमग्गो। अयं, भिक्खवे, मग्गो, न द्वेधापथभूतोति एवमत्थो दट्ठब्बो। <hi rend="bold">मग्गो</hi>ति केनट्ठेन मग्गो? निब्बानगमनट्ठेन, निब्बानत्थिकेहि मग्गनीयट्ठेन च।</p>

<p rend="bodytext"><hi rend="bold">सत्तानं विसुद्धिया</hi>ति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्‍किलेसेहि संकिलिट्ठचित्तानं सत्तानं विसुद्धत्थाय। <hi rend="bold">सोकपरिदेवानं समतिक्‍कमाया</hi>ति सोकस्स च परिदेवस्स च समतिक्‍कमाय, पहानायाति अत्थो। <hi rend="bold">दुक्खदोमनस्सानं अत्थङ्गमाया</hi>ति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्‍नं अत्थङ्गमाय, निरोधायाति अत्थो। <hi rend="bold">ञायस्स अधिगमाया</hi>ति ञायो वुच्‍चति अरियो अट्ठङ्गिको मग्गो, तस्स अधिगमाय पत्तियाति वुत्तं <pb ed="V" n="3.0212"/> होति। अयञ्हि पुब्बभागे लोकियो सतिपट्ठानमग्गो भावितो लोकुत्तरमग्गस्स अधिगमाय संवत्तति <pb ed="P" n="3.0178"/>। तेनाह ‘‘ञायस्स अधिगमाया’’ति। <hi rend="bold">निब्बानस्स सच्छिकिरियाया</hi>ति तण्हावानविरहितत्ता निब्बानन्ति लद्धनामस्स अमतस्स सच्छिकिरियाय, अत्तपच्‍चक्खायाति वुत्तं होति। अयञ्हि मग्गो भावितो अनुपुब्बेन निब्बानसच्छिकिरियं साधेति। तेनाह ‘‘निब्बानस्स सच्छिकिरियाया’’ति।</p>

<p rend="bodytext">एवं <pb ed="M" n="3.0214"/> भगवता सत्तहि पदेहि एकायनमग्गस्स वण्णो भासितो, सो कस्माति चे? भिक्खूनं उस्साहजननत्थं। वण्णभासनञ्हि सुत्वा ते भिक्खू – ‘‘अयं किर मग्गो हदयसन्तापभूतं सोकं, वाचाविप्पलापभूतं परिदेवं, कायिकअसातभूतं दुक्खं, चेतसिकअसातभूतं दोमनस्सन्ति चत्तारो उपद्दवे हरति। विसुद्धिं, ञायं, निब्बानन्ति तयो विसेसे आवहती’’ति उस्साहजाता इमं देसनं उग्गहेतब्बं परियापुणितब्बं, धारेतब्बं, इमञ्‍च मग्गं भावेतब्बं मञ्‍ञिस्सन्ति। इति तेसं भिक्खूनं उस्साहजननत्थं वण्णं अभासि कम्बलवाणिजादयो कम्बलादीनं वण्णं विय।</p>

<p rend="bodytext"><hi rend="bold">यदिद</hi>न्ति निपातो, ये इमेति अयमस्स अत्थो। <hi rend="bold">चत्तारो</hi>ति गणनपरिच्छेदो। तेन ‘‘न ततो हेट्ठा, न उद्ध’’न्ति सतिपट्ठानपरिच्छेदं दीपेति। <hi rend="bold">सतिपट्ठाना</hi>ति तयो सतिपट्ठाना सतिगोचरोपि, तिधा पटिपन्‍नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि। ‘‘चतुन्‍नं, भिक्खवे, सतिपट्ठानानं समुदयञ्‍च अत्थङ्गमञ्‍च देसेस्सामि तं सुणाथ। को च, भिक्खवे, कायस्स समुदयो? आहरसमुदया कायसमुदयो’’तिआदीसु (सं॰ नि॰ ५.४०८) हि सतिगोचरो सतिपट्ठानन्ति वुत्तो। तथा ‘‘कायो उपट्ठानं, नो सति, सति उपट्ठानञ्‍चेव सति चा’’तिआदीसुपि (पटि॰ म॰ २.३५)। तस्स अत्थो – पतिट्ठाति अस्मिन्ति पट्ठानं। का पतिट्ठाति? सति। सतिया पट्ठानं <hi rend="bold">सतिपट्ठानं</hi>। पधानं ठानन्ति वा पट्ठानं। सतिया पट्ठानं सतिपट्ठानं हत्थिट्ठानअस्सट्ठानादीनि विय।</p>

<p rend="bodytext">‘‘तयो सतिपट्ठाना, यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’’ति (म॰ नि॰ ३.३११) एत्थ तिधा पटिपन्‍नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता सतिपट्ठानन्ति वुत्ता। तस्सत्थो – पट्ठपेतब्बतो <pb ed="P" n="3.0179"/> पट्ठानं, पवत्तयितब्बतोति अत्थो। केन पट्ठपेतब्बोति? सतिया। सतिया पट्ठानं सतिपट्ठानन्ति।</p>

<p rend="bodytext">‘‘चत्तारो <pb ed="V" n="3.0213"/> सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (म॰ नि॰ ३.१४७; सं॰ नि॰ ५.९८९) पन सतियेव सतिपट्ठानन्ति वुत्ता। तस्सत्थो – पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्‍कन्दित्वा पक्खन्दित्वा पवत्ततीति अत्थो। सतियेव <pb ed="M" n="3.0215"/> पट्ठानं सतिपट्ठानं। अथ वा सरणट्ठेन सति, उपट्ठानट्ठेन पट्ठानं, इति सति च सा पट्ठानञ्‍चातिपि सतिपट्ठानं। इदमिध अधिप्पेतं।</p>

<p rend="bodytext">यदि एवं कस्मा ‘‘सतिपट्ठाना’’ति बहुवचनं कतन्ति? सतीनं बहुत्ता। आरम्मणभेदेन हि बहुका सतियो। अथ ‘‘मग्गो’’ति कस्मा एकवचनन्ति? मग्गनट्ठेन एकत्ता। चतस्सोपि हि एता सतियो मग्गनट्ठेन एकत्तं गच्छन्ति। वुतञ्हेतं ‘‘मग्गोति केनट्ठेन मग्गो? निब्बानमग्गनट्ठेन, निब्बानत्थिकेहि मग्गनीयट्ठेन चा’’ति। चतस्सोपि चेता अपरभागे कायादीसु आरम्मणेसु किच्‍चं साधयमाना निब्बानं गच्छन्ति, आदितो पट्ठाय च निब्बानत्थिकेहि मग्गियन्तीति तस्मा चतस्सोपि एको मग्गोति वुत्ता। एवञ्‍च सति वचनानुसन्धिना सानुसन्धिकाव देसना होति।</p>

<p rend="bodytext"><hi rend="bold">कतमे चत्तारो</hi>ति कथेतुकम्यतापुच्छा। <hi rend="bold">काये</hi>ति रूपकाये। <hi rend="bold">कायानुपस्सी</hi>ति कायं अनुपस्सनसीलो, कायं वा अनुपस्समानो। अयञ्हि भिक्खु इमं कायं अनिच्‍चानुपस्सनादीनं सत्तन्‍नं अनुपस्सनानं वसेन अनिच्‍चतो अनुपस्सति, नो निच्‍चतो, दुक्खतो अनुपस्सति, नो सुखतो, अनत्ततो अनुपस्सति, नो अत्ततो, निब्बिन्दति, नो नन्दति, विरज्‍जति, नो रज्‍जति, निरोधेति, नो समुदेति, पटिनिस्सज्‍जति, नो आदियति। सो तं अनिच्‍चतो अनुपस्सन्तो निच्‍चसञ्‍ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्‍ञं पजहति <pb ed="P" n="3.0180"/>, अनत्ततो अनुपस्सन्तो अत्तसञ्‍ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्‍जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्‍जन्तो आदानं पजहतीति वेदितब्बो।</p>

<p rend="bodytext"><hi rend="bold">विहरती</hi>ति इरीयति। <hi rend="bold">आतापी</hi>ति तीसु भवेसु किलेसे आतपतीति आतापो, वीरियस्सेतं नामं। आतापो अस्स अत्थीति आतापी। <hi rend="bold">सम्पजानो</hi>ति सम्पजञ्‍ञसङ्खातेन ञाणेन समन्‍नागतो। <hi rend="bold">सतिमा</hi>ति कायपरिग्गाहिकाय सतिया समन्‍नागतो। अयं पन यस्मा सतिया आरम्मणं परिग्गहेत्वा पञ्‍ञाय अनुपस्सति। न हि सतिविरहितस्स अनुपस्सना नाम <pb ed="V" n="3.0214"/> अत्थि, तेनेवाह ‘‘सतिञ्‍च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं॰ नि॰ ५.२३४)। तस्मा एत्थ ‘‘काये कायानुपस्सी विहरती’’ति एत्तावता कायानुपस्सनासतिपट्ठानं वुत्तं होति। अथ वा यस्मा अनातापिनो <pb ed="M" n="3.0216"/> अन्तोसङ्खेपो अन्तरायकरो होति, असम्पजानो उपायपरिग्गहे अनुपायपरिवज्‍जने च सम्मुय्हति, मुट्ठस्सति उपायापरिच्‍चागे अनुपायापरिग्गहे च असमत्थो होति, तेनस्स तं कम्मट्ठानं न सम्पज्‍जति। तस्मा येसं धम्मानं आनुभावेन तं सम्पज्‍जति, तेसं दस्सनत्थं ‘‘आतापी सम्पजानो सतिमा’’ति इदं वुत्तन्ति वेदितब्बं।</p>

<p rend="bodytext">इति कायानुपस्सनासतिपट्ठानं सम्पयोगङ्गञ्‍जस्स दस्सेत्वा इदानि पहानङ्गं दस्सेतुं <hi rend="bold">विनेय्य लोके अभिज्झादोमनस्स</hi>न्ति वुत्तं। तत्थ <hi rend="bold">विनेय्या</hi>ति तदङ्गविनयेन वा विक्खम्भनविनयेन वा विनयित्वा। <hi rend="bold">लोके</hi>ति तस्मिंयेव काये। कायो हि इध लुज्‍जनपलुज्‍जनट्ठेन लोकोति अधिप्पेतो। यस्मा पनस्स न कायमत्तेयेव अभिज्झादोमनस्सं पहीयति, वेदनादीसुपि पहीयति एव। तस्मा ‘‘पञ्‍चपि उपादानक्खन्धा लोको’’ति विभङ्गे (विभ॰ ३६२) वुत्तं। लोकसङ्खातत्ता वा तेसं धम्मानं अत्थुद्धारनयेनेतं वुत्तं। यं पनाह ‘‘तत्थ कतमो लोको, स्वेव कायो लोको’’ति, अयमेवेत्थ अत्थो। तस्मिं लोके अभिज्झादोमनस्सं विनेय्याति एवं सम्बन्धो दट्ठब्बो।</p>

<p rend="bodytext"><hi rend="bold">वेदनासू</hi>ति एत्थ तिस्सो वेदना, ता च लोकिया एव, चित्तम्पि लोकियं, तथा धम्मा। यथा पन वेदना <pb ed="P" n="3.0181"/> अनुपस्सितब्बा, तथा अनुपस्सन्तो एस <hi rend="bold">वेदनानुपस्सी</hi>ति वेदितब्बो। एस नयो <hi rend="bold">चित्तधम्मेसु</hi>। कथञ्‍च वेदना अनुपस्सितब्बाति? सुखा ताव वेदना दुक्खतो, दुक्खा सल्‍लतो, अदुक्खमसुखा अनिच्‍चतो। यथाह –</p>

<p rend="gatha1">‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्‍लतो।</p>

<p rend="gatha2">अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्‍चतो।</p>

<p rend="gathalast">स वे सम्मद्दसो भिक्खु, उपसन्तो चरिस्सती’’ति॥</p>

<p rend="bodytext">सब्बा एव चेता दुक्खातिपि अनुपस्सितब्बा। वुत्तञ्हेतं ‘‘यंकिञ्‍चि वेदयितं, सब्बं तं दुक्खस्मिन्ति वदामी’’ति (सं॰ नि॰ ४.२५९)। सुखदुक्खतोपि च अनुपस्सितब्बा, यथाह <pb ed="V" n="3.0215"/> <pb ed="M" n="3.0217"/> – ‘‘सुखा खो, आवुसो विसाख, वेदना ठितिसुखा विपरिणामदुक्खा’’ति (म॰ नि॰ १.४६५) सब्बं वित्थारेतब्बं। अपिच अनिच्‍चादिसत्तअनुपस्सनावसेनपि अनुपस्सितब्बा।</p>

<p rend="bodytext">चित्तधम्मेसुपि चित्तं ताव आरम्मणाधिपतिसहजातभूमिकम्मविपाककिरियादिनानत्तभेदानं अनिच्‍चादिअनुपस्सनानं सरागादीनञ्‍च भेदानं वसेन अनुपस्सितब्बं। धम्मा सलक्खणसामञ्‍ञलक्खणानं सुञ्‍ञतधम्मस्स अनिच्‍चादिसत्तअनुपस्सनानं ‘‘सन्तं वा अज्झत्तं कामच्छन्द’’न्तिआदीनञ्‍च पभेदानं वसेन अनुपस्सितब्बा। सेसं वुत्तनयमेव। अयमेत्थ सङ्खेपो, वित्थारो पन दीघमज्झिमट्ठकथासु (दी॰ नि॰ अट्ठ॰ २.३७३ आदयो; म॰ नि॰ अट्ठ॰ १.१०५ आदयो) सतिपट्ठानवण्णनायं वुत्तनयेनेव वेदितब्बो।</p>

<p rend="subhead">२. सतिसुत्तवण्णना</p>

<p rend="bodytext" n="368"><hi rend="paranum">३६८</hi><hi rend="dot">.</hi> दुतिये <hi rend="bold">सतो</hi>ति कायादिअनुपस्सनासतिया समन्‍नागतो। <hi rend="bold">सम्पजानो</hi>ति चतुसम्पजञ्‍ञपञ्‍ञाय समन्‍नागतो। <hi rend="bold">अभिक्‍कन्ते पटिक्‍कन्ते</hi>ति एत्थ अभिक्‍कन्तं वुच्‍चति गमनं, पटिक्‍कन्तं निवत्तनं, तदुभयम्पि चतूसु इरियापथेसु लब्भति। गमने ताव पुरतो कायं अभिहरन्तो अभिक्‍कमति <pb ed="P" n="3.0182"/> नाम, पटिनिवत्तन्तो पटिक्‍कमति नाम। ठानेपि ठितकोव कायं पुरतो ओनमन्तो अभिक्‍कमति नाम, पच्छतो अपनामेन्तो पटिक्‍कमति नाम। निसज्‍जायपि निसिन्‍नकोव आसनस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्‍कमति नाम, पच्छिमअङ्गप्पदेसं पच्‍चासंसरन्तो पटिक्‍कमति नाम। निपज्‍जनेपि एसेव नयो।</p>

<p rend="bodytext"><hi rend="bold">सम्पजानकारी होती</hi>ति सम्पजञ्‍ञेन सब्बकिच्‍चकारी, सम्पजञ्‍ञस्सेव वा कारी। सो हि अभिक्‍कन्तादीसु सम्पजञ्‍ञं करोतेव, न कत्थचि सम्पजञ्‍ञविरहितो होति।</p>

<p rend="bodytext">तत्थ सात्थकसम्पजञ्‍ञं, सप्पायसम्पजञ्‍ञं, गोचरसम्पजञ्‍ञं, असम्मोहसम्पजञ्‍ञन्ति चतुब्बिधं सम्पजञ्‍ञं। तत्थ अभिक्‍कमनचित्ते उप्पन्‍ने चित्तवसेनेव अगन्त्वा ‘‘किं नु मे एत्थ गतेन अत्थो अत्थि, नत्थी’’ति अत्थानत्थं परिग्गण्हित्वा अत्थपरिग्गण्हनं <hi rend="bold">सात्थकसम्पजञ्‍ञं</hi>। तत्थ च अत्थोति चेतियदस्सनबोधिदस्सनसङ्घदस्सनथेरदस्सनअसुभदस्सनादिवसेन धम्मतो वड्ढि <pb ed="M" n="3.0218"/>। चेतियं <pb ed="V" n="3.0216"/> दिस्वापि हि बुद्धारम्मणं, सङ्घदस्सनेन सङ्घारम्मणं पीतिं उप्पादेत्वा तदेव खयतो सम्मसन्तो अरहत्तं पापुणाति। महाविहारस्मिञ्हि दक्खिणद्वारे ठत्वा महाचेतियं ओलोकेन्ता तिंससहस्सभिक्खू अरहत्तं पापुणिंसु, तथा पच्छिमद्वारे उत्तरद्वारे पाचीनद्वारे च, तथा पञ्हमण्डपट्ठाने अभयवापिपाळियं, थूपारामद्वारे नगरस्स दक्खिणद्वारे अनुराधवापिपाळियं।</p>

<p rend="bodytext">महाअरियवंसभाणकत्थेरो पनाह ‘‘किं तुम्हे वदथ, महाचेतियस्स समन्ता कुच्छिवेदिकाय हेट्ठिमभागतो पट्ठाय पञ्‍ञायनट्ठाने यत्थ यत्थ द्वे पादा सक्‍का होन्ति समं पतिट्ठापेतुं, तत्थ तत्थ एकपदुद्धारे तिंसतिंस भिक्खुसहस्सानि अरहत्तं पापुणिंसूति सक्‍का वतु’’न्ति <pb ed="P" n="3.0183"/>। अपरो पन महाथेरो आह – ‘‘महाचेतियतले आकिण्णवालिकाय बहुतरा भिक्खू अरहत्तं पत्ता’’ति। थेरे दिस्वा तेसं ओवादे पतिट्ठाय असुभं दिस्वा तत्थ पठमं झानं उप्पादेत्वा तदेव खयतो सम्मसन्तो अरहत्तं पापुणाति। तस्मा एतेसं दस्सनं सात्थं। केचि पन – ‘‘आमिसतोपि वड्ढि अत्थोयेव, तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्‍नत्ता’’ति वदन्ति।</p>

<p rend="bodytext">तस्मिं पन गमने सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गण्हनं <hi rend="bold">सप्पायसम्पजञ्‍ञं</hi>। सेय्यथिदं? चेतियदस्सनं ताव सात्थं। सचे पन चेतियस्स महापूजाय दसद्वादसयोजनन्तरे परिसा सन्‍निपतन्ति, अत्तनो विभवानुरूपा इत्थियोपि पुरिसापि अलङ्कतपटियत्ता चित्तकम्मरूपकानि विय सञ्‍चरन्ति। तत्र चस्स इट्ठे आरम्मणे लोभो, अनिट्ठे पटिघो, असमपेक्खने मोहो उप्पज्‍जति, कायसंसग्गे कायसंसग्गापत्तिं आपज्‍जति, जीवितब्रह्मचरियानं वा अन्तरायो च होति। एवं तं ठानं असप्पायं होति, वुत्तप्पकारअन्तरायाभावे सप्पायं। सङ्घदस्सनम्पि सात्थं। सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं कारेन्तेसु मनुस्सेसु वुत्तप्पकारेनेव जनसन्‍निपातो चेव अन्तरायो च होति, एवं तं ठानं असप्पायं, अन्तरायाभावे सप्पायं। महापरिवारानं थेरानं दस्सनेपि एसेव नयो।</p>

<p rend="bodytext">असुभदस्सनम्पि <pb ed="M" n="3.0219"/> सात्थं। तदत्थदीपनत्थञ्‍च इदं वत्थु – एको किर दहरभिक्खु सामणेरं गहेत्वा दन्तकट्ठत्थाय गतो। सामणेरो मग्गा ओक्‍कमित्वा पुरतो गच्छन्तो असुभं दिस्वा पठमज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसन्तो तीणि फलानि सच्छिकत्वा उपरिमग्गत्थाय कम्मट्ठानं परिग्गहेत्वा अट्ठासि। दहरो तं अपस्सन्तो ‘‘सामणेरा’’ति पक्‍कोसि <pb ed="V" n="3.0217"/>। सो – ‘‘मया पब्बजितदिवसतो पट्ठाय भिक्खुना सद्धिं द्वे कथा नाम न कथितपुब्बा, अञ्‍ञस्मिम्पि दिवसे उपरिविसेसं निब्बत्तेस्सामी’’ति चिन्तेत्वा ‘‘किं, भन्ते,’’ति पटिवचनं अदासि। ‘‘एही’’ति वुत्ते एकवचनेनेव आगन्त्वा – ‘‘भन्ते, इमिना ताव मग्गेन गन्त्वा मया ठितोकासे मुहुत्तं पुरत्थाभिमुखा हुत्वा ओलोकेथा’’ति आह। सो तथा कत्वा तेन पत्तविसेसमेव पापुणि। एवं एकं असुभं <pb ed="P" n="3.0184"/> द्विन्‍नं जनानं अत्थाय जातं। एवं सात्थम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं, मातुगामस्स च पुरिसासुभं, सभागमेव सप्पायन्ति एवं सप्पायपरिग्गण्हनं सप्पायसम्पजञ्‍ञं।</p>

<p rend="bodytext">एवं परिग्गहितसात्थसप्पायस्स पन अट्ठतिंसकम्मट्ठानेसु अत्तनो चित्तरुचिकं कम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वाव गमनं <hi rend="bold">गोचरसम्पजञ्‍ञं</hi> नाम।</p>

<p rend="bodytext">तस्साविभावत्थं इदं चतुक्‍कं वेदितब्बं – इधेकच्‍चो भिक्खु हरति न पच्‍चाहरति, एकच्‍चो पच्‍चाहरति न हरति, एकच्‍चो पन नेव हरति न पच्‍चाहरति, एकच्‍चो हरति च पच्‍चाहरति च।</p>

