<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">१४. एतदग्गवग्गो</p>

<p rend="subhead">(१४) १. पठमएतदग्गवग्गो</p>

<p rend="subhead">एतदग्गपदवण्णना</p>

<p rend="bodytext" n="188"><hi rend="paranum">१८८</hi><hi rend="dot">.</hi> एतदग्गेसु <pb ed="V" n="1.0101"/> पठमवग्गस्स पठमे <hi rend="bold">एतदग्ग</hi>न्ति एतं अग्गं। एत्थ च अयं अग्गसद्दो आदिकोटिकोट्ठाससेट्ठेसु दिस्सति। ‘‘अज्‍जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीन’’न्तिआदीसु (म॰ नि॰ २.७०) हि आदिम्हि दिस्सति। ‘‘तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य (कथा॰ ४४१), उच्छग्गं वेळग्ग’’न्तिआदीसु कोटियं। ‘‘अम्बिलग्गं वा मधुरग्गं वा तित्तकग्गं वा (सं॰ नि॰ ५.३७४), अनुजानामि, भिक्खवे, विहारग्गेन वा परिवेणग्गेन वा भाजेतु’’न्तिआदीसु (चूळव॰ ३१८) कोट्ठासे। ‘‘यावता, भिक्खवे, सत्ता अपदा वा…पे॰… तथागतो तेसं अग्गमक्खायती’’तिआदीसु (अ॰ नि॰ ४.३४; इतिवु॰ ९०) सेट्ठे। स्वायमिध <pb ed="P" n="1.0125"/> कोटियम्पि वट्टति सेट्ठेपि। ते हि थेरा अत्तनो अत्तनो ठाने कोटिभूतातिपि अग्गा, सेट्ठभूतातिपि। तस्मा एतदग्गन्ति एसा कोटि एसो सेट्ठोति अयमेत्थ अत्थो। एसेव नयो सब्बसुत्तेसु।</p>

<p rend="bodytext">अयञ्‍च <pb ed="M" n="1.0097"/> एतदग्गसन्‍निक्खेपो नाम चतूहि कारणेहि लब्भति अट्ठुप्पत्तितो आगमनतो चिण्णवसितो गुणातिरेकतोति। तत्थ कोचि थेरो एकेन कारणेन एतदग्गट्ठानं लभति, कोचि द्वीहि, कोचि तीहि, कोचि सब्बेहेव चतूहिपि आयस्मा सारिपुत्तत्थेरो विय। सो हि अट्ठुप्पत्तितोपि महापञ्‍ञताय एतदग्गट्ठानं लभि आगमनादीहिपि। कथं? एकस्मिं हि समये सत्था जेतवनमहाविहारे विहरन्तो कण्डम्बरुक्खमूले तित्थियमद्दनं यमकपाटिहारियं दस्सेत्वा ‘‘कहं नु खो पुरिमबुद्धा यमकपाटिहारियं कत्वा वस्सं उपगच्छन्ती’’ति आवज्‍जेन्तो ‘‘तावतिंसभवने’’ति ञत्वा द्वे पदन्तरानि दस्सेत्वा ततियेन पदेन तावतिंसभवने पच्‍चुट्ठासि। सक्‍को देवराजा भगवन्तं दिस्वा पण्डुकम्बलसिलातो उट्ठाय सद्धिं देवगणेन पच्‍चुग्गमनं अगमासि। देवा चिन्तयिंसु – ‘‘सक्‍को देवराजा देवगणपरिवुतो <pb ed="V" n="1.0102"/> सट्ठियोजनायामाय पण्डुकम्बलसिलाय निसीदित्वा सम्पत्तिं अनुभवति, बुद्धानं नाम निसिन्‍नकालतो पट्ठाय न सक्‍का अञ्‍ञेन एत्थ हत्थम्पि ठपेतु’’न्ति। सत्थापि तत्थ निसिन्‍नो तेसं चित्ताचारं ञत्वा महापंसुकूलिको विय मुण्डपीठकं सब्बमेव पण्डुकम्बलसिलं अवत्थरित्वा निसीदि। एवं निसीदन्तो पन अत्तनो वा सरीरं महन्तं कत्वा मापेसि, पण्डुकम्बलसिलं <pb ed="P" n="1.0126"/> वा खुद्दकं अकासीति न सल्‍लक्खेतब्बं। अचिन्तेय्यो हि बुद्धविसयो। एवं निसिन्‍नो पन मातरं कायसक्खिं कत्वा दससहस्सचक्‍कवाळदेवतानं ‘‘कुसला धम्मा अकुसला धम्मा अब्याकता धम्मा’’ति अभिधम्मपिटकं देसेसि।</p>

<p rend="bodytext">पाटिहारियट्ठानेपि सब्बापि द्वादसयोजनिका परिसा अनुरुद्धत्थेरं उपसङ्कमित्वा ‘‘कहं, भन्ते, दसबलो गतो’’ति पुच्छि। तावतिंसभवने पण्डुकम्बलसिलायं वस्सं उपगन्त्वा अभिधम्मकथं देसेतुं गतोति। भन्ते, न मयं सत्थारं अदिस्वा गमिस्साम। कदा सत्था आगमिस्सतीति सत्थु आगमनकालं जानाथाति? महामोग्गल्‍लानत्थेरस्स भारं करोथ, सो बुद्धानं सन्तिकं गन्त्वा सासनं आहरिस्सतीति। किं पन थेरस्स तत्थ गन्तुं बलं नत्थीति? अत्थि, विसेसवन्तानं पन विसेसं पस्सन्तूति एवमाह। महाजनो महामोग्गल्‍लानत्थेरं उपसङ्कमित्वा सत्थु <pb ed="M" n="1.0098"/> सासनं गहेत्वा आगमनत्थाय याचि। थेरो पस्सन्तेयेव महाजने पथवियं निमुज्‍जित्वा अन्तोसिनेरुना गन्त्वा सत्थारं वन्दित्वा आह – ‘‘भन्ते, महाजनो तुम्हाकं दस्सनकामो, आगमनदिवसं वो जानितुं इच्छती’’ति। तेन हि ‘‘इतो तेमासच्‍चयेन सङ्कस्सनगरद्वारे पस्सथा’’तिस्स वदेहीति। थेरो भगवतो सासनं आहरित्वा महाजनस्स कथेसि। महाजनो तत्थेव तेमासं खन्धावारं बन्धित्वा वसि। चूळअनाथपिण्डिको द्वादसयोजनाय परिसाय तेमासं यागुभत्तं आदासि।</p>

<p rend="bodytext">सत्थापि सत्तप्पकरणानि देसेत्वा मनुस्सलोकं आगमनत्थाय आकप्पं दस्सेसि। सक्‍को देवराजा विस्सकम्मं आमन्तेत्वा तथागतस्स ओतरणत्थाय सोपानं मापेतुं आणापेसि। सो एकतो सोवण्णमयं एकतो रजतमयं <pb ed="P" n="1.0127"/> सोपानं मापेत्वा मज्झे मणिमयं मापेसि। सत्था मणिमये सोपाने ठत्वा ‘‘महाजनो मं पस्सतू’’ति अधिट्ठासि। अत्तनो आनुभावेनेव ‘‘महाजनो अवीचिमहानिरयं पस्सतू’’तिपि अधिट्ठासि। निरयदस्सनेन चस्स उप्पन्‍नसंवेगतं ञत्वा देवलोकं दस्सेसि। अथस्स ओतरन्तस्स महाब्रह्मा छत्तं धारेसि, सक्‍को देवराजा पत्तं गण्हि, सुयामो देवराजा दिब्बं वाळबीजनिं बीजि, पञ्‍चसिखो गन्धब्बदेवपुत्तो बेलुवपण्डुवीणं <pb ed="V" n="1.0103"/> समपञ्‍ञासाय मुच्छनाहि मुच्छित्वा वादेन्तो पुरतो ओतरि। बुद्धानं पथवियं पतिट्ठितकाले ‘‘अहं पठमं वन्दिस्सामि, अहं पठमं वन्दिस्सामी’’ति महाजनो अट्ठासि। सह महापथवीअक्‍कमनेन पन भगवतो नेव महाजनो न असीतिमहासावका पठमकवन्दनं सम्पापुणिंसु, धम्मसेनापति सारिपुत्तत्थेरोयेव पन सम्पापुणि।</p>

<p rend="bodytext">अथ सत्था द्वादसयोजनाय परिसाय अन्तरे ‘‘थेरस्स पञ्‍ञानुभावं जानन्तू’’ति पुथुज्‍जनपञ्‍चकं पञ्हं आरभि। पठमं लोकियमहाजनो सल्‍लक्खेस्सतीति पुथुज्‍जनपञ्हं पुच्छि। ये ये सल्‍लक्खिंसु, ते ते कथयिंसु। दुतियं पुथुज्‍जनविसयं अतिक्‍कमित्वा सोतापत्तिमग्गे पञ्हं पुच्छि। पुथुज्‍जना तुण्ही अहेसुं, सोतापन्‍नाव कथयिंसु। ततो सोतापन्‍नानं <pb ed="M" n="1.0099"/> विसयं अतिक्‍कमित्वा सकदागामिमग्गे पञ्हं पुच्छि। सोतापन्‍ना तुण्ही अहेसुं, सकदागामिनोव कथयिंसु। तेसम्पि विसयं अतिक्‍कमित्वा अनागामिमग्गे पञ्हं पुच्छि। सकदागामिनो तुण्ही अहेसुं, अनागामिनोव कथयिंसु। तेसम्पि विसयं अतिक्‍कमित्वा अरहत्तमग्गे पञ्हं पुच्छि। अनागामिनो तुण्ही अहेसुं, अरहन्ताव कथयिंसु। ततो हेट्ठिमकोटितो पट्ठाय अभिञ्‍ञाते अभिञ्‍ञाते सावके पुच्छि, ते अत्तनो अत्तनो पटिसम्भिदाविसये ठत्वा कथयिंसु। अथ महामोग्गल्‍लानं पुच्छि <pb ed="P" n="1.0128"/>, सेससावका तुण्ही अहेसुं, थेरोव कथेसि। तस्सापि विसयं अतिक्‍कमित्वा सारिपुत्तत्थेरस्स विसये पञ्हं पुच्छि। महामोग्गल्‍लानो तुण्ही अहोसि, सारिपुत्तत्थेरोव कथेसि। थेरस्सापि विसयं अतिक्‍कमित्वा बुद्धविसये पञ्हं पुच्छि। धम्मसेनापति आवज्‍जेन्तोपि पस्सितुं न सक्‍कोति, पुरत्थिमपच्छिमुत्तरदक्खिणा चतस्सो दिसा चतस्सो अनुदिसाति इतो चितो च ओलोकेन्तो पञ्हुप्पत्तिट्ठानं सल्‍लक्खेतुं नासक्खि।</p>

<p rend="bodytext">सत्था थेरस्स किलमनभावं जानित्वा ‘‘सारिपुत्तो किलमति, नयमुखमस्स दस्सेस्सामी’’ति ‘‘आगमेहि त्वं, सारिपुत्ता’’ति वत्वा ‘‘नायं तुय्हं विसयो पञ्हो, बुद्धानं एस विसयो सब्बञ्‍ञूनं यसस्सीन’’न्ति बुद्धविसयभावं आचिक्खित्वा ‘‘भूतमिदन्ति, सारिपुत्त, समनुपस्ससी’’ति आह। थेरो ‘‘चतुमहाभूतिककायपरिग्गहं मे भगवा आचिक्खती’’ति ञत्वा ‘‘अञ्‍ञातं भगवा, अञ्‍ञातं सुगता’’ति आह। एतस्मिं ठाने अयं कथा उदपादि – महापञ्‍ञो वत, भो, सारिपुत्तत्थेरो, यत्र हि नाम सब्बेहि अनञ्‍ञातं पञ्हं कथेसि, बुद्धेहि च दिन्‍ननये ठत्वा बुद्धविसये पञ्हं कथेसि, इति थेरस्स पञ्‍ञानुभावो यत्तकं <pb ed="V" n="1.0104"/> ठानं बुद्धानं कित्तिसद्देन ओत्थटं, सब्बं अज्झोत्थरित्वा गतोति एवं ताव थेरो <hi rend="bold">अट्ठुप्पत्तितो</hi> महापञ्‍ञताय एतदग्गट्ठानं लभि।</p>

<p rend="bodytext">कथं <hi rend="bold">आगमनतो</hi>? इमिस्सायेव हि अट्ठुप्पत्तिया सत्था आह – सारिपुत्तो न इदानेव पञ्‍ञवा, अतीते पञ्‍च जातिसतानि इसिपब्बज्‍जं पब्बजित्वापि महापञ्‍ञोव अहोसि –</p>

<p rend="gatha1">‘‘यो <pb ed="M" n="1.0100"/> पब्बजी जातिसतानि पञ्‍च,</p>

<p rend="gatha2">पहाय कामानि मनोरमानि।</p>

<p rend="gatha3">तं वीतरागं सुसमाहितिन्द्रियं,</p>

<p rend="gathalast">परिनिब्बुतं वन्दथ सारिपुत्त’’न्ति॥</p>

<p rend="bodytext">एवं <pb ed="P" n="1.0129"/> पब्बज्‍जं उपब्रूहयमानो एकस्मिं समये बाराणसियं ब्राह्मणकुले निब्बत्तो। तयो वेदे उग्गण्हित्वा तत्थ सारं अपस्सन्तो ‘‘पब्बजित्वा एकं मोक्खधम्मं गवेसितुं वट्टती’’ति चित्तं उप्पादेसि। तस्मिं काले बोधिसत्तोपि कासिरट्ठे उदिच्‍चब्राह्मणमहासालकुले निब्बत्तो वुद्धिमन्वाय उग्गहितसिप्पो कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा घरावासं पहाय हिमवन्तं पविसित्वा कसिणपरिकम्मं कत्वा पञ्‍च अभिञ्‍ञा अट्ठ समापत्तियो निब्बत्तेत्वा वनमूलफलाहारो हिमवन्तप्पदेसे वसति। सोपि माणवो निक्खमित्वा तस्सेव सन्तिके पब्बजि। परिवारो महा अहोसि पञ्‍चसतमत्ता इसयो।</p>

<p rend="bodytext">अथस्स सो जेट्ठन्तेवासिको एकदेसं परिसं गहेत्वा लोणम्बिलसेवनत्थं मनुस्सपथं अगमासि। तस्मिं समये बोधिसत्तो तस्मिंयेव हिमवन्तप्पदेसे कालं अकासि। कालकिरियसमयेव नं अन्तेवासिका सन्‍निपतित्वा पुच्छिंसु – ‘‘अत्थि तुम्हेहि कोचि विसेसो अधिगतो’’ति। बोधिसत्तो ‘‘नत्थि किञ्‍ची’’ति वत्वा अपरिहीनज्झानो आभस्सरब्रह्मलोके निब्बत्तो। सो किञ्‍चापि आकिञ्‍चञ्‍ञायतनस्स लाभी, बोधिसत्तानं पन अरूपावचरे पटिसन्धि नाम न होति। कस्मा? अभब्बट्ठानत्ता। इति सो अरूपसमापत्तिलाभी समानोपि रूपावचरे निब्बत्ति। अन्तेवासिकापिस्स ‘‘आचरियो ‘नत्थि किञ्‍ची’ति आह, मोघा तस्स कालकिरिया’’ति न किञ्‍चि सक्‍कारसम्मानं अकंसु। अथ सो जेट्ठन्तेवासिको अतिक्‍कन्ते वस्सावासे आगन्त्वा ‘‘कहं आचरियो’’ति पुच्छि। कालं कतोति। अपि नु आचरियेन <pb ed="V" n="1.0105"/> लद्धगुणं पुच्छित्थाति? आम पुच्छिम्हाति। किं वदेतीति? नत्थि किञ्‍चीति। मयम्पि ‘‘आचरियेन लद्धगुणो नाम नत्थी’’ति नास्स सक्‍कारसम्मानं करिम्हाति। तुम्हे भासितस्स अत्थं न जानित्थ, आचरियो आकिञ्‍चञ्‍ञायतनस्स लाभीति।</p>

<p rend="bodytext">अथ <pb ed="M" n="1.0101"/> ते जेट्ठन्तेवासिकस्स कथं न सद्दहिंसु। सो पुनप्पुनं कथेन्तोपि सद्दहापेतुं नासक्खि <pb ed="P" n="1.0130"/>। अथ बोधिसत्तो आवज्‍जमानो ‘‘अन्धबालो महाजनो मय्हं जेट्ठन्तेवासिकस्स कथं न गण्हाति, इमं कारणं पाकटं करिस्सामी’’ति ब्रह्मलोकतो ओतरित्वा अस्समपदमत्थके ठितो आकासगतोव जेट्ठन्तेवासिकस्स पञ्‍ञानुभावं वण्णेत्वा इमं गाथं अभासि –</p>

<p rend="gatha1">‘‘परोसहस्सम्पि समागतानं,</p>

<p rend="gatha2">कन्देय्युं ते वस्ससतं अपञ्‍ञा।</p>

<p rend="gatha3">एकोव सेय्यो पुरिसो सपञ्‍ञो,</p>

<p rend="gathalast">यो भासितस्स विजानाति अत्थ’’न्ति॥ (जा॰ १.१.१०१)।</p>

<p rend="bodytext">एवं इसिगणं सञ्‍ञापेत्वा बोधिसत्तो ब्रह्मलोकमेव गतो। सेसइसिगणोपि अपरिहीनज्झानो हुत्वा कालं कत्वा ब्रह्मलोकपरायणो जातो। तत्थ बोधिसत्तो सब्बञ्‍ञुतं पत्तो, जेट्ठन्तेवासिको सारिपुत्तत्थेरो जातो, सेसा इसयो बुद्धपरिसा जाताति एवं अतीतेपि सारिपुत्तो महापञ्‍ञोव संखित्तेन भासितस्स वित्थारेन अत्थं जानितुं समत्थोति वेदितब्बो।</p>