<p rend="bodytext">तत्थ यो भिक्खु दिवसं चङ्कमेन निसज्‍जाय च आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा तथा रत्तिया पठमं यामं मज्झिमयामे सेय्यं कप्पेत्वा, पच्छिमयामेपि निसज्‍जाचङ्कमेहि वीतिनामेत्वा, पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं आसिञ्‍चित्वा पानीयं परिभोजनीयं पच्‍चुपट्ठपेत्वा आचरियुपज्झायवत्तादीनि समादाय वत्तति। सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा द्वे तयो पल्‍लङ्के उसुमं गाहापेन्तो कम्मट्ठानमनुयुञ्‍जित्वा भिक्खाचारवेलाय उट्ठहित्वा कम्मट्ठानसीसेनेव पत्तचीवरमादाय सेनासनतो निक्खमित्वा कम्मट्ठानं मनसिकरोन्तोव चेतियङ्गणं गन्त्वा सचे बुद्धानुस्सतिकम्मट्ठानं होति, तं अविस्सज्‍जेत्वाव चेतियङ्गणं पविसति। अञ्‍ञं चे कम्मट्ठानं होति, सोपानपादमूले ठत्वा हत्थेन गहितभण्डं विय तं ठपेत्वा बुद्धारम्मणं <pb ed="M" n="3.0220"/> पीतिं गहेत्वा चेतियङ्गणं आरुय्ह महन्तं चेतियं चे, तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दितब्बं, खुद्दकं चे, तथेव पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दितब्बं। चेतियं वन्दित्वा बोधियङ्गणं पत्तेनापि बुद्धस्स भगवतो सम्मुखा विय निपच्‍चकारं दस्सेत्वा <pb ed="P" n="3.0185"/> बोधि वन्दितब्बा। सो एवं चेतियञ्‍च बोधिञ्‍च वन्दित्वा पटिसामितट्ठानं गन्त्वा पटिसामितभण्डकं हत्थेन गण्हन्तो विय निक्खित्तकम्मट्ठानं <pb ed="V" n="3.0218"/> गहेत्वा गामसमीपे कम्मट्ठानसीसेनेव चीवरं पारुपित्वा गामं पिण्डाय पविसति।</p>

<p rend="bodytext">अथ नं मनुस्सा दिस्वा ‘‘अय्यो नो आगतो’’ति पच्‍चुग्गन्त्वा पत्तं गहेत्वा आसनसालाय वा गेहे वा निसीदापेत्वा यागुं दत्वा याव भत्तं न निट्ठाति, ताव पादे धोवित्वा मक्खेत्वा पुरतो निसीदित्वा पञ्हं वा पुच्छन्ति, धम्मं वा सोतुकामा होन्ति। सचेपि न कथापेन्ति, जनसङ्गहणत्थं धम्मकथा नाम कातब्बायेवाति अट्ठकथाचरिया वदन्ति। धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा कम्मट्ठानसीसेनेव धम्मं कथेत्वा कम्मट्ठानसीसेनेव आहारं परिभुञ्‍जित्वा अनुमोदनं कत्वा निवत्तियमानेहिपि मनुस्सेहि अनुगतोव गामतो निक्खमित्वा तत्थ ते निवत्तेत्वा मग्गं पटिपज्‍जति।</p>

<p rend="bodytext">अथ नं पुरेतरं निक्खमित्वा बहिगामे कतभत्तकिच्‍चा सामणेरदहरभिक्खू दिस्वा पच्‍चुग्गन्त्वा पत्तचीवरमस्स गण्हन्ति। पोराणकभिक्खू किर न ‘‘अम्हाकं उपज्झायो आचरियो’’ति मुखं ओलोकेत्वा वत्तं करोन्ति, सम्पत्तपरिच्छेदेनेव करोन्ति। ते तं पुच्छन्ति – ‘‘भन्ते, एते मनुस्सा तुम्हाकं किं होन्ति, मातिपक्खतो सम्बन्धा पितिपक्खतो’’ति? किं दिस्वा पुच्छथाति? तुम्हेसु एतेसं पेमं बहुमानन्ति। ‘‘आवुसो, यं मातापितूहिपि दुक्‍करतरं, तं एते अम्हाकं करोन्ति, पत्तचीवरम्पि नो एतेसं सन्तकमेव, एतेसं आनुभावेन नेव भये भयं, न छातके छातकं जानाम, एदिसा नाम अम्हाकं उपकारिनो नत्थी’’ति तेसं गुणे कथयन्तो गच्छति। अयं वुच्‍चति <hi rend="bold">हरति न पच्‍चाहरती</hi>ति।</p>

<p rend="bodytext">यस्स पन पगेव वुत्तप्पकारं वत्तपटिपत्तिं करोन्तस्स कम्मजतेजो पज्‍जलति, अनुपादिण्णकं मुञ्‍चित्वा उपादिण्णकं गण्हाति, सरीरतो सेदा मुच्‍चन्ति, कम्मट्ठानवीथिं नारोहति, सो पगेव पत्तचीवरमादाय वेगसाव चेतियं <pb ed="M" n="3.0221"/> वन्दित्वा गोरूपानं निक्खमनवेलायमेव गामं यागुभिक्खाय पविसित्वा यागुं लभित्वा आसनसालं गन्त्वा पिवति। अथस्स द्वित्तिक्खत्तुं अज्झोहरणमत्तेनेव <pb ed="P" n="3.0186"/> कम्मजतेजो उपादिण्णकं मुञ्‍चित्वा अनुपादिण्णकं गण्हाति, घटसतेन न्हातो विय तेजोधातुपरिळाहनिब्बानं पत्वा कम्मट्ठानसीसेन यागुं परिभुञ्‍जित्वा पत्तञ्‍च मुखञ्‍च धोवित्वा अन्तराभत्ते कम्मट्ठानं मनसिकत्वा अवसेसट्ठाने पिण्डाय चरित्वा कम्मट्ठानसीसेन आहारं परिभुञ्‍जित्वा ततो पट्ठाय पोङ्खानुपोङ्खं उपट्ठहमानं कम्मट्ठानं <pb ed="V" n="3.0219"/> गहेत्वाव आगच्छति। अयं वुच्‍चति <hi rend="bold">पच्‍चाहरति न हरती</hi>ति। एदिसा च भिक्खू यागुं पिवित्वा विपस्सनं आरभित्वा बुद्धसासने अरहत्तं पत्ता नाम गणनपथं वीतिवत्ता। सीहळदीपेयेव तेसु तेसु गामेसु आसनसालायं न तं आसनमत्थि, यत्थ यागुं पिवित्वा अरहत्तं पत्ता भिक्खू नत्थीति।</p>

<p rend="bodytext">यो पन पमादविहारी होति निक्खित्तधुरो, सब्बवत्तानि भिन्दित्वा पञ्‍चविधचेतोविनिबन्धबद्धचित्तो विहरन्तो ‘‘कम्मट्ठानं नाम अत्थी’’तिपि सञ्‍ञं अकत्वा गामं पिण्डाय पविसित्वा अननुलोमिकेन गिहिसंसग्गेन संसट्ठो चरित्वा च भुञ्‍जित्वा च तुच्छो निक्खमति। अयं वुच्‍चति <hi rend="bold">नेव हरति न पच्‍चाहरती</hi>ति।</p>

<p rend="bodytext">यो पनायं <hi rend="bold">हरति च पच्‍चाहरति चा</hi>ति वुत्तो, सो गतपच्‍चागतिकवत्तवसेन वेदितब्बो। अत्तकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्‍ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति ‘‘आवुसो, तुम्हे न इणट्टा, न भयट्टा, न जीविकापकता पब्बजिता, दुक्खा मुच्‍चितुकामा पनेत्थ पब्बजिता, तस्मा गमने उप्पन्‍नकिलेसं गमनेयेव निग्गण्हथ, ठाने, निसज्‍जाय, सयने उप्पन्‍नकिलेसं सयनेयेव निग्गण्हथा’’ति। ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्ढउसभउसभअड्ढगावुतगावुतन्तरेसु पासाणा होन्ति, ताय सञ्‍ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति। सचे कस्सचि गमने किलेसो उप्पज्‍जति, तत्थेव नं निग्गण्हाति। तथा असक्‍कोन्तो तिट्ठति। अथस्स पच्छतो आगच्छन्तोपि तिट्ठति, सो ‘‘अयं भिक्खु तुय्हं उप्पन्‍नवितक्‍कं जानाति, अननुच्छविकं ते एत’’न्ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा तत्थेव अरियभूमिं <pb ed="P" n="3.0187"/> ओक्‍कमति, तथा <pb ed="M" n="3.0222"/> असक्‍कोन्तो निसीदतीति सो एव नयो। अरियभूमिं ओक्‍कमितुं असक्‍कोन्तोपि, तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति, न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति। उद्धरति चे, पटिनिवत्तित्वा पुरिमपदेसंयेव एति आलिन्दकवासी <hi rend="bold">महाफुस्सदेवत्थेरो</hi> विय।</p>

<p rend="bodytext">सो किर एकूनवीसति वस्सानि गतपच्‍चागतिकवत्तं पूरेन्तो एव विहासि। मनुस्सापि सुदं अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि च करोन्ता थेरं तथा गच्छन्तं दिस्वा – ‘‘अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति, किं नु खो मग्गमूळ्हो, उदाहु किञ्‍चि पमुट्ठो’’ति <pb ed="V" n="3.0220"/> समुल्‍लपन्ति। सो तं अनादियित्वा कम्मट्ठानयुत्तचित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि। अरहत्तप्पत्तदिवसे चस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्‍जालेत्वा अट्ठासि। चत्तारोपि महाराजानो सक्‍को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं आगमंसु। तञ्‍च ओभासं दिस्वा वनवासीमहातिस्सत्थेरो तं दुतियदिवसे पुच्छि – ‘‘रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो ओभासो’’ति? थेरो विक्खेपं करोन्तो ‘‘ओभासो नाम दीपोभासोपि होति, मणिओभासोपी’’ति एवमादिमाह। ततो ‘‘पटिच्छादेथ तुम्हे’’ति निबद्धो आमाति पटिजानित्वा आरोचेसि।</p>

<p rend="bodytext"><hi rend="bold">काळवल्‍लिमण्डपवासीमहानागत्थेरो</hi> विय च। सोपि किर गतपच्‍चागतिकवत्तं पूरेन्तो पठमं ताव ‘‘भगवतो महापधानं पूजेस्सामी’’ति सत्त वस्सानि ठानचङ्कममेव अधिट्ठासि। पुन सोळस वस्सानि गतपच्‍चागतिकवत्तं पूरेत्वा अरहत्तं पापुणि। सो कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो विप्पयुत्तेन उद्धटे पटिनिवत्तन्तो गामसमीपं गन्त्वा ‘‘गावी नु पब्बजितो नू’’ति आसङ्कनीयपदेसे ठत्वा चीवरं पारुपित्वा कच्छकरकतो उदकेन पत्तं धोवित्वा <pb ed="P" n="3.0188"/> उदकगण्डूसं करोति। किं कारणा? ‘‘मा मे भिक्खं दातुं वा वन्दितुं वा आगते मनुस्से ‘दीघायुका होथा’ति वचनमत्तेनापि कम्मट्ठानविक्खेपो अहोसी’’ति ‘‘अज्‍ज, भन्ते, कतिमी’’ति दिवसं वा भिक्खुगणनं वा पञ्हं वा पुच्छितो <pb ed="M" n="3.0223"/> पन उदकं गिलित्वा आरोचेति। सचे दिवसादिपुच्छका न होन्ति, निक्खमनवेलायं गामद्वारे निट्ठुभित्वा याति।</p>

<p rend="bodytext"><hi rend="bold">कलम्बतित्थविहारे वस्सूपगता पञ्‍ञास भिक्खू</hi> विय च। ते किर आसाळ्हिपुण्णमियं कतिकवत्तं अकंसु – ‘‘अरहत्तं अपत्वा अञ्‍ञमञ्‍ञं नालपिस्सामा’’ति। गामञ्‍च पिण्डाय पविसन्ता उदकगण्डूसं कत्वा पविसिंसु। दिवसादीसु पुच्छितेसु वुत्तनयेनेव पटिपज्‍जिंसु। तत्थ मनुस्सा निट्ठुभनं दिस्वा जानिंसु – ‘‘अज्‍जेको आगतो, अज्‍ज द्वे’’ति। एवञ्‍च चिन्तेसुं – ‘‘किं नु खो एते अम्हेहेव सद्धिं न सल्‍लपन्ति, उदाहु अञ्‍ञमञ्‍ञम्पि। यदि अञ्‍ञमञ्‍ञं न सल्‍लपन्ति, अद्धा विवादजाता भविस्सन्ति। एथ ने अञ्‍ञमञ्‍ञं खमापेस्सामा’’ति सब्बे विहारं गन्त्वा पञ्‍ञासाय भिक्खूसु द्वेपि भिक्खू एकोकासे नाद्दसंसु। ततो यो तेसु चक्खुमा पुरिसो, सो आह – ‘‘न भो कलहकारकानं ओकासो ईदिसो होति, सुसम्मट्ठं चेतियङ्गणं बोधियङ्गणं, सुनिक्खित्ता सम्मज्‍जनियो, सुपट्ठितं पानीयं परिभोजनीय’’न्ति <pb ed="V" n="3.0221"/>। ते ततोव निवत्ता। तेपि भिक्खू अन्तोतेमासेयेव अरहत्तं पत्वा महापवारणायं विसुद्धिपवारणं पवारेसुं।</p>

<p rend="bodytext">एवं काळवल्‍लिमण्डपवासी महानागत्थेरो विय, कलम्बतित्थविहारे वस्सूपगता भिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं गन्त्वा उदकगण्डूसं कत्वा वीथियो सल्‍लक्खेत्वा यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थिअस्सादयो वा नत्थि, तं वीथिं पटिपज्‍जति। तत्थ च पिण्डाय चरमानो न तुरिततुरितो विय जवेन गच्छति। न हि जवेन पिण्डपातिकधुतङ्गं नाम किञ्‍चि अत्थि। विसमभूमिभागपत्तं पन उदकसकटं विय निच्‍चलो हुत्वा गच्छति। अनुघरं पविट्ठो च दातुकामं वा अदातुकामं वा सल्‍लक्खेतुं तदनुरूपं कालं आगमेन्तो भिक्खं गहेत्वा <pb ed="P" n="3.0189"/> अन्तोगामे वा बहिगामे वा विहारमेव वा आगन्त्वा यथाफासुके पतिरूपे ओकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तो आहारे पटिकूलसञ्‍ञं उपट्ठपेत्वा अक्खब्भञ्‍जनवणलेपनपुत्तमंसूपमावसेन पच्‍चवेक्खन्तो अट्ठङ्गसमन्‍नागतं आहारं आहारेति, नेव दवाय न मदाय न मण्डनाय न विभूसनाय…पे॰… भुत्तावी च उदककिच्‍चं कत्वा मुहुत्तं भत्तकिलमथं पटिपस्सम्भेत्वा यथा पुरेभत्तं <pb ed="M" n="3.0224"/>, एवं पच्छाभत्तं पुरिमयामं पच्छिमयामञ्‍च कम्मट्ठानमेव मनसिकरोति। अयं वुच्‍चति <hi rend="bold">हरति च पच्‍चाहरति चा</hi>ति।</p>

<p rend="bodytext">इमं पन हरणपच्‍चाहरणसङ्खातं गतपच्‍चागतिकवत्तं पूरेन्तो यदि उपनिस्सयसम्पन्‍नो होति, पठमवये एव अरहत्तं पापुणाति। नो चे पठमवये पापुणाति, अथ मज्झिमवये पापुणाति। नो चे मज्झिमवये पापुणाति, अथ पच्छिमवये पापुणाति, नो चे पच्छिमवये पापुणाति, अथ मरणसमये। नो चे मरणसमये पापुणाति, अथ देवपुत्तो हुत्वा। नो चे देवपुत्तो हुत्वा पापुणाति, अनुप्पन्‍ने बुद्धे निब्बत्तो पच्‍चेकबोधिं सच्छिकरोति। नो चे पच्‍चेकबोधिं सच्छिकरोति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्‍ञो वा होति, सेय्यथापि थेरो बाहियो दारुचीरियो महापञ्‍ञो वा, सेय्यथापि थेरो सारिपुत्तो, महिद्धिको वा, सेय्यथापि थेरो महामोग्गल्‍लानो, धुतवादो वा, सेय्यथापि थेरो महाकस्सपो, दिब्बचक्खुको वा, सेय्यथापि थेरो अनुरुद्धो, विनयधरो वा, सेय्यथापि थेरो उपालि, धम्मकथिको वा, सेय्यथापि थेरो पुण्णो मन्ताणिपुत्तो, आरञ्‍ञिको वा, सेय्यथापि थेरो रेवतो, बहुस्सुतो वा, सेय्यथापि थेरो <pb ed="V" n="3.0222"/> आनन्दो, सिक्खाकामो वा, सेय्यथापि थेरो राहुलो बुद्धपुत्तोति। इति इमस्मिं चतुक्‍के य्वायं हरति पच्‍चाहरति च, तस्स गोचरसम्पजञ्‍ञं सिखापत्तं होति।</p>

<p rend="bodytext">अभिक्‍कमादीसु पन असम्मुय्हनं <hi rend="bold">असम्मोहसम्पजञ्‍ञं</hi>। तं एवं वेदितब्बं – इध भिक्खु अभिक्‍कमन्तो वा पटिक्‍कमन्तो वा यथा अन्धपुथुज्‍जना अभिक्‍कमादीसु – ‘‘अत्ता अभिक्‍कमति, अत्तना अभिक्‍कमो निब्बत्तितो’’ति वा ‘‘अहं अभिक्‍कमामि, मया अभिक्‍कमो निब्बत्तितो’’ति वा सम्मुय्हन्ति, तथा असम्मुय्हन्तो अभिक्‍कमामीति चित्ते उप्पज्‍जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु <pb ed="P" n="3.0190"/> विञ्‍ञत्तिं जनयमाना उप्पज्‍जति, इति चित्तकिरियवायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिसङ्घाटो अभिक्‍कमति। तस्सेवं अभिक्‍कमतो एकेकपादुद्धरणे पथवीधातु आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो, तथा अतिहरणवीतिहरणेसु, वोस्सज्‍जने तेजोधातु वायोधातूति द्वे धातुयो ओमत्ता होन्ति <pb ed="M" n="3.0225"/> मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो, तथा सन्‍निक्खेपनसन्‍निरुम्भनेसु।</p>

<p rend="bodytext">तत्थ उद्धरणे पवत्ता रूपारूपधम्मा अतिहरणं न पापुणन्ति, तथा अतिहरणे पवत्ता वीतिहरणं, वीतिहरणे पवत्ता वोस्सज्‍जनं, वोस्सज्‍जने पवत्ता सन्‍निक्खेपनं, सन्‍निक्खेपने पवत्ता सन्‍निरुम्भनं न पापुणन्ति, तत्थ तत्थेव पब्बपब्बं सन्धिसन्धि ओधिओधि हुत्वा तत्तकपाले पक्खित्ततिलानि विय तटतटायन्ता भिज्‍जन्ति। तत्थ को एको अभिक्‍कमति, कस्स वा एकस्स अभिक्‍कमनं? परमत्थतो हि धातूनंयेव गमनं, धातूनं ठानं, धातूनं निसज्‍जा, धातूनं सयनं। तस्मिं तस्मिञ्हि कोट्ठासे सद्धिं रूपेन –</p>

<p rend="gatha1">‘‘अञ्‍ञं उप्पज्‍जते चित्तं, अञ्‍ञं चित्तं निरुज्झति।</p>

<p rend="gathalast">अवीचिमनुसम्बन्धो, नदीसोतोव वत्तती’’ति॥ –</p>

<p rend="unindented">एवं अभिक्‍कमादीसु असम्मुय्हनं असम्मोहसम्पजञ्‍ञं नामाति।</p>

<p rend="bodytext">निट्ठितो ‘‘अभिक्‍कन्ते पटिक्‍कन्ते सम्पजानकारी होती’’तिपदस्स अत्थो।</p>

<p rend="bodytext"><hi rend="bold">आलोकिते</hi> <pb ed="V" n="3.0223"/> <hi rend="bold">विलोकिते</hi>ति एत्थ पन आलोकितं नाम पुरतो पेक्खनं, विलोकितं नाम अनुदिसापेक्खनं। अञ्‍ञानिपि हेट्ठा उपरि पच्छतो अनुपेक्खनवसेन ओलोकितउल्‍लोकितापलोकितानि नाम होन्ति। तानि इध न गहितानि, सारुप्पवसेन पन इमानेव द्वे गहितानि। इमिना वा मुखेन सब्बानिपि तानि गहितानेवाति।</p>

<p rend="bodytext">तत्थ ‘‘आलोकेस्सामी’’ति चित्ते उप्पन्‍ने चित्तवसेनेव अनोलोकेत्वा अत्थपरिग्गण्हनं सात्थकसम्पजञ्‍ञं। तं आयस्मन्तं नन्दं कायसक्खिं कत्वा वेदितब्बं। वुत्तञ्हेतं भगवता –</p>

<p rend="indent">‘‘सचे, भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्‍नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति ‘एवं <pb ed="P" n="3.0191"/> मे पुरत्थिमं दिसं आलोकयतो नाभिज्झादोमनस्सा <pb ed="M" n="3.0226"/> पापका अकुसला धम्मा अन्वासविस्सन्ती’ति। इतिह तत्थ सम्पजानो होति। सचे, भिक्खवे, नन्दस्स पच्छिमा दिसा, उत्तरा दिसा, दक्खिणा दिसा, उद्धं, अधो, अनुदिसा आलोकेतब्बा होति, सब्बं चेतसा समन्‍नाहरित्वा नन्दो अनुदिसं आलोकेति ‘एवं मे अनुदिसं आलोकयतो’…पे॰… सम्पजानो होती’’ति (अ॰ नि॰ ८.९)।</p>

<p rend="bodytext">अपिच इधापि पुब्बे वुत्तचेतियदस्सनादिवसेनेव सात्थकता च सप्पायता च वेदितब्बा। कम्मट्ठानस्स पन अविजहनमेव गोचरसम्पजञ्‍ञं, तस्मा खन्धधातुआयतनकम्मट्ठानिकेहि अत्तनो कमट्ठानवसेनेव कसिणादिकम्मट्ठानिकेहि वा पन कम्मट्ठानसीसेनेव आलोकनविलोकनं कातब्बं।</p>