<p rend="bodytext">इदमेव च पुथुज्‍जनपञ्‍चकं अट्ठुप्पत्तिं कत्वा –</p>

<p rend="gatha1">‘‘परोसतञ्‍चेपि समागतानं,</p>

<p rend="gatha2">झायेय्युं ते वस्ससतं अपञ्‍ञा।</p>

<p rend="gatha3">एकोव सेय्यो पुरिसो सपञ्‍ञो,</p>

<p rend="gathalast">सो भासितस्स विजानाति अत्थ’’न्ति॥ (जा॰ १.१.१०१) –</p>

<p rend="unindented">इमम्पि जातकं कथेसि। तस्स पुरिमजातके वुत्तनयेनेव अत्थो वेदितब्बो।</p>

<p rend="bodytext">अपरम्पि <pb ed="V" n="1.0106"/> इदमेव पुथुज्‍जनपञ्‍चकं अट्ठुप्पत्तिं कत्वा –</p>

<p rend="gatha1">‘‘ये सञ्‍ञिनो तेपि दुग्गता, येपि असञ्‍ञिनो तेपि दुग्गता।</p>

<p rend="gathalast">एतं उभयं विवज्‍जय, तं समापत्तिसुखं अनङ्गण’’न्ति॥ (जा॰ १.१.१३४) –</p>

<p rend="unindented">इमं <pb ed="M" n="1.0102"/> अनङ्गणजातकं कथेसि। एत्थ च आचरियो कालं करोन्तो अन्तेवासिकेहि पुच्छितो ‘‘नेवसञ्‍ञी नासञ्‍ञी’’ति आह। सेसं <pb ed="P" n="1.0131"/> वुत्तनयेनेव वेदितब्बं।</p>

<p rend="bodytext">अपरम्पि इदमेव पुथुज्‍जनपञ्‍चकं अट्ठुप्पत्तिं कत्वा –</p>

<p rend="gatha1">‘‘चन्दाभं सूरियाभञ्‍च, योध पञ्‍ञाय गाधति।</p>

<p rend="gathalast">अवितक्‍केन झानेन, होति आभस्सरूपगो’’ति॥ (जा॰ १.१.१३५) –</p>

<p rend="unindented">इदं चन्दाभजातकं कथेसि। एत्थापि आचरियो कालं करोन्तो अन्तेवासिकेहि पुच्छितो ‘‘ओदातकसिणं चन्दाभं नाम, पीतकसिणं सूरियाभं नामाति तं उभयं यो पञ्‍ञाय गाधति पविसति पक्खन्दति, सो अवितक्‍केन दुतियज्झानेन आभस्सरूपगो होति, तादिसो अह’’न्ति सन्धाय – ‘‘चन्दाभं सूरियाभ’’न्ति आह। सेसं पुरिमनयेनेव वेदितब्बं।</p>

<p rend="bodytext">इदमेव च पुथुज्‍जनपञ्‍चकं अट्ठुप्पत्तिं कत्वा –</p>

<p rend="gatha1">‘‘आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो।</p>

<p rend="gathalast">पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु॥</p>

<p rend="gatha1">‘‘आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो।</p>

<p rend="gathalast">पस्सामि वोहं अत्तानं, उदका थलमुब्भतं॥</p>

<p rend="gatha1">‘‘वायमेथेव <pb ed="V" n="1.0107"/> पुरिसो, न निब्बिन्देय्य पण्डितो।</p>

<p rend="gathalast">पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु॥</p>

<p rend="gatha1">‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो।</p>

<p rend="gathalast">पस्सामि वोहं अत्तानं, उदका थलमुब्भतं॥</p>

<p rend="gatha1">‘‘दुक्खूपनीतोपि नरो सपञ्‍ञो,</p>

<p rend="gatha2">आसं न छिन्देय्य सुखागमाय।</p>

<p rend="gatha3">बहू हि फस्सा अहिता हिता च,</p>

<p rend="gathalast">अवितक्‍किता मच्‍चमुपब्बजन्ति॥</p>

<p rend="gatha1">‘‘अचिन्तितम्पि भवति, चिन्तितम्पि विनस्सति।</p>

<p rend="gathalast">न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वा॥</p>

<p rend="gatha1">‘‘सरभं <pb ed="M" n="1.0103"/> गिरिदुग्गस्मिं, यं त्वं अनुसरी पुरे।</p>

<p rend="gathalast">अलीनचित्तस्स तुवं, विक्‍कन्तमनुजीवसि॥</p>

<p rend="gatha1">‘‘यो <pb ed="P" n="1.0132"/> तं विदुग्गा नरका समुद्धरि,</p>

<p rend="gatha2">सिलाय योग्गं सरभो करित्वा।</p>

<p rend="gatha3">दुक्खूपनीतं मच्‍चुमुखा पमोचयि,</p>

<p rend="gathalast">अलीनचित्तं त मिगं वदेसि॥</p>

<p rend="gatha1">‘‘किं त्वं नु तत्थेव तदा अहोसि,</p>

<p rend="gatha2">उदाहु ते कोचि नं एतदक्खा।</p>

<p rend="gatha3">विवट्टच्छद्दो नुसि सब्बदस्सी,</p>

<p rend="gathalast">ञाणं नु ते ब्राह्मण भिंसरूपं॥</p>

<p rend="gatha1">‘‘न <pb ed="V" n="1.0108"/> चेवहं तत्थ तदा अहोसिं,</p>

<p rend="gatha2">न चापि मे कोचि नं एतदक्खा।</p>

<p rend="gatha3">गाथापदानञ्‍च सुभासितानं,</p>

<p rend="gathalast">अत्थं तदानेन्ति जनिन्द धीरा’’ति॥ (जा॰ १.१३.१३४-१४३) –</p>

<p rend="unindented">इमं तेरसनिपाते सरभजातकञ्‍च कथेसि। इमानि पन पञ्‍चपि जातकानि अतीतेपि संखित्तेन भासितस्स वित्थारेन अत्थं मय्हं पुत्तो जानातीति सत्थारा धम्मसेनापतिसारिपुत्तत्थेरस्स पञ्‍ञानुभावप्पकासनत्थमेव कथितानीति एवं आगमनतोपि थेरो महापञ्‍ञताय एतदग्गट्ठानं लभि।</p>

<p rend="bodytext">कथं <hi rend="bold">चिण्णवसितो</hi>ति? चिण्णं किरेतं थेरस्स चतुपरिसमज्झे धम्मं कथेन्तो चत्तारि सच्‍चानि अमुञ्‍चित्वा कथेतीति एवं चिण्णवसितोपि थेरो महापञ्‍ञताय एतदग्गट्ठानं लभि।</p>

<p rend="bodytext">कथं <hi rend="bold">गुणातिरेकतो</hi>ति? ठपेत्वा हि दसबलं अञ्‍ञो कोचि एकसावकोपि महापञ्‍ञताय <pb ed="P" n="1.0133"/> धम्मसेनापतिना सदिसो नाम नत्थीति एवं गुणातिरेकतोपि थेरो महापञ्‍ञताय एतदग्गट्ठानं लभि।</p>

<p rend="bodytext">यथा च सारिपुत्तत्थेरो, एवं <hi rend="bold">महामोग्गल्‍लानत्थेरोपि</hi> सब्बेहेव चतूहिपि इमेहि कारणेहि एतदग्गट्ठानं लभि। कथं? थेरो हि महिद्धिको महानुभावो नन्दोपनन्दसदिसम्पि नागराजानं दमेसीति एवं ताव <pb ed="M" n="1.0104"/> अट्ठुप्पत्तितो लभि। न पनेस इदानेव महिद्धिको महानुभावो, अतीते पञ्‍च जातिसतानि इसिपब्बज्‍जं पब्बजितोपि महिद्धिको महानुभावो अहोसीति।</p>

<p rend="gatha1">‘‘यो पब्बजी जातिसतानि पञ्‍च,</p>

<p rend="gatha2">पहाय कामानि मनोरमानि।</p>

<p rend="gatha3">तं वीतरागं सुसमाहितिन्द्रियं,</p>

<p rend="gathalast">परिनिब्बुतं वन्दथ मोग्गल्‍लान’’न्ति॥ –</p>

<p rend="unindented">एवं <pb ed="V" n="1.0109"/> आगमनतोपि लभि। चिण्णं चेतं थेरस्स निरयं गन्त्वा अत्तनो इद्धिबलेन निरयसत्तानं अस्सासजननत्थं सीतं अधिट्ठाय चक्‍कमत्तं पदुमं मापेत्वा पदुमकण्णिकायं निसीदित्वा धम्मकथं कथेति, देवलोकं गन्त्वा देवसङ्घं कम्मगतिं जानापेत्वा सच्‍चकथं कथेतीति एवं चिण्णवसितो लभि। ठपेत्वा च सम्मासम्बुद्धं अञ्‍ञो सावको महामोग्गल्‍लानो विय महिद्धिको महानुभावो नत्थीति एवं गुणातिरेकतो लभि।</p>

<p rend="bodytext">यथा चेस, एवं <hi rend="bold">महाकस्सपत्थेरोपि</hi> सब्बेहेविमेहि कारणेहि एतदग्गट्ठानं लभि। कथं? सम्मासम्बुद्धो हि थेरस्स तिगावुतं मग्गं पच्‍चुग्गमनं कत्वा तीहि ओवादेहि उपसम्पादेत्वा चीवरं परिवत्तेत्वा अदासि। तस्मिं समये महापथवी उदकपरियन्तं कत्वा कम्पि, महाजनस्स अब्भन्तरे थेरस्स कित्तिसद्दो अज्झोत्थरित्वा गतो। एवं अट्ठुप्पत्तितो लभि। न चेस इदानेव धुतधरो, अतीते पञ्‍च जातिसतानि इसिपब्बज्‍जं पब्बजितोपि धुतधरोव अहोसि।</p>

<p rend="gatha1">‘‘यो <pb ed="P" n="1.0134"/> पब्बजी जातिसतानि पञ्‍च,</p>

<p rend="gatha2">पहाय कामानि मनोरमानि।</p>

<p rend="gatha3">तं वीतरागं सुसमाहितिन्द्रियं,</p>

<p rend="gathalast">परिनिब्बुतं वन्दथ महाकस्सप’’न्ति॥ –</p>

<p rend="unindented">एवं आगमनतोपि लभि। चिण्णं चेतं थेरस्स चतुपरिसमज्झगतो धम्मं कथेन्तो दस कथावत्थूनि अविजहित्वाव कथेतीति एवं चिण्णवसितो लभि। ठपेत्वा च सम्मासम्बुद्धं अञ्‍ञो सावको तेरसहि धुतगुणेहि महाकस्सपसदिसो नत्थीति एवं गुणातिरेकतो लभि <pb ed="M" n="1.0105"/>। इमिनाव नियामेन तेसं तेसं थेरानं यथालाभतो गुणे कित्तेतुं वट्टति।</p>

<p rend="bodytext">गुणवसेनेव हि सम्मासम्बुद्धो यथा नाम राजा चक्‍कवत्ती चक्‍करतनानुभावेन चक्‍कवाळगब्भे रज्‍जसिरिं पत्वा ‘‘पत्तब्बं मे पत्तं, किं मे इदानि महाजनेन ओलोकितेना’’ति न अप्पोस्सुक्‍को हुत्वा रज्‍जसिरिंयेव अनुभोति, कालेन पन कालं विनिच्छयट्ठाने निसीदित्वा निग्गहेतब्बे निग्गण्हाति, पग्गहेतब्बे पग्गण्हाति, ठानन्तरेसु च ठपेतब्बयुत्तके ठानन्तरेसु ठपेति, एवमेवं महाबोधिमण्डे अधिगतस्स सब्बञ्‍ञुतञ्‍ञाणस्स आनुभावेन <pb ed="V" n="1.0110"/> अनुप्पत्तधम्मरज्‍जो धम्मराजापि ‘‘किं मे इदानि लोकेन ओलोकितेन, अनुत्तरं फलसमापत्तिसुखं अनुभविस्सामी’’ति अप्पोस्सुक्‍कतं अनापज्‍जित्वा चतुपरिसमज्झे पञ्‍ञत्तवरबुद्धासने निसिन्‍नो अट्ठङ्गसमन्‍नागतं ब्रह्मस्सरं निच्छारेत्वा धम्मं देसयमानो निग्गहेतब्बयुत्ते कण्हधम्मे पुग्गले सिनेरुपादे पक्खिपन्तो विय अपायभयसन्तज्‍जनेन निग्गहेत्वा पग्गहेतब्बयुत्ते कल्याणधम्मे पुग्गले उक्खिपित्वा भवग्गे निसीदापेन्तो विय पग्गण्हित्वा ठानन्तरेसु ठपेतब्बयुत्तके अञ्‍ञासिकोण्डञ्‍ञत्थेरादयो सावके याथावसरसगुणवसेनेव ठानन्तरेसु <pb ed="P" n="1.0135"/> ठपेन्तो <hi rend="bold">एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं रत्तञ्‍ञूनं, यदिदं अञ्‍ञासिकोण्डञ्‍ञो</hi>तिआदिमाह।</p>

<p rend="subhead">अञ्‍ञासिकोण्डञ्‍ञत्थेरवत्थु</p>

<p rend="bodytext">तत्थ <hi rend="bold">एतदग्ग</hi>न्ति पदं वुत्तत्थमेव। <hi rend="bold">रत्तञ्‍ञून</hi>न्ति रत्तियो जानन्तानं। ठपेत्वा हि सम्मासम्बुद्धं अञ्‍ञो सावको अञ्‍ञासिकोण्डञ्‍ञत्थेरतो पठमतरं पब्बजितो नाम नत्थीति पब्बजितकालतो पट्ठाय थेरो चिरकालं रत्तियो जानातीति रत्तञ्‍ञू। सब्बपठमं धम्मस्स पटिविद्धत्ता यदा तेन धम्मो पटिविद्धो, चिरकालतो पट्ठाय तं रत्तिं जानातीतिपि रत्तञ्‍ञू। अपिच खीणासवानं रत्तिदिवसपरिच्छेदो पाकटोव होति, अयञ्‍च पठमखीणासवोति एवम्पि रत्तञ्‍ञूनं सावकानं अयमेव अग्गो पुरिमकोटिभूतो सेट्ठो। तेन वुत्तं – ‘‘रत्तञ्‍ञूनं यदिदं अञ्‍ञासिकोण्डञ्‍ञो’’ति।</p>

<p rend="bodytext">एत्थ <pb ed="M" n="1.0106"/> च <hi rend="bold">यदिद</hi>न्ति निपातो, तस्स थेरं अवेक्खित्वा यो एसोति, अग्गसद्दं अवेक्खित्वा यं एतन्ति अत्थो। <hi rend="bold">अञ्‍ञासिकोण्डञ्‍ञो</hi>ति ञातकोण्डञ्‍ञो पटिविद्धकोण्डञ्‍ञो। तेनेवाह – ‘‘अञ्‍ञासि वत, भो, कोण्डञ्‍ञो, अञ्‍ञासि वत, भो, कोण्डञ्‍ञोति। इति हिदं आयस्मतो कोण्डञ्‍ञस्स अञ्‍ञासिकोण्डञ्‍ञो त्वेव नामं अहोसी’’ति (सं॰ नि॰ ५.१०८१; महाव॰ १७)।</p>

<p rend="bodytext">अयं पन थेरो कतरबुद्धकाले पुब्बपत्थनं अभिनीहारं अकासि, कदा पब्बजितो, कदानेन पठमं धम्मो अधिगतो, कदा ठानन्तरे ठपितोति इमिना नयेन सब्बेसुपि एतदग्गेसु पञ्हकम्मं वेदितब्बं।</p>

<p rend="bodytext">तत्थ <pb ed="V" n="1.0111"/> <pb ed="P" n="1.0136"/> इमस्स ताव थेरस्स पञ्हकम्मे अयमनुपुब्बिकथा – इतो कप्पसतसहस्समत्थके पदुमुत्तरो नाम बुद्धो लोके उदपादि, तस्स पटिविद्धसब्बञ्‍ञुतञ्‍ञाणस्स महाबोधिपल्‍लङ्कतो उट्ठहन्तस्स महापथवियं ठपेतुं पादे उक्खित्तमत्ते पादसम्पटिच्छनत्थं महन्तं पदुमपुप्फं उग्गञ्छि, तस्स धुरपत्तानि नवुतिहत्थानि होन्ति, केसरं तिंसहत्थं, कण्णिका द्वादसहत्था, पादेन पतिट्ठितट्ठानं एकादसहत्थं। तस्स पन भगवतो सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि। तस्स पदुमकण्णिकाय दक्खिणपादे पतिट्ठहन्ते महातुम्बमत्ता रेणु उग्गन्त्वा सरीरं ओकिरमाना ओतरि, वामपादस्स ठपनकालेपि तथारूपंयेव पदुमं उग्गन्त्वा पादं सम्पटिच्छि। ततोपि उग्गन्त्वा वुत्तप्पमाणाव रेणु सरीरं ओकिरि। तं पन रेणुं अभिभवमाना तस्स भगवतो सरीरप्पभा निक्खमित्वा यन्तनाळिकाय विस्सट्ठसुवण्णरसधारा विय समन्ता द्वादसयोजनट्ठानं एकोभासं अकासि। ततियपादुद्धरणकाले पथमुग्गतं पदुमं अन्तरधायि, पादसम्पटिच्छनत्थं अञ्‍ञं नवं पदुमं उग्गञ्छि। इमिनाव नियामेन यत्थ यत्थ गन्तुकामो होति, तत्थ तत्थापि महापदुमं उग्गच्छति। तेनेवस्स ‘‘पदुमुत्तरसम्मासम्बुद्धो’’ति नामं अहोसि।</p>