<p rend="bodytext">‘‘अब्भन्तरे अत्ता नाम आलोकेता वा विलोकेता वा नत्थि, ‘आलोकेस्सामी’ति पन चित्ते उप्पज्‍जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्‍ञत्तिं जनयमाना उप्पज्‍जति। इति चित्तकिरियवायोधातुविप्फारवसेन हेट्ठिमं अक्खिदलं अधो सीदति, उपरिमं उद्धं लङ्घेति, कोचि यन्तकेन विवरन्तो नाम नत्थि, ततो चक्खुविञ्‍ञाणं दस्सनकिच्‍चं साधेन्तं उप्पज्‍जती’’ति एवं पजाननं पनेत्थ असम्मोहसम्पजञ्‍ञं नाम।</p>

<p rend="bodytext">अपिच <pb ed="V" n="3.0224"/> मूलपरिञ्‍ञाआगन्तुकतावकालिकभाववसेनपेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं। मूलपरिञ्‍ञावसेन ताव –</p>

<p rend="gatha1">‘‘भवङ्गावज्‍जनञ्‍चेव, दस्सनं सम्पटिच्छनं।</p>

<p rend="gathalast">सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं’’॥</p>

<p rend="bodytext">तत्थ भवङ्गं उपपत्तिभवस्स अङ्गकिच्‍चं साधयमानं पवत्तति, तं आवट्टेत्वा किरियमनोधातु आवज्‍जनकिच्‍चं साधयमाना, तन्‍निरोधा चक्खुविञ्‍ञाणं दस्सनकिच्‍चं साधयमानं, तन्‍निरोधा विपाकमनोधातु सम्पटिच्छनकिच्‍चं साधयमाना, तन्‍निरोधा विपाकमनोविञ्‍ञाणधातु सन्तीरणकिच्‍चं साधयमाना, तन्‍निरोधा किरियमनोविञ्‍ञाणधातु वोट्ठब्बनकिच्‍चं साधयमाना, तन्‍निरोधा सत्तक्खत्तुं जवनं जवति। तत्थ पठमजवनेपि ‘‘अयं <pb ed="M" n="3.0227"/> इत्थी, अयं पुरिसो’’ति रज्‍जनदुस्सनमुय्हनवसेन <pb ed="P" n="3.0192"/> आलोकितविलोकितं न होति, दुतियजवनेपि…पे॰… सत्तमजवनेपि। एतेसु पन युद्धमण्डले योधेसु विय हेट्ठुपरियवसेन भिज्‍जित्वा पतितेसु ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्‍जनादिवसेन आलोकितविलोकितं होति। एवं तावेत्थ <hi rend="bold">मूलपरिञ्‍ञावसेन</hi> असम्मोहसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">चक्खुद्वारे पन रूपे आपाथमागते भवङ्गचलनतो उद्धं सककिच्‍चनिप्फादनवसेन आवज्‍जनादीसु उप्पज्‍जित्वा निरुद्धेसु अवसाने जवनं उप्पज्‍जति, तं पुब्बे उप्पन्‍नानं आवज्‍जनादीनं गेहभूते चक्खुद्वारे आगन्तुकपुरिसो विय होति। तस्स यथा परगेहे किञ्‍चि याचितुं पविट्ठस्स आगन्तुकपुरिसस्स गेहसामिकेसु तुण्हीमासिनेसु आणाकरणं न युत्तं, एवं आवज्‍जनादीनं गेहभूते चक्खुद्वारे आवज्‍जनादीसुपि अरज्‍जन्तेसु अदुस्सन्तेसु अमुय्हन्तेसु च रज्‍जनदुस्सनमुय्हनं अयुत्तन्ति एवं <hi rend="bold">आगन्तुकभाववसेन</hi> असम्मोहसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">यानि पनेतानि चक्खुद्वारे वोट्ठब्बनपरियोसानानि चित्तानि उप्पज्‍जन्ति, तानि सद्धिं सम्पयुत्तधम्मेहि तत्थ तत्थेव भिज्‍जन्ति, अञ्‍ञमञ्‍ञं न पस्सन्ति, इत्तरानि तावकालिकानि होन्ति। तत्थ यथा एकस्मिं घरे सब्बेसु मानुसकेसु मतेसु अवसेसस्स एकस्स तङ्खणंयेव मरणधम्मस्स न युत्ता नच्‍चगीतादीसु अभिरति नाम, एवमेव एकद्वारे ससम्पयुत्तेसु आवज्‍जनादीसु तत्थ तत्थेव मतेसु अवसेसस्स तङ्खणंयेव मरणधम्मस्स जवनस्सापि रज्‍जनदुस्सनमुय्हनवसेन <pb ed="V" n="3.0225"/> अभिरति नाम न युत्ताति एवं <hi rend="bold">तावकालिकभाववसेन</hi> असम्मोहसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">अपिच खन्धायतनधातुपच्‍चयपच्‍चवेक्खणवसेनपेतं वेदितब्बं। एत्थ हि चक्खु चेव रूपा च रूपक्खन्धो, दस्सनं विञ्‍ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्‍ञा सञ्‍ञाक्खन्धो, फस्सादिका सङ्खारा सङ्खारक्खन्धो, एवमेतेसं पञ्‍चन्‍नं खन्धानं समवाये आलोकनविलोकनं पञ्‍ञायति। तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु चक्खायतनं, रूपं रूपायतनं, दस्सनं मनायतनं, वेदनादयो सम्पयुत्तधम्मा धम्मायतनं, एवमेतेसं चतुन्‍नं आयतनानं <pb ed="P" n="3.0193"/> समवाये आलोकनविलोकनं पञ्‍ञायति। तत्थ को एको आलोकेति, को <pb ed="M" n="3.0228"/> विलोकेति? तथा चक्खु चक्खुधातु, रूपं रूपधातु, दस्सनं चक्खुविञ्‍ञाणधातु, तंसम्पयुत्ता वेदनादयो धम्मा धम्मधातु, एवमेतेसं चतुन्‍नं धातूनं समवाये आलोकनविलोकनं पञ्‍ञायति। तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु निस्सयपच्‍चयो, रूपं आरम्मणपच्‍चयो, आवज्‍जनं अनन्तरसमनन्तरूपनिस्सयनत्थिविगतपच्‍चयो, आलोको उपनिस्सयपच्‍चयो, वेदनादयो सहजातपच्‍चयो। एवमेतेसं पच्‍चयानं समवाये आलोकनविलोकनं पञ्‍ञायति। तत्थ को एको आलोकेति, को विलोकेतीति एवमेत्थ खन्धायतनधातुपच्‍चयपच्‍चवेक्खणवसेनपि असम्मोहसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext"><hi rend="bold">समिञ्‍जिते पसारिते</hi>ति पब्बानं समिञ्‍जनपसारणे। तत्थ चित्तवसेनेव समिञ्‍जनपसारणं अकत्वा हत्थपादानं समिञ्‍जनपसारणपच्‍चया अत्थानत्थं परिग्गण्हित्वा अत्थपरिग्गण्हनं सात्थकसम्पजञ्‍ञं। तत्थ हत्थपादे अतिचिरं समिञ्‍जित्वा वा पसारेत्वा वा ठितस्स खणे खणे वेदना उप्पज्‍जन्ति, चित्तं एकग्गं न लभति, कम्मट्ठानं परिपतति, विसेसं नाधिगच्छति। काले समिञ्‍जन्तस्स काले पसारेन्तस्स पन ता वेदना नुप्पज्‍जन्ति, चित्तं एकग्गं होति, कम्मट्ठानं फातिं गच्छति, विसेसमधिगच्छतीति एवं अत्थानत्थपरिग्गण्हनं वेदितब्बं।</p>

<p rend="bodytext">अत्थे पन सतिपि सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गण्हनं सप्पायसम्पजञ्‍ञं। तत्रायं नयो – महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति। तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति। तत्थेको दहरो हत्थं पसारेन्तो कायसंसग्गं पत्वा तेनेव कारणेन <pb ed="V" n="3.0226"/> गिही जातो। अपरो भिक्खु पादं पसारेन्तो अग्गिम्हि पसारेसि, अट्ठिं आहच्‍च पादो झायि। अपरो वम्मिके पसारेसि, सो आसीविसेन दट्ठो। अपरो चीवरकुटिदण्डके पसारेसि, तं मणिसप्पो डंसि। तस्मा एवरूपे असप्पाये अपसारेत्वा सप्पाये पसारेतब्बं। इदमेत्थ सप्पायसम्पजञ्‍ञं।</p>

<p rend="bodytext">गोचरसम्पजञ्‍ञं <pb ed="P" n="3.0194"/> पन महाथेरवत्थुना दीपेतब्बं – महाथेरो किर दिवाट्ठाने निसिन्‍नो अन्तेवासिकेहि सद्धिं कथयमानो सहसा हत्थं <pb ed="M" n="3.0229"/> समिञ्‍जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्‍जेसि। तं अन्तेवासिका पुच्छिंसु – ‘‘कस्मा, भन्ते, सहसा हत्थं समिञ्‍जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्‍जित्था’’ति। यतो पट्ठायाहं, आवुसो, कम्मट्ठानं मनसिकातुं आरद्धो, न मे कम्मट्ठानं मुञ्‍चित्वा हत्थो समिञ्‍जितपुब्बो, इदानि पन तुम्हेहि सद्धिं कथयमानेन कम्मट्ठानं मुञ्‍चित्वा समिञ्‍जितो, तस्मा पुन यथाठाने ठपेत्वा समिञ्‍जेसिन्ति। साधु, भन्ते, भिक्खुना नाम एवरूपेन भवितब्बन्ति। एवमेत्थापि कम्मट्ठानाविजहनमेव गोचरसम्पजञ्‍ञन्ति वेदितब्बं।</p>

<p rend="bodytext">अब्भन्तरे अत्ता नाम कोचि समिञ्‍जन्तो वा पसारेन्तो वा नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेन पन सुत्ताकड्ढनवसेन दारुयन्तस्स हत्थपादलळनं विय समिञ्‍जनपसारणं होतीति परिजाननं पनेत्थ असम्मोहसम्पजञ्‍ञन्ति वेदितब्बं।</p>

<p rend="bodytext"><hi rend="bold">सङ्घाटिपत्तचीवरधारणे</hi>ति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन, पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो धारणं नाम। तत्थ सङ्घाटिचीवरधारणे ताव निवासेत्वा पारुपित्वा च पिण्डाय चरतो आमिसलाभो, ‘‘सीतस्स पटिघाताया’’तिआदिना नयेन भगवता वुत्तप्पकारोयेव च अत्थो अत्थो नाम। तस्स वसेन सात्थकसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">उण्हपकतिकस्स पन दुब्बलस्स च चीवरं सुखुमं सप्पायं, सीतालुकस्स घनं दुपट्टं। विपरीतं असप्पायं। यस्स कस्सचि जिण्णं असप्पायमेव। अग्गळादिदानेन हिस्स तं पलिबोधकरं होति। तथा पट्टुण्णदुकूलादिभेदं लोभनीयचीवरं। तादिसञ्हि अरञ्‍ञे एककस्स निवासन्तरायकरं <pb ed="P" n="3.0195"/>, जीवितन्तरायकरञ्‍चापि होति। निप्परियायेन पन यं निमित्तकम्मादिमिच्छाजीववसेन उप्पन्‍नं, यञ्‍चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति <pb ed="V" n="3.0227"/>, तं असप्पायं। विपरीतं सप्पायं, तस्स वसेनेत्थ सप्पायसम्पजञ्‍ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">अब्भन्तरे अत्ता नाम कोचि चीवरं पारुपन्तो नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पन चीवरपारुपनं होति। तत्थ चीवरम्पि <pb ed="M" n="3.0230"/> अचेतनं, कायोपि अचेतनो। चीवरं न जानाति ‘‘मया कायो पारुपितो’’ति। कायोपि न जानाति ‘‘अहं चीवरेन पारुपितो’’ति। धातुयोव धातुसमूहं पटिच्छादेन्ति पटपिलोतिकाय पोत्थकरूपपटिच्छादने विय। तस्मा नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सं। नागवम्मिकचेतियरुक्खादीसु हि केचि मालागन्धधूमवत्थादीहि सक्‍कारं करोन्ति, केचि गूथमुत्तकद्दमदण्डसत्थपहारादीहि असक्‍कारं। न तेहि नागवम्मिकरुक्खादयो सोमनस्सं वा करोन्ति दोमनस्सं वा। एवमेवं नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सन्ति एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">पत्तधारणेपि पत्तं सहसाव अग्गहेत्वा – ‘‘इमं गहेत्वा पिण्डाय चरमानो भिक्खं लभिस्सामी’’ति एवं पत्तग्गहणपच्‍चया पटिलभितब्बअत्थवसेन सात्थकसम्पजञ्‍ञं वेदितब्बं। किसदुब्बलसरीरस्स पन गरुपत्तो असप्पायो। यस्स कस्सचि चतुपञ्‍चगण्ठिकाहतो दुब्बिसोधनीयो असप्पायोव। दुद्धोतपत्तो हि न वट्टति, तं धोवन्तस्सेव चस्स पलिबोधो होति। मणिवण्णपत्तो पन लोभनीयो चीवरे वुत्तनयेनेव असप्पायो। निमित्तकम्मादिवसेन लद्धो, पन यञ्‍चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, अयं एकन्तअसप्पायोव। विपरीतो सप्पायो। तस्स वसेनेत्थ सप्पायसम्पजञ्‍ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">अब्भन्तरे अत्ता नाम कोचि पत्तं गण्हन्तो नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पत्तग्गहणं <pb ed="P" n="3.0196"/> नाम होति। तत्थ पत्तोपि अचेतनो, हत्थापि अचेतना। पत्तो न जानाति ‘‘अहं हत्थेहि गहितो’’ति। हत्थापि न जानन्ति ‘‘पत्तो अम्हेहि गहितो’’ति। धातुयोव धातुसमूहं गण्हन्ति, सण्डासेन अग्गिवण्णपत्तग्गहणे वियाति एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">अपिच <pb ed="V" n="3.0228"/> यथा छिन्‍नहत्थपादे वणमुखेहि पग्घरितपुब्बलोहितकिमिकुले नीलमक्खिकसम्परिकिण्णे अनाथसालाय अनाथमनुस्से दिस्वा दयालुका पुरिसा तेसं वणपट्टचोळकानि चेव कपालादीहि भेसज्‍जानि च उपनामेन्ति। तत्थ चोळकानिपि केसञ्‍चि सण्हानि, केसञ्‍चि थूलानि पापुणन्ति, भेसज्‍जकपालानिपि केसञ्‍चि सुसण्ठानानि, केसञ्‍चि <pb ed="M" n="3.0231"/> दुस्सण्ठानानि पापुणन्ति, न ते तत्थ सुमना वा दुम्मना वा होन्ति। वणपटिच्छादनमत्तेनेव हि चोळकेन भेसज्‍जपटिग्गहमत्तेनेव च कपालकेन तेसं अत्थो। एवमेव यो भिक्खु वणचोळकं विय चीवरं, भेसज्‍जकपालकं विय च पत्तं, कपाले भेसज्‍जमिव च पत्ते लद्धभिक्खं सल्‍लक्खेति। अयं सङ्घाटिपत्तचीवरधारणे असम्मोहसम्पजञ्‍ञेन उत्तमसम्पजानकारीति वेदितब्बो।</p>

<p rend="bodytext"><hi rend="bold">असिता</hi>दीसु <hi rend="bold">असिते</hi>ति पिण्डपातभोजने। <hi rend="bold">पीते</hi>ति यागुआदिपाने। <hi rend="bold">खायिते</hi>ति पिट्ठखज्‍जकादिखादने। <hi rend="bold">सायिते</hi>ति मधुफाणितादिसायने। तत्थ ‘‘नेव दवाया’’तिआदिना नयेन वुत्तो अट्ठविधोपि अत्थो अत्थो नाम, तस्स वसेन सात्थकसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">लूखपणीततित्तमधुरादीसु पन येन भोजनेन यस्स अफासु होति, तं तस्स असप्पायं। यं पन निमित्तकम्मादिवसेन पटिलद्धं, यञ्‍चस्स भुञ्‍जतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं एकन्तअसप्पायमेव। विपरीतं सप्पायं। तस्स वसेनेत्थ सप्पायसम्पजञ्‍ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">अब्भन्तरे अत्ता नाम कोचि भुञ्‍जको नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पत्तपटिग्गहणं नाम होति, चित्तकिरियवायोधातुविप्फारेनेव <pb ed="P" n="3.0197"/> हत्थस्स पत्ते ओतारणं नाम होति, चित्तकिरियवायोधातुविप्फारेनेव आलोपकरणं आलोपुद्धरणं मुखविवरणञ्‍च होति। न कोचि कुञ्‍चिकाय न यन्तकेन हनुकट्ठीनि विवरति, चित्तकिरियवायोधातुविप्फारेनेव आलोपस्स मुखे ठपनं उपरिदन्तानं मुसलकिच्‍चसाधनं हेट्ठादन्तानं उदुक्खलकिच्‍चसाधनं जिव्हाय हत्थकिच्‍चसाधनञ्‍च होति। इति नं तत्थ अग्गजिव्हाय तनुकखेळो, मूलजिव्हाय बहलखेळो मक्खेति। तं हेट्ठादन्तउदुक्खले जिव्हाहत्थपरिवत्तितं खेळउदकतेमितं उपरिदन्तमुसलसञ्‍चुण्णितं कोचि कटच्छुना वा दब्बिया वा अन्तो पवेसेन्तो नाम नत्थि, वायोधातुयाव पविसति। पविट्ठं पविट्ठं कोचि पलालसन्थरं कत्वा धारेन्तो नाम नत्थि, वायोधातुवसेनेव <pb ed="V" n="3.0229"/> तिट्ठति। ठितं ठितं कोचि उद्धनं कत्वा अग्गिं जालेत्वा पचन्तो नाम नत्थि, तेजोधातुयाव पच्‍चति। पक्‍कं पक्‍कं कोचि दण्डकेन वा यट्ठिया वा बहि नीहरको नाम नत्थि, वायोधातुयेव नीहरति। इति वायोधातु अतिहरति च वीतिहरति च <pb ed="M" n="3.0232"/> धारेति च परिवत्तेति च सञ्‍चुण्णेति च विसोसेति च नीहरति च; पथवीधातु धारेति च परिवत्तेति च सञ्‍चुण्णेति च विसोसेति च; आपोधातु सिनेहेति च अल्‍लत्तञ्‍च अनुपालेति; तेजोधातु अन्तोपविट्ठं परिपाचेति; आकासधातु अञ्‍जसो होति; विञ्‍ञाणधातु तत्थ तत्थ सम्मापयोगमन्वाय आभुजतीति एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">अपिच गमनतो, परियेसनतो, परिभोगतो, आसयतो, निधानतो, अपरिपक्‍कतो, परिपक्‍कतो, फलतो, निस्सन्दतो, सम्मक्खनतोति एवं दसविधं पटिकूलभावं पच्‍चवेक्खणतोपेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं। वित्थारकथा पनेत्थ विसुद्धिमग्गे (विसुद्धि॰ १.२९४ आदयो) आहारपटिकूलसञ्‍ञानिद्देसतो गहेतब्बा।</p>

<p rend="bodytext"><hi rend="bold">उच्‍चारपस्सावकम्मे</hi>ति उच्‍चारस्स च पस्सावस्स च करणे। तत्थ पत्तकाले उच्‍चारपस्सावं अकरोन्तस्स सकलसरीरतो सेदा मुच्‍चन्ति, अक्खीनि भमन्ति, चित्तं न एकग्गं होति, अञ्‍ञे च रोगा उप्पज्‍जन्ति। करोन्तस्स पन सब्बं तं न होतीति अयमेत्थ अत्थो। तस्स वसेन <pb ed="P" n="3.0198"/> सात्थकसम्पजञ्‍ञं वेदितब्बं। अट्ठाने उच्‍चारपस्सावं करोन्तस्स पन आपत्ति होति, अयसो वड्ढति, जीवितन्तरायोपि होति। पतिरूपे ठाने करोन्तस्स सब्बं तं न होतीति इदमेत्थ सप्पायं। तस्स वसेन सप्पायसम्पजञ्‍ञं, कम्मट्ठानाविजहनवसेन च गोचरसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext">अब्भन्तरे अत्ता नाम कोचि उच्‍चारपस्सावकम्मं करोन्तो नत्थि, चित्तकिरियवायोधातुविप्फारेनेव पन उच्‍चारपस्सावकम्मं होति। यथा पन पक्‍के गण्डे गण्डभेदेन पुब्बलोहितं अकामताय निक्खमति, यथा च अतिभरिता उदकभाजना उदकं अकामताय निक्खमति, एवं पक्‍कासयमुत्तवत्थीसु सन्‍निचिता उच्‍चारपस्सावा वायुवेगसमुप्पीळिता अकामतायपि निक्खमन्ति। सो पनायं एवं निक्खमन्तो उच्‍चारपस्सावो नेव तस्स भिक्खुनो अत्तनो होति न परस्स, केवलं सरीरनिस्सन्दोव होति। यथा किं? यथा उदकतुम्बतो <pb ed="V" n="3.0230"/> पुराणउदकं छड्डेन्तस्स नेव तं अत्तनो होति न परेसं, केवलं पटिजग्गनमत्तमेव होति। एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं।</p>

<p rend="bodytext"><hi rend="bold">गता</hi>दीसु <pb ed="M" n="3.0233"/> <hi rend="bold">गते</hi>ति गमने। <hi rend="bold">ठिते</hi>ति ठाने। <hi rend="bold">निसिन्‍ने</hi>ति निसज्‍जाय। <hi rend="bold">सुत्ते</hi>ति सयने। <hi rend="bold">जागरिते</hi> ति जागरणे। <hi rend="bold">भासिते</hi>ति कथने। <hi rend="bold">तुण्हीभावे</hi>ति अकथने। एत्थ च यो चिरं गन्त्वा वा चङ्कमित्वा वा अपरभागे ठितो इति पटिसञ्‍चिक्खति ‘‘चङ्कमनकाले <pb ed="P" n="3.0199"/> पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं गते सम्पजानकारी नाम।</p>

<p rend="bodytext">यो सज्झायं वा करोन्तो पञ्हं वा विस्सज्‍जेन्तो कम्मट्ठानं वा मनसिकरोन्तो चिरं ठत्वा अपरभागे निसिन्‍नो इति पटिसञ्‍चिक्खति ‘‘ठितकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं ठिते सम्पजानकारी नाम।</p>

<p rend="bodytext">यो सज्झायादिकरणवसेनेव चिरं निसीदित्वा अपरभागे निपन्‍नो इति पटिसञ्‍चिक्खति – ‘‘निसिन्‍नकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं निसिन्‍ने सम्पजानकारी नाम।</p>

<p rend="bodytext">यो पन निपन्‍नकोव सज्झायं करोन्तो कम्मट्ठानं वा मनसिकरोन्तो निद्दं ओक्‍कमित्वा अपरभागे उट्ठाय इति पटिसञ्‍चिक्खति – ‘‘सयनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं सुत्ते च जागरिते च सम्पजानकारी नाम। किरियमयचित्तानञ्हि अप्पवत्तं सुत्तं नाम, पवत्तं जागरितं नामाति।</p>

<p rend="bodytext">यो पन भासमानो – ‘‘अयं सद्दो नाम ओट्ठे च पटिच्‍च दन्ते च जिव्हञ्‍च तालुञ्‍च पटिच्‍च चित्तस्स च तदनुरूपं पयोगं पटिच्‍च जायती’’ति सतो सम्पजानो भासति, चिरं वा पन कालं सज्झायं कत्वा धम्मं वा कथेत्वा कम्मट्ठानं वा परिवत्तेत्वा पञ्हं वा विस्सज्‍जेत्वा अपरभागे तुण्हीभूतो इति पटिसञ्‍चिक्खति ‘‘भासितकाले उप्पन्‍ना रूपारूपधम्मा एत्थेव निरुद्धा’’ति अयं भासिते सम्पजानकारी नाम।</p>

<p rend="bodytext">यो तुण्हीभूतो चिरं धम्मं वा कम्मट्ठानं वा मनसिकत्वा अपरभागे इति पटिसञ्‍चिक्खति <pb ed="V" n="3.0231"/> – ‘‘तुण्हीभूतकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति। उपादारूपपवत्तिया सति भासति नाम, असति तुण्ही भवति नामाति, अयं तुण्हीभावे सम्पजानकारी नामाति। एवमेत्थ असम्मोहसम्पजञ्‍ञं तस्स वसेन सम्पजानकारिता वेदितब्बा। इमस्मिं सुत्ते सतिपट्ठानमिस्सकसम्पजञ्‍ञं पुब्बभागं कथितं।</p>

<p rend="subhead">३. भिक्खुसुत्तवण्णना</p>

<p rend="bodytext" n="369"><hi rend="paranum">३६९</hi><hi rend="dot">.</hi> ततिये <pb ed="M" n="3.0234"/> <hi rend="bold">एवमेव पनिधेकच्‍चे</hi>ति सो किर भिक्खु कम्मट्ठानं कथापेत्वा इतो चितो च आहिण्डति, कायविवेकं नानुयुञ्‍जति। तेन नं भगवा निग्गण्हन्तो एवमाह। <hi rend="bold">तस्मा</hi>ति यस्मा संखित्तेन देसनं याचसि, तस्मा। <hi rend="bold">दिट्ठी</hi>ति कम्मस्सकतादिट्ठि।</p>

<p rend="subhead">४. सालसुत्तवण्णना</p>

<p rend="bodytext" n="370"><hi rend="paranum">३७०</hi><hi rend="dot">.</hi> चतुत्थे <pb ed="P" n="3.0200"/> <hi rend="bold">धम्मविनयो</hi>ति धम्मोति वा विनयोति वा उभयमेतं सत्थुसासनस्सेव नामं। <hi rend="bold">समादपेतब्बा</hi>ति गण्हापेतब्बा। <hi rend="bold">एकोदिभूता</hi>ति खणिकसमाधिना एकग्गभूता। <hi rend="bold">समाहिता एकग्गचित्ता</hi>ति उपचारप्पनावसेन सम्मा ठपितचित्ता च एकग्गचित्ता च। इमस्मिं सुत्ते नवकभिक्खूहि चेव खीणासवेहि च भावितसतिपट्ठाना पुब्बभागा, सत्तहि सेखेहि भाविता मिस्सका।</p>

<p rend="subhead">६. सकुणग्घिसुत्तवण्णना</p>

<p rend="bodytext" n="372"><hi rend="paranum">३७२</hi><hi rend="dot">.</hi> छट्ठे <hi rend="bold">सकुणग्घी</hi>ति सकुणं हनतीति सकुणग्घि, सेनस्सेतं अधिवचनं। <hi rend="bold">सहसा अज्झपत्ता</hi>ति लोभसाहसेन पत्ता। <hi rend="bold">अलक्खिका</hi>ति निस्सिरिका। <hi rend="bold">अप्पपुञ्‍ञा</hi>ति परित्तपुञ्‍ञा। <hi rend="bold">सचेज्‍ज मय</hi>न्ति सचे अज्‍ज मयं। <hi rend="bold">नङ्गलकट्ठकरण</hi>न्ति नङ्गलेन कसिकरणं, अधुना कट्ठं खेत्तट्ठानन्ति अत्थो। <hi rend="bold">लेड्डुट्ठान</hi>न्ति लेड्डूनं ठानं। <hi rend="bold">संवदमाना</hi>ति सम्मा वदमाना, अत्तनो बलस्स सुट्ठु वण्णं वदमानाति अत्थो। <hi rend="bold">महन्तं लेड्डुं अभिरुहित्वा</hi>ति उद्धनसण्ठानेन ठितेसु तीसु लेड्डूसु ‘‘इतो सेने आगच्छन्ते इतो निक्खमिस्सामि, इतो आगच्छन्ते इतो’’ति सल्‍लक्खेत्वा तेसु एकं लेड्डुं अभिरुहित्वा अट्ठासि अवदमानो। <hi rend="bold">सन्‍नय्हा</hi>ति खुरप्पं सन्‍नय्हमानो विय सन्‍नय्हित्वा <pb ed="V" n="3.0232"/> सुट्ठु ठपेत्वा। <hi rend="bold">बहुआगतो खो म्याय</hi>न्ति ‘‘मय्हं अत्थाय अयं बहुतं ठानं आगतो, अप्पं अवसिट्ठं, इदानि मं गण्हिस्सती’’ति ञत्वा दारुगुळो विय विनिवत्तित्वा तस्सेव लेड्डुस्स अन्तरे पच्‍चुपादि, पटिपन्‍नो पविट्ठोति अत्थो। <hi rend="bold">उरं पच्‍चताळेसी</hi>ति ‘‘एकप्पहारेनेव <pb ed="P" n="3.0201"/> लापस्स सीसं छिन्दित्वा गहेस्सामी’’ति <pb ed="M" n="3.0235"/> पक्खन्दत्ता वेगं सन्धारेतुं असक्‍कोन्तो तस्मिं लेड्डुस्मिं उरं पताळेसि। तावदेवस्स हदयमंसं फालियित्थ। अथ लापो ‘‘दिट्ठा वत सत्तुनो पिट्ठी’’ति हट्ठतुट्ठो तस्स हदये अपरापरं चङ्कमि।</p>

<p rend="subhead">७. मक्‍कटसुत्तवण्णना</p>

<p rend="bodytext" n="373"><hi rend="paranum">३७३</hi><hi rend="dot">.</hi> सत्तमे <hi rend="bold">दुग्गा</hi>ति दुग्गमा। <hi rend="bold">चारी</hi>ति सञ्‍चारो। <hi rend="bold">लेपं ओड्डेन्ती</hi>ति वटरुक्खखीरादीहि योजेत्वा लेपं करोन्ति, तं मक्‍कटानं धुवगमनट्ठानन्ति सल्‍लक्खेत्वा रुक्खसाखादीसु ठपेन्ति। <hi rend="bold">पञ्‍चोड्डितो</hi>ति पञ्‍चसु ठानेसु काजदण्डकं पवेसेत्वा गहेतब्बा काजसिक्‍का विय ओड्डितो। <hi rend="bold">थुनं सेती</hi>ति थुनन्तो सयति।</p>

<p rend="subhead">८. सूदसुत्तवण्णना</p>

<p rend="bodytext" n="374"><hi rend="paranum">३७४</hi><hi rend="dot">.</hi> अट्ठमे <hi rend="bold">सूदो</hi>ति भत्तकारको। <hi rend="bold">नानच्‍चयेही</hi>ति नानाचयेहि, नानाविधेहीति अत्थो। अयमेव वा पाठो। <hi rend="bold">अम्बिलग्गेही</hi>ति अम्बिलकोट्ठासेहि। एसेव नयो सब्बत्थ। <hi rend="bold">अभिहरती</hi>ति गहणत्थाय हत्थं पसारेति। <hi rend="bold">बहुं गण्हाती</hi>ति एकग्गहणेन बहुं गण्हन्तोपि पुनप्पुनं गण्हन्तोपि बहुं गण्हतेव। <hi rend="bold">अभिहारान</hi>न्ति सतं वा सहस्सं वा उक्खिपित्वा अभिहटानं दायानं। <hi rend="bold">उपक्‍किलेसा</hi>ति पञ्‍च नीवरणा। <hi rend="bold">निमित्तं न उग्गण्हाती</hi>ति ‘‘इमं मे कम्मट्ठानं अनुलोमं वा गोत्रभुं वा आहच्‍च ठित’’न्ति न जानाति, अत्तनो चित्तस्स निमित्तं गण्हितुं न सक्‍कोति। इमस्मिं सुत्ते पुब्बभागविपस्सना सतिपट्ठानाव कथिता।</p>

<p rend="subhead">९. गिलानसुत्तवण्णना</p>

<p rend="bodytext" n="375"><hi rend="paranum">३७५</hi><hi rend="dot">.</hi> नवमे <hi rend="bold">बेळुवगामके</hi>ति वेसालिया समीपे एवंनामको पादगामो अत्थि, तस्मिं। <hi rend="bold">यथामित्त</hi>न्तिआदीसु <hi rend="bold">मित्ता</hi>ति मित्ताव। <hi rend="bold">सन्दिट्ठा</hi>ति तत्थ तत्थ सङ्गम्म दिट्ठमत्ता नातिदळ्हमित्ता <pb ed="V" n="3.0233"/>। <hi rend="bold">सम्भत्ता</hi>ति सुट्ठु भत्ता सिनेहवन्तो दळ्हमित्ता। येसं यत्थ यत्थ एवरूपा भिक्खू अत्थि, ते तत्थ तत्थ वस्सं उपेथाति अत्थो। कस्मा एवमाह? तेसं फासुविहारत्थाय। तेसं <pb ed="P" n="3.0202"/> किर बेळुवगामके सेनासनं नप्पहोति, भिक्खापि <pb ed="M" n="3.0236"/> मन्दा। समन्ता वेसालिया पन बहूनि सेनासनानि, भिक्खापि सुलभा। तस्मा एवमाह।</p>

<p rend="bodytext">अथ कस्मा ‘‘यथासुखं गच्छथा’’ति न विस्सज्‍जेसि? तेसं अनुकम्पाय। एवं किरस्स अहोसि – ‘‘अहं दसमासमत्तं ठत्वा परिनिब्बायिस्सामि। सचे इमे दूरं गच्छिस्सन्ति, मं परिनिब्बानकाले दट्ठुं न सक्खिस्सन्ति। अथ नेसं ‘सत्था परिनिब्बायन्तो अम्हाकं सतिमत्तम्पि न अदासि। सचे जानेय्याम, न एवं दूरे वसेय्यामा’ति विप्पटिसारो भवेय्य। वेसालिया समन्ता पन वस्सं वसन्ता मासस्स अट्ठ वारे आगन्त्वा धम्मं सुणिस्सन्ति, सुगतोवादं लभिस्सन्ती’’ति न विस्सज्‍जेसि।</p>

<p rend="bodytext"><hi rend="bold">खरो</hi>ति फरुसो। <hi rend="bold">आबाधो</hi>ति विसभागरोगो। <hi rend="bold">बाळ्हा</hi>ति बलवतियो। <hi rend="bold">मारणन्तिका</hi>ति मरणन्तं मरणसन्तिकं पापनसमत्था। <hi rend="bold">सतो सम्पजानो अधिवासेसी</hi>ति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा अधिवासेसि। <hi rend="bold">अविहञ्‍ञमानो</hi>ति वेदनानुवत्तनवसेन अपरापरं परिवत्तनं अकरोन्तो अपीळियमानो अदुक्खियमानो च अधिवासेसि। <hi rend="bold">अनामन्तेत्वा</hi>ति अजानापेत्वा। <hi rend="bold">अनपलोकेत्वा</hi>ति अजानापेत्वाव ओवादानुसासनिं अदत्वाति वुत्तं होति। <hi rend="bold">वीरियेना</hi>ति पुब्बभागवीरियेन चेव फलसमापत्तिवीरियेन च। <hi rend="bold">पटिपणामेत्वा</hi>ति विक्खम्भेत्वा। <hi rend="bold">जीवितसङ्खार</hi>न्ति एत्थ जीवितम्पि जीवितसङ्खारो। येन जीवितं सङ्खरीयति छिज्‍जमानं घटेत्वा ठपीयति, सो फलसमापत्तिधम्मोपि जीवितसङ्खारो। सो इध अधिप्पेतो। <hi rend="bold">अधिट्ठाया</hi>ति अधिट्ठहित्वा पवत्तेत्वा जीवितठपनसमत्थं फलसमापत्तिं समापज्‍जेय्यन्ति अयमेत्थ सङ्खेपत्थो।</p>

<p rend="bodytext">किं पन भगवा इतो पुब्बे फलसमापत्तिं न समापज्‍जतीति? समापज्‍जति। सा पन खणिकसमापत्ति। खणिकसमापत्ति च अन्तोसमापत्तियंयेव वेदनं विक्खम्भेति, समापत्तितो वुट्ठितमत्तस्स कट्ठपातेन वा कठलपातेन वा छिन्‍नसेवालो विय उदकं, पुन सरीरं वेदना अज्झोत्थरति। या पन रूपसत्तकं अरूपसत्तकञ्‍च निग्गुम्बं निज्‍जटं कत्वा महाविपस्सनावसेन समापन्‍ना समापत्ति <pb ed="P" n="3.0203"/>, सा सुट्ठु विक्खम्भेति। यथा नाम पुरिसेन पोक्खरणिं ओगाहेत्वा हत्थेहि च पादेहि च सुट्ठु अपब्युळ्हसेवालो <pb ed="M" n="3.0237"/> चिरेन उदकं ओत्थरति, एवमेव <pb ed="V" n="3.0234"/> ततो वुट्ठितस्स चिरेन वेदना उप्पज्‍जति। इति भगवा तंदिवसं महाबोधिपल्‍लङ्के अभिनवं विपस्सनं पट्ठपेन्तो विय रूपसत्तकं अरूपसत्तकञ्‍च निग्गुम्बं निज्‍जटं कत्वा चुद्दसहाकारेहि सन्‍नेत्वा महाविपस्सनाय वेदनं विक्खम्भेत्वा ‘‘दसमासे मा उप्पज्‍जित्था’’ति समापत्तिं समापज्‍जि, समापत्तिविक्खम्भिता वेदना दस मासे न उप्पज्‍जियेव।</p>

<p rend="bodytext"><hi rend="bold">गिलाना वुट्ठितो</hi>ति गिलानो हुत्वा पुन वुट्ठितो। <hi rend="bold">मधुरकजातो विया</hi>ति सञ्‍जातगरुभावो सञ्‍जातथद्धभावो सूले उत्तासितपुरिसो विय। <hi rend="bold">न पक्खायन्ती</hi>ति न पकासन्ति, नानाकारतो न उपट्ठहन्ति। <hi rend="bold">धम्मापि मं नप्पटिभन्ती</hi>ति सतिपट्ठानधम्मा मय्हं पाकटा न होन्तीति दीपेति। तन्तिधम्मा पन थेरस्स सुप्पगुणा। <hi rend="bold">न उदाहरती</hi>ति पच्छिमओवादं न देति, तं सन्धाय वदति।</p>

<p rend="bodytext"><hi rend="bold">अनन्तरं अबाहिर</hi>न्ति धम्मवसेन वा पुग्गलवसेन वा उभयं अकत्वा। ‘‘एत्तकं धम्मं परस्स न देसेस्सामी’’ति हि चिन्तेन्तो धम्मं अब्भन्तरं करोति नाम, ‘‘एत्तकं परस्स देसेस्सामी’’ति चिन्तेन्तो बाहिरं करोति नाम। ‘‘इमस्स पुग्गलस्स देसेस्सामी’’ति चिन्तेन्तो पन पुग्गलं अब्भन्तरं करोति नाम, ‘‘इमस्स न देसेस्सामी’’ति चिन्तेन्तो पुग्गलं बाहिरं करोति नाम। एवं अकत्वा देसितोति अत्थो। <hi rend="bold">आचरियमुट्ठी</hi>ति यथा बाहिरकानं आचरियमुट्ठि नाम होति, दहरकाले कस्सचि अकथेत्वा पच्छिमकाले मरणमञ्‍चे निपन्‍ना पियमनापस्स अन्तेवासिकस्स कथेन्ति, एवं तथागतस्स ‘‘इदं महल्‍लककाले पच्छिमठाने कथेस्सामी’’ति मुट्ठिं कत्वा परिहरित्वा ठपितं किञ्‍चि नत्थीति <pb ed="P" n="3.0204"/> दस्सेति।</p>

<p rend="bodytext"><hi rend="bold">अहं भिक्खुसङ्घ</hi>न्ति अहमेव भिक्खुसङ्घं परिहरिस्सामीति वा, <hi rend="bold">ममुद्देसिको</hi>ति अहं उद्दिसितब्बट्ठेन उद्देसो अस्साति ममुद्देसिको, ममेव उद्दिस्सित्वा मं पच्‍चासीसमानो भिक्खुसङ्घो होतु मम अच्‍चयेन मा वा अहोसि, यं वा तं वा होतूति इति वा पन यस्स अस्साति अत्थो। <hi rend="bold">न एवं होती</hi>ति बोधिपल्‍लङ्केयेव इस्सामच्छेरानं विगतत्ता <pb ed="M" n="3.0238"/> एवं न होति। <hi rend="bold">स कि</hi>न्ति सो किं। <hi rend="bold">आसीतिको</hi>ति असीतिसंवच्छरिको, इदं पच्छिमवयं अनुप्पत्तभावदीपनत्थं वुत्तं। <hi rend="bold">वेठमिस्सकेना</hi>ति बाहबन्धचक्‍कबन्धादिना पटिसङ्खरणेन वेठमिस्सकेन। <hi rend="bold">मञ्‍ञे</hi>ति जरसकटं विय वेठमिस्सकेन मञ्‍ञे यापेति, अरहत्तफलवेठनेन चतुइरियापथकप्पनं तथागतस्स होतीति दस्सेति।</p>

<p rend="bodytext">इदानि <pb ed="V" n="3.0235"/> तमत्थं पकासेन्तो <hi rend="bold">यस्मिं आनन्द समये</hi>तिआदिमाह। तत्थ <hi rend="bold">सब्बनिमित्तान</hi>न्ति रूपनिमित्तादीनं। <hi rend="bold">एकच्‍चानं वेदनान</hi>न्ति लोकियानं वेदनानं। <hi rend="bold">तस्मातिहानन्दा</hi>ति यस्मा इमिना फलसमापत्तिविहारेन फासु होति, तस्मा तुम्हेपि तदत्थाय एवं विहरथाति दस्सेति। <hi rend="bold">अत्तदीपा</hi>ति महासमुद्दगता दीपं विय अत्तानं दीपं पतिट्ठं कत्वा विहरथ। <hi rend="bold">अत्तसरणा</hi>ति अत्तगतिकाव होथ, मा अञ्‍ञगतिका। <hi rend="bold">धम्मदीपधम्मसरण</hi>पदेसुपि एसेव नयो। एत्थ च धम्मोति नवविधो लोकुत्तरधम्मो वेदितब्बो। <hi rend="bold">तमतग्गे</hi>ति तमअग्गे, मज्झे त-कारो पदसन्धिवसेन वुत्तो। इदं वुत्तं होति – इमे अग्गतमाति तमतग्गाति <pb ed="P" n="3.0205"/>। एवं सब्बं तमसोतं छिन्दित्वा अतिविय अग्गे उत्तमभावे एते, आनन्द, मम भिक्खू भविस्सन्ति, तेसं अग्गे भविस्सन्ति। ये केचि सिक्खाकामा, सब्बेसं तेसं चतुसतिपट्ठानगोचराव भिक्खू अग्गे भविस्सन्तीति अरहत्तनिकूटेन देसनं गण्हीति।</p>

<p rend="subhead">१०. भिक्खुनुपस्सयसुत्तवण्णना</p>

<p rend="bodytext" n="376"><hi rend="paranum">३७६</hi><hi rend="dot">.</hi> दसमे <hi rend="bold">तेनुपसङ्कमी</hi>ति तस्मिं उपस्सये कम्मट्ठानकम्मिका भिक्खुनियो अत्थि, तासं उस्सुक्‍कापेत्वा कम्मट्ठानं कथेस्सामीति उपसङ्कमि। <hi rend="bold">उळारं पुब्बेनापरं विसेस</hi>न्ति पुब्बविसेसतो अपरं उळारविसेसं। तत्थ महाभूतपरिग्गहो पुब्बविसेसो, उपादारूपपरिग्गहो अपरविसेसो नाम। तथा सकलरूपपरिग्गहो पुब्बविसेसो, अरूपपरिग्गहो अपरविसेसो नाम। रूपारूपपरिग्गहो पुब्बविसेसो, पच्‍चयपरिग्गहो <pb ed="M" n="3.0239"/> अपरविसेसो नाम सप्पच्‍चयनामरूपदस्सनं पुब्बविसेसो, तिलक्खणारोपनं अपरविसेसो नाम। एवं पुब्बेनापरं उळारविसेसं जानातीति अत्थो।</p>