<p rend="bodytext">एवं सो भगवा लोके उप्पज्‍जित्वा भिक्खुसतसहस्सपरिवारो महाजनस्स सङ्गहत्थाय गामनिगमराजधानीसु भिक्खाय चरन्तो हंसवतीनगरं सम्पापुणि <pb ed="P" n="1.0137"/>। तस्स आगतभावं सुत्वा पिता महाराजा पच्‍चुग्गमनं <pb ed="M" n="1.0107"/> अकासि। सत्था तस्स धम्मकथं कथेसि। देसनापरियोसाने केचि सोतापन्‍ना केचि सकदागामी केचि अनागामी केचि अरहत्तं पापुणिंसु। राजा स्वातनाय दसबलं निमन्तेत्वा पुनदिवसे कालं आरोचापेत्वा भिक्खुसतसहस्सपरिवारस्स भगवतो सकनिवेसने महादानं अदासि। सत्था भत्तानुमोदनं कत्वा विहारमेव गतो। तेनेव नियामेन पुनदिवसे नागरा, पुनदिवसे राजाति दीघमद्धानं दानं अदंसु।</p>

<p rend="bodytext">तस्मिं काले अयं थेरो हंसवतीनगरे गहपतिमहासालकुले निब्बत्तो। एकदिवसं बुद्धानं धम्मदेसनाकाले हंसवतीनगरवासिनो गन्धमालादिहत्थे येन बुद्धो, येन धम्मो, येन सङ्घो, तन्‍निन्‍ने तप्पोणे तप्पब्भारे गच्छन्ते दिस्वा तेन महाजनेन सद्धिं धम्मदेसनट्ठानं अगमासि। तस्मिञ्‍च समये पदुमुत्तरो भगवा अत्तनो सासने पठमं पटिविद्धधम्मं एकं भिक्खुं एतदग्गट्ठाने ठपेसि। सो कुलपुत्तो तं कारणं सुत्वा ‘‘महा वतायं भिक्खु, ठपेत्वा किर बुद्धं अञ्‍ञो इमिना पठमतरं पटिविद्धधम्मो नाम नत्थि। अहो वताहम्पि अनागते एकस्स <pb ed="V" n="1.0112"/> बुद्धस्स सासने पठमं धम्मं पटिविज्झनसमत्थो भवेय्य’’न्ति चिन्तेत्वा देसनापरियोसाने भगवन्तं उपसङ्कमित्वा ‘‘स्वे मय्हं भिक्खं गण्हथा’’ति निमन्तेसि। सत्था अधिवासेसि।</p>

<p rend="bodytext">सो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सकनिवेसनं गन्त्वा सब्बरत्तिं बुद्धानं निसज्‍जनट्ठानं गन्धदाममालादामादीहि अलङ्करित्वा पणीतं खादनीयं भोजनीयं पटियादापेत्वा तस्सा रत्तिया अच्‍चयेन सकनिवेसने भिक्खुसतसहस्सपरिवारस्स भगवतो विचित्रयागुखज्‍जकपरिवारं नानारससूपब्यञ्‍जनं <pb ed="P" n="1.0138"/> गन्धसालिभोजनं दत्वा भत्तकिच्‍चपरियोसाने तिचीवरपहोनके वङ्गपट्टे तथागतस्स पादमूले ठपेत्वा चिन्तेसि – ‘‘नाहं परित्तकस्स ठानस्सत्थाय चरामि, महन्तं ठानं पत्थेन्तो चरामि, न खो पन सक्‍का एकमेव दिवसं दानं दत्वा तं ठानन्तरं पत्थेतु’’न्ति ‘‘अनुपटिपाटिया सत्त दिवसानि महादानं दत्वा पत्थेस्सामी’’ति। सो तेनेव नियामेन सत्त दिवसानि महादानं दत्वा भत्तकिच्‍चपरियोसाने दुस्सकोट्ठागारं विवरापेत्वा उत्तमसुखुमवत्थं बुद्धानं पादमूले ठपेत्वा भिक्खुसतसहस्सं तिचीवरेन अच्छादेत्वा तथागतं <pb ed="M" n="1.0108"/> उपसङ्कमित्वा, ‘‘भन्ते, यो तुम्हेहि इतो सत्तदिवसमत्थके भिक्खु एतदग्गे ठपितो, अहम्पि सो भिक्खु विय अनागते उप्पज्‍जनकबुद्धस्स सासने पब्बजित्वा पठमं धम्मं पटिविज्झितुं समत्थो भवेय्य’’न्ति वत्वा सत्थु पादमूले सीसं कत्वा निपज्‍जि।</p>

<p rend="bodytext">सत्था तस्स वचनं सुत्वा ‘‘इमिना कुलपुत्तेन महाअधिकारो कतो, समिज्झिस्सति नु खो एतस्स अयं पत्थना नो’’ति अनागतंसञाणं पेसेत्वा आवज्‍जेन्तो ‘‘समिज्झिस्सती’’ति पस्सि। बुद्धानञ्हि अतीतं वा अनागतं वा पच्‍चुप्पन्‍नं वा आरब्भ आवज्‍जेन्तानं आवरणं नाम नत्थि, अनेककप्पकोटिसतसहस्सन्तरम्पि च अतीतं वा अनागतं वा चक्‍कवाळसहस्सन्तरम्पि च पच्‍चुप्पन्‍नं वा आवज्‍जनपटिबद्धमेव मनसिकारपटिबद्धमेव होति। एवं अप्पटिवत्तियेन ञाणेन सो भगवा इदं अद्दस – ‘‘अनागते सतसहस्सकप्पपरियोसाने गोतमो नाम बुद्धो लोके उप्पज्‍जिस्सति, तदा इमस्स पत्थना समिज्झिस्सती’’ति। अथ नं एवमाह – ‘‘अम्भो, कुलपुत्त, अनागते सतसहस्सकप्पपरियोसाने गोतमो नाम बुद्धो लोके उप्पज्‍जिस्सति <pb ed="P" n="1.0139"/>, त्वं तस्स पठमकधम्मदेसनाय तेपरिवट्टधम्मचक्‍कप्पवत्तनसुत्तन्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सहस्सनयसम्पन्‍ने सोतापत्तिफले पतिट्ठहिस्ससी’’ति।</p>

<p rend="bodytext">इति <pb ed="V" n="1.0113"/> सत्था तं कुलपुत्तं ब्याकरित्वा चतुरासीति धम्मक्खन्धसहस्सानि देसेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि। तस्स परिनिब्बुतस्स सरीरं सुवण्णक्खन्धो विय एकग्घनं अहोसि, सरीरचेतियं पनस्सुब्बेधेन सत्तयोजनिकं अकंसु। इट्ठका सुवण्णमया अहेसुं, हरितालमनोसिलाय मत्तिकाकिच्‍चं, तेलेन उदककिच्‍चं साधयिंसु। बुद्धानं धरमानकाले सरीरप्पभा द्वादसयोजनिकं फरि, परिनिब्बुतानं पन तेसं रस्मि निक्खमित्वा समन्ता योजनसतं अवत्थरि।</p>

<p rend="bodytext">अयं सेट्ठि बुद्धानं सरीरचेतियं परिवारेत्वा सहस्सरतनग्घियानि कारेसि। चेतियपतिट्ठापनदिवसे अन्तोचेतिये रतनघरं कारेसि। सो वस्ससतसहस्सं महन्तं दानादिमयं कल्याणकम्मं कत्वा ततो चुतो देवपुरे निब्बत्ति। तस्स देवेसु च मनुस्सेसु च संसरन्तस्सेव नवनवुति <pb ed="M" n="1.0109"/> कप्पसहस्सानि नव कप्पसतानि नव च कप्पा समतिक्‍कन्ता। एत्तकस्स कालस्स अच्‍चयेन इतो एकनवुतिकप्पमत्थके अयं कुलपुत्तो बन्धुमतीनगरस्स द्वारसमीपे गामे कुटुम्बियगेहे निब्बत्तो। तस्स <hi rend="bold">महाकालो</hi>ति नामं अहोसि, कनिट्ठभाता पनस्स चूळकालो नाम।</p>

<p rend="bodytext">तस्मिं समये विपस्सी बोधिसत्तो तुसितपुरा चवित्वा बन्धुमतीनगरे बन्धुमस्स रञ्‍ञो अग्गमहेसिया कुच्छिस्मिं निब्बत्तो। अनुक्‍कमेन सब्बञ्‍ञुतं पत्वा धम्मदेसनत्थाय महाब्रह्मुना आयाचितो ‘‘कस्स <pb ed="P" n="1.0140"/> नु खो पठमं धम्मं देसेस्सामी’’ति चिन्तेत्वा अत्तनो कनिट्ठं खण्डं नाम राजकुमारं तिस्सञ्‍च पुरोहितपुत्तं ‘‘पठमं धम्मं पटिविज्झितुं समत्था’’ति दिस्वा ‘‘तेसञ्‍च धम्मं देसेस्सामि, पितु च सङ्गहं करिस्सामी’’ति बोधिमण्डतो आकासेनेव आगन्त्वा खेमे मिगदाये ओतिण्णो ते पक्‍कोसापेत्वा धम्मं देसेसि। देसनापरियोसाने ते द्वेपि जना चतुरासीतिया पाणसहस्सेहि सद्धिं अरहत्तफले पतिट्ठहिंसु।</p>

<p rend="bodytext">अथापरेपि बोधिसत्तकाले अनुपब्बजिता चतुरासीतिसहस्सा कुलपुत्ता तं पवत्तिं सुत्वा सत्थु सन्तिकं आगन्त्वा धम्मदेसनं सुत्वा अरहत्तफले पतिट्ठहिंसु। सत्था तं तत्थेव खण्डत्थेरं अग्गसावकट्ठाने, तिस्सत्थेरं दुतियसावकट्ठाने ठपेसि। राजापि तं पवत्तिं सुत्वा ‘‘पुत्तं पस्सिस्सामी’’ति उय्यानं गन्त्वा धम्मदेसनं सुत्वा तीसु सरणेसु पतिट्ठाय सत्थारं स्वातनाय निमन्तेत्वा अभिवादेत्वा पदक्खिणं कत्वा पक्‍कामि।</p>

<p rend="bodytext">सो <pb ed="V" n="1.0114"/> पासादवरगतो निसीदित्वा चिन्तेसि – ‘‘मय्हं जेट्ठपुत्तो निक्खमित्वा बुद्धो जातो, दुतियपुत्तो मे अग्गसावको, पुरोहितपुत्तो दुतियसावको। इमे च अवसेसभिक्खू गिहिकालेपि मय्हं पुत्तमेव परिवारेत्वा विचरिंसु, इमे पुब्बेपि दानिपि मय्हमेव भारा, अहमेव ते चतूहि पच्‍चयेहि उपट्ठहिस्सामि, अञ्‍ञेसं ओकासं न दस्सामी’’ति। विहारद्वारकोट्ठकतो पट्ठाय याव राजगेहद्वारा उभोसु पस्सेसु खदिरपाकारं कारेत्वा वत्थेहि पटिच्छादापेत्वा उपरि सुवण्णतारकविचित्तं समोलम्बिततालक्खन्धमत्तविविधपुप्फदामवितानं कारेत्वा हेट्ठाभूमिं <pb ed="M" n="1.0110"/> विचित्तत्थरणेहि सन्थरापेत्वा अन्तो उभोसु पस्सेसु मालागच्छकेसु पुण्णघटे सकलमग्गवासत्थाय च गन्धन्तरेसु पुप्फानि पुप्फन्तरेसु गन्धे च ठपापेत्वा <pb ed="P" n="1.0141"/> भगवतो कालं आरोचापेसि। भगवा भिक्खुसङ्घपरिवुतो अन्तोसाणियाव राजगेहं गन्त्वा भत्तकिच्‍चं कत्वा विहारं पच्‍चागच्छति। अञ्‍ञो कोचि दट्ठुम्पि न लभति, कुतो पन भिक्खं वा दातुं पूजं वा कातुं।</p>

<p rend="bodytext">नागरा चिन्तेसुं – ‘‘अज्‍ज सत्थु लोके उप्पन्‍नस्स सत्तमासाधिकानि सत्त संवच्छरानि, मयञ्‍च दट्ठुम्पि न लभाम, पगेव भिक्खं वा दातुं पूजं वा कातुं धम्मं वा सोतुं। राजा ‘मय्हं एव बुद्धो, मय्हं धम्मो, मय्हं सङ्घो’ति ममायित्वा सयमेव उपट्ठहति। सत्था च उप्पज्‍जमानो सदेवकस्स लोकस्स अत्थाय उप्पन्‍नो, न रञ्‍ञोयेव अत्थाय। न हि रञ्‍ञोयेव निरयो उण्हो, अञ्‍ञेसं नीलुप्पलवनसदिसो। तस्मा राजानं एवं वदाम ‘सचे नो सत्थारं देति, इच्‍चेतं कुसलं। नो चे देति, रञ्‍ञा सद्धिं युज्झित्वा सङ्घं गहेत्वा दानादीनि पुञ्‍ञानि करोम। न सक्‍का खो पन सुद्धनागरेहेव एवं कातुं, एकं जेट्ठकपुरिसम्पि गण्हामा’’’ति सेनापतिं उपसङ्कमित्वा तस्स तमत्थं आरोचेत्वा ‘‘सामि किं अम्हाकं पक्खो होहिसि, उदाहु रञ्‍ञो’’ति आहंसु। सो आह – ‘‘तुम्हाकं पक्खो होमि, अपिच खो पन पठमदिवसो मय्हं दातब्बो’’ति। ते सम्पटिच्छिंसु।</p>

<p rend="bodytext">सो राजानं उपसङ्कमित्वा ‘‘नागरा, देव, तुम्हाकं कुपिता’’ति आह। किमत्थं ताताति? सत्थारं किर तुम्हेव उपट्ठहथ, अम्हे न लभामाति। सचे इदानिपि लभन्ति, न कुप्पन्ति। अलभन्ता तुम्हेहि सद्धिं युज्झितुकामा, देवाति। युज्झामि, तात, न भिक्खुसङ्घं देमीति। देव, तुम्हाकं दासा तुम्हेहि सद्धिं युज्झामाति वदन्ति, तुम्हे कं गण्हित्वा युज्झिस्सथाति? ननु त्वं सेनापतीति? नागरेहि विना असमत्थो अहं, देवाति। ततो राजा <pb ed="V" n="1.0115"/> ‘‘बलवन्तो नागरा, सेनापतिपि तेसंयेव पक्खो’’ति ञत्वा ‘‘अञ्‍ञानि सत्तमासाधिकानि सत्त संवच्छरानि मय्हं भिक्खुसङ्घं <pb ed="P" n="1.0142"/> देन्तू’’ति आह। नागरा न सम्पटिच्छिंसु। राजा ‘‘छब्बस्सानि पञ्‍चवस्सानी’’ति एवं हापेत्वा अञ्‍ञे सत्त दिवसे याचि <pb ed="M" n="1.0111"/>। नागरा ‘‘अतिकक्खळं दानि रञ्‍ञा सद्धिं कातुं न वट्टती’’ति अनुजानिंसु। राजा सत्तमासाधिकानं सत्तन्‍नं संवच्छरानं सज्‍जितं दानमुखं सत्तन्‍नमेव दिवसानं सज्‍जेत्वा छ दिवसे केसञ्‍चि अपस्सन्तानंयेव दानं दत्वा सत्तमे दिवसे नागरे पक्‍कोसापेत्वा ‘‘सक्खिस्सथ, ताता, एवरूपं दानं दातु’’न्ति आह। तेपि ‘‘ननु अम्हेयेव निस्सायेतं देवस्स उप्पन्‍न’’न्ति वत्वा ‘‘सक्खिस्सामा’’ति आहंसु। राजा पिट्ठिहत्थेन अस्सूनि पुञ्छमानो भगवन्तं वन्दित्वा, ‘‘भन्ते, अट्ठसट्ठिभिक्खुसतसहस्सं अञ्‍ञस्सु भारं अकत्वा यावजीवं चतूहि पच्‍चयेहि उपट्ठहिस्सामीति चिन्तेसिं, नागरानं दानि मे अनुञ्‍ञातं, नागरा हि ‘मयं दानं दातुं न लभामा’ति भगवा कुप्पन्ति। स्वेव पट्ठाय तेसं अनुग्गहं करोथा’’ति आह।</p>

<p rend="bodytext">अथ दुतियदिवसे सेनापति महादानं अदासि। ततो नागरा रञ्‍ञा कतसक्‍कारतो उत्तरितरं सक्‍कारसम्मानं कत्वा दानं अदंसु। एतेनेव नियामेन सकलनगरस्स पटिपाटिया गताय द्वारगामवासिनो सक्‍कारसम्मानं सज्‍जयिंसु। महाकालकुटुम्बिको चूळकालं आह – ‘‘दसबलस्स सक्‍कारसम्मानं स्वेव अम्हाकं पापुणाति, किं सक्‍कारं करिस्सामा’’ति? त्वमेव भातिक जानाहीति। सचे मय्हं रुचिया करोसि, अम्हाकं सोळसकरीसमत्तेसु खेत्तेसु गहितगब्भा सालियो अत्थि। सालिगब्भं फालेत्वा आदाय बुद्धानं <pb ed="P" n="1.0143"/> अनुच्छविकं पचापेमाति। एवं कयिरमाने कस्सचि उपकारो न होति, तस्मा नेतं मय्हं रुच्‍चतीति। सचे त्वं एवं न करोसि, अहं मय्हं सन्तकं ममायितुं लभामीति सोळसकरीसमत्तं खेत्तं मज्झे भिन्दित्वा अट्ठकरीसट्ठाने सीमं ठपेत्वा सालिगब्भं फालेत्वा आदाय असम्भिन्‍ने खीरे पचापेत्वा चतुमधुरं पक्खिपित्वा बुद्धप्पमुखस्स सङ्घस्स अदासि। कुटुम्बिकस्स खो गब्भं फालेत्वा गहितगहितट्ठानं पुन पूरति। पुथुककाले पुथुकग्गं नाम अदासि, गामवासीहि सद्धिं अग्गसस्सं नाम अदासि, लायने लायनग्गं, वेणिकरणे वेणग्गं, कलापादीसु कलापग्गं खलग्गं खलभण्डग्गं कोट्ठग्गन्ति। एवं सो एकसस्सेव नव वारे अग्गदानं अदासि। तम्पि सस्सं अतिरेकं उट्ठानसम्पन्‍नं अहोसि।</p>