<p rend="bodytext"><hi rend="bold">कायारम्मणो</hi>ति यं कायं अनुपस्सति, तमेव आरम्मणं कत्वा उप्पज्‍जति किलेसपरिळाहो। <hi rend="bold">बहिद्धा वा चित्तं विक्खिपती</hi>ति बहिद्धा वा पुथुत्तारम्मणे चित्तुप्पादो विक्खिपति। <hi rend="bold">किस्मिञ्‍चिदेव पसादनीये निमित्ते चित्तं पणिदहितब्ब</hi>न्ति एवं किलेसपरिळाहे च लीनत्ते च बहिद्धाविक्खेपे च उप्पन्‍ने किलेसानुरञ्‍जितेन न वत्तितब्बं, किस्मिञ्‍चिदेव पसादनीये पसादावहे बुद्धादीसु अञ्‍ञतरस्मिं ठाने कम्मट्ठानचित्तं ठपेतब्बं। <hi rend="bold">चित्तं समाधियती</hi>ति आरम्मणे सम्मा आधियति सुट्ठु ठपितं ठपियति। <hi rend="bold">पटिसंहरामी</hi>ति पसादनीयट्ठानतो पटिसंहरामि, मूलकम्मट्ठानाभिमुखंयेव नं करोमीति अत्थो। <hi rend="bold">सो पटिसंहरति चेवा</hi>ति मूलकम्मट्ठानाभिमुखञ्‍च <pb ed="V" n="3.0236"/> <pb ed="P" n="3.0206"/> पेसेति। <hi rend="bold">न च वितक्‍केति न च विचारेती</hi>ति किलेसवितक्‍कं न वितक्‍केति, किलेसविचारं न विचारेति। <hi rend="bold">अवितक्‍कोम्हि अविचारो</hi>ति किलेसवितक्‍कविचारेहि अवितक्‍काविचारो। <hi rend="bold">अज्झत्तं सतिमा सुखमस्मी</hi>ति गोचरज्झत्ते पवत्ताय सतिया ‘‘सतिमाहमस्मि सुखितो चा’’ति पजानाति।</p>

<p rend="bodytext"><hi rend="bold">एवं खो, आनन्द, पणिधाय भावना होती</hi>ति एवं, आनन्द, ठपेत्वा भावना होति। इमस्स हि भिक्खुनो यथा नाम पुरिसस्स महन्तं उच्छुभारं उक्खिपित्वा यन्तसालं नेन्तस्स किलन्तकिलन्तकाले भूमियं ठपेत्वा उच्छुखण्डं खादित्वा पुन उक्खिपित्वा गमनं होति; एवमेव अरहत्तं पापुणितुं उग्गहितकम्मट्ठानस्स कायपरिळाहादीसु उप्पन्‍नेसु तं कम्मट्ठानं ठपेत्वा बुद्धगुणादिअनुस्सरणेन चित्तं पसादेत्वा कम्मनियं कत्वा भावना पवत्ता, तस्मा ‘‘पणिधाय भावना होती’’ति वुत्तं। तस्स पन पुरिसस्स उच्छुभारं यन्तसालं नेत्वा पीळेत्वा रसपानं विय इमस्स भिक्खुनो कम्मट्ठानं मत्थकं पापेत्वा अरहत्तं पत्तस्स फलसमापत्तिसुखानुभवनं वेदितब्बं।</p>

<p rend="bodytext"><hi rend="bold">बहिद्धा</hi>ति मूलकम्मट्ठानं पहाय बहि अञ्‍ञस्मिं आरम्मणे। <hi rend="bold">अप्पणिधाया</hi>ति अट्ठपेत्वा। <hi rend="bold">अथ पच्छा पुरे असंखित्तं विमुत्तं अप्पणिहितन्ति पजानाती</hi>ति एत्थ कम्मट्ठानवसेन वा सरीरवसेन वा देसनावसेन वा अत्थो वेदितब्बो।</p>

<p rend="bodytext">तत्थ <pb ed="M" n="3.0240"/> कम्मट्ठाने ताव कम्मट्ठानस्स अभिनिवेसो पुरे नाम, अरहत्तं पच्छा नाम। तत्थ यो भिक्खु मूलकम्मट्ठानं गहेत्वा किलेसपरिळाहस्स वा लीनत्तस्स वा बहिद्धाविक्खेपस्स वा उप्पज्‍जितुं ओकासं अदेन्तो सुदन्तगोणे योजेत्वा सारेन्तो विय चतुरस्सच्छिद्दे सुतच्छितं चतुरस्सघटिकं पक्खिपन्तो विय विपस्सनं पट्ठपेत्वा अतिट्ठन्तो अलग्गन्तो अरहत्तं पापुणाति, सो पुरेसङ्खातस्स कम्मट्ठानाभिनिवेसस्स पच्छासङ्खातस्स अरहत्तस्स च वसेन पच्छा पुरे असंखित्तं विमुत्तं अप्पणिहितन्ति पजानाति नाम।</p>

<p rend="bodytext">सरीरे पन पादङ्गुलीनं अग्गपब्बानि पुरे नाम, सीसकटाहं पच्छा नाम। तत्थ यो भिक्खु पादङ्गुलीनं अग्गपब्बअट्ठिकेसु <pb ed="P" n="3.0207"/> अभिनिविसित्वा ब्याभङ्गिया यवकलापं मोचेन्तो विय वण्णसण्ठानदिसोकासपरिच्छेदवसेन अट्ठीनि परिग्गण्हन्तो अन्तरा किलेसपरिळाहादीनं उप्पत्तिं <pb ed="V" n="3.0237"/> वारेत्वा याव सीसकटाहा भावनं पापेति, सो पुरेसङ्खातानं अग्गपादङ्गुलिपब्बानं पच्छासङ्खातस्स सीसकटाहस्स च वसेन पच्छा पुरे असंखित्तं विमुत्तं अप्पणिहितन्ति पजानाति नाम।</p>

<p rend="bodytext">देसनायपि द्वत्तिंसाकारदेसनाय केसा पुरे नाम, मत्थलुङ्गं पच्छा नाम। तत्थ यो भिक्खु केसेसु अभिनिविसित्वा वण्णसण्ठानदिसोकासवसेन केसादयो परिग्गण्हन्तो अन्तरा किलेसपरिळाहादीनं उप्पत्तिं वारेत्वा याव मत्थलुङ्गा भावनं पापेति। सो पुरेसङ्खातानं केसानं पच्छासङ्खातस्स मत्थलुङ्गस्स च वसेन पच्छा पुरे असंखित्तं विमुत्तं अप्पणिहितन्ति पजानाति नाम।</p>

<p rend="bodytext"><hi rend="bold">एवं खो, आनन्द, अप्पणिधाय भावना होती</hi>ति एवं, आनन्द, अट्ठपेत्वा भावना होति। इमस्स हि भिक्खुनो यथा नाम पुरिसस्स गुळभारं लभित्वा अत्तनो गामं अतिहरन्तस्स अन्तरा अट्ठपेत्वाव उच्‍चङ्गे पक्खित्तानि गुळखण्डादीनि खादनीयानि खादन्तस्स अत्तनो गामेयेव ओतरणं होति, एवमेव अरहत्तं पापुणितुं आरद्धभावनस्स कायपरिळाहादीनं उप्पत्तिं वारेत्वा कम्मट्ठानभावना पवत्ता, तस्मा ‘‘अप्पणिधाय भावना’’ति वुत्ता। तस्स पन पुरिसस्स तं गुळभारं अत्तनो गामं नेत्वा ञातीहि सद्धिं परिभोगो विय इमस्स भिक्खुनो <pb ed="M" n="3.0241"/> कम्मट्ठानं मत्थकं पापेत्वा अरहत्तं पत्तस्स फलसमापत्तिसुखानुभवनं वेदितब्बं। इमस्मिं सुत्ते पुब्बभागविपस्सना कथिता। सेसं सब्बत्थ उत्तानमेवाति।</p>

<p rend="centre">अम्बपालिवग्गो पठमो।</p>

<p rend="title">२. नालन्दवग्गो</p>

<p rend="subhead">२. नालन्दसुत्तवण्णना</p>

<p rend="bodytext" n="378"><hi rend="paranum">३७८</hi><hi rend="dot">.</hi> दुतियवग्गस्स दुतिये <hi rend="bold">नालन्दाय</hi>न्ति नालन्दाति एवंनामके नगरे, तं नगरं गोचरगामं कत्वा। <hi rend="bold">पावारिकम्बवने</hi>ति दुस्सपावारिकसेट्ठिनो अम्बवने। तं <pb ed="P" n="3.0208"/> किर तस्स उय्यानं <pb ed="V" n="3.0238"/> अहोसि। सो भगवतो धम्मदेसनं सुत्वा भगवति पसन्‍नो तस्मिं उय्याने कुटिलेणमण्डपादिपटिमण्डितं भगवतो विहारं कत्वा निय्यातेसि। सो विहारो जीवकम्बवनं विय पावारिकम्बवनन्त्वेव सङ्खं गतो। तस्मिं पावारिकम्बवने विहरतीति अत्थो।</p>

<p rend="bodytext"><hi rend="bold">एवंपसन्‍नो</hi>ति एवं उप्पन्‍नसद्धो, एवं सद्दहामीति अत्थो। <hi rend="bold">भिय्योभिञ्‍ञतरो</hi>ति भिय्यतरो अभिञ्‍ञातो भिय्यतराभिय्यो वा, उत्तरितरञाणोति अत्थो। <hi rend="bold">सम्बोधिय</hi>न्ति सब्बञ्‍ञुतञ्‍ञाणे अरहत्तमग्गञाणे वा अरहत्तमग्गेनेव हि बुद्धगुणा निप्पदेसा गहिता होन्ति, द्वेपि अग्गसावका अरहत्तमग्गेनेव सावकपारमीञाणं पटिलभन्ति, पच्‍चेकबुद्धा पच्‍चेकबोधिञाणं, बुद्धा सब्बञ्‍ञुतञ्‍ञाणञ्‍चेव सकले च बुद्धगुणे। सब्बम्पि नेसं अरहत्तमग्गेनेव इज्झति। तस्मा अरहत्तमग्गञाणं सम्बोधि नाम होति। तेन उत्तरितरो च भगवता नत्थि। तेनाह ‘‘भगवता भिय्योभिञ्‍ञतरो, यदिदं सम्बोधिय’’न्ति।</p>

<p rend="bodytext"><hi rend="bold">उळारा</hi>ति सेट्ठा। अयञ्हि उळारसद्दो ‘‘उळारानि खादनीयानि खादन्ती’’तिआदीसु (म॰ नि॰ १.३६६) मधुरे आगच्छति। ‘‘उळाराय खलु भवं वच्छायनो समणं गोतमं पसंसाय पसंसती’’तिआदीसु (म॰ नि॰ १.२८८) सेट्ठे। ‘‘अप्पमाणो उळारो <pb ed="M" n="3.0242"/> ओभासो’’तिआदीसु (दी॰ नि॰ २.३२; म॰ नि॰ ३.२०१) विपुले। स्वायमिध सेट्ठे आगतो। तेन वुत्तं ‘‘उळाराति सेट्ठा’’ति। <hi rend="bold">आसभी</hi>ति उसभस्स वाचासदिसी अचला असम्पवेधी। <hi rend="bold">एकंसो गहितो</hi>ति अनुस्सवेन वा आचरियपरम्पराय वा इतिकिराय वा पिटकसम्पदानेन वा आकारपरिवितक्‍केन वा दिट्ठिनिज्झानक्खन्तिया वा तक्‍कहेतु वा नयहेतु वा अकथेत्वा पच्‍चक्खतो ञाणेन पटिविज्झित्वा विय एकंसो गहितो, सन्‍निट्ठानकथाव कथिताति अत्थो। <hi rend="bold">सीहनादो</hi>ति सेट्ठनादो, वने उन्‍नादयन्तेन सीहेन विय उत्तमनादो नदितोति अत्थो।</p>

<p rend="bodytext"><hi rend="bold">किं</hi> <pb ed="P" n="3.0209"/> <hi rend="bold">नु ते सारिपुत्ता</hi>ति इमं देसनं कस्मा आरभि? अनुयोगदापनत्थं। एकच्‍चो हि सीहनादं नदित्वा अत्तनो सीहनादे अनुयोगं दातुं न सक्‍कोति, निघंसनं न खमति, सिलेसे पतितमक्‍कटो विय होति। यथा धममानं अपरिसुद्धं लोहं झायित्वा अङ्गारो होति, एवं झामङ्गारो विय होति। एको सीहनादे अनुयोगं दापियमानो दातुं सक्‍कोति, निघंसनं खमति <pb ed="V" n="3.0239"/>, धममानं निद्दोसजातरूपं विय अधिकतरं सोभति, तादिसो थेरो। तेन नं भगवा ‘‘अनुयोगक्खमो अय’’न्ति ञत्वा सीहनादे अनुयोगदापनत्थं इमं देसनं आरभि।</p>

<p rend="bodytext">तत्थ <hi rend="bold">सब्बे ते</hi>ति सब्बे ते तया। <hi rend="bold">एवंसीला</hi>ति मग्गसीलेन फलसीलेन लोकियलोकुत्तरसीलेन एवंसीला। <hi rend="bold">एवंधम्मा</hi>ति एत्थ समाधिपक्खा धम्मा अधिप्पेता, मग्गसमाधिना फलसमाधिना लोकियलोकुत्तरेन समाधिना एवंसमाधीति अत्थो। <hi rend="bold">एवंपञ्‍ञा</hi>ति मग्गपञ्‍ञादिवसेनेव एवंपञ्‍ञा। <hi rend="bold">एवंविहारिनो</hi>ति एत्थ पन हेट्ठा समाधिपक्खानं धम्मानं गहितत्ता विहारो गहितोपि पुन कस्मा गहितमेव गण्हतीति चे। थेरेन इदं गहितमेव। इदञ्हि निरोधसमापत्तिदीपनत्थं वुत्तं। तस्मा एवं निरोधसमापत्तिविहारिनो ते भगवन्तो अहेसुन्ति एवमेत्थ अत्थो दट्ठब्बो।</p>

<p rend="bodytext"><hi rend="bold">एवंविमुत्ता</hi>ति एत्थ विक्खम्भनविमुत्ति, तदङ्गविमुत्ति, समुच्छेदविमुत्ति, पटिपस्सद्धिविमुत्ति, निस्सरणविमुत्तीति पञ्‍चविधा विमुत्ति। तत्थ अट्ठ समापत्तियो सयं विक्खम्भितेहि नीवरणादीहि विमुत्तत्ता <hi rend="bold">विक्खम्भनविमुत्ती</hi>ति सङ्खं गच्छन्ति। अनिच्‍चानुपस्सनादिका <pb ed="M" n="3.0243"/> सत्त अनुपस्सना सयं तस्स तस्स पच्‍चनीकवसेन परिच्‍चत्ताहि निच्‍चसञ्‍ञादीहि विमुत्तत्ता <hi rend="bold">तदङ्गविमुत्ती</hi>ति सङ्खं गच्छन्ति। चत्तारो अरियमग्गा सयं समुच्छिन्‍नेहि किलेसेहि विमुत्तत्ता <hi rend="bold">समुच्छेदविमुत्ती</hi>ति सङ्खं गच्छन्ति। चत्तारि सामञ्‍ञफलानि मग्गानुभावेन किलेसानं पटिपस्सद्धन्ते उप्पन्‍नत्ता <hi rend="bold">पटिपस्सद्धिविमुत्ती</hi>ति सङ्खं गच्छन्ति। निब्बानं सब्बकिलेसेहि निस्सटत्ता अपगतत्ता दूरे ठितत्ता <hi rend="bold">निस्सरणविमुत्ती</hi>ति सङ्खं गतं। इति इमासं पञ्‍चन्‍नं विमुत्तीनं वसेन एवं विमुत्ताति एत्थ अत्थो दट्ठब्बो।</p>

<p rend="bodytext"><hi rend="bold">किं</hi> <pb ed="P" n="3.0210"/> <hi rend="bold">पन ते सारिपुत्त ये ते भविस्सन्ती</hi>ति अतीता ताव निरुद्धा अपण्णत्तिकभावं गता दीपसिखा विय निब्बुता, एवं निरुद्धे अपण्णत्तिकभावं गते त्वं कथं जानिस्ससि, अनागतबुद्धानं पन गुणा किं तया अत्तनो चित्तेन परिच्छिन्दित्वा विदिताति पुच्छन्तो एवमाह।</p>

<p rend="bodytext"><hi rend="bold">किं पन त्याहं सारिपुत्त एतरही</hi>ति अनागतापि बुद्धा अजाता अनिब्बत्ता अनुप्पन्‍ना, ते कथं जानिस्ससि। तेसञ्हि जाननं अपदे आकासे पददस्सनं विय होति। इदानि मया सद्धिं <pb ed="V" n="3.0240"/> एकविहारे वससि, एकतो भिक्खाय चरसि, धम्मदेसनाकाले दक्खिणपस्से निसीदसि, किं पन मय्हं गुणा अत्तनो चेतसा परिच्छिन्दित्वा विदिता तयाति अनुयुञ्‍जन्तो एवमाह। थेरो पन पुच्छितपुच्छिते ‘‘नो हेतं भन्ते’’ति पटिक्खिपति।</p>

<p rend="bodytext">थेरस्स च विदितम्पि अत्थि, अविदितम्पि। किं सो अत्तनो विदितट्ठाने पटिक्खेपं करोति, अविदितट्ठानेति? विदितट्ठाने न करोति, अविदितट्ठानेयेव करोति। थेरो किर अनुयोगे आरद्धे एवं अञ्‍ञासि ‘‘नायं अनुयोगो सावकपारमीञाणे, सब्बञ्‍ञुतञ्‍ञाणे पन अयं अनुयोगो’’ति अत्तनो सावकपारमीञाणे पटिक्खेपं अकत्वाव अविदितट्ठाने सब्बञ्‍ञुतञ्‍ञाणे पटिक्खेपं करोति। तेन इदम्पि दीपेति – भगवा मय्हं अतीतानागतपच्‍चुप्पन्‍नानं बुद्धानं सीलसमाधिपञ्‍ञाविमुत्तिकारणजाननसमत्थं सब्बञ्‍ञुतञ्‍ञाणं नत्थीति।</p>

<p rend="bodytext"><hi rend="bold">एत्था</hi>ति एतेसु अतीतादिभेदेसु बुद्धेसु। <hi rend="bold">अथ किञ्‍चरही</hi>ति अथ कस्मा एवं ञाणे असति तया एवं कथितन्ति वदति। <hi rend="bold">धम्मन्वयो</hi>ति धम्मस्स पच्‍चक्खतो ञाणस्स अनुयोगं अनुगन्त्वा उप्पन्‍नं अनुमानञाणं नयग्गाहो <pb ed="M" n="3.0244"/> विदितो, सावकपारमीञाणे ठत्वाव इमिना आकारेन जानामि भगवाति वदति। थेरस्स हि नयग्गाहो अप्पमाणो अपरियन्तो। यथा च सब्बञ्‍ञुतञ्‍ञाणस्स पमाणं वा परियन्तो वा नत्थि, एवं धम्मसेनापतिनो नयग्गाहस्स। तेन सो – ‘‘इमिना एवंविधो इमिना एवंविधो, इमिना अनुत्तरो इमिना अनुत्तरो सत्था’’ति जानाति। थेरस्स हि नयग्गाहो सब्बञ्‍ञुतञ्‍ञाणगतिको एव।</p>

<p rend="bodytext">इदानि <pb ed="P" n="3.0211"/> तं नयग्गाहं पाकटं कातुं उपमं दस्सेन्तो <hi rend="bold">सेय्यथापि भन्ते</hi>तिआदिमाह। तत्थ यस्मा मज्झिमदेसे नगरस्स उद्धापपाकारादीनि थिरानि वा होन्तु दुब्बलानि वा, सब्बसो वा पन मा होन्तु, चोरानं आसङ्का न होति। तस्मा तं अग्गहेत्वा <hi rend="bold">पच्‍चन्तिमं नगर</hi>न्ति आह। <hi rend="bold">दळ्हुद्धाप</hi>न्ति थिरमूलपाकारं। <hi rend="bold">दळ्हपाकारतोरण</hi>न्ति थिरपाकारञ्‍चेव थिरपिट्ठसङ्घाटञ्‍च। <hi rend="bold">एकद्वार</hi>न्ति कस्मा आह? बहुद्वारे हि नगरे बहूहि पण्डितदोवारिकेहि भवितब्बं, एकद्वारेव एको वट्टति। थेरस्स च पञ्‍ञाय सदिसो अञ्‍ञो नत्थि, तस्मा अत्तनो पण्डितभावस्स ओपम्मत्थं एकंयेव दोवारिकं दस्सेतुं ‘‘एकद्वार’’न्ति आह।</p>

<p rend="bodytext"><hi rend="bold">पण्डितो</hi>ति पण्डिच्‍चेन समन्‍नागतो। <hi rend="bold">ब्यत्तो</hi>ति वेय्यत्तियेन समन्‍नागतो विसदञाणो। <hi rend="bold">मेधावी</hi>ति <pb ed="V" n="3.0241"/> ठानुप्पत्तिकपञ्‍ञासङ्खाताय मेधाय समन्‍नागतो। <hi rend="bold">अनुपरियायपथ</hi>न्ति अनुपरियायनामकं पाकारमग्गं। <hi rend="bold">पाकारसन्धि</hi>न्ति द्विन्‍नं इट्ठकानं अपगतट्ठानं। <hi rend="bold">पाकारविवर</hi>न्ति पाकारस्स छिन्‍नट्ठानं। <hi rend="bold">चेतसो उपक्‍किलेसे</hi>ति पञ्‍चनीवरणा चित्तं उपक्‍किलिस्सन्ति किलिट्ठं करोन्ति उपतापेन्ति विहेठेन्ति, तस्मा ‘‘चेतसो उपक्‍किलेसा’’ति वुच्‍चन्ति। <hi rend="bold">पञ्‍ञाय दुब्बलीकरणे</hi>ति नीवरणा उप्पज्‍जमाना अनुप्पन्‍नाय पञ्‍ञाय उप्पज्‍जितुं न देन्ति, तस्मा ‘‘पञ्‍ञाय दुब्बलीकरणा’’ति वुच्‍चन्ति। <hi rend="bold">सुपतिट्ठितचित्ता</hi>ति चतूसु सतिपट्ठानेसु सुट्ठु ठपितचित्ता हुत्वा। <hi rend="bold">सत्त बोज्झङ्गे यथाभूत</hi>न्ति सत्त बोज्झङ्गे यथासभावेन भावेत्वा। <hi rend="bold">अनुत्तरं सम्मासम्बोधि</hi>न्ति अरहत्तं सब्बञ्‍ञुतञ्‍ञाणं पटिविज्झिंसूति दस्सेति।</p>

<p rend="bodytext">अपिचेत्थ सतिपट्ठानाति विपस्सना, बोज्झङ्गा मग्गो, अनुत्तरसम्मासम्बोधि अरहत्तं। सतिपट्ठानाति वा विपस्सना, बोज्झङ्गामिस्सका, सम्मासम्बोधि <pb ed="M" n="3.0245"/> अरहत्तमेव। दीघभाणकमहासीवत्थेरो पनाह ‘‘सतिपट्ठाने विपस्सनं गहेत्वा बोज्झङ्गे मग्गो च सब्बञ्‍ञुतञ्‍ञाणञ्‍चाति <pb ed="P" n="3.0212"/> गहिते सुन्दरो पञ्हो भवेय्य, न पनेवं गहित’’न्ति। इति थेरो सब्बबुद्धानं नीवरणप्पहाने सतिपट्ठानभावनाय सम्बोधियञ्‍च मज्झे भिन्‍नसुवण्णरजतानं विय नानत्ताभावं दस्सेति।</p>

<p rend="bodytext">इध ठत्वा उपमा संसन्देतब्बा – आयस्मा हि सारिपुत्तो पच्‍चन्तनगरं दस्सेसि, पाकारं दस्सेसि, अनुपरियायपथं दस्सेसि, द्वारं दस्सेसि, पण्डितदोवारिकं दस्सेसि, नगरं पविसनकनिक्खमनके ओळारिके पाणे दस्सेसि, दोवारिकस्स तेसं पाणानं पाकटभावं दस्सेसि। तत्थ किं केन सदिसन्ति चे? नगरं विय हि निब्बानं, पाकारो विय सीलं, अनुपरियायपथो विय हिरी, द्वारं विय अरियमग्गो, पण्डितदोवारिको विय धम्मसेनापति, नगरं पविसनकनिक्खमनका ओळारिकपाणा विय अतीतानागतपच्‍चुप्पन्‍ना बुद्धा, दोवारिकस्स तेसं पाणानं पाकटभावो विय आयस्मतो सारिपुत्तस्स अतीतानागतपच्‍चुप्पन्‍नानं बुद्धानं सीलसमथादीहि पाकटभावो। एत्तावता थेरेन भगवतो – ‘‘एवमहं सावकपारमीञाणे ठत्वा धम्मन्वयेन नयग्गाहेन जानामी’’ति अत्तनो सीहनादस्स अनुयोगो दिन्‍नो होति।</p>

<p rend="bodytext"><hi rend="bold">तस्मा</hi>ति यस्मा ‘‘न खो मेतं, भन्ते, अतीतानागतपच्‍चुप्पन्‍नेसु अरहन्तेसु सम्मासम्बुद्धेसु <pb ed="V" n="3.0242"/> चेतोपरियञाणं अत्थि, अपिच धम्मन्वयो विदितो’’ति वदति, तस्मा। <hi rend="bold">अभिक्खणं भासेय्यासी</hi>ति पुनप्पुनं भासेय्यासि, ‘‘पुब्बण्हे मे कथित’’न्ति मा मज्झन्हिकादीसु न कथयित्थ, ‘‘अज्‍ज वा मे कथित’’न्ति मा परदिवसादीसु न कथयित्थाति अत्थो। <hi rend="bold">सा पहीयिस्सती</hi>ति ‘‘सारिपुत्तसदिसोपि नाम ञाणजवनसम्पन्‍नो सावको बुद्धानं चित्ताचारं जानितुं न सक्‍कोति, एवं अप्पमेय्या तथागता’’ति चिन्तेन्तानं या तथागते कङ्खा वा विमति वा, सा पहीयिस्सतीति।</p>

<p rend="subhead">३. चुन्दसुत्तवण्णना</p>

<p rend="bodytext" n="379"><hi rend="paranum">३७९</hi><hi rend="dot">.</hi> ततिये <hi rend="bold">मगधेसू</hi>ति एवंनामके जनपदे। <hi rend="bold">नालकगामके</hi>ति राजगहस्स अविदूरे अत्तनो कुलसन्तके एवंनामके गामे। <hi rend="bold">चुन्दो समणुद्देसो</hi>ति <pb ed="M" n="3.0246"/> अयं थेरो धम्मसेनापतिस्स <pb ed="P" n="3.0213"/> कनिट्ठभातिको, तं भिक्खू अनुपसम्पन्‍नकाले ‘‘चुन्दो समणुद्देसो’’ति समुदाचरित्वा थेरकालेपि तथेव समुदाचरिंसु। तेन वुत्तं ‘‘चुन्दो समणुद्देसो’’ति। <hi rend="bold">उपट्ठाको होती</hi>ति मुखोदकदन्तकट्ठदानेन चेव परिवेणसम्मज्‍जन-पिट्ठिपरिकम्मकरण-पत्तचीवरग्गहणेन च उपट्ठानकरो होति। <hi rend="bold">परिनिब्बायी</hi>ति अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो। कतरस्मिं कालेति? भगवतो परिनिब्बानसंवच्छरे।</p>

<p rend="bodytext">तत्रायं अनुपुब्बिकथा – भगवा किर वुत्थवस्सो वेळुवगामका निक्खमित्वा ‘‘सावत्थिं गमिस्सामी’’ति आगतमग्गेनेव पटिनिवत्तन्तो अनुपुब्बेन सावत्थिं पत्वा जेतवनं पाविसि। धम्मसेनापति भगवतो वत्तं दस्सेत्वा दिवाट्ठानं गतो, सो तत्थ अन्तेवासिकेसु वत्तं दस्सेत्वा पटिक्‍कन्तेसु दिवाट्ठानं सम्मज्‍जित्वा चम्मखण्डं पञ्‍ञापेत्वा पादे पक्खालेत्वा पल्‍लङ्कं आभुजित्वा फलसमापत्तिं पाविसि। अथस्स यथा परिच्छेदेन ततो वुट्ठितस्स अयं परिवितक्‍को उदपादि ‘‘बुद्धा नु खो पठमं परिनिब्बायन्ति, उदाहु अग्गसावकाति, ततो ‘‘अग्गसावका पठम’’न्ति ञत्वा अत्तनो आयुसङ्खारं ओलोकेसि। सो ‘‘सत्ताहमेव मे आयुसङ्खारा पवत्तिस्सन्ती’’ति ञत्वा ‘‘कत्थ परिनिब्बायिस्सामी’’ति चिन्तेसि।</p>

<p rend="bodytext">ततो <hi rend="bold">‘‘राहुलो</hi> तावतिंसेसु परिनिब्बुतो, <hi rend="bold">अञ्‍ञासिकोण्डञ्‍ञत्थेरो</hi> छद्दन्तदहे, अहं कत्थ परिनिब्बायिस्सामी’’ति पुनप्पुनं चिन्तेन्तो मातरं आरब्भ सतिं उप्पादेसि – ‘‘मय्हं माता सत्तन्‍नं <pb ed="V" n="3.0243"/> अरहन्तानं माता हुत्वापि बुद्धधम्मसङ्घेसु अप्पसन्‍ना, अत्थि नु खो तस्सा उपनिस्सयो, नत्थि नु खो’’ति। सोतापत्तिमग्गस्स उपनिस्सयं दिस्वा ‘‘कस्स देसनाय अभिसमयो भविस्सती’’ति ओलोकेन्तो ‘‘ममेव धम्मदेसनाय भविस्सति, न अञ्‍ञस्स। सचे खो पनाहं अप्पोस्सुक्‍को भवेय्यं, भविस्सन्ति मे वत्तारो – ‘‘सारिपुत्तत्थेरो अवसेसजनानम्पि अवस्सयो होति। तथा हिस्स समचित्तसुत्तन्तदेसनादिवसे (अ॰ नि॰ २.३३-३७) कोटिसतसहस्सदेवता अरहत्तं पत्ता, तयो मग्गे पटिविद्धदेवतानं गणना नत्थि, अञ्‍ञेसु च ठानेसु अनेका अभिसमया <pb ed="M" n="3.0247"/> दिस्सन्ति, थेरे च चित्तं पसादेत्वा सग्गे निब्बत्तानेव असीति कुलसहस्सानि, सो दानि सकमातुमिच्छादस्सनमत्तम्पि हरितुं <pb ed="P" n="3.0214"/> नासक्खी’’ति। तस्मा मातरं मिच्छादस्सना मोचेत्वा जातोवरकेयेव परिनिब्बायिस्सामी’’ति सन्‍निट्ठानं कत्वा ‘‘अज्‍जेव भगवन्तं अनुजानापेत्वा निक्खमिस्सामी’’ति चुन्दत्थेरं आमन्तेसि – ‘‘आवुसो, चुन्द, अम्हाकं पञ्‍चसताय भिक्खुपरिसाय सञ्‍ञं देहि। ‘गण्हथावुसो पत्तचीवरानि, धम्मसेनापति नालकगामं गन्तुकामो’’’ति। थेरो तथा अकासि।</p>

<p rend="bodytext">भिक्खू सेनासनं संसामेत्वा पत्तचीवरमादाय थेरस्स सन्तिकं अगमंसु। थेरो सेनासनं संसामेत्वा दिवाट्ठानं सम्मज्‍जित्वा दिवाट्ठानद्वारे ठत्वा दिवाट्ठानं ओलोकेत्वा ‘‘इदं दानि पच्छिमदस्सनं, पुन आगमनं नत्थी’’ति पञ्‍चसतभिक्खूहि परिवुतो भगवन्तं उपसङ्कमित्वा वन्दित्वा भगवन्तं एतदवोच ‘‘अनुजानातु मे भन्ते भगवा, अनुजानातु सुगतो। परिनिब्बानकालो मे, ओस्सट्ठो मे आयुसङ्खारो’’ति। बुद्धा पन यस्मा ‘‘परिनिब्बाही’’ति वुत्ते मरणवण्णं संवण्णेन्तीति, ‘‘मा परिनिब्बाही’’ति वुत्ते वट्टस्स गुणं कथेन्तीति मिच्छादिट्ठिका दोसं आरोपेस्सन्ति, तस्मा तदुभयम्पि न वदन्ति। तेन नं भगवा – ‘‘कत्थ परिनिब्बायिस्ससि सारिपुत्ता’’ति वत्वा – ‘‘अत्थि, भन्ते, मगधेसु नालकगामे जातोवरको, तत्थाहं परिनिब्बायिस्सामी’’ति वुत्ते – ‘‘यस्स दानि त्वं, सारिपुत्त, कालं मञ्‍ञसि, इदानि पन ते जेट्ठकनिट्ठभातिकानं तादिसस्स भिक्खुनो दस्सनं दुल्‍लभं भविस्सति, देसेहि नेसं धम्म’’न्ति आह।</p>

<p rend="bodytext">थेरो – ‘‘सत्था मय्हं इद्धिविकुब्बनपुब्बङ्गमं धम्मदेसनं पच्‍चासीसती’’ति ञत्वा भगवन्तं वन्दित्वा तालप्पमाणं आकासं अब्भुग्गन्त्वा ओरुय्ह दसबलस्स पादे वन्दि, पुन द्वितालप्पमाणं अब्भुग्गन्त्वा ओरुय्ह दसबलस्स पादे वन्दि, एतेनुपायेन सत्ततालप्पमाणं अब्भुग्गन्त्वा <pb ed="V" n="3.0244"/> अनेकानि पाटिहारियसतानि दस्सेन्तो धम्मकथं <pb ed="P" n="3.0215"/> आरभि। दिस्समानेनपि कायेन कथेति, अदिस्समानेनपि। उपरिमेन वा हेट्ठिमेन वा उपड्ढकायेन कथेति अदिस्समानेनपि दिस्समानेनपि, कालेन चन्दवण्णं दस्सेति, कालेन सूरियवण्णं, कालेन पब्बतवण्णं, कालेन समुद्दवण्णं, कालेन चक्‍कवत्तिराजा होति, कालेन वेस्सवणमहाराजा, कालेन सक्‍को <pb ed="M" n="3.0248"/> देवराजा, कालेन महाब्रह्माति एवं अनेकानि पाटिहारियसतानि दस्सेन्तो धम्मकथं कथेसि। सकलनगरं सन्‍निपति। थेरो ओरुय्ह दसबलस्स पादे वन्दित्वा अट्ठासि। अथ नं सत्था आह – ‘‘को नामो अयं सारिपुत्त धम्मपरियायो’’ति। सीहविकीळितो नाम, भन्तेति। तग्घ, सारिपुत्त, सीहविकीळितो तग्घ, सारिपुत्त, सीहविकीळितोति।</p>

<p rend="bodytext">थेरो अलत्तकवण्णे हत्थे पसारेत्वा सत्थु सुवण्णकच्छपसदिसे पादे गोप्फकेसु गहेत्वा – ‘‘भन्ते, इमेसं पादानं वन्दनत्थाय कप्पसतसहस्साधिकं असङ्ख्येय्यं पारमियो पूरिता, सो मे मनोरथो मत्थकं पत्तो, इतो दानि पट्ठाय पटिसन्धिवसेन न पुन एकट्ठाने सन्‍निपातो समागमो अत्थि, छिन्‍नो एस विस्सासो, अनेकेहि बुद्धसतसहस्सेहि पविट्ठं अजरं अमरं खेमं सुखं सीतलं अभयं निब्बानपुरं पविसिस्सामि, सचे मे किञ्‍चि कायिकं वा वाचसिकं वा न रोचेथ, खमथ तं भगवा, गमनकालो मय्ह’’न्ति। खमामि ते, सारिपुत्त, न खो पन ते किञ्‍चि कायिकं वा वाचसिकं वा मय्हं अरुच्‍चनकं अत्थि, यस्स दानि त्वं, सारिपुत्त, कालं मञ्‍ञसीति।</p>

<p rend="bodytext">इति भगवता अनुञ्‍ञातसमनन्तरं सत्थु पादे वन्दित्वा उट्ठितमत्ते आयस्मन्ते सारिपुत्ते सिनेरुचक्‍कवाळहिमवन्तपरिभण्डपब्बते धारयमानापि – ‘‘अज्‍ज इमं गुणरासिं धारेतुं न सक्‍कोमी’’ति वदन्ती विय एकप्पहारेनेव विरवमाना महापथवी याव उदकपरियन्ता अकम्पि, आकासे देवदुन्दुभियो फलिंसु, महामेघो उट्ठहित्वा पोक्खरवस्सं वस्सि।</p>

<p rend="bodytext">सत्था – ‘‘धम्मसेनापतिं पटिपादेस्सामी’’ति धम्मासना <pb ed="P" n="3.0216"/> वुट्ठाय गन्धकुटिअभिमुखो गन्त्वा मणिफलके अट्ठासि। थेरो तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा – ‘‘भगवा इतो कप्पसतसहस्साधिकस्स असङ्ख्येय्यस्स उपरि अनोमदस्सीसम्मासम्बुद्धस्स पादमूले निपज्‍जित्वा तुम्हाकं दस्सनं पत्थेसिं, सा मे पत्थना समिद्धा, दिट्ठा तुम्हे, तं पठमदस्सनं, इदं पच्छिमदस्सनं। पुन तुम्हाकं दस्सनं नत्थी’’ति वत्वा दसनखसमोधानसमुज्‍जलं <pb ed="V" n="3.0245"/> अञ्‍जलिं पग्गय्ह याव दस्सनविसया अभिमुखोव पटिक्‍कमित्वा <pb ed="M" n="3.0249"/> वन्दित्वा पक्‍कामि। पुन महापथवी धारेतुं असक्‍कोन्ती उदकपरियन्तं कत्वा अकम्पि।</p>

<p rend="bodytext">भगवा परिवारेत्वा ठिते भिक्खू आह – ‘‘अनुगच्छथ, भिक्खवे, तुम्हाकं जेट्ठभातिक’’न्ति। तस्मिं खणे चतस्सोपि परिसा सम्मासम्बुद्धं एककंयेव जेतवने ओहाय निरवसेसा निक्खमिंसु। सावत्थिनगरवासिनोपि – ‘‘सारिपुत्तत्थेरो किर सम्मासम्बुद्धं आपुच्छित्वा परिनिब्बायितुकामो निक्खन्तो, पस्सिस्साम न’’न्ति नगरद्वारानि निरोकासानि करोन्ता निक्खमित्वा गन्धमालादिहत्था केसे विकिरित्वा – ‘‘इदानि मयं कहं महापञ्‍ञो निसिन्‍नो, कहं धम्मसेनापति निसिन्‍नो’’ति पुच्छन्ता – ‘‘कस्स सन्तिकं गमिस्साम, कस्स हत्थे सत्थारं ठपेत्वा थेरो पक्‍कन्तो’’तिआदिना नयेन परिदेवन्ता रोदन्ता थेरं अनुबन्धिंसु।</p>

<p rend="bodytext">थेरो महापञ्‍ञाय ठितत्ता – ‘‘सब्बेसं अनतिक्‍कमनीयो एस मग्गो’’ति महाजनं ओवदित्वा – ‘‘तुम्हेपि, आवुसो, तिट्ठथ, मा दसबले पमादं आपज्‍जित्था’’ति भिक्खुसङ्घम्पि निवत्तेत्वा अत्तनो परिसायेव सद्धिं पक्‍कामि। येपि मनुस्सा – ‘‘पुब्बे अय्यो पच्‍चागमनचारिकं चरति, इदं इदानि गमनं न पुन पच्‍चागमनाया’’ति परिदेवन्ता अनुबन्धिंसुयेव। तेपि – ‘‘अप्पमत्ता, आवुसो, होथ, एवंभाविनो नाम सङ्खारा’’ति निवत्तेसि।</p>

<p rend="bodytext">अथ खो आयस्मा सारिपुत्तो सब्बत्थ एकरत्तिवासेन अन्तरामग्गे सत्ताहं मनुस्सानं <pb ed="P" n="3.0217"/> सङ्गहं करोन्तो सायं नालकगामं पत्वा गामद्वारे निग्रोधरुक्खमूले अट्ठासि। अथ उपरेवतो नाम थेरस्स भागिनेय्यो बहिगामं गच्छन्तो थेरं दिस्वा उपसङ्कमित्वा वन्दित्वा अट्ठासि। थेरो तं आह – ‘‘अत्थि गेहे ते अय्यिका’’ति। आम भन्तेति। गच्छ अम्हाकं इधागतभावं आरोचेहि। ‘‘कस्मा आगतो’’ति च वुत्ते – ‘‘अज्‍ज किर एकदिवसं अन्तोगामे वसिस्सति, जातोवरकं पटिजग्गथ, पञ्‍चन्‍नञ्‍च किर भिक्खुसतानं वसनट्ठानं जानाथा’’ति। सो गन्त्वा – ‘‘अय्यिके मय्हं मातुलो आगतो’’ति आह। इदानि कुहिन्ति? गामद्वारेति। एककोव, अञ्‍ञोपि कोचि अत्थीति? अत्थि पञ्‍चसता भिक्खूति। किंकारणा आगतोति? सो तं पवत्तिं आरोचेसि। ब्राह्मणी – ‘‘किं नु खो एत्तकानं वसनट्ठानं पटिजग्गापेति <pb ed="M" n="3.0250"/>, दहरकाले पब्बजित्वा महल्‍लककाले गिही होतुकामो’’ति चिन्तेन्ती जातोवरकं पटिजग्गापेत्वा पञ्‍चसतानं वसनट्ठानं कारेत्वा दण्डदीपिका जालेत्वा थेरस्स पाहेसि।</p>

<p rend="bodytext">थेरो <pb ed="V" n="3.0246"/> भिक्खूहि सद्धिं पासादं आरुय्ह जातोवरकं पविसित्वा निसीदि, निसीदित्वा ‘‘तुम्हाकं वसनट्ठानं गच्छथा’’ति भिक्खू उय्योजेसि। तेसु गतमत्तेसुयेव थेरस्स खरो आबाधो उप्पज्‍जि, लोहितपक्खन्दिका मारणन्तिका वेदना वत्तन्ति। एकं भाजनं पविसति, एकं निक्खमति। ब्राह्मणी – ‘‘मम पुत्तस्स पवत्ति मय्हं न रुच्‍चती’’ति अत्तनो वसनगब्भद्वारं निस्साय अट्ठासि।</p>

<p rend="bodytext">चत्तारो महाराजानो ‘‘धम्मसेनापति कुहिं विहरती’’ति ओलोकेन्ता नालकगामे जातोवरके परिनिब्बानमञ्‍चे निपन्‍नो, पच्छिमदस्सनं गमिस्सामा’’ति आगम्म वन्दित्वा अट्ठंसु। के तुम्हेति? महाराजानो भन्तेति। कस्मा आगतत्थाति? गिलानुपट्ठाका भविस्सामाति। ‘‘होतु, अत्थि गिलानुपट्ठाको, गच्छथ तुम्हे’’ति उय्योजेसि। तेसं गतावसाने तेनेव नयेन सक्‍को देवानमिन्दो। तस्मिं गते महाब्रह्मा च आगमिंसु। तेपि तथेव थेरो उय्योजेसि।</p>