<p rend="bodytext">याव बुद्धा धरति, याव च सङ्घो धरति, एतेनेव नियामेन कल्याणकम्मं कत्वा ततो चुतो <pb ed="V" n="1.0116"/> देवलोके निब्बत्तित्वा देवेसु चेव <pb ed="M" n="1.0112"/> मनुस्सेसु च संसरन्तो एकनवुतिकप्पे सम्पत्तिं अनुभवित्वा अम्हाकं सत्थु लोके उप्पन्‍नकाले कपिलवत्थुनगरस्स अविदूरे दोणवत्थुब्राह्मणगामे ब्राह्मणमहासालकुले निब्बत्ति। तस्स नामग्गहणदिवसे <hi rend="bold">कोण्डञ्‍ञमाणवो</hi>ति नामं अकंसु। सो वुड्ढिमन्वाय तयो वेदे उग्गहेत्वा लक्खणमन्तानं पारं अगमासि। तेन समयेन अम्हाकं बोधिसत्तो तुसितपुरा चवित्वा कपिलवत्थुपुरे निब्बत्ति। तस्स नामग्गहणदिवसे अट्ठुत्तरं ब्राह्मणसतं अहतवत्थेहि अच्छादेत्वा अप्पोदकं <pb ed="P" n="1.0144"/> मधुपायासं पायेत्वा तेसं अन्तरे अट्ठ जने उच्‍चिनित्वा महातले निसीदापेत्वा अलङ्कतपटियत्तं बोधिसत्तं दुकूलचुम्बटके निपज्‍जापेत्वा लक्खणपरिग्गहणत्थं तेसं सन्तिकं आनयिंसु। धुरासने निसिन्‍नब्राह्मणो महापुरिसस्स सरीरसम्पत्तिं ओलोकेत्वा द्वे अङ्गुलियो उक्खिपि। एवं पटिपाटिया सत्त जना उक्खिपिंसु। तेसं पन सब्बनवको कोण्डञ्‍ञमाणवो, सो बोधिसत्तस्स लक्खणवरनिप्फत्तिं ओलोकेत्वा ‘‘अगारमज्झे ठानकारणं नत्थि, एकन्तेनेस विवट्टच्छदो बुद्धो भविस्सती’’ति एकमेव अङ्गुलिं उक्खिपि। इतरे पन सत्त जना ‘‘सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्‍कवत्ती। सचे पब्बजिस्सति, बुद्धो भविस्सती’’ति द्वे गतियो दिस्वा द्वे अङ्गुलियो उक्खिपिंसु। अयं पन कोण्डञ्‍ञो कताधिकारो पच्छिमभविकसत्तो पञ्‍ञाय इतरे सत्त जने अभिभवित्वा ‘‘इमेहि लक्खणेहि समन्‍नागतस्स अगारमज्झे ठानकरणं नाम नत्थि, निस्संसयं बुद्धो भविस्सती’’ति एकमेव गतिं अद्दस, तस्मा एकं अङ्गुलिं उक्खिपि। ततो ब्राह्मणा अत्तनो घरानि गन्त्वा पुत्ते आमन्तयिंसु – ‘‘ताता, अम्हे महल्‍लका, सुद्धोदनमहाराजस्स पुत्तं सब्बञ्‍ञुतप्पत्तं मयं सम्भावेय्याम वा नो वा। तुम्हे तस्मिं कुमारे सब्बञ्‍ञुतं पत्ते तस्स सासने पब्बजेय्याथा’’ति।</p>

<p rend="bodytext">सुद्धोदनमहाराजापि बोधिसत्तस्स धातियो आदिं कत्वा परिहारं उपट्ठपेन्तो बोधिसत्तं वुद्धिं आपादेसि। महासत्तोपि वुद्धिप्पत्तो देवो विय सम्पत्तिं अनुभवित्वा परिपक्‍के ञाणे कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा राहुलकुमारस्स जातदिवसे छन्‍नसहायो कण्डकं आरुय्ह देवताहि विवटेन द्वारेन महाभिनिक्खमनं <pb ed="P" n="1.0145"/> निक्खमित्वा तेनेव रत्तिभागेन तीणि रज्‍जानि अतिक्‍कमित्वा अनोमानदीतीरे पब्बजित्वा घटिकारमहाब्रह्मुना आभते अरहद्धजे गहितमत्तेयेव <pb ed="M" n="1.0113"/> वस्ससट्ठिकत्थेरो विय पासादिकेन इरियापथेन राजगहं पत्वा तत्थ पिण्डाय चरित्वा पण्डवपब्बतच्छायाय पिण्डपातं परिभुञ्‍जित्वा रञ्‍ञा मागधेन रज्‍जसिरिया निमन्तियमानोपि तं पटिक्खिपित्वा अनुक्‍कमेन उरुवेलं गन्त्वा ‘‘रमणीयो वत अयं भूमिभागो <pb ed="V" n="1.0117"/>, अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाया’’ति पधानाभिमुखं चित्तं उप्पादेत्वा तत्थ वासं उपगतो।</p>

<p rend="bodytext">तेन समयेन इतरे सत्त ब्राह्मणा यथाकम्मं गता, सब्बदहरो पन लक्खणपरिग्गाहको कोण्डञ्‍ञमाणवो अरोगो। सो ‘‘महापुरिसो पब्बजितो’’ति सुत्वा तेसं ब्राह्मणानं पुत्ते उपसङ्कमित्वा एवमाह – ‘‘सिद्धत्थकुमारो किर पब्बजितो। सो हि निस्संसयं बुद्धो भविस्सति। सचे तुम्हाकं पितरो अरोगा अस्सु, अज्‍ज निक्खमित्वा पब्बजेय्युं। सचे तुम्हेपि इच्छथ, एथ मयं तं महापुरिसमनुपब्बजिस्सामा’’ति। ते सब्बे एकच्छन्दा भवितुं नासक्खिंसु। तयो जना न पब्बजिंसु, कोण्डञ्‍ञब्राह्मणं जेट्ठकं कत्वा इतरे चत्तारो पब्बजिंसु। इमे पञ्‍च पब्बजित्वा गामनिगमराजधानीसु भिक्खाय चरन्ता बोधिसत्तस्स सन्तिकं अगमिंसु। ते छब्बस्सानि बोधिसत्ते महापधानं पदहन्ते ‘‘इदानि बुद्धो भविस्सति इदानि बुद्धो भविस्सती’’ति महासत्तं उपट्ठहमाना सन्तिकावचरावस्स अहेसुं। यदा पन बोधिसत्तो एकतिलतण्डुलादीहि वीतिनामेन्तोपि दुक्‍करकारिकाय अरियधम्मपटिवेधस्स अभावं ञत्वा ओळारिकं आहारं आहरि, तदा ते पक्‍कमित्वा इसिपतनं अगमंसु।</p>

<p rend="bodytext">अथ बोधिसत्तो ओळारिकाहारपरिभोगेन छविमंसलोहितपारिपूरिं कत्वा <pb ed="P" n="1.0146"/> विसाखपुण्णमदिवसे सुजाताय दिन्‍नं वरभोजनं भुञ्‍जित्वा सुवण्णपातिं नदिया पटिसोतं खिपित्वा ‘‘अज्‍ज बुद्धो भविस्सामी’’ति कतसन्‍निट्ठानो सायन्हसमये कालेन नागराजेन अनेकेहि थुतिसतेहि अभित्थवियमानो महाबोधिमण्डं आरुय्ह अचलट्ठाने पाचीनलोकधातुअभिमुखो पल्‍लङ्केन निसीदित्वा चतुरङ्गसमन्‍नागतं वीरियं अधिट्ठाय सूरिये धरमानेयेव मारबलं विधमित्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्‍चूसकालसमनन्तरे पटिच्‍चसमुप्पादे ञाणं ओतारेत्वा अनुलोमपटिलोमं पच्‍चयाकारवट्टं <pb ed="M" n="1.0114"/> सम्मसन्तो सब्बबुद्धेहि पटिविद्धं असाधारणं सब्बञ्‍ञुतञ्‍ञाणं पटिविज्झित्वा निब्बानारम्मणाय फलसमापत्तिया तत्थेव सत्ताहं वीतिनामेसि।</p>

<p rend="bodytext">एतेनेव उपायेन सत्तसत्ताहं बोधिमण्डे विहरित्वा राजायतनमूले मधुपिण्डिकभोजनं परिभुञ्‍जित्वा पुन अजपालनिग्रोधमूलं आगन्त्वा तत्थ निसिन्‍नो धम्मगम्भीरतं पच्‍चवेक्खित्वा अप्पोस्सुक्‍कताय चित्ते नमन्ते महाब्रह्मुना याचितो बुद्धचक्खुना लोकं वोलोकेन्तो तिक्खिन्द्रियादिभेदे <pb ed="V" n="1.0118"/> सत्ते दिस्वा महाब्रह्मुनो धम्मदेसनाय पटिञ्‍ञं दत्वा ‘‘कस्स नु खो अहं पठमं धम्मं देसेस्सामी’’ति आळारुदकानं कालकतभावं ञत्वा पुन चिन्तेन्तो ‘‘बहूपकारा खो पन मे पञ्‍चवग्गिया भिक्खू, ये मं पधानपहितत्तं उपट्ठहिंसु। यंनूनाहं पञ्‍चवग्गियानं भिक्खूनं पठमं धम्मं देसेय्य’’न्ति चित्तं उप्पादेसि। इदं पन सब्बमेव बुद्धानं परिवितक्‍कमत्तमेव, ठपेत्वा पन कोण्डञ्‍ञब्राह्मणं अञ्‍ञो कोचि पठमं धम्मं पटिविज्झितुं समत्थो नाम नत्थि। सोपि एतदत्थमेव <pb ed="P" n="1.0147"/> कप्पसतसहस्सं अधिकारकम्मं अकासि, बुद्धप्पमुखस्स भिक्खुसङ्घस्स नव वारे अग्गसस्सदानं अदासि।</p>

<p rend="bodytext">अथ सत्था पत्तचीवरमादाय अनुपुब्बेन इसिपतनं गन्त्वा येन पञ्‍चवग्गिया भिक्खू, तेनुपसङ्कमि। ते तथागतं आगच्छन्तं दिस्वाव अत्तनो कतिकाय सण्ठातुं नासक्खिंसु। एको पत्तचीवरं पटिग्गहेसि, एको आसनं पञ्‍ञापेसि, एको पादोदकं पच्‍चुपट्ठापेसि, एको पादे धोवि, एको तालवण्टं गहेत्वा बीजमानो ठितो। एवं तेसु वत्तं दस्सेत्वा सन्तिके निसिन्‍नेसु कोण्डञ्‍ञत्थेरं कायसक्खिं कत्वा सत्था अनुत्तरं तेपरिवट्टं धम्मचक्‍कप्पवत्तनसुत्तन्तं आरभि। मनुस्सपरिसा पञ्‍च जनाव अहेसुं, देवपरिसा अपरिच्छिन्‍ना। देसनापरियोसाने कोण्डञ्‍ञत्थेरो अट्ठारसहि महाब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठितो। अथ सत्था ‘‘मया दुक्‍करसताभतं धम्मं पठममेव अञ्‍ञासीति अञ्‍ञासिकोण्डञ्‍ञो नाम अय’’न्ति थेरं आलपन्तो ‘‘अञ्‍ञासि वत, भो, कोण्डञ्‍ञो, अञ्‍ञासि वत, भो, कोण्डञ्‍ञो’’ति आह। तस्स तदेव नामं जातं। तेन वुत्तं – ‘‘इति हिदं <pb ed="M" n="1.0115"/> आयस्मतो कोण्डञ्‍ञस्स अञ्‍ञासिकोण्डञ्‍ञोत्वेव नामं अहोसी’’ति।</p>

<p rend="bodytext">इति थेरो आसाळ्हिपुण्णमायं सोतापत्तिफले पतिट्ठितो, पाटिपददिवसे भद्दियत्थेरो, दुतियपक्खदिवसे वप्पत्थेरो, ततियपक्खदिवसे महानामत्थेरो, पक्खस्स चतुत्थियं अस्सजित्थेरो सोतापत्तिफले पतिट्ठितो। पञ्‍चमिया पन पक्खस्स अनत्तलक्खणसुत्तन्तदेसनापरियोसाने सब्बेपि अरहत्ते पतिट्ठिता।</p>

<p rend="bodytext">तेन खो पन समयेन छ लोके अरहन्तो होन्ति। ततो पट्ठाय सत्था यसदारकप्पमुखे पञ्‍चपञ्‍ञास पुरिसे, कप्पासियवनसण्डे तिंसमत्ते भद्दवग्गिये, गयासीसे पिट्ठिपासाणे <pb ed="P" n="1.0148"/> सहस्समत्ते पुराणजटिलेति एवं महाजनं अरियभूमिं ओतारेत्वा बिम्बिसारप्पमुखानि एकादसनहुतानि <pb ed="V" n="1.0119"/> सोतापत्तिफले, एकं नहुतं सरणत्तये पतिट्ठापेत्वा जम्बुदीपतले सासनं पुप्फितफलितं कत्वा सकलजम्बुदीपमण्डलं कासावपज्‍जोतं इसिवातपटिवातं करोन्तो एकस्मिं समये जेतवनमहाविहारं पत्वा तत्थ वसन्तो भिक्खुसङ्घमज्झे पञ्‍ञत्तवरबुद्धासनगतो धम्मं देसेन्तो ‘‘पठमं धम्मं पटिविद्धभिक्खूनं अन्तरे मम पुत्तो कोण्डञ्‍ञो अग्गो’’ति दस्सेतुं एतदग्गट्ठाने ठपेसि।</p>

<p rend="bodytext">थेरोपि द्वे अग्गसावके अत्तनो निपच्‍चकारं करोन्ते दिस्वा बुद्धानं सन्तिका अपक्‍कमितुकामो हुत्वा ‘‘पुण्णमाणवो पब्बजित्वा सासने अग्गधम्मकथिको भविस्सती’’ति दिस्वा दोणवत्थुब्राह्मणगामं गन्त्वा अत्तनो भागिनेय्यं पुण्णमाणवं पब्बाजेत्वा ‘‘अयं बुद्धानं सन्तिके वसिस्सती’’ति तस्स बुद्धानं अन्तेवासिकभावं कत्वा सयं दसबलं उपसङ्कमित्वा ‘‘भगवा मय्हं गामन्तसेनासनं असप्पायं, आकिण्णो विहरितुं न सक्‍कोमि, छद्दन्तदहं गन्त्वा वसिस्सामी’’ति भगवन्तं अनुजानापेत्वा उट्ठायासना सत्थारं वन्दित्वा छद्दन्तदहं गन्त्वा छद्दन्तहत्थिकुलं निस्साय द्वादस वस्सानि वीतिनामेत्वा तत्थेव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि।</p>

<p rend="subhead">सारिपुत्त-मोग्गल्‍लानत्थेरवत्थु</p>

<p rend="bodytext" n="189-190"><hi rend="paranum">१८९-१९०</hi><hi rend="dot">.</hi> दुतियततियेसु <pb ed="M" n="1.0116"/> <hi rend="bold">महापञ्‍ञान</hi>न्ति महतिया पञ्‍ञाय समन्‍नागतानं। <hi rend="bold">इद्धिमन्तान</hi>न्ति इद्धिया सम्पन्‍नानं। <hi rend="bold">सारिपुत्तो मोग्गल्‍लानो</hi>ति तेसं थेरानं नामं।</p>

<p rend="bodytext">इमेसम्पि पञ्हकम्मे अयमनुपुब्बिकथा – इतो सतसहस्सकप्पाधिके असङ्ख्येय्यकप्पमत्थके सारिपुत्तो ब्राह्मणमहासालकुले निब्बत्ति, नामेन सरदमाणवो नाम अहोसि। मोग्गल्‍लानो गहपतिमहासालकुले निब्बत्ति <pb ed="P" n="1.0149"/>, नामेन सिरिवड्ढनकुटुम्बियो नाम अहोसि। ते उभोपि सहपंसुकीळिताव सहायका अहेसुं। सरदमाणवो पितु अच्‍चयेन कुलसन्तकं महाधनं पटिपज्‍जित्वा एकदिवसं रहोगतो चिन्तेसि – ‘‘अहं इधलोकत्तभावमेव जानामि, नो परलोकत्तभावं, जातसत्तानञ्‍च मरणं नाम धुवं, मया एकं पब्बज्‍जं पब्बजित्वा मोक्खधम्मगवेसनं कातुं वट्टती’’ति। सो सहायकं उपसङ्कमित्वा आह – ‘‘सम्म सिरिवड्ढन, अहं पब्बजित्वा मोक्खधम्मं गवेसिस्सामि, त्वं मया सद्धिं पब्बजितुं सक्खिस्ससी’’ति। न सक्खिस्सामि <pb ed="V" n="1.0120"/>, सम्म, त्वंयेव पब्बजाहीति। सो चिन्तेसि – ‘‘परलोकं गच्छन्ता सहाये वा ञातिमित्ते वा गहेत्वा गता नाम नत्थि, अत्तना कतं अत्तनोव होती’’ति। ततो रतनकोट्ठागारं विवरापेत्वा कपणद्धिकवणिब्बकयाचकानं महादानं दत्वा पब्बतपादं पविसित्वा इसिपब्बज्‍जं पब्बजि। तस्स एको द्वे तयोति एवं अनुपब्बज्‍जं पब्बजिता चतुसत्ततिसहस्समत्ता जटिला अहेसुं। सो पञ्‍चाभिञ्‍ञा अट्ठ च समापत्तियो निब्बत्तेत्वा तेसम्पि जटिलानं कसिणपरिकम्मं आचिक्खि। तेपि सब्बे पञ्‍च अभिञ्‍ञा अट्ठ च समापत्तियो निब्बत्तेसुं।</p>

<p rend="bodytext">तेन समयेन अनोमदस्सी नाम बुद्धो लोके उदपादि। नगरं चन्दवती नाम अहोसि, पिता यसवन्तो नाम खत्तियो, माता यसोधरा नाम देवी, बोधि अज्‍जुनरुक्खो, निसभत्थेरो च अनोमत्थेरो चाति द्वे अग्गसावका, वरुणत्थेरो नाम उपट्ठाको, सुन्दरा च सुमना चाति द्वे अग्गसाविका, आयु वस्ससतसहस्सं अहोसि, सरीरं अट्ठपञ्‍ञासहत्थुब्बेधं, सरीरप्पभा द्वादसयोजनं फरि, भिक्खुसतसहस्सपरिवारो अहोसि।</p>

<p rend="bodytext">अथेकदिवसं <pb ed="M" n="1.0117"/> पच्‍चूसकाले <pb ed="P" n="1.0150"/> महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो सरदतापसं दिस्वा ‘‘अज्‍ज मय्हं सरदतापसस्स सन्तिकं गतपच्‍चयेन धम्मदेसना च महती भविस्सति, सो च अग्गसावकट्ठानं पत्थेस्सति, तस्स सहायको सिरिवड्ढनकुटुम्बियो दुतियसावकट्ठानं, देसनापरियोसाने चस्स परिवारा चतुसत्ततिसहस्सजटिला अरहत्तं पापुणिस्सन्ति, मया तत्थ गन्तुं वट्टती’’ति अत्तनो पत्तचीवरमादाय अञ्‍ञं कञ्‍चि अनामन्तेत्वा सीहो विय एकचरो हुत्वा सरदतापसस्स अन्तेवासिकेसु फलाफलत्थाय गतेसु ‘‘बुद्धभावं मे जानातू’’ति तस्स पस्सन्तस्सेव सरदतापसस्स आकासतो ओतरित्वा पथवियं पतिट्ठासि। सरदतापसो बुद्धानुभावं चेव सरीरसम्पत्तिं चस्स दिस्वा लक्खणमन्ते सम्मसित्वा ‘‘इमेहि लक्खणेहि समन्‍नागतो नाम अगारमज्झे वसन्तो राजा होति चक्‍कवत्ती, पब्बज्‍जन्तो लोके विवट्टच्छदो सब्बञ्‍ञु बुद्धो होति, अयं पुरिसो निस्संसयं बुद्धो’’ति जानित्वा पच्‍चुग्गमनं कत्वा पञ्‍चपतिट्ठितेन वन्दित्वा आसनं पञ्‍ञापेत्वा अदासि। निसीदि भगवा पञ्‍ञत्तासने। सरदतापसोपि अत्तनो अनुच्छविकं आसनं गहेत्वा एकमन्तं निसीदि।</p>

<p rend="bodytext">तस्मिं समये चतुसत्ततिसहस्सजटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा <pb ed="V" n="1.0121"/> आचरियस्स सन्तिकं सम्पत्ता बुद्धानञ्‍चेव आचरियस्स च निसिन्‍नासनं ओलोकेत्वा आहंसु – ‘‘आचरिय, मयं ‘इमस्मिं लोके तुम्हेहि महन्ततरो नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्‍ञे’’ति। ताता, किं वदथ? सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं समं कातुं इच्छथ, सब्बञ्‍ञुबुद्धेन सद्धिं मय्हं उपमं मा करित्थ पुत्तकाति। अथ ते तापसा ‘‘सचे अयं इत्तरसत्तो अभविस्स, न अम्हाकं आचरियो एवरूपं उपमं आहरेय्य, याव महा वतायं <pb ed="P" n="1.0151"/> पुरिसो’’ति सब्बेव पादेसु निपतित्वा सिरसा वन्दिंसु।</p>

<p rend="bodytext">अथ ने आचरियो आह – ‘‘ताता, अम्हाकं बुद्धानं अनुच्छविको देय्यधम्मो नत्थि, सत्था च भिक्खाचारवेलाय इधागतो, मयं यथाबलं देय्यधम्मं दस्साम। तुम्हे यं यं पणीतं फलाफलं, तं तं आहरथा’’ति। आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि <pb ed="M" n="1.0118"/>। सत्थारा च फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु। तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि। ततो भत्तकिच्‍चं निट्ठापेत्वा हत्थं धोवित्वा निसिन्‍ने सत्थरि सब्बे अन्तेवासिके पक्‍कोसित्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि। सत्था ‘‘द्वे अग्गसावका भिक्खुसङ्घेन सद्धिं आगच्छन्तू’’ति चिन्तेसि। ते सत्थु चित्तं ञत्वा सतसहस्सखीणासवपरिवारा आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु।</p>

<p rend="bodytext">ततो सरदतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, बुद्धानं निसिन्‍नासनम्पि नीचं, समणसतसहस्सानम्पि आसनं नत्थि, तुम्हेहि अज्‍ज उळारं बुद्धसक्‍कारं कातुं वट्टति, पब्बतपादतो वण्णगन्धसम्पन्‍नानि पुप्फानि आहरथा’’ति। कथनकालो पपञ्‍चो विय होति, इद्धिमन्तानं पन विसयो अचिन्तेय्योति मुहुत्तमत्तेनेव ते तापसा वण्णगन्धसम्पन्‍नानि पुप्फानि आहरित्वा बुद्धानं योजनप्पमाणं पुप्फासनं पञ्‍ञापेसुं, उभिन्‍नं अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं अहोसि। एवं पञ्‍ञत्तेसु आसनेसु सरदतापसो तथागतस्स पुरतो अञ्‍जलिं पग्गहेत्वा ठितो, ‘‘भन्ते, मय्हं दीघरत्तं हितसुखत्थाय इमं पुप्फासनं अभिरुहथा’’ति आह।</p>

<p rend="gatha1">‘‘नानापुप्फञ्‍च गन्धञ्‍च, सम्पादेत्वान एकतो।</p>

<p rend="gathalast">पुप्फासनं पञ्‍ञापेत्वा, इदं वचनमब्रविं॥</p>

<p rend="gatha1">‘‘इदं <pb ed="V" n="1.0122"/> <pb ed="P" n="1.0152"/> ते आसनं वीर, पञ्‍ञत्तं तवनुच्छविं।</p>

<p rend="gathalast">मम चित्तं पसादेन्तो, निसीद पुप्फमासने॥</p>

<p rend="gatha1">‘‘सत्तरत्तिदिवं बुद्धो, निसीदि पुप्फमासने।</p>

<p rend="gathalast">मम चित्तं पसादेत्वा, हासयित्वा सदेवके’’ति॥</p>

<p rend="bodytext">एवं निसिन्‍ने सत्थरि द्वे अग्गसावका च सेसभिक्खू च अत्तनो अत्तनो पत्तासनेसु निसीदिंसु। सरदतापसो महन्तं पुप्फच्छत्तं गहेत्वा तथागतस्स मत्थके धारयन्तो अट्ठासि। सत्था ‘‘जटिलानं अयं सक्‍कारो महप्फलो होतू’’ति निरोधसमापत्तिं समापज्‍जि। सत्थु समापन्‍नभावं ञत्वा द्वे अग्गसावकापि सेसभिक्खूपि समापत्तिं <pb ed="M" n="1.0119"/> समापज्‍जिंसु। तथागते सत्ताहं निरोधसमापत्तिं समापज्‍जित्वा निसिन्‍ने अन्तेवासिका भिक्खाचारकाले सम्पत्ते वनमूलफलाफलं परिभुञ्‍जित्वा सेसकाले बुद्धानं अञ्‍जलिं पग्गय्ह तिट्ठन्ति। सरदतापसो पन भिक्खाचारम्पि अगन्त्वा पुप्फच्छत्तं गहितनियामेनेव सत्ताहं पीतिसुखेन वीतिनामेसि।</p>

<p rend="bodytext">सत्था निरोधतो वुट्ठाय दक्खिणपस्से निसिन्‍नं अग्गसावकं निसभत्थेरं आमन्तेसि – ‘‘निसभ सक्‍कारकारकानं तापसानं पुप्फासनानुमोदनं करोही’’ति। थेरो चक्‍कवत्तिरञ्‍ञो सन्तिका पटिलद्धमहालाभो महायोधो विय तुट्ठमानसो सावकपारमिञाणे ठत्वा पुप्फासनानुमोदनं आरभि। तस्स देसनावसाने दुतियसावकं आमन्तेसि – ‘‘त्वम्पि धम्मं देसेही’’ति। अनोमत्थेरो तेपिटकं बुद्धवचनं सम्मसित्वा धम्मं कथेसि। द्विन्‍नं सावकानं देसनाय एकस्सपि अभिसमयो नाहोसि। अथ सत्था अपरिमाणे बुद्धविसये ठत्वा धम्मदेसनं आरभि। देसनापरियोसाने ठपेत्वा सरदतापसं सब्बेपि चतुसत्ततिसहस्सजटिला अरहत्तं पापुणिंसु। सत्था ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि। तेसं तावदेव केसमस्सु अन्तरधायि, अट्ठ परिक्खारा काये पटिमुक्‍काव अहेसुं।</p>

<p rend="bodytext">सरदतापसो कस्मा अरहत्तं न पत्तोति? विक्खित्तचित्तत्ता। तस्स किर बुद्धानं दुतियासने निसीदित्वा <pb ed="P" n="1.0153"/> सावकपारमिञाणे ठत्वा धम्मं देसयतो अग्गसावकस्स देसनं सोतुं आरद्धकालतो पट्ठाय ‘‘अहो वताहम्पि अनागते उप्पज्‍जनकस्स बुद्धस्स सासने इमिनाव सावकेन लद्धधुरं लभेय्य’’न्ति चित्तं उदपादि। सो तेन परिवितक्‍केन मग्गफलपटिवेधं कातुं नासक्खि <pb ed="V" n="1.0123"/>। तथागतं पन वन्दित्वा सम्मुखे ठत्वा आह – ‘‘भन्ते, तुम्हाकं अनन्तरासने निसिन्‍नो भिक्खु तुम्हाकं सासने को नाम होती’’ति? मया पवत्तितं धम्मचक्‍कं अनुप्पवत्तेता सावकपारमिञाणस्स कोटिप्पत्तो सोळस पञ्‍ञा पटिविज्झित्वा ठितो मय्हं सासने अग्गसावको निसभत्थेरो नाम एसोति। ‘‘भन्ते, य्वायं मया सत्ताहं पुप्फच्छत्तं धारेन्तेन सक्‍कारो कतो, अहं इमस्स फलेन अञ्‍ञं सक्‍कत्तं वा ब्रह्मत्तं वा न पत्थेमि, अनागते पन अयं निसभत्थेरो विय एकस्स बुद्धस्स अग्गसावको भवेय्य’’न्ति पत्थनं अकासि।</p>

<p rend="bodytext">सत्था <pb ed="M" n="1.0120"/> ‘‘समिज्झिस्सति नु खो इमस्स पुरिसस्स पत्थना’’ति अनागतंसञाणं पेसेत्वा ओलोकेन्तो कप्पसतसहस्साधिकं असङ्ख्येय्यं अतिक्‍कमित्वा समिज्झनभावं अद्दस। दिस्वा सरदतापसं आह – ‘‘न ते अयं पत्थना मोघा भविस्सति, अनागते पन कप्पसतसहस्साधिकं असङ्ख्येय्यं अतिक्‍कमित्वा गोतमो नाम बुद्धो लोके उप्पज्‍जिस्सति। तस्स माता महामाया नाम देवी भविस्सति, पिता सुद्धोदनो नाम राजा, पुत्तो राहुलो नाम, उपट्ठाको आनन्दो नाम, दुतियसावको मोग्गल्‍लानो नाम, त्वं पन तस्स अग्गसावको धम्मसेनापति सारिपुत्तो नाम भविस्ससी’’ति। एवं तापसं ब्याकरित्वा धम्मकथं कथेत्वा भिक्खुसङ्घपरिवारो आकासं पक्खन्दि।</p>

<p rend="bodytext">सरदतापसोपि अन्तेवासिकत्थेरानं सन्तिकं गन्त्वा सहायकस्स सिरिवड्ढनकुटुम्बिकस्स सासनं पेसेसि – ‘‘भन्ते, मम सहायकस्स वदेथ ‘सहायकेन ते सरदतापसेन अनोमदस्सिबुद्धस्स पादमूले अनागते <pb ed="P" n="1.0154"/> उप्पज्‍जनकस्स गोतमबुद्धस्स सासने अग्गसावकट्ठानं पत्थितं, त्वं दुतियसावकट्ठानं पत्थेही’’’ति। एवञ्‍च पन वत्वा थेरेहि पुरेतरमेव एकपस्सेन गन्त्वा सिरिवड्ढस्स निवेसनद्वारे अट्ठासि।</p>

<p rend="bodytext">सिरिवड्ढनो ‘‘चिरस्सं वत मे अय्यो आगतो’’ति आसने निसीदापेत्वा अत्तना नीचासने निसिन्‍नो ‘‘अन्तेवासिकपरिसा पन वो, भन्ते, न पञ्‍ञायती’’ति पुच्छि। आम सम्म, अम्हाकं अस्समं अनोमदस्सी नाम बुद्धो आगतो, मयं तस्स अत्तनो बलेन सक्‍कारं अकरिम्ह। सत्था सब्बेसं धम्मं देसेसि, देसनापरियोसाने ठपेत्वा मं सेसा अरहत्तं पत्वा पब्बजिंसूति। तुम्हे कस्मा न पब्बजिताति? अहं सत्थु अग्गसावकं निसभत्थेरं दिस्वा <pb ed="V" n="1.0124"/> अनागते उप्पज्‍जनकस्स गोतमस्स नाम बुद्धस्स सासने अग्गसावकट्ठानं पत्थेसिं, त्वम्पि तस्स सासने दुतियसावकट्ठानं पत्थेहीति। मय्हं बुद्धेहि सद्धिं परिचयो नत्थि, भन्तेति। बुद्धेहि सद्धिं कथनं मय्हं भारो होतु, त्वं महन्तं अधिकारं सज्‍जेहीति।</p>

<p rend="bodytext">सिरिवड्ढनो <pb ed="M" n="1.0121"/> सरदतापसस्स वचनं सुत्वा अत्तनो निवेसनद्वारे राजमानेन अट्ठकरीसमत्तं ठानं समतलं कारेत्वा वालुकं ओकिरापेत्वा लाजपञ्‍चमानि पुप्फानि विकिरित्वा नीलुप्पलच्छदनं मण्डपं कारेत्वा बुद्धासनं पञ्‍ञापेत्वा सेसभिक्खूनम्पि आसनानि पटियादापेत्वा महन्तं सक्‍कारसम्मानं सज्‍जेत्वा बुद्धानं निमन्तनत्थाय सरदतापसस्स सञ्‍ञं अदासि। तापसो तस्स वचनं सुत्वा बुद्धप्पमुखं भिक्खुसङ्घं गहेत्वा तस्स निवेसनं अगमासि। सिरिवड्ढनो पच्‍चुग्गमनं कत्वा तथागतस्स हत्थतो पत्तं गहेत्वा मण्डपं पवेसेत्वा पञ्‍ञत्तासनेसु निसिन्‍नस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स <pb ed="P" n="1.0155"/> दक्खिणोदकं दत्वा पणीतेन भोजनेन परिविसित्वा भत्तकिच्‍चपरियोसाने बुद्धप्पमुखं भिक्खुसङ्घं महारहेहि वत्थेहि अच्छादेत्वा, ‘‘भन्ते, नायं आरम्भो अप्पमत्तकट्ठानत्थाय, इमिनाव नियामेन सत्ताहं अनुकम्पं करोथा’’ति आह। सत्था अधिवासेसि। सो तेनेव नियामेन सत्ताहं महादानं पवत्तेत्वा भगवन्तं वन्दित्वा अञ्‍जलिं पग्गहेत्वा ठितो आह – ‘‘भन्ते, मम सहायो सरदतापसो यस्स सत्थु अग्गसावको होमीति पत्थेसि, अहम्पि तस्सेव दुतियसावको भवामी’’ति।</p>

<p rend="bodytext">सत्था अनागतं ओलोकेत्वा तस्स पत्थनाय समिज्झनभावं दिस्वा ब्याकासि – ‘‘त्वं इतो कप्पसतसहस्साधिकं असङ्ख्येय्यं अतिक्‍कमित्वा गोतमबुद्धस्स दुतियसावको भविस्ससी’’ति। बुद्धानं ब्याकरणं सुत्वा सिरिवड्ढनो हट्ठपहट्ठो अहोसि। सत्थापि भत्तानुमोदनं कत्वा सपरिवारो विहारमेव गतो। सिरिवड्ढनो ततो पट्ठाय यावजीवं कल्याणकम्मं कत्वा दुतियत्तवारे कामावचरदेवलोके निब्बत्तो। सरदतापसो चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्तो।</p>