<p rend="bodytext">ब्राह्मणी देवतानं आगमनञ्‍च गमनञ्‍च दिस्वा ‘‘के नु खो एते मम पुत्तं वन्दित्वा गच्छन्ती’’ति थेरस्स <pb ed="P" n="3.0218"/> गब्भद्वारं गन्त्वा ‘‘तात, चुन्द, का पवत्ती’’ति पुच्छि। सो तं पवत्तिं आचिक्खित्वा ‘‘महाउपासिका, भन्ते, आगता’’ति आह। थेरो ‘‘कस्मा अवेलाय आगता’’ति पुच्छि। सा ‘‘तुय्हं, तात, दस्सनत्थाया’’ति वत्वा ‘‘तात, पठमं के आगता’’ति पुच्छि। चत्तारो महाराजानो उपासिकेति। तात, त्वं चतूहि महाराजेहि महन्ततरोति? आरामिकसदिसा एते उपासिके, अम्हाकं सत्थु पटिसन्धिग्गहणतो पट्ठाय खग्गहत्था हुत्वा आरक्खं अकंसूति। तेसं तात गतावसाने को आगतोति? सक्‍को देवानमिन्दोति। देवराजतोपि त्वं तात महन्ततरोति? भण्डग्गाहकसामणेरसदिसो एस उपासिके, अम्हाकं सत्थु तावतिंसतो ओतरणकाले पत्तचीवरं गहेत्वा ओतिण्णोति। तस्स तात गतावसाने जोतयमानो विय को आगतोति? उपासिके, तुय्हं भगवा च सत्था च महाब्रह्मा नाम एसोति। मय्हं भगवतो <pb ed="M" n="3.0251"/> महाब्रह्मतोपि त्वं, तात, महन्ततरोति? आम उपासिके, एते नाम किर अम्हाकं सत्थु जातदिवसे चत्तारो महाब्रह्मानो महापुरिसं सुवण्णजालेन पटिग्गण्हिंसूति।</p>

<p rend="bodytext">अथ ब्राह्मणिया – ‘‘पुत्तस्स ताव मे अयं आनुभावो, कीदिसो वत मय्हं पुत्तस्स भगवतो <pb ed="V" n="3.0247"/> सत्थु आनुभावो भविस्सती’’ति चिन्तयन्तिया सहसा पञ्‍चवण्णा पीति उप्पज्‍जित्वा सकलसरीरं फरि। थेरो – ‘‘उप्पन्‍नं मे मातु पीतिसोमनस्सं, अयं दानि कालो धम्मदेसनाया’’ति चिन्तेत्वा ‘‘किं चिन्तेसि महाउपासिके’’ति आह। सा ‘‘पुत्तस्स ताव मे अयं गुणो, सत्थु पनस्स कीदिसो भविस्सतीति इदं, तात, चिन्तेमी’’ति आह। महाउपासिके, मय्हं सत्थुजातक्खणे महाभिनिक्खमने सम्बोधियं धम्मचक्‍कप्पवत्तने च दससहस्सिलोकधातु कम्पित्थ। सीलेन समाधिना पञ्‍ञाय विमुत्तिया विमुत्तिञाणदस्सनेन समो नाम नत्थि, इतिपि सो भगवाति वित्थारेत्वा बुद्धगुणपटिसंयुत्तं धम्मदेसनं कथेसि।</p>

<p rend="bodytext">ब्राह्मणी पियपुत्तस्स धम्मदेसनापरियोसाने सोतापत्तिफले पतिट्ठाय पुत्तं आह – ‘‘तात उपतिस्स, कस्मा एवमकासि, एवरूपं नाम अमतं मय्हं एत्तकं कालं न अदासी’’ति। थेरो – ‘‘दिन्‍नं दानि मे मातु रूपसारिया <pb ed="P" n="3.0219"/> ब्राह्मणिया पोसावनिकमूलं, एत्तकेन वट्टिस्सती’’ति चिन्तेत्वा – ‘‘गच्छ महाउपसिके’’ति ब्राह्मणिं उय्योजेत्वा – ‘‘चुन्द का वेला’’ति आह। बलवपच्‍चूसकालो, भन्तेति। भिक्खुसङ्घं सन्‍निपातेहीति। सन्‍निपतितो भन्ते भिक्खुसङ्घोति। ‘‘मं उक्खिपित्वा निसीदापेहि चुन्दा’’ति उक्खिपित्वा निसीदापेसि।</p>

<p rend="bodytext">थेरो भिक्खू आमन्तेसि – ‘‘आवुसो चतुचत्तालीसं वो वस्सानि मया सद्धिं विचरन्तानं यं मे कायिकं वा वाचसिकं वा न रोचेथ, तं खमथ आवुसो’’ति। एत्तकं, भन्ते, अम्हाकं छाया विय तुम्हे अमुञ्‍चित्वा विचरन्तानं अरुच्‍चनकं नाम नत्थि, तुम्हे पन अम्हाकं खमथाति। अथ थेरो महाचीवरं सङ्कड्ढित्वा मुखं पिधाय दक्खिणेन पस्सेन निपन्‍नो सत्था विय नव अनुपुब्बसमापत्तियो अनुलोमपटिलोमतो समापज्‍जित्वा पुन पठमज्झानं आदिं कत्वा याव चतुत्थज्झाना समापज्‍जि <pb ed="M" n="3.0252"/>। ततो वुट्ठाय अनन्तरंयेव महापथविं उन्‍नादेन्तो अनुपादिसेसाय निब्बानधातुया परिनिब्बायि।</p>

<p rend="bodytext">उपासिका – ‘‘किं नु खो मे पुत्तो, न किञ्‍चि कथेती’’ति उट्ठाय पिट्ठिपादे परिमज्‍जन्ती परिनिब्बुतभावं ञत्वा महासद्दं कुरुमाना पादेसु निपतित्वा – ‘‘तात मयं इतो पुब्बे तव गुणं न जानिम्हा, इदानि पन तं आदिं कत्वा अनेकसते अनेकसहस्से अनेकसतसहस्से भिक्खू इमस्मिं निवेसने निसीदापेत्वा भोजेतुं न लभिम्हा, चीवरेहि अच्छादेतुं न लभिम्हा, विहारसतं विहारसहस्सं कारेतुं न लभिम्हा’’ति याव अरुणुग्गमना परिदेवि <pb ed="V" n="3.0248"/>। अरुणे उग्गतमत्तेयेव सुवण्णकारे पक्‍कोसापेत्वा सुवण्णगब्भं विवरापेत्वा सुवण्णघटियो महातुलाय तुलापेत्वा – ‘‘पञ्‍च कूटागारसतानि पञ्‍च अग्घिकसतानि करोथा’’ति दापेति।</p>

<p rend="bodytext">सक्‍कोपि देवराजा विस्सकम्मदेवपुत्तं आमन्तेत्वा – ‘‘तात धम्मसेनापति परिनिब्बुतो, पञ्‍च कूटागारसतानि पञ्‍च अग्घिकसतानि च मापेही’’ति आह। इति उपासिकाय कारितानि च विस्सकम्मेन निम्मितानि च सब्बानिपि द्वेसहस्सानि अहेसुं। ततो नगरमज्झे सारमयं महामण्डपं कारेत्वा मण्डपमज्झे महाकूटागारं ठपेत्वा <pb ed="P" n="3.0220"/> सेसानि परिवारसङ्खेपेन ठपेत्वा साधुकीळिकं आरभिंसु। देवानं अन्तरे मनुस्सा, मनुस्सानं अन्तरे देवा अहेसुं।</p>

<p rend="bodytext">रेवती नाम एका थेरस्स उपट्ठायिका – ‘‘अहं थेरस्स पूजं करिस्सामी’’ति सुवण्णपुप्फानं तयो कुम्भे कारेसि। ‘‘थेरस्स पूजं करिस्सामी’’ति सक्‍को देवराजा अड्ढतेय्यकोटिनाटकेहि परिवारितो ओतरि। ‘‘सक्‍को ओतरती’’ति महाजनो पच्छामुखो पटिक्‍कमि। तत्थ सापि उपासिका पटिक्‍कममाना गरुभारत्ता एकमन्तं अपसक्‍कितुं असक्‍कोन्ती मनुस्सानं अन्तरे पति। मनुस्सा अपस्सन्ता तं मद्दित्वा अगमिंसु। सा तत्थेव कालं कत्वा तावतिंसभवने कनकविमाने निब्बत्ति। निब्बत्तक्खणेयेवस्सा रतनक्खन्धो विय तिगावुतप्पमाणो अत्तभावो अहोसि सट्ठिसकटपूरप्पमाणअलङ्कारपटिमण्डिता अच्छरासहस्सपरिवारिता। अथस्सा दिब्बं सब्बकायिकादासं पुरतो ठपयिंसु <pb ed="M" n="3.0253"/>। सा अत्तनो सिरिसम्पत्तिं दिस्वा – ‘‘उळारा अयं सम्पत्ति, किं नु खो मे कम्मं कत’’न्ति चिन्तयमाना अद्दस – ‘‘मया सारिपुत्तत्थेरस्स परिनिब्बुतट्ठाने तीहि सुवण्णपुप्फकुम्भेहि पूजा कता, महाजनो मं मद्दित्वा गतो, साहं तत्थ कालं कत्वा इधूपपन्‍ना, थेरं निस्साय लद्धं इदानि पुञ्‍ञविपाकं मनुस्सानं कथेस्सामी’’ति सह विमानेनेव ओतरि।</p>

<p rend="bodytext">महाजनो दूरतोव दिस्वा – ‘‘किं नु खो द्वे सूरिया उट्ठिता’’ति? ओलोकेन्तो – ‘‘विमाने आगच्छन्ते कूटागारसण्ठानं पञ्‍ञायति, नायं सूरियो, विमानमेतं एक’’न्ति आह। तम्पि विमानं तावदेव आगन्त्वा थेरस्स दारुचितकमत्थके वेहासं अट्ठासि। देवधीता विमानं आकासेयेव ठपेत्वा पथविं ओतरि। महाजनो – ‘‘का त्वं, अय्ये’’ति? पुच्छि। ‘‘न मं तुम्हे जानाथ, रेवती नामाहं, तीहि सुवण्णपुप्फकुम्भेहि थेरं पूजं कत्वा मनुस्सेहि मद्दिता <pb ed="V" n="3.0249"/> कालं कत्वा तावतिंसभवने निब्बत्ता, पस्सथ मे सिरिसम्पत्तिं, तुम्हेपि दानि दानानि देथ, पुञ्‍ञानि करोथा’’ति कुसलकिरियाय वण्णं कथेत्वा थेरस्स चितकं पदक्खिणं कत्वा वन्दित्वा अत्तनो देवट्ठानंयेव गता।</p>

<p rend="bodytext">महाजनोपि <pb ed="P" n="3.0221"/> सत्ताहं साधुकीळिकं कीळित्वा सब्बगन्धेहि चितकं अकासि, चितका एकूनरतनसतिका अहोसि। थेरस्स सरीरं चितकं आरोपेत्वा उसीरकलापकेहि आलिम्पेसुं। आळाहने सब्बरत्तिं धम्मस्सवनं पवत्ति। अनुरुद्धत्थेरो सब्बगन्धोदकेन थेरस्स चितकं निब्बापेसि। चुन्दत्थेरो धातुयो परिस्सावने पक्खिपित्वा – ‘‘न दानि मया इधेव सक्‍का ठातुं, मय्हं जेट्ठभातिकस्स धम्मसेनापतिसारिपुत्तत्थेरस्स परिनिब्बुतभावं सम्मासम्बुद्धस्स आरोचेस्सामी’’ति धातुपरिस्सावनं थेरस्स च पत्तचीवरं गहेत्वा सावत्थिं अगमासि। एकट्ठानेपि च द्वे रत्तियो अवसित्वा सब्बत्थ एकरत्तिवासेनेव सावत्थिं पापुणि। तमत्थं दस्सेतुं <hi rend="bold">अथ खो चुन्दो समणुद्देसो</hi>तिआदि वुत्तं।</p>

<p rend="bodytext">तत्थ <hi rend="bold">येनायस्मा आनन्दो</hi>ति येन अत्तनो उपज्झायो धम्मभण्डागारिको आयस्मा आनन्दो, तेनुपसङ्कमि। कस्मा पनेस उजुकं <pb ed="M" n="3.0254"/> सत्थु सन्तिकं अगन्त्वा थेरस्स सन्तिकं अगमासीति? सत्थरि च थेरे च गारवेन। जेतवनमहाविहारे पोक्खरणियं किरस्स न्हत्वा पच्‍चुत्तरित्वा सुनिवत्थसुपारुतस्स एतदहोसि – ‘‘बुद्धा नाम महापासाणच्छत्तं विय गरुनो, फणकतसप्प सीहब्यग्घमत्तवरवारणादयो विय च दुरासदा, न सक्‍का मया उजुकमेव सत्थु सन्तिकं गन्त्वा कथेतुं, कस्स नु खो सन्तिकं गन्तब्ब’’न्ति। ततो चिन्तेसि – ‘‘उपज्झायो मे धम्मभण्डागारिको जेट्ठभातिकत्थेरस्स उत्तमसहायो, तस्स सन्तिकं गन्त्वा तं आदाय सत्थारा सद्धिं कथेस्सामी’’ति सत्थरि चेव थेरे च गारवेन उपसङ्कमि।</p>

<p rend="bodytext"><hi rend="bold">इदमस्स पत्तचीवर</hi>न्ति ‘‘अयमस्स परिभोगपत्तो, इदं धातुपरिस्सावन’’न्ति एवं एकेकं आचिक्खि। पाळियं पन ‘‘इदमस्स पत्तचीवर’’न्ति एत्तकमेव वुत्तं। <hi rend="bold">कथापाभत</hi>न्ति कथामूलं। मूलञ्हि <hi rend="bold">पाभत</hi>न्ति वुच्‍चति। यथाह –</p>

<p rend="gatha1">‘‘अप्पकेनपि <pb ed="P" n="3.0222"/> मेधावी, पाभतेन विचक्खणो।</p>

<p rend="gathalast">समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति॥ (जा॰ १.१.४)।</p>

<p rend="bodytext"><hi rend="bold">भगवन्तं</hi> <pb ed="V" n="3.0250"/> <hi rend="bold">दस्सनाया</hi>ति भगवन्तं दस्सनत्थाय। किं पनिमिना भगवा न दिट्ठपुब्बोति? नो न दिट्ठपुब्बो। अयञ्हि आयस्मा दिवा नव वारे, रत्तिं नव वारेति एकाहं अट्ठारस वारे उपट्ठानमेव गच्छति। दिवसस्स पन सतवारं वा सहस्सवारं वा गन्तुकामो समानोपि न अकारणा गच्छति, एकं पञ्हद्वारं गहेत्वाव गच्छति। सो तंदिवसं तेन कथापाभतेन गन्तुकामो एवमाह। <hi rend="bold">इदमस्स पत्तचीवर</hi>न्ति थेरोपि – ‘‘इदं तस्स पत्तचीवरं, इदञ्‍च धातुपरिस्सावन’’न्ति पाटियेक्‍कंयेव दस्सेत्वा आचिक्खि।</p>

<p rend="bodytext">सत्था हत्थं पसारेत्वा धातुपरिस्सावनं गहेत्वा हत्थतले ठपेत्वा भिक्खू आमन्तेसि – ‘‘यो सो, भिक्खवे, भिक्खु पुरिमदिवसे अनेकानि पाटिहारियसतानि कत्वा परिनिब्बानं अनुजानापेसि, तस्स इदानि इमा सङ्खवण्णसन्‍निभा धातुयोव पञ्‍ञायन्ति, कप्पसतसहस्साधिकं असङ्ख्येय्यं पूरितपारमी एस, भिक्खवे, भिक्खु, मया पवत्तितं धम्मचक्‍कं <pb ed="M" n="3.0255"/> अनुपवत्तको एस भिक्खु, पटिलद्धदुतियआसनो एस भिक्खु, पूरितसावकसन्‍निपातो एस भिक्खु, ठपेत्वा मं दससु चक्‍कवाळसहस्सेसु पञ्‍ञाय असदिसो एस भिक्खु, महापञ्‍ञो एस भिक्खु, पुथुपञ्‍ञो हासपञ्‍ञो जवनपञ्‍ञो तिक्खपञ्‍ञो निब्बेधिकपञ्‍ञो एस भिक्खु, अप्पिच्छो एस भिक्खु, सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो चोदको पापगरही एस भिक्खु, पञ्‍च जातिसतानि पटिलद्धमहासम्पत्तियो पहाय पब्बजितो एस भिक्खु, मम सासने पथवीसमखन्तिको एस भिक्खु, छिन्‍नविसाणउसभसदिसो एस भिक्खु, चण्डालपुत्तसदिसनीचचित्तो एस भिक्खु। पस्सथ, भिक्खवे, महापञ्‍ञस्स धातुयो, पस्सथ, भिक्खवे, पुथुपञ्‍ञस्स हासपञ्‍ञस्स जवनपञ्‍ञस्स तिक्खपञ्‍ञस्स निब्बेधिकपञ्‍ञस्स अप्पिच्छस्स सन्तुट्ठस्स पविवित्तस्स असंसट्ठस्स आरद्धवीरियस्स <pb ed="P" n="3.0223"/>, चोदकस्स, पस्सथ, भिक्खवे, पापगरहिस्स धातुयोति।</p>

<p rend="gatha1">‘‘यो पब्बजी जातिसतानि पञ्‍च,</p>

<p rend="gatha2">पहाय कामानि मनोरमानि।</p>

<p rend="gatha3">तं वीतरागं सुसमाहितिन्द्रियं,</p>

<p rend="gathalast">परिनिब्बुतं वन्दथ सारिपुत्तं॥</p>

<p rend="gatha1">‘‘खन्तिबलो <pb ed="V" n="3.0251"/> पथविसमो न कुप्पति,</p>

<p rend="gatha2">न चापि चित्तस्स वसेन वत्तति।</p>

<p rend="gatha3">अनुकम्पको कारुणिको च निब्बुतो,</p>

<p rend="gathalast">परिनिब्बुतं वन्दथ सारिपुत्तं॥</p>

<p rend="gatha1">‘‘चण्डालपुत्तो यथा नगरं पविट्ठो,</p>

<p rend="gatha2">नीचमनो चरति कळोपिहत्थो।</p>

<p rend="gatha3">तथा अयं विहरति सारिपुत्तो,</p>

<p rend="gathalast">परिनिब्बुतं वन्दथ सारिपुत्तं॥</p>

<p rend="gatha1">‘‘उसभो यथा छिन्‍नविसाणको,</p>

<p rend="gatha2">अहेठयन्तो चरति पुरन्तरे वने।</p>

<p rend="gatha3">तथा अयं विहरति सारिपुत्तो,</p>

<p rend="gathalast">परिनिब्बुतं वन्दथ सारिपुत्त’’न्ति॥</p>

<p rend="bodytext">इति <pb ed="M" n="3.0256"/> भगवा पञ्‍चहि गाथासतेहि थेरस्स वण्णं कथेसि। यथा यथा भगवा थेरस्स वण्णं कथेसि, तथा तथा आनन्दत्थेरो सन्धारेतुं न सक्‍कोति, बिळारमुखे पक्खन्तकुक्‍कुटो विय पवेधति। तेनाह <hi rend="bold">अपिच मे, भन्ते, मधुरकजातो विय कायो</hi>ति सब्बं वित्थारेतब्बं। तत्थ <hi rend="bold">मधुरकजातो</hi>तिआदीनं अत्थो वुत्तोयेव। इध पन <hi rend="bold">धम्मा</hi>ति उद्देसपरिपुच्छाधम्मा अधिप्पेता। तस्स हि उद्देसपरिपुच्छाधम्मे अगहिते वा गहेतुं, गहिते वा सज्झायं कातुं चित्तं न पवत्तति। अथ सत्था पञ्‍चपसादविचित्रानि अक्खीनि उम्मीलेत्वा थेरं ओलोकेन्तो ‘‘अस्सासेस्सामि न’’न्ति अस्सासेन्तो <hi rend="bold">किं नु खो ते, आनन्द, सारिपुत्तो</hi>तिआदिमाह।</p>

<p rend="bodytext">तत्थ <hi rend="bold">सीलक्खन्ध</hi>न्ति लोकियलोकुत्तरसीलं। <hi rend="bold">समाधिपञ्‍ञासु</hi>पि एसेव नयो। <hi rend="bold">विमुत्ति</hi> पन लोकुत्तराव। <hi rend="bold">विमुत्तिञाणदस्सनं</hi> <pb ed="P" n="3.0224"/> पच्‍चवेक्खणञाणं, तं लोकियमेव। <hi rend="bold">ओवादको</hi>ति ओवाददायको। <hi rend="bold">ओतिण्णो</hi>ति ओतिण्णेसु वत्थूसु नानप्पकारेन ओतरणसीलो। <hi rend="bold">विञ्‍ञापको</hi>ति धम्मकथाकाले अत्थञ्‍च कारणञ्‍च विञ्‍ञापेता। <hi rend="bold">सन्दस्सको</hi>ति खन्धधातुआयतनवसेन तेसं तेसं धम्मानं <pb ed="V" n="3.0252"/> दस्सेता। <hi rend="bold">समादपको</hi>ति ‘‘इदञ्‍चिदञ्‍च गण्हथा’’ति एवं गण्हापको। <hi rend="bold">समुत्तेजको</hi>ति अब्भुस्साहको। <hi rend="bold">सम्पहंसको</hi>ति पटिलद्धगुणेहि मोदापको जोतापको।</p>

<p rend="bodytext"><hi rend="bold">अकिलासु धम्मदेसनाया</hi>ति धम्मदेसनं आरभित्वा ‘‘सीसं वा मे रुज्‍जति, हदयं वा कुच्छि वा पिट्ठि वा’’ति एवं ओसक्‍कनाकारविरहितो निक्‍किलासु विसारदो एकस्सापि द्विन्‍नम्पि सीहवेगेनेव पक्खन्दति। <hi rend="bold">अनुग्गाहको सब्रह्मचारीन</hi>न्ति पदस्स अत्थो खन्धकवग्गे वित्थारितोव। <hi rend="bold">धम्मोजं धम्मभोग</hi>न्ति उभयेनपि धम्मपरिभोगोव कथितो। <hi rend="bold">धम्मानुग्गह</hi>न्ति धम्मेन अनुग्गहणं।</p>