<p rend="bodytext">ततो पट्ठाय इमेसं उभिन्‍नम्पि अन्तराकम्मं न कथितं। अम्हाकं पन बुद्धस्स निब्बत्तितो पुरेतरमेव सरदतापसो राजगहनगरस्स अविदूरे उपतिस्सगामे सारिब्राह्मणिया कुच्छिस्मिं पटिसन्धिं गण्हि। तंदिवसमेव चस्स सहायोपि राजगहस्सेव अविदूरे कोलितगामे मोग्गल्‍लिब्राह्मणिया <pb ed="V" n="1.0125"/> कुच्छियं पटिसन्धिं गण्हि। तानि किर द्वेपि कुलानि याव <pb ed="M" n="1.0122"/> सत्तमा कुलपरिवट्टा आबद्धपटिबद्धसहायकानेव। तेसं द्विन्‍नम्पि एकदिवसमेव गब्भपरिहारं अदंसु। दसमासच्‍चयेन जातानम्पि तेसं छसट्ठि धातियो उपट्ठहिंसु। नामग्गहणदिवसे सारिब्राह्मणिया पुत्तस्स उपतिस्सगामे जेट्ठकुलस्स <pb ed="P" n="1.0156"/> पुत्तत्ता <hi rend="bold">उपतिस्सो</hi>ति नामं अकंसु, इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता <hi rend="bold">कोलितो</hi>ति नामं अकंसु। ते उभोपि वुद्धिमन्वाय सब्बसिप्पानं पारं अगमंसु।</p>

<p rend="bodytext">उपतिस्समाणवस्स कीळनत्थाय नदिं वा उय्यानं वा पब्बतं वा गमनकाले पञ्‍च सुवण्णसिविकासतानि परिवारा होन्ति, कोलितमाणवस्स पञ्‍च आजञ्‍ञरथसतानि। द्वेपि जना पञ्‍चपञ्‍चमाणवकसतपरिवारा होन्ति। राजगहे च अनुसंवच्छरं गिरग्गसमज्‍जं नाम होति, तेसं द्विन्‍नम्पि एकट्ठानेयेव मञ्‍चं बन्धन्ति। द्वेपि जना एकतोव निसीदित्वा समज्‍जं पस्सन्ता हसितब्बट्ठाने हसन्ति, संवेगट्ठाने संविज्‍जन्ति, दायं दातुं युत्तट्ठाने दायं देन्ति। तेसं इमिनाव नियामेन एकदिवसं समज्‍जं पस्सन्तानं परिपाकगतत्ता ञाणस्स पुरिमदिवसेसु विय हसितब्बट्ठाने हासो वा संवेगट्ठाने संवेजनं वा दायं दातुं युत्तट्ठाने दायदानं वा नाहोसि। द्वेपि पन जना एवं चिन्तयिंसु – ‘‘किं एत्थ ओलोकेतब्बं अत्थि, सब्बेपिमे अप्पत्ते वस्ससते अपण्णत्तिकभावं गमिस्सन्ति। अम्हेहि पन एकं मोक्खधम्मं गवेसितुं वट्टती’’ति आरम्मणं गहेत्वा निसीदिंसु।</p>

<p rend="bodytext">ततो कोलितो उपतिस्सं आह – ‘‘सम्म उपतिस्स, न त्वं अञ्‍ञसु दिवसेसु विय हट्ठपहट्ठो, अनत्तमनधातुकोसि, किं ते सल्‍लक्खित’’न्ति? सम्म कोलित, ‘‘एतेसं ओलोकने सारो नत्थि, निरत्थकमेतं, अत्तनो मोक्खधम्मं गवेसितुं वट्टती’’ति इदं चिन्तयन्तो निसिन्‍नोम्हीति, त्वं पन कस्मा अनत्तमनोसीति? सोपि तथेव आह। अथस्स अत्तना सद्धिं एकज्झासयतं ञत्वा उपतिस्सो तं एवमाह – ‘‘अम्हाकं उभिन्‍नम्पि सुचिन्तितं, मोक्खधम्मं गवेसन्तेहि <pb ed="P" n="1.0157"/> पन एका पब्बज्‍जा लद्धुं वट्टति, कस्स सन्तिके पब्बजामा’’ति।</p>

<p rend="bodytext">तेन खो पन समयेन सञ्‍चयो परिब्बाजको राजगहे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिं। ते ‘‘तस्स सन्तिके पब्बजिस्सामा’’ति पञ्‍चहि <pb ed="M" n="1.0123"/> माणवकसतेहि सद्धिं सञ्‍चयस्स सन्तिके पब्बजिंसु। तेसं पब्बजितकालतो पट्ठाय सञ्‍चयो अतिरेकलाभग्गयसग्गप्पत्तो <pb ed="V" n="1.0126"/> अहोसि। ते कतिपाहेनेव सब्बं सञ्‍चयस्स समयं परिग्गण्हित्वा, ‘‘आचरिय, तुम्हाकं जाननसमयो एत्तकोव, उदाहु उत्तरिपि अत्थी’’ति पुच्छिंसु। सञ्‍चयो ‘‘एत्तकोव, सब्बं तुम्हेहि ञात’’न्ति आह। ते तस्स कथं सुत्वा चिन्तयिंसु – ‘‘एवं सति इमस्स सन्तिके ब्रह्मचरियवासो निरत्थको, मयं मोक्खधम्मं गवेसितुं निक्खन्ता, सो इमस्स सन्तिके उप्पादेतुं न सक्‍का। महा खो पन जम्बुदीपो, गामनिगमराजधानियो चरन्ता मयं अवस्सं मोक्खधम्मदेसकं एकं आचरियं लभिस्सामा’’ति। ते ततो पट्ठाय यत्थ यत्थ पण्डिता समणब्राह्मणा अत्थीति सुणन्ति, तत्थ तत्थ गन्त्वा पञ्हसाकच्छं करोन्ति। तेहि पुट्ठं पञ्हं अञ्‍ञे कथेतुं समत्था नत्थि, ते पन तेसं पञ्हं विस्सज्‍जेन्ति। एवं सकलजम्बुदीपं परिग्गण्हित्वा निवत्तित्वा सकट्ठानमेव आगन्त्वा, ‘‘सम्म कोलित, यो पठमं अमतं अधिगच्छति, सो आरोचेतू’’ति कतिकं अकंसु।</p>

<p rend="bodytext">तेन समयेन अम्हाकं सत्था पठमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्‍को अनुपुब्बेन राजगहं सम्पत्तो होति। अथ ‘‘एकसट्ठि अरहन्तो लोके उप्पन्‍ना होन्ती’’ति वुत्तकाले ‘‘चरथ, भिक्खवे, चारिकं बहुजनहिताया’’ति रतनत्तयगुणप्पकासनत्थं उय्योजितानं भिक्खूनं अन्तरे पञ्‍चवग्गियब्भन्तरो अस्सजित्थेरो पटिनिवत्तित्वा <pb ed="P" n="1.0158"/> राजगहमेव आगतो। पुनदिवसे पातोव पत्तचीवरं आदाय राजगहं पिण्डाय पाविसि।</p>

<p rend="bodytext">तस्मिं समये उपतिस्सपरिब्बाजको पातोव भत्तकिच्‍चं कत्वा परिब्बाजकारामं गच्छन्तो थेरं दिस्वा चिन्तेसि – ‘‘मया एवरूपो पब्बजितो नाम न दिट्ठपुब्बो। ये वत लोके अरहन्तो वा अरहत्तमग्गं वा समापन्‍ना, अयं तेसं भिक्खूनं अञ्‍ञतरो, यंनूनाहं इमं भिक्खुं उपसङ्कमित्वा पञ्हं पुच्छेय्यं – ‘कंसि त्वं, आवुसो उद्दिस्स, पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’’ति। अथस्स एतदहोसि – ‘‘अकालो खो इमं भिक्खुं पञ्हं पुच्छितुं, अन्तरघरं पविट्ठो पिण्डाय चरति, यंनूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यं अत्थिकेहि उपञ्‍ञातं मग्ग’’न्ति। सो थेरं लद्धपिण्डपातं अञ्‍ञतरं <pb ed="M" n="1.0124"/> ओकासं गच्छन्तं दिस्वा निसीदितुकामतञ्‍चस्स ञत्वा अत्तनो परिब्बाजकपीठकं पञ्‍ञापेत्वा अदासि। भत्तकिच्‍चपरियोसानेपिस्स अत्तनो कुण्डिकाय उदकं अदासि।</p>

<p rend="bodytext">एवं आचरियवत्तं कत्वा कतभत्तकिच्‍चेन थेरेन सद्धिं मधुरपटिसन्थारं कत्वा ‘‘विप्पसन्‍नानि <pb ed="V" n="1.0127"/> खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो, कंसि त्वं, आवुसो उद्दिस्स, पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि। थेरो ‘‘अत्थावुसो, महासमणो सक्यपुत्तो सक्यकुला पब्बजितो, ताहं भगवन्तं उद्दिस्स पब्बजितो, सो च मे भगवा सत्था, तस्सेवाहं भगवतो धम्मं रोचेमी’’ति आह। अथ नं ‘‘किंवादी पनायस्मतो सत्था, किमक्खायी’’ति पुच्छि। थेरो चिन्तेसि – ‘‘इमे परिब्बाजका नाम सासनस्स पटिपक्खभूता, इमस्स सासनस्स गम्भीरतं दस्सेस्सामी’’ति। अत्तनो नवकभावं दस्सेन्तो आह – ‘‘अहं खो, आवुसो, नवो अचिरपब्बजितो, अधुनागतो इमं धम्मविनयं, न तावाहं सक्‍कोमि वित्थारेन धम्मं देसेतु’’न्ति। परिब्बाजको ‘‘अहं उपतिस्सो नाम, त्वं यथासत्तिया अप्पं वा बहुं वा वद, एतं <pb ed="P" n="1.0159"/> नयसतेन नयसहस्सेन पटिविज्झितुं मय्हं भारो’’ति चिन्तेत्वा आह –</p>

<p rend="gatha1">‘‘अप्पं वा बहुं वा भासस्सु, अत्थंयेव मे ब्रूहि।</p>

<p rend="gathalast">अत्थेनेव मे अत्थो, किं काहसि ब्यञ्‍जनं बहु’’न्ति॥ (महाव॰ ६०)।</p>

<p rend="bodytext">एवं वुत्ते थेरो ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव॰ ६०; अप॰ थेर॰ १.१.२८६) गाथं आह। परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयसम्पन्‍ने सोतापत्तिमग्गे पतिट्ठहि। इतरं पदद्वयं सोतापन्‍नकाले निट्ठासि।</p>

<p rend="bodytext">सो सोतापन्‍नो हुत्वा उपरिविसेसे अप्पवत्तन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्‍लक्खेत्वा थेरं आह – ‘‘भन्ते, मा उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव होतु, कहं अम्हाकं सत्था वसती’’ति? वेळुवने परिब्बाजकाति। भन्ते, तुम्हे पुरतो याथ, मय्हं एको सहायको अत्थि। अम्हेहि च अञ्‍ञमञ्‍ञं कतिका कता ‘‘यो पठमं अमतं अधिगच्छति, सो आरोचेतू’’ति। अहं तं पटिञ्‍ञं मोचेत्वा सहायकं <pb ed="M" n="1.0125"/> गहेत्वा तुम्हाकं गतमग्गेनेव सत्थु सन्तिकं आगमिस्सामीति पञ्‍चपतिट्ठितेन थेरस्स पादेसु निपतित्वा तिक्खत्तुं पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामाभिमुखो अगमासि।</p>

<p rend="bodytext">कोलितपरिब्बाजको तं दूरतोव आगच्छन्तं दिस्वा ‘‘अज्‍ज मय्हं सहायकस्स मुखवण्णो न अञ्‍ञेसु दिवसेसु विय, अद्धा तेन अमतं अधिगतं भविस्सती’’ति अमताधिगमं <pb ed="V" n="1.0128"/> पुच्छि। सोपिस्स ‘‘आम आवुसो, अमतं अधिगत’’न्ति पटिजानित्वा तमेव गाथं अभासि। गाथापरियोसाने कोलितो सोतापत्तिफले पतिट्ठहित्वा आह – ‘‘कहं किर, सम्म, सत्था वसती’’ति? ‘‘वेळुवने किर, सम्म, वसती’’ति एवं नो आचरियेन अस्सजित्थेरेन कथितन्ति। तेन हि सम्म आयाम, सत्थारं पस्सिस्सामाति। सारिपुत्तत्थेरो च नामेस सदापि आचरियपूजकोव, तस्मा सहायं कोलितमाणवं एवमाह – ‘‘सम्म, अम्हेहि अधिगतं अमतं अम्हाकं आचरियस्स सञ्‍चयपरिब्बाजकस्सापि कथेस्साम। बुज्झमानो पटिविज्झिस्सति, अप्पटिविज्झन्तो अम्हाकं सद्दहित्वा सत्थु सन्तिकं गमिस्सति, बुद्धानं देसनं सुत्वा <pb ed="P" n="1.0160"/> मग्गफलपटिवेधं करिस्सती’’ति।</p>

<p rend="bodytext">ततो द्वेपि जना सञ्‍चयस्स सन्तिकं गन्त्वा, ‘‘आचरिय, त्वं किं करोसि, बुद्धो लोके उप्पन्‍नो, स्वाक्खातो धम्मो, सुप्पटिपन्‍नो सङ्घो। आयाम, दसबलं पस्सिस्सामा’’ति। सो ‘‘किं वदेथ, ताता’’ति तेपि वारेत्वा लाभग्गयसग्गप्पत्तिमेव तेसं दीपेसि। ते ‘‘अम्हाकं एवरूपो अन्तेवासिकवासो निच्‍चमेव होतु, तुम्हाकं पन गमनं वा अगमनं वा जानाथा’’ति आहंसु। सञ्‍चयो ‘‘इमे एत्तकं जानन्ता मम वचनं न करिस्सन्ती’’ति ञत्वा ‘‘गच्छथ तुम्हे, ताता, अहं महल्‍लककाले अन्तेवासिकवासं वसितुं न सक्‍कोमी’’ति आह। ते अनेकेहिपि कारणेहि तं बोधेतुं असक्‍कोन्ता अत्तनो ओवादे वत्तमानं जनं आदाय वेळुवनं अगमंसु। अथ तेसं पञ्‍चसु अन्तेवासिकसतेसु अड्ढतेय्यसता निवत्तिंसु, अड्ढतेय्यसता तेहि सद्धिं अगमंसु।</p>

<p rend="bodytext">सत्था चतुपरिसमज्झे धम्मं देसेन्तो ते दूरतोव दिस्वा भिक्खू आमन्तेसि – ‘‘एते, भिक्खवे, द्वे सहाया आगच्छन्ति कोलितो च उपतिस्सो च, एतं मे सावकयुगं भविस्सति अग्गं भद्दयुग’’न्ति। अथ तेसं परिसाय चरियवसेन धम्मदेसनं वड्ढेसि। ठपेत्वा द्वे अग्गसावके सब्बेपि ते अड्ढतेय्यसता परिब्बाजका अरहत्तं पापुणिंसु <pb ed="M" n="1.0126"/>। सत्था ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि। सब्बेसं केसमस्सु अन्तरधायि, इद्धिमयं पत्तचीवरं कायप्पटिबद्धं अहोसि। द्विन्‍नं अग्गसावकानम्पि इद्धिमयपत्तचीवरं आगतं, उपरिमग्गत्तयकिच्‍चं पन न निट्ठासि। कस्मा? सावकपारमिञाणस्स महन्तताय।</p>

<p rend="bodytext">अथायस्मा महामोग्गल्‍लानो पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्‍लवालगामकं उपनिस्साय <pb ed="V" n="1.0129"/> समणधम्मं करोन्तो थिनमिद्धे ओक्‍कन्ते <pb ed="P" n="1.0161"/> सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा तथागतेन दिन्‍नं धातुकम्मट्ठानं सुणन्तोव उपरिमग्गत्तयकिच्‍चं निट्ठापेत्वा सावकपारमिञाणस्स मत्थकं पत्तो। सारिपुत्तत्थेरोपि पब्बजितदिवसतो अद्धमासं अतिक्‍कमित्वा सत्थारा सद्धिं तमेव राजगहं उपनिस्साय सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते (म॰ नि॰ २.२०५-२०६) देसियमाने सुत्तानुसारेन ञाणं पेसेत्वा परस्स वड्ढितभत्तं भुञ्‍जन्तो विय सावकपारमिञाणस्स मत्थकं पत्तो। भागिनेय्यो पनस्स देसनापरियोसाने सोतापत्तिफले पतिट्ठितो। इति द्विन्‍नम्पि महासावकानं तथागते राजगहे विहरन्तेयेव सावकपारमिञाणकिच्‍चं मत्थकं पत्तं। अपरभागे पन सत्था जेतवने विहरन्तो ‘‘महापञ्‍ञानं यदिदं सारिपुत्तो, इद्धिमन्तानं यदिदं महामोग्गल्‍लानो’’ति द्वेपि महासावके ठानन्तरे ठपेसीति।</p>

<p rend="subhead">महाकस्सपत्थेरवत्थु</p>

<p rend="bodytext" n="191"><hi rend="paranum">१९१</hi><hi rend="dot">.</hi> चतुत्थे <hi rend="bold">धुतवादान</hi>न्ति एत्थ धुतो वेदितब्बो, धुतवादो वेदितब्बो, धुतधम्मा वेदितब्बा, धुतङ्गानि वेदितब्बानि। तत्थ <hi rend="bold">धुतो</hi>ति धुतकिलेसो वा पुग्गलो किलेसधुननो वा धम्मो।</p>

<p rend="bodytext"><hi rend="bold">धुतवादो</hi>ति एत्थ पन अत्थि धुतो न धुतवादो, अत्थि न धुतो धुतवादो, अत्थि नेव धुतो न धुतवादो, अत्थि धुतो चेव धुतवादो च। तत्थ यो धुतङ्गेन अत्तनो किलेसे धुनि, परं पन धुतङ्गेन <pb ed="P" n="1.0162"/> न ओवदति नानुसासति बाकुलत्थेरो विय, अयं धुतो न धुतवादो। यथाह – ‘‘तयिदं आयस्मा बाकुलो धुतो न धुतवादो’’ति। यो पन <pb ed="M" n="1.0127"/> धुतङ्गेन अत्तनो किलेसे न धुनि, केवलं अञ्‍ञे धुतङ्गेन ओवदति अनुसासति उपनन्दत्थेरो विय, अयं न धुतो धुतवादो। यथाह – ‘‘तयिदं आयस्मा उपनन्दो न धुतो धुतवादो’’ति। यो पन उभयविपन्‍नो लाळुदायी विय, अयं नेव धुतो न धुतवादो। यथाह – ‘‘तयिदं आयस्मा लाळुदायी नेव धुतो न धुतवादो’’ति। यो पन उभयसम्पन्‍नो आयस्मा महाकस्सपत्थेरो विय, अयं धुतो चेव धुतवादो च। यथाह – ‘‘तयिदं आयस्मा महाकस्सपो धुतो चेव धुतवादो चा’’ति।</p>

<p rend="bodytext"><hi rend="bold">धुतधम्मा वेदितब्बा</hi>ति अप्पिच्छता सन्तुट्ठिता सल्‍लेखता पविवेकता इदमट्ठिकताति इमे धुतङ्गचेतनाय <pb ed="V" n="1.0130"/> परिवारा पञ्‍च धम्मा ‘‘अप्पिच्छंयेव निस्साया’’तिआदिवचनतो (अ॰ नि॰ ५.१८१; परि॰ ३२५) धुतधम्मा नाम। तत्थ अप्पिच्छता च सन्तुट्ठिता च अलोभो, सल्‍लेखता च पविवेकता च द्वीसु धम्मेसु अनुपतन्ति अलोभे चेव अमोहे च, इदमट्ठिता ञाणमेव। तत्थ अलोभेन पटिक्खेपवत्थूसु लोभं, अमोहेन तेस्वेव आदीनवप्पटिच्छादकं मोहं धुनाति। अलोभेन च अनुञ्‍ञातानं पटिसेवनमुखेन पवत्तं कामसुखल्‍लिकानुयोगं, अमोहेन धुतङ्गेसु अतिसल्‍लेखमुखेन पवत्तं अत्तकिलमथानुयोगं धुनाति। तस्मा इमे धम्मा धुतधम्माति वेदितब्बा।</p>

<p rend="bodytext"><hi rend="bold">धुतङ्गानि वेदितब्बानी</hi>ति तेरस <pb ed="P" n="1.0163"/> धुतङ्गानि वेदितब्बानि पंसुकूलिकङ्गं…पे॰… नेसज्‍जिकङ्गन्ति।</p>

<p rend="bodytext"><hi rend="bold">धुतवादानं यदिदं महाकस्सपो</hi>ति यत्तका धुतवादं वदन्ति, तेसं सब्बेसम्पि अन्तरे अयं महाकस्सपत्थेरो अग्गोति अग्गट्ठाने ठपेसि। <hi rend="bold">महाकस्सपो</hi>ति उरुवेळकस्सपो नदीकस्सपो गयाकस्सपो कुमारकस्सपोति इमे खुद्दानुखुद्दके थेरे उपादाय अयं महा, तस्मा महाकस्सपोति वुत्तो।</p>

<p rend="bodytext">इमस्सापि पञ्हकम्मे अयमनुपुब्बिकथा – अतीते किर कप्पसतसहस्समत्थके पदुमुत्तरो नाम सत्था लोके उदपादि, तस्मिं हंसवतीनगरं उपनिस्साय खेमे मिगदाये विहरन्ते वेदेहो नाम कुटुम्बिको असीतिकोटिधनविभवो पातोव सुभोजनं भुञ्‍जित्वा उपोसथङ्गानि अधिट्ठाय <pb ed="M" n="1.0128"/> गन्धपुप्फादीनि गहेत्वा विहारं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसीदि। तस्मिञ्‍च खणे सत्था महानिसभत्थेरं नाम ततियसावकं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं, यदिदं निसभो’’ति एतदग्गे ठपेसि। उपासको तं सुत्वा पसन्‍नो धम्मकथावसाने महाजने उट्ठाय गते सत्थारं वन्दित्वा, ‘‘भन्ते, स्वे मय्हं भिक्खं अधिवासेथा’’ति आह। महा खो, उपासक, भिक्खुसङ्घोति। कित्तको भगवाति? अट्ठसट्ठिभिक्खुसतसहस्सन्ति। भन्ते, एकं सामणेरम्पि विहारे असेसेत्वा भिक्खं अधिवासेथाति। अधिवासेसि भगवा तुण्हीभावेन। उपासको सत्थु अधिवासनं विदित्वा गेहं गन्त्वा महादानं सज्‍जेत्वा पुनदिवसे सत्थु कालं आरोचापेसि। सत्था पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो उपासकस्स घरं गन्त्वा पञ्‍ञत्ते <pb ed="V" n="1.0131"/> आसने निसिन्‍नो दक्खिणोदकावसाने यागुआदीनि सम्पटिच्छन्तो भत्तविस्सग्गं अकासि। उपासकोपि सत्थु सन्तिके निसीदि।</p>

<p rend="bodytext">तस्मिं अन्तरे <hi rend="bold">महानिसभत्थेरो</hi> पिण्डाय चरन्तो तमेव वीथि पटिपज्‍जि। उपासको दिस्वा उट्ठाय गन्त्वा थेरं वन्दित्वा <pb ed="P" n="1.0164"/> ‘‘पत्तं, भन्ते, देथा’’ति आह। थेरो पत्तं अदासि। ‘‘भन्ते, इधेव पविसथ, सत्थापि गेहे निसिन्‍नो’’ति। न वट्टिस्सति उपासकाति। उपासको थेरस्स पत्तं गहेत्वा पिण्डपातस्स पूरेत्वा नीहरित्वा अदासि। ततो थेरं अनुगन्त्वा निवत्तो सत्थु सन्तिके निसीदित्वा एवमाह – ‘‘भन्ते, महानिसभत्थेरो ‘सत्था गेहे निसिन्‍नो’ति वुत्तेपि पविसितुं न इच्छि, अत्थि नु खो एतस्स तुम्हाकं गुणेहि अतिरेको गुणो’’ति। बुद्धानञ्‍च वण्णमच्छेरं नाम नत्थि। अथ सत्था एवमाह – ‘‘उपासक, मयं भिक्खं आगमयमाना गेहे निसीदाम, सो भिक्खु न एवं निसीदित्वा भिक्खं उदिक्खति। मयं गामन्तसेनासने वसाम, सो अरञ्‍ञस्मिंयेव वसति। मयं छन्‍ने वसाम, सो अब्भोकासम्हियेव वसति। इति तस्स अयञ्‍च अयञ्‍च गुणो’’ति महासमुद्दं पूरयमानो विय कथेसि। उपासको पकतियापि जलमानदीपो तेलेन आसित्तो विय सुट्ठुतरं पसन्‍नो हुत्वा चिन्तेसि – ‘‘किं मय्हं अञ्‍ञाय सम्पत्तिया, अनागते एकस्स बुद्धस्स सन्तिके धुतवादानं अग्गभावत्थाय पत्थनं करिस्सामी’’ति?</p>

<p rend="bodytext">सो <pb ed="M" n="1.0129"/> पुनपि सत्थारं निमन्तेत्वा तेनेव नियामेन सत्त दिवसानि महादानं दत्वा सत्तमे दिवसे बुद्धप्पमुखस्स महाभिक्खुसङ्घस्स तिचीवरानि दत्वा सत्थु पादमूले निपज्‍जित्वा एवमाह – ‘‘यं मे, भन्ते, सत्त दिवसानि दानं देन्तस्स मेत्तं कायकम्मं मेत्तं वचीकम्मं मेत्तं मनोकम्मं पच्‍चुपट्ठितं, इमिनाहं न अञ्‍ञं देवसम्पत्तिं वा सक्‍कमारब्रह्मसम्पत्तिं वा पत्थेमि, इदं पन मे कम्मं अनागते एकस्स बुद्धस्स सन्तिके एतस्स महानिसभत्थेरेन पत्तठानन्तरं पापुणनत्थाय तेरसधुतङ्गधरानं अग्गभावस्स सच्‍चकारो होतू’’ति। सत्था ‘‘महन्तं ठानं इमिना पत्थितं, समिज्झिस्सति नु खो, नो’’ति ओलोकेन्तो समिज्झनभावं दिस्वा आह – ‘‘मनापं ते ठानं पत्थितं <pb ed="P" n="1.0165"/>, अनागते सतसहस्सकप्पावसाने गोतमो नाम बुद्धो उप्पज्‍जिस्सति, तस्स त्वं ततियसावको महाकस्सपत्थेरो नाम भविस्ससी’’ति। तं सुत्वा उपासको ‘‘बुद्धानं द्वे कथा नाम नत्थी’’ति पुनदिवसे पत्तब्बं विय तं सम्पत्तिं अमञ्‍ञित्थ। सो <pb ed="V" n="1.0132"/> यावतायुकं नानप्पकारं दानं दत्वा सीलं रक्खित्वा नानप्पकारं कल्याणकम्मं कत्वा तत्थ कालं कतो सग्गे निब्बत्ति।</p>

<p rend="bodytext">ततो पट्ठाय देवमनुस्सेसु सम्पत्तिं अनुभवन्तो इतो एकनवुतिकप्पे विपस्सिसम्मासम्बुद्धे बन्धुमतिं निस्साय खेमे मिगदाये विहरन्ते देवलोका चवित्वा अञ्‍ञतरस्मिं परिजिण्णे ब्राह्मणकुले निब्बत्ति। तस्मिञ्‍च काले विपस्सी भगवा सत्तमे सत्तमे संवच्छरे धम्मं कथेति, महन्तं कोलाहलं अहोसि। सकलजम्बुदीपे देवता ‘‘सत्था धम्मं कथेस्सती’’ति आरोचेन्ति। ब्राह्मणो तं सासनं अस्सोसि। तस्स च निवासनसाटको एकोव होति, तथा ब्राह्मणिया। पारुपनं पन द्विन्‍नम्पि एकमेव। सकलनगरे <hi rend="bold">एकसाटकब्राह्मणो</hi>ति पञ्‍ञायति। ब्राह्मणानं केनचिदेव किच्‍चेन सन्‍निपाते सति ब्राह्मणिं गेहे ठपेत्वा सयं गच्छति। ब्राह्मणीनं सन्‍निपाते सति सयं गेहे तिट्ठति, ब्राह्मणी तं वत्थं पारुपित्वा गच्छति। तस्मिं पन दिवसे ब्राह्मणो ब्राह्मणिं आह – ‘‘भोति, किं रत्तिं धम्मस्सवनं सुणिस्ससि, दिवा’’ति। ‘‘मयं मातुगामजातिका नाम रत्तिं सोतुं न सक्‍कोम, दिवा सोस्सामी’’ति ब्राह्मणं गेहे ठपेत्वा तं वत्थं पारुपित्वा उपासिकाहि सद्धिं दिवा गन्त्वा सत्थारं वन्दित्वा <pb ed="M" n="1.0130"/> एकमन्ते निसिन्‍ना धम्मं सुत्वा उपासिकाहियेव सद्धिं आगमासि। अथ ब्राह्मणो ब्राह्मणिं गेहे ठपेत्वा तं वत्थं पारुपित्वा विहारं गतो।</p>

<p rend="bodytext">तस्मिञ्‍च समये सत्था परिसमज्झे अलङ्कतधम्मासने निसिन्‍नो चित्तबीजनिं आदाय आकासगङ्गं ओतारेन्तो विय सिनेरुं मत्थं कत्वा सागरं निम्मथेन्तो विय धम्मकथं कथेसि। ब्राह्मणस्स <pb ed="P" n="1.0166"/> परिसन्ते निसिन्‍नस्स धम्मं सुणन्तस्स पठमयामस्मिंयेव सकलसरीरं पूरयमाना पञ्‍चवण्णा पीति उप्पज्‍जि। सो पारुतवत्थं सङ्घरित्वा ‘‘दसबलस्स दस्सामी’’ति चिन्तेसि। अत्थस्स आदीनवसहस्सं दस्सयमानं मच्छेरं उप्पज्‍जि। सो ‘‘ब्राह्मणिया च मय्हञ्‍च एकमेव वत्थं, अञ्‍ञं किञ्‍चि पारुपनं नत्थि, अपारुपित्वा च नाम बहि चरितुं न सक्‍का’’ति सब्बथापि अदातुकामो अहोसि। अथस्स निक्खन्ते पठमयामे मज्झिमयामेपि तथेव पीति उप्पज्‍जि। सो तथेव चिन्तेत्वा तथेव अदातुकामो अहोसि। अथस्स मज्झिमयामे निक्खन्ते पच्छिमयामेपि तथेव पीति उप्पज्‍जि। सो ‘‘तरणं वा होतु मरणं वा, पच्छापि जानिस्सामी’’ति वत्थं सङ्घरित्वा सत्थु पादमूले ठपेसि। ततो वामहत्थं आभुजित्वा दक्खिणेन हत्थेन तिक्खत्तुं अप्फोटेत्वा ‘‘जितं मे, जितं मे’’ति तयो वारे नदि।</p>

<p rend="bodytext">तस्मिञ्‍च <pb ed="V" n="1.0133"/> समये बन्धुमराजा धम्मासनस्स पच्छतो अन्तोसाणियं निसिन्‍नो धम्मं सुणाति। रञ्‍ञो च नाम ‘‘जितं मे’’ति सद्दो अमनापो होति। सो पुरिसं पेसेसि – ‘‘गच्छ एतं पुच्छ किं वदसी’’ति। सो तेन गन्त्वा पुच्छितो आह – ‘‘अवसेसा हत्थियानादीनि आरुय्ह असिचम्मादीनि गहेत्वा परसेनं जिनन्ति, न तं जितं अच्छरियं, अहं पन पच्छतो आगच्छन्तस्स दुट्ठगोणस्स मुग्गरेन सीसं भिन्दित्वा तं पलापेन्तो विय मच्छेरचित्तं मद्दित्वा पारुतवत्थं दसबलस्स अदासिं, तं मे मच्छरियं जित’’न्ति आह। सो पुरिसो आगन्त्वा तं पवत्तिं रञ्‍ञो आरोचेसि। राजा आह – ‘‘अम्हे भणे दसबलस्स अनुरूपं न जानिम्ह, ब्राह्मणो जानी’’ति वत्थयुगं पेसेसि। तं दिस्वा ब्राह्मणो चिन्तेसि – ‘‘अयं मय्हं तुण्ही निसिन्‍नस्स <pb ed="P" n="1.0167"/> पठमं किञ्‍चि अदत्वा सत्थु गुणे कथेन्तस्स <pb ed="M" n="1.0131"/> अदासि, सत्थु गुणे पटिच्‍च उप्पन्‍नेन मय्हं को अत्थो’’ति? तम्पि वत्थयुगं दसबलस्सेव अदासि। राजापि ‘‘किं ब्राह्मणेन कत’’न्ति पुच्छित्वा ‘‘तम्पि तेन वत्थयुगं तथागतस्सेव दिन्‍न’’न्ति सुत्वा अञ्‍ञानिपि द्वे वत्थयुगानि पेसेसि। सो तानिपि अदासि। राजा अञ्‍ञानिपि चत्तारीति एवं याव द्वत्तिंसवत्थयुगानि पेसेसि। अथ ब्राह्मणो ‘‘इदं वड्ढेत्वा गहणं विय होती’’ति अत्तनो अत्थाय एकं, ब्राह्मणिया एकन्ति द्वे वत्थयुगानि गहेत्वा तिंस युगानि तथागतस्सेव अदासि। ततो पट्ठाय चस्स सत्थु विस्सासिको जातो।</p>

<p rend="bodytext">अथ नं राजा एकदिवसं सीतसमये सत्थु सन्तिके धम्मं सुणन्तं दिस्वा सतसहस्सग्घनकं अत्तनो पारुतरत्तकम्बलं दत्वा आह – ‘‘इतो पत्थाय इमं पारुपित्वा धम्मं सुणाही’’ति। सो ‘‘किं मे इमिना कम्बलेन इमस्मिं पूतिकाये उपनीतेना’’ति चिन्तेत्वा अन्तोगन्धकुटियं तथागतस्स मञ्‍चस्स उपरि वितानं कत्वा अगमासि। अथेकदिवसं राजा पातोव विहारं गन्त्वा अन्तोगन्धकुटियं सत्थु सन्तिके निसीदि। तस्मिञ्‍च समये छब्बण्णा बुद्धरस्मियो कम्बले पटिहञ्‍ञन्ति, कम्बलो अतिविय विरोचति। राजा ओलोकेन्तो सञ्‍जानित्वा आह – ‘‘भन्ते, अम्हाकं एस कम्बलो, अम्हेहि एकसाटकब्राह्मणस्स दिन्‍नो’’ति। तुम्हेहि, महाराज, ब्राह्मणो पूजितो, ब्राह्मणेन मयं पूजिताति। राजा ‘‘ब्राह्मणो युत्तं अञ्‍ञासि, न मय’’न्ति पसीदित्वा यं मनुस्सानं उपकारभूतं, तं सब्बं अट्ठट्ठकं कत्वा सब्बअट्ठकं नाम दानं दत्वा पुरोहितट्ठाने ठपेसि। सोपि ‘‘अट्ठट्ठकं नाम चतुसट्ठि होती’’ति चतुसट्ठि सलाकाभत्तानि उपनिबन्धापेत्वा यावजीवं दानं दत्वा सीलं रक्खित्वा ततो चुतो सग्गे निब्बत्ति।</p>