<p rend="bodytext">सत्था ‘‘अतिविय अयं भिक्खु किलमती’’ति पुन तं अस्सासेन्तो <hi rend="bold">ननु तं, आनन्द, मया</hi>तिआदिमाह। तत्थ <hi rend="bold">पियेहि मनापेही</hi>ति मातापिताभाताभगिनीआदिकेहि जातिया नानाभावो, मरणेन विनाभावो, भवेन अञ्‍ञथाभावो। <hi rend="bold">तं कुतेत्थ, आनन्द, लब्भा</hi>ति <hi rend="bold">त</hi>न्ति <pb ed="M" n="3.0257"/> तस्मा। यस्मा सब्बेहि पियेहि मनापेहि नानाभावो, तस्मा दस पारमियो पूरेत्वापि सम्बोधिं पत्वापि धम्मचक्‍कं पवत्तेत्वापि यमकपाटिहारियं दस्सेत्वापि देवोरोहनं कत्वापि यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं तथागतस्सापि सरीरं मा पलुज्‍जीति नेतं ठानं विज्‍जति, रोदन्तेनपि कन्दन्तेनपि न सक्‍का तं कारणं लद्धुन्ति। <hi rend="bold">सो पलुज्‍जेय्या</hi>ति सो भिज्‍जेय्य।</p>

<p rend="bodytext"><hi rend="bold">एवमेव खो</hi>ति एत्थ योजनसतुब्बेधो महाजम्बुरुक्खो विय भिक्खुसङ्घो तस्स दक्खिणदिसं गतो पञ्‍ञासयोजनिको महाखन्धो विय धम्मसेनापति। तस्मिं महाखन्धे भिन्‍ने ततो पट्ठाय अनुपुब्बेन वड्ढित्वा पुप्फफलादीहि तं ठानं पूरेतुं समत्थस्स अञ्‍ञस्स खन्धस्स अभावो विय थेरे परिनिब्बुते सोळसन्‍नं पञ्‍ञानं मत्थकं पत्तस्स अञ्‍ञस्स दक्खिणासने निसीदनसमत्थस्स सारिपुत्तसदिसस्स भिक्खुनो अभावो। ताय परिभिन्‍नाय सो रुक्खो विय <pb ed="P" n="3.0225"/> भिक्खुसङ्घो खन्धोत्वेव जातोति वेदितब्बो। <hi rend="bold">तस्मा</hi>ति यस्मा सब्बं सङ्खतं पलोकधम्मं, तं मा पलुज्‍जीति न सक्‍का लद्धुं, तस्मा।</p>

<p rend="subhead">४-५. उक्‍कचेलसुत्तादिवण्णना</p>

<p rend="bodytext" n="380-381"><hi rend="paranum">३८०-३८१</hi><hi rend="dot">.</hi> चतुत्थे <pb ed="V" n="3.0253"/> <hi rend="bold">अचिरपरिनिब्बुतेसु सारिपुत्तमोग्गल्‍लानेसू</hi>ति नचिरपरिनिब्बुतेसु द्वीसु अग्गसावकेसु। तेसञ्हि धम्मसेनापति कत्तिकमासपुण्णमाय परिनिब्बुतो, महामोग्गल्‍लानो ततो अड्ढमासं अतिक्‍कम्म अमावसुपोसथे। सत्था द्वीसु अग्गसावकेसु परिनिब्बुतेसु महाभिक्खुसङ्घपरिवारो महामण्डले चारिकं चरमानो अनुपुब्बेन उक्‍कचेलनगरं पत्वा तत्थ पिण्डाय चरित्वा गङ्गापिट्ठे रजतपट्टवण्णवालिकापुलिने विहासि। तेन वुत्तं ‘‘अचिरपरिनिब्बुतेसु सारिपुत्तमोग्गल्‍लानेसू’’ति। <hi rend="bold">ये महन्ततरा खन्धा ते पलुज्‍जेय्यु</hi>न्ति इधापि योजनसतुब्बेधो महाजम्बुरुक्खो विय भिक्खुसङ्घो, तस्स दक्खिणतो च उत्तरतो च गता पण्णासयोजनिका द्वे महाखन्धा विय द्वे अग्गसावकाति। सेसं पुरिमनयेनेव योजेतब्बं। पञ्‍चमे <hi rend="bold">दिट्ठी</hi>ति कम्मस्सकदिट्ठि।</p>

<p rend="subhead">६. उत्तियसुत्तवण्णना</p>

<p rend="bodytext" n="382"><hi rend="paranum">३८२</hi><hi rend="dot">.</hi> छट्ठे <pb ed="M" n="3.0258"/> <hi rend="bold">मच्‍चुधेय्यस्स पार</hi>न्ति तेभूमकवट्टस्स पारभूतं, निब्बानं।</p>

<p rend="subhead">८. ब्रह्मसुत्तवण्णना</p>

<p rend="bodytext" n="384"><hi rend="paranum">३८४</hi><hi rend="dot">.</hi> अट्ठमे <hi rend="bold">काये वा भिक्खू</hi>ति तस्मिं काले भिक्खुयेव नत्थि, एवं सन्तेपि यो सतिपट्ठाने भावेति, सो किलेसभिन्दनेन भिक्खुयेवाति दस्सेन्तो एवमाह। <hi rend="bold">एकायन</hi>न्ति <pb ed="P" n="3.0226"/> एकमग्गं। <hi rend="bold">जातिक्खयन्तदस्सी</hi>ति जातिया खयोति च अन्तोति च निब्बानं, तं पस्सतीति अत्थो। <hi rend="bold">मग्गं पजानाती</hi>ति एकायनसङ्खातं एकमग्गभूतं मग्गं पजानाति। एकायनमग्गो वुच्‍चति पुब्बभागसतिपट्ठानमग्गो, तं पजानातीति अत्थो।</p>

<p rend="subhead">९. सेदकसुत्तवण्णना</p>

<p rend="bodytext" n="385"><hi rend="paranum">३८५</hi><hi rend="dot">.</hi> नवमे <hi rend="bold">सुम्भेसू</hi>ति एवंनामके जनपदे। <hi rend="bold">मेदकथालिका</hi>ति एवं इत्थिलिङ्गवसेन लद्धनामं। <hi rend="bold">ममं रक्ख, अहं तं रक्खिस्सामी</hi>ति एत्थ अयं तस्स लद्धि – आचरियो उक्खित्तवंसं <pb ed="V" n="3.0254"/> सुग्गहितं अगण्हन्तो, अन्तेवासिकेन पक्खन्तपक्खन्तदिसं अगच्छन्तो, सब्बकालञ्‍च वंसग्गं अनुल्‍लोकेन्तो अन्तेवासिकं न रक्खति नाम, एवं अरक्खितो अन्तेवासिको पतित्वा चुण्णविचुण्णं होति। वंसं पन सुग्गहितं गण्हन्तो, तेन पक्खन्तपक्खन्तदिसं गच्छन्तो, सब्बकालञ्‍च वंसग्गं उल्‍लोकेन्तो तं रक्खति नाम। अन्तेवासिकोपि इतो चितो च पक्खन्दित्वा मिगो विय कीळन्तो आचरियं न रक्खति नाम। एवञ्हि सति तिखिणवंसकोटि आचरियस्स गलवाटके वा नलाटे वा ठपिता ठितट्ठानं भिन्दित्वा गच्छेय्य। आचारसम्पन्‍नताय पन यतो वंसो नमति, ततो अनामेन्तो तं आकड्ढेन्तो विय एकतोभागियं कत्वा वातूपथम्भं गाहापेत्वा सतिं सूपट्ठितं कत्वा निच्‍चलोव निसीदन्तो आचरियं रक्खति नामाति।</p>

<p rend="bodytext"><hi rend="bold">त्वं आचरिय अत्तानं रक्ख, अहं अत्तानं रक्खिस्सामी</hi>ति एत्थ अयमधिप्पायो – आचरियो वंसं सुग्गहितं गण्हन्तो, अन्तेवासिकेन पक्खन्तपक्खन्तदिसंगच्छन्तो <pb ed="M" n="3.0259"/>, सब्बकालञ्‍च वंसग्गं उल्‍लोकेन्तो, अत्तानमेव रक्खति, न अन्तेवासिकं। अन्तेवासिकोपि कायम्पि एकतोभागियं कत्वा वातूपथम्भं गाहापेत्वा सतिं सूपट्ठितं कत्वा निच्‍चलोव निसीदमानो अत्तानंयेव रक्खति नाम, न आचरियं।</p>

<p rend="bodytext"><hi rend="bold">सो तत्थ ञायो</hi>ति यं मेदकथालिका आह। सो तत्थ ञायो, सो उपायो, तं कारणन्ति अत्थो। <hi rend="bold">सतिपट्ठानं</hi> <pb ed="P" n="3.0227"/> <hi rend="bold">सेवितब्ब</hi>न्ति चतुब्बिधं सतिपट्ठानं सेवितब्बं। <hi rend="bold">आसेवनाया</hi>ति कम्मट्ठानासेवनाय। <hi rend="bold">एवं खो, भिक्खवे, अत्तानं रक्खन्तो परं रक्खती</hi>ति यो भिक्खु कम्मारामतादीनि पहाय रत्तिट्ठानदिवाट्ठानेसु मूलकम्मट्ठानं आसेवन्तो भावेन्तो अरहत्तं पापुणाति, अथ नं परो दिस्वा – ‘‘भद्दको वतायं, भिक्खु, सम्मापटिपन्‍नो’’ति तस्मिं चित्तं पसादेत्वा सग्गपरायणो होति। अयं अत्तानं रक्खन्तो परं रक्खति नाम।</p>

<p rend="bodytext"><hi rend="bold">खन्तिया</hi>ति अधिवासनखन्तिया। <hi rend="bold">अविहिंसाया</hi>ति सपुब्बभागाय करुणाय। <hi rend="bold">मेत्तचित्तताया</hi>ति सपुब्बभागाय मेत्ताय। <hi rend="bold">अनुदयताया</hi>ति अनुवड्ढिया, सपुब्बभागाय मुदितायाति अत्थो। <hi rend="bold">परं रक्खन्तो अत्तानं रक्खती</hi>ति एत्थ यो भिक्खु रत्तिट्ठानदिवाट्ठानं गतो तीसु ब्रह्मविहारेसु तिकचतुक्‍कज्झानानि निब्बत्तेत्वा झानं पादकं कत्वा सङ्खारे सम्मसन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति। अयं परं रक्खन्तो अत्तानं रक्खति नामाति वेदितब्बो।</p>

<p rend="subhead">१०. जनपदकल्याणीसुत्तवण्णना</p>

<p rend="bodytext" n="386"><hi rend="paranum">३८६</hi><hi rend="dot">.</hi> दसमे <pb ed="V" n="3.0255"/> <hi rend="bold">जनपदकल्याणी</hi>ति जनपदम्हि कल्याणी उत्तमा छसरीरदोसरहिता पञ्‍चकल्याणसमन्‍नागता। सा हि यस्मा नातिदीघा नातिरस्सा, नातिकिसा नातिथूला, नातिकाळा नाच्‍चोदाता, अतिक्‍कन्ता, मानुसवण्णं अप्पत्ता दिब्बवण्णं, तस्मा छसरीरदोसरहिता। छविकल्याणं, मंसकल्याणं, न्हारुकल्याणं, अट्ठिकल्याणं, वयकल्याणन्ति इमेहि पन कल्याणेहि समन्‍नागतत्ता पञ्‍चकल्याणेहि समन्‍नागता नाम। तस्सा हि आगन्तुकोभासकिच्‍चं नत्थि, अत्तनो सरीरोभासेनेव द्वादसहत्थट्ठाने आलोकं करोति, पियङ्गुसामा वा होति, सुवण्णसामा वा, अयमस्सा छविकल्याणता। चत्तारो पनस्सा हत्थपादा <pb ed="M" n="3.0260"/> मुखपरियोसानञ्‍च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलसदिसं होति, अयमस्सा मंसकल्याणता। वीसति पन नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपूरितानि विय, मुत्तट्ठाने खीरधारासदिसानि, होन्ति अयमस्सा न्हारुकल्याणकता। द्वत्तिंस दन्ता सुफुसिता <pb ed="P" n="3.0228"/> सुधोतवजिरपन्ति विय खायन्ति, अयमस्सा अट्ठिकल्याणता। वीसतिवस्ससतिकापि पन समाना सोळसवस्सुद्देसिका विय होति निप्पलिता, अयमस्सा वयकल्याणता।</p>

<p rend="bodytext"><hi rend="bold">परमपासाविनी</hi>ति एत्थ पसवनं पसावो, पवत्तीति अत्थो। पसावो एव पासावो। परमो पासावो परमपासावो, सो अस्सा अत्थीति परमपासाविनी। नच्‍चे च गीते च उत्तमपवत्ति सेट्ठकिरिया, उत्तममेव नच्‍चं नच्‍चति, गीतं वा गायतीति वुत्तं होति। सेसं सब्बत्थ उत्तानत्थमेव। इमेसु पन द्वीसु सुत्तेसु पुब्बभागविपस्सनाव कथिताति।</p>

<p rend="centre">नालन्दवग्गो दुतियो।</p>

<p rend="title">३. सीलट्ठितिवग्गो</p>

<p rend="subhead">१-२. सीलसुत्तादिवण्णना</p>

<p rend="bodytext" n="387-388"><hi rend="paranum">३८७-३८८</hi><hi rend="dot">.</hi> ततियवग्गस्स <pb ed="V" n="3.0256"/> पठमे <hi rend="bold">सीलानी</hi>ति चतुपारिसुद्धिसीलानि। दुतिये <hi rend="bold">उम्मङ्गो</hi>ति पञ्हमग्गो पञ्हगवेसनं।</p>

<p rend="subhead">३-५. परिहानसुत्तादिवण्णना</p>

<p rend="bodytext" n="389-391"><hi rend="paranum">३८९-३९१</hi><hi rend="dot">.</hi> ततिये <hi rend="bold">परिहानं होती</hi>ति पुग्गलवसेन परिहानं होति। यो हि बुद्धेसु धरन्तेसुपि चत्तारो सतिपट्ठाने न भावेति, तस्स सद्धम्मो अन्तरहितो नाम होति देवदत्तादीनं विय। इति इमस्मिं सुत्ते तस्स पुग्गलस्सेव धम्मन्तरधानं कथितं। चतुत्थपञ्‍चमेसु सब्बं उत्तानमेव।</p>

<p rend="subhead">६. पदेससुत्तवण्णना</p>

<p rend="bodytext" n="392"><hi rend="paranum">३९२</hi><hi rend="dot">.</hi> छट्ठे <pb ed="M" n="3.0261"/> <hi rend="bold">पदेसं भावितत्ता</hi>ति पदेसतो भावितत्ता। चत्तारो हि मग्गे तीणि च फलानि निब्बत्तेन्तेन सतिपट्ठाना पदेसं भाविता नाम होन्ति।</p>

<p rend="subhead">७. समत्तसुत्तवण्णना</p>

<p rend="bodytext" n="393"><hi rend="paranum">३९३</hi><hi rend="dot">.</hi> सत्तमे <pb ed="P" n="3.0229"/> <hi rend="bold">समत्तं भावितत्ता</hi>ति समत्ता भावितत्ता। अरहत्तफलं उप्पादेन्तेन हि सतिपट्ठाना समत्तं भाविता नाम होन्ति।</p>

<p rend="subhead">८-१०. लोकसुत्तादिवण्णना</p>

<p rend="bodytext" n="394-396"><hi rend="paranum">३९४-३९६</hi><hi rend="dot">.</hi> अट्ठमे <hi rend="bold">महाभिञ्‍ञत</hi>न्ति छन्‍नं अभिञ्‍ञानं वसेन वुत्तं। <hi rend="bold">सहस्सं लोकं अभिजानामी</hi>ति <pb ed="V" n="3.0257"/> सततविहारवसेनेव वुत्तं। थेरो किर पातोव उट्ठाय मुखं धोवित्वा सेनासने निसिन्‍नो अतीते कप्पसहस्सं, अनागते कप्पसहस्सं अनुस्सरति, पच्‍चुप्पन्‍नेपि सहस्सं चक्‍कवाळानं तस्सावज्‍जनस्स गतिं अनुबन्धति। इति सो दिब्बेन चक्खुना सहस्सं लोकं अभिजानाति, अयमस्स सततविहारो। सेसं सब्बत्थ उत्तानत्थमेवाति।</p>

<p rend="centre">सीलट्ठितिवग्गो ततियो।</p>

<p rend="title">४. अननुस्सुतवग्गवण्णना</p>

<p rend="bodytext" n="401-406"><hi rend="paranum">४०१-४०६</hi><hi rend="dot">.</hi> चतुत्थवग्गस्स पञ्‍चमे <hi rend="bold">विदिता वेदना</hi>ति या वेदना सम्मसित्वा अरहत्तं पत्तो तावस्स विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति नाम। या च पन परिग्गहितेसु वत्थारम्मणेसु पवत्ता वेदना, तापि विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति नाम। <hi rend="bold">वितक्‍का</hi>दीसुपि एसेव नयो। सेसं सब्बत्थ उत्तानमेवाति।</p>

<p rend="centre">अननुस्सुतवग्गो चतुत्थो।</p>

<p rend="title">५. अमतवग्गो</p>

<p rend="subhead">२. समुदयसुत्तवण्णना</p>

<p rend="bodytext" n="408"><hi rend="paranum">४०८</hi><hi rend="dot">.</hi> पञ्‍चमवग्गस्स <pb ed="M" n="3.0262"/> दुतिये <hi rend="bold">आहारसमुदया कायस्स समुदयो</hi>ति आहारसमुदयेन कायसमुदयो। एसेव नयो सेसेसु। <hi rend="bold">मनसिकारसमुदया</hi>ति एत्थ पन योनिसोमनसिकारसमुदया बोज्झङ्गधम्मानं समुदयो, अयोनिसोमनसिकारसमुदया नीवरणधम्मानं। इति इमस्मिं सुत्ते सारम्मणसतिपट्ठाना कथिता।</p>

<p rend="subhead">४. सतिसुत्तवण्णना</p>

<p rend="bodytext" n="410"><hi rend="paranum">४१०</hi><hi rend="dot">.</hi> चतुत्थं <pb ed="V" n="3.0258"/> <pb ed="P" n="3.0230"/> सुद्धिकं कत्वा समुदये कथिते बुज्झनकानं अज्झासयेन वुत्तं।</p>

<p rend="subhead">६. पातिमोक्खसंवरसुत्तवण्णना</p>

<p rend="bodytext" n="412"><hi rend="paranum">४१२</hi><hi rend="dot">.</hi> छट्ठे <hi rend="bold">पातिमोक्खसंवरसंवुतो</hi>ति चतुन्‍नं सीलानं जेट्ठकसीलं दस्सेन्तो एवमाह। तिपिटकचूळनागत्थेरो पनाह – ‘‘पातिमोक्खसंवरोव सीलं, इतरानि तीणि सीलन्ति वुत्तट्ठानं नाम नत्थी’’ति। वत्वा तं अनुजानन्तो आह – ‘‘इन्द्रियसंवरो नाम छद्वाररक्खणमत्तमेव, आजीवपारिसुद्धि धम्मेनेव समेन पच्‍चयुप्पत्तिमत्तकं, पच्‍चयसन्‍निस्सितं पटिलद्धपच्‍चये इदमत्थन्ति पच्‍चवेक्खित्वा परिभुञ्‍जनमत्तकं। निप्परियायेन पातिमोक्खसंवरोव सीलं। यस्स सो भिन्‍नो, अयं छिन्‍नसीसो विय पुरिसो हत्थपादे, सेसानि रक्खिस्सतीति न वत्तब्बो। यस्स पन सो अरोगो, अयं अच्छिन्‍नसीसो विय पुरिसो जीवितं, सेसानि पुन पाकतिकानि कत्वा रक्खितुम्पि सक्‍कोती’’ति। तस्मा पातिमोक्खसंवरोव सीलं, तेन पातिमोक्खसंवरेन संवुतोति पातिमोक्खसंवरसंवुतो, उपेतो समन्‍नागतोति अत्थो।</p>

<p rend="bodytext"><hi rend="bold">आचारगोचरसम्पन्‍नो</hi>ति आचारेन च गोचरेन च सम्पन्‍नो। <hi rend="bold">अणुमत्तेसू</hi>ति अप्पमत्तकेसु। <hi rend="bold">वज्‍जेसू</hi>ति अकुसलधम्मेसु। <hi rend="bold">भयदस्सावी</hi>ति भयदस्सी। <hi rend="bold">समादाया</hi>ति सम्मा आदियित्वा। <hi rend="bold">सिक्खस्सु सिक्खापदेसू</hi>ति सिक्खापदेसु तं तं सिक्खापदं समादियित्वा सिक्ख, यं <pb ed="M" n="3.0263"/> यं पन किञ्‍चि सिक्खापदेसु सिक्खाकोट्ठासेसु सिक्खितब्बं कायिकं वा वाचसिकं वा, तं तं सब्बं सम्मा आदाय सिक्खस्सूति अयमेत्थ सङ्खेपत्थो। वित्थारो पन विसुद्धिमग्गे (विसुद्धि॰ १.१४) वुत्तो। इति इमस्मिं सुत्ते पातिमोक्खसंवरसीलमेव कथितं।</p>

<p rend="subhead">७. दुच्‍चरितसुत्तवण्णना</p>

<p rend="bodytext" n="413"><hi rend="paranum">४१३</hi><hi rend="dot">.</hi> सत्तमे कायसुचरितवचीसुचरितानि पातिमोक्खसंवरसीलं, मनोसुचरितं इतरानि तीणि सीलानीति चतुपारिसुद्धिसीलं कथितं होति। इमिना नयेन पञ्‍चसत्तनवदससु कुसलकम्मपथेसु <pb ed="V" n="3.0259"/> <pb ed="P" n="3.0231"/> पच्छिमापि तयो सीलं होतीति वेदितब्बा। सेसं उत्तानमेवाति। छट्ठसत्तमेसु हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो।</p>

<p rend="centre">अमतवग्गो पञ्‍चमो।</p>

<p rend="centre">सतिपट्ठानसंयुत्तवण्णना निट्ठिता।</p>

</body>
<back></back>
</text>
</TEI.2>