<p rend="bodytext">पुन <pb ed="V" n="1.0134"/> <pb ed="P" n="1.0168"/> ततो चुतो इमस्मिं कप्पे कोणागमनस्स च भगवतो कस्सपदसबलस्स चाति द्विन्‍नं बुद्धानं अन्तरे बाराणसियं कुटुम्बियघरे निब्बत्तो। सो वुद्धिमन्वाय घरावासं वसन्तो एकदिवसं अरञ्‍ञे जङ्घविहारं चरति, तस्मिं च समये पच्‍चेकबुद्धो नदीतीरे चीवरकम्मं करोन्तो अनुवाते अप्पहोन्ते सङ्घरित्वा ठपेतुं आरद्धो। सो दिस्वा ‘‘कस्मा, भन्ते, सङ्घरित्वा ठपेथा’’ति आह। अनुवातो नप्पहोतीति <pb ed="M" n="1.0132"/>। ‘‘इमिना, भन्ते, करोथा’’ति साटकं दत्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे केनचि परिहानि मा होतू’’ति पत्थनं पट्ठपेसि।</p>

<p rend="bodytext">अथ घरेपिस्स भगिनिया सद्धिं भरियाय कलहं करोन्तिया पच्‍चेकबुद्धो पिण्डाय पाविसि। अथस्स भगिनी पच्‍चेकबुद्धस्स पिण्डपातं दत्वा तस्स भरियं सन्धाय, ‘‘एवरूपं बालं योजनसतेन परिवज्‍जेय्य’’न्ति पत्थनं पट्ठपेसि। सा गेहद्वारे ठिता सुत्वा ‘‘इमाय दिन्‍नं भत्तं मा एस भुञ्‍जतू’’ति पत्तं गहेत्वा पिण्डपातं छड्डेत्वा कललस्स पूरेत्वा अदासि। इतरा दिस्वा ‘‘बाले मं ताव अक्‍कोस वा पहर वा, एवरूपस्स पन द्वे असङ्ख्येय्यानि पूरितपारमिस्स पत्ततो भत्तं छड्डेत्वा कललं दातुं न युत्त’’न्ति आह। अथस्स भरियाय पटिसङ्खानं उप्पज्‍जि। सा ‘‘तिट्ठथ, भन्ते’’ति कललं छड्डेत्वा पत्तं धोवित्वा गन्धचुण्णेन उब्बट्टेत्वा चतुमधुरस्स पूरेत्वा उपरि आसित्तेन पदुमगब्भवण्णेन सप्पिना विज्‍जोतमानं पच्‍चेकबुद्धस्स हत्थे ठपेत्वा ‘‘यथा अयं पिण्डपातो ओभासजातो, एवं <pb ed="P" n="1.0169"/> ओभासजातं मे सरीरं होतू’’ति पत्थनं पट्ठपेसि। पच्‍चेकबुद्धो अनुमोदित्वा आकासं पक्खन्दि। तेपि द्वे जायम्पतिका यावतायुकं कुसलं कत्वा सग्गे निब्बत्तित्वा पुन ततो चवित्वा उपासको कस्सपसम्मासम्बुद्धकाले बाराणसियं असीतिकोटिविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति, इतरापि तादिसस्सेव सेट्ठिनो धीता हुत्वा निब्बत्ति।</p>

<p rend="bodytext">तस्स वुद्धिप्पत्तस्स तमेव सेट्ठिधीतरं आनयिंसु। तस्सा पुब्बे अदिन्‍नविपाकस्स तस्स कम्मस्स आनुभावेन पतिकूलं पविट्ठमत्ताय उम्मारब्भन्तरे सकलसरीरं उग्घाटितवच्‍चकुटि विय दुग्गन्धं जातं। सेट्ठिकुमारो ‘‘कस्सायं गन्धो’’ति पुच्छित्वा ‘‘सेट्ठिकञ्‍ञाया’’ति सुत्वा ‘‘नीहरथा’’ति आभतनियामेनेव कुलघरं पेसेसि। सा एतेनेव नीहारेन सत्तसु ठानेसु पटिनिवत्तिता।</p>

<p rend="bodytext">तेन च समयेन कस्सपदसबलो परिनिब्बायि, तस्स घनकोट्टिमाहि सतसहस्सग्घनिकाहि <pb ed="V" n="1.0135"/> रत्तसुवण्णइट्ठकाहि योजनुब्बेधं चेतियं आरभिंसु। तस्मिं चेतिये करियमाने सा सेट्ठिधीता चिन्तेसि – ‘‘अहं सत्तसु ठानेसु पटिनिवत्तिता, किं मे जीवितेना’’ति अत्तनो <pb ed="M" n="1.0133"/> सरीराभरणभण्डकं भञ्‍जापेत्वा सुवण्णइट्ठकं कारेसि रतनायतं विदत्थिवित्थिन्‍नं चतुरङ्गुलुब्बेधं। ततो हरितालमनोसिलापिण्डं गहेत्वा अट्ठ उप्पलहत्थके आदाय चेतियकरणट्ठानं गता। तस्मिञ्‍च खणे एका इट्ठकापन्ति परिक्खिपित्वा आगच्छमाना घटनिट्ठकाय ऊना होति। सेट्ठिधीता वड्ढकिं आह – ‘‘इमं इट्ठकं एत्थ ठपेथा’’ति। अम्म, भद्दके काले आगतासि, सयमेव ठपेहीति। सा आरुय्ह तेलेन हरितालमनोसिलं योजेत्वा <pb ed="P" n="1.0170"/> तेन बन्धनेन इट्ठकं पतिट्ठपेत्वा उपरि अट्ठहि उप्पलहत्थकेहि पूजं कत्वा वन्दित्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे कायतो चन्दनगन्धो वायतु, मुखतो उप्पलगन्धो’’ति पत्थनं कत्वा चेतियं वन्दित्वा पदक्खिणं कत्वा अगमासि।</p>

<p rend="bodytext">अथ तस्मिंयेव खणे यस्स सेट्ठिपुत्तस्स पठमं गेहं नीता, तस्स तं आरब्भ सति उदपादि। नगरेपि नक्खत्तं सङ्घुट्ठं होति। सो उपट्ठाके आह – ‘‘तदा इध आनीता सेट्ठिधीता अत्थि, कहं सा’’ति? कुलगेहे सामीति। आनेथ नं, नक्खत्तं कीळिस्सामाति। ते गन्त्वा तं वन्दित्वा ठिता ‘‘किं, ताता, आगतत्था’’ति ताय पुट्ठा तं पवत्तिं आचिक्खिंसु। ताता, मया आभरणभण्डेन चेतियं पूजितं, आभरणं मे नत्थीति। ते गन्त्वा सेट्ठिपुत्तस्स आरोचेसुं। आनेथ नं, पिळन्धनं लभिस्सामाति। ते आनयिंसु। तस्सा सह घरप्पवेसनेन सकलगेहं चन्दनगन्धञ्‍चेव नीलुप्पलगन्धञ्‍च वायि।</p>

<p rend="bodytext">सेट्ठिपुत्तो तं पुच्छि ‘‘पठमं तव सरीरतो दुग्गन्धो वायि, इदानि पन ते सरीरतो चन्दनगन्धो, मुखतो उप्पलगन्धो वायति, किं एत’’न्ति? सा आदितो पट्ठाय अत्तना कतकम्मं आरोचेसि। सेट्ठिपुत्तो ‘‘निय्यानिकं वत बुद्धसासन’’न्ति पसीदित्वा योजनिकं सुवण्णचेतियं कम्बलकञ्‍चुकेन परिक्खिपित्वा तत्थ तत्थ रथचक्‍कप्पमाणेहि सुवण्णपदुमेहि अलङ्करि। तेसं द्वादसहत्था ओलम्बका होन्ति। सो तत्थ यावतायुकं ठत्वा सग्गे निब्बत्तित्वा ततो चुतो बाराणसितो योजनमत्ते ठाने अञ्‍ञतरस्मिं अमच्‍चकुले निब्बत्ति। सेट्ठिकञ्‍ञापि देवलोकतो चवित्वा राजकुले जेट्ठधीता हुत्वा निब्बत्ति।</p>

<p rend="bodytext">तेसु <pb ed="M" n="1.0134"/> वयपत्तेसु कुमारस्स वसनगामे नक्खत्तं सङ्घुट्ठं। सो मातरं <pb ed="P" n="1.0171"/> आह – ‘‘साटकं मे <pb ed="V" n="1.0136"/>, अम्म, देहि, नक्खत्तं कीळिस्सामी’’ति। सा धोतवत्थं नीहरित्वा अदासि। अम्म, थूलं इदं, अञ्‍ञं देहीति। अञ्‍ञं नीहरित्वा अदासि, तम्पि पटिक्खिपि। अञ्‍ञं नीहरित्वा अदासि, तम्पि पटिक्खिपि। अथ नं माता आह – ‘‘तात, यादिसे गेहे मयं जाता, नत्थि नो इतो सुखुमतरस्स पटिलाभाय पुञ्‍ञ’’न्ति। तेन हि लभनट्ठानं गच्छामि, अम्माति। पुत्त अहं अज्‍जेव तुय्हं बाराणसिनगरे रज्‍जपटिलाभं इच्छामीति। सो मातरं वन्दित्वा आह – ‘‘गच्छामि, अम्मा’’ति। गच्छ, ताताति। एवं किरस्सा चित्तं अहोसि – ‘‘कहं गमिस्सति, इध वा एत्थ वा गेहे निसीदिस्सती’’ति? सो पन पुञ्‍ञनियामेन निक्खमित्वा बाराणसिं गन्त्वा उय्याने मङ्गलसिलापट्टे ससीसं पारुपित्वा निपज्‍जि। सो च बाराणसिरञ्‍ञो कालकतस्स सत्तमो दिवसो होति।</p>

<p rend="bodytext">अमच्‍चा रञ्‍ञो सरीरकिच्‍चं कत्वा राजङ्गणे निसीदित्वा मन्तयिंसु – ‘‘रञ्‍ञो एका धीताव अत्थि, पुत्तो नत्थि, अराजकं रज्‍जं न वट्टति, को राजा होती’’ति मन्तेत्वा ‘‘त्वं होहि, त्वं होही’’ति आहंसु। पुरोहितो आह – ‘‘बहुं ओलोकेतुं न वट्टति, फुस्सरथं विस्सज्‍जेमा’’ति। ते कुमुदवण्णे चत्तारो सिन्धवे योजेत्वा पञ्‍चविधं राजककुधभण्डं सेतच्छत्तञ्‍च रथस्मिंयेव ठपेत्वा रथं विस्सज्‍जेत्वा पच्छतो तूरियानि पग्गण्हापेसुं। रथो पाचीनद्वारेन निक्खमित्वा उय्यानाभिमुखो अहोसि। ‘‘परिचयेन उय्यानाभिमुखो गच्छति, निवत्तेमा’’ति केचि आहंसु। पुरोहितो ‘‘मा निवत्तयित्था’’ति आह। रथो कुमारं पदक्खिणं कत्वा आरोहनसज्‍जो हुत्वा अट्ठासि। पुरोहितो पारुपनकण्णं अपनेत्वा पादतलानि ओलोकेन्तो ‘‘तिट्ठतु अयं दीपो, द्विसहस्सदीपपरिवारेसु चतूसु दीपेसु एसो रज्‍जं कारेतुं युत्तो’’ति वत्वा ‘‘पुनपि तूरियानि पग्गण्हथ <pb ed="P" n="1.0172"/>, पुनपि तूरियानि पग्गण्हथा’’ति तिक्खत्तुं तूरियानि पग्गण्हापेसि।</p>

<p rend="bodytext">अथ कुमारो मुखं विवरित्वा ओलोकेत्वा ‘‘केन कम्मेन आगतत्था’’ति आह। देव तुम्हाकं रज्‍जं पापुणातीति। राजा कहन्ति? देवत्तं गतो सामीति। कति दिवसा अतिक्‍कन्ताति? अज्‍ज सत्तमो <pb ed="M" n="1.0135"/> दिवसोति। पुत्तो वा धीता वा नत्थीति? धीता अत्थि देव, पुत्तो नत्थीति। करिस्सामि रज्‍जन्ति। ते तावदेव अभिसेकमण्डपं कारेत्वा राजधीतरं सब्बालङ्कारेहि अलङ्करित्वा उय्यानं आनेत्वा कुमारस्स अभिसेकं अकंसु।</p>

<p rend="bodytext">अथस्स <pb ed="V" n="1.0137"/> कताभिसेकस्स सहस्सग्घनकं वत्थं उपहरिंसु। सो ‘‘किमिदं, ताता’’ति आह। निवासनवत्थं देवाति। ननु, ताता, थूलं, अञ्‍ञं सुखुमतरं नत्थीति? मनुस्सानं परिभोगवत्थेसु इतो सुखुमतरं नत्थि देवाति। तुम्हाकं राजा एवरूपं निवासेसीति? आम, देवाति। न मञ्‍ञे पुञ्‍ञवा तुम्हाकं राजा, सुवण्णभिङ्गारं आहरथ, लभिस्साम वत्थन्ति। ते सुवण्णभिङ्गारं आहरिंसु। सो उट्ठाय हत्थे धोवित्वा मुखं विक्खालेत्वा हत्थेन उदकं आदाय पुरत्थिमाय दिसाय अब्भुक्‍किरि, तावदेव घनपथविं भिन्दित्वा अट्ठ कप्परुक्खा उट्ठहिंसु। पुन उदकं गहेत्वा दक्खिणं पच्छिमं उत्तरन्ति एवं चतस्सोपि दिसा अब्भुक्‍किरि, सब्बदिसासु अट्ठट्ठ कत्वा द्वत्तिंस कप्परुक्खा उट्ठहिंसु। सो एकं दिब्बदुस्सं निवासेत्वा एकं पारुपित्वा ‘‘नन्दरञ्‍ञो विजिते सुत्तकन्तिका इत्थियो मा सुत्तं कन्तिंसूति एवं भेरिं चरापेथा’’ति वत्वा छत्तं उस्सापेत्वा अलङ्कतपटियत्तो हत्थिक्खन्धवरगतो नगरं पविसित्वा पासादं आरुय्ह महासम्पत्तिं अनुभवि।</p>

<p rend="bodytext">एवं काले गच्छन्ते एकदिवसं देवी रञ्‍ञो महासम्पत्तिं दिस्वा ‘‘अहो तपस्सी’’ति कारुञ्‍ञाकारं दस्सेसि। ‘‘किमिदं देवी’’ति <pb ed="P" n="1.0173"/> च पुट्ठा ‘‘अतिमहती ते देव सम्पत्ति, अतीते बुद्धानं सद्दहित्वा कल्याणं अकत्थ, इदानि अनागतस्स पच्‍चयं कुसलं न करोथा’’ति आह। कस्स दस्सामि, सीलवन्तो नत्थीति। ‘‘असुञ्‍ञो, देव, जम्बुदीपो अरहन्तेहि, तुम्हे दानमेव सज्‍जेथ, अहं अरहन्ते लच्छामी’’ति आह। राजा पुनदिवसे पाचीनद्वारे दानं सज्‍जापेसि। देवी पातोव उपोसथङ्गानि अधिट्ठाय उपरिपासादे पुरत्थाभिमुखा उरेन निपज्‍जित्वा ‘‘सचे एतिस्सा दिसाय अरहन्तो अत्थि, स्वे आगन्त्वा अम्हाकं भिक्खं गण्हन्तू’’ति आह। तस्सं दिसायं अरहन्तो नाहेसुं, तं सक्‍कारं कपणयाचकानं अदंसु।</p>

<p rend="bodytext">पुनदिवसे <pb ed="M" n="1.0136"/> दक्खिणद्वारे दानं सज्‍जेत्वा तथेव अकासि, पुनदिवसे पच्छिमद्वारे। उत्तरद्वारे सज्‍जनदिवसे पन देविया तथेव निमन्तिते हिमवन्ते वसन्तानं पदुमवतिया पुत्तानं पञ्‍चसतानं पच्‍चेकबुद्धानं जेट्ठको महापदुमपच्‍चेकबुद्धो भातिके आमन्तेसि – ‘‘मारिसा, नन्दराजा तुम्हे निमन्तेति, अधिवासेथ तस्सा’’ति। ते अधिवासेत्वा पुनदिवसे अनोतत्तदहे मुखं धोवित्वा आकासेन आगन्त्वा उत्तरद्वारे ओतरिंसु। मनुस्सा गन्त्वा ‘‘पञ्‍चसता, देव, पच्‍चेकबुद्धा आगता’’ति रञ्‍ञो आरोचेसुं। राजा सद्धिं देविया गन्त्वा वन्दित्वा <pb ed="V" n="1.0138"/> पत्तं गहेत्वा पच्‍चेकबुद्धे पासादं आरोपेत्वा तत्र तेसं दानं दत्वा भत्तकिच्‍चावसाने राजा सङ्घत्थेरस्स, देवी सङ्घनवकस्स पादमूले निपज्‍जित्वा, ‘‘अय्या, पच्‍चयेहि न किलमिस्सन्ति, मयं पुञ्‍ञेन न हायिस्साम, अम्हाकं यावजीवं इध निवासाय पटिञ्‍ञं देथा’’ति। पटिञ्‍ञं कारेत्वा उय्याने पञ्‍च पण्णसालासतानि पञ्‍च चङ्कमनसतानीति सब्बाकारेन निवासट्ठानं सम्पादेत्वा तत्थ वसापेसुं।</p>

<p rend="bodytext">एवं <pb ed="P" n="1.0174"/> काले गच्छन्ते रञ्‍ञो पच्‍चन्तो कुपितो। सो ‘‘अहं पच्‍चन्तं वूपसमेतुं गच्छामि, त्वं पच्‍चेकबुद्धेसु मा पमज्‍जी’’ति देविं ओवदित्वा गतो। तस्मिं अनागतेयेव पच्‍चेकबुद्धानं आयुसङ्खारा खीणा। महापदुमपच्‍चेकबुद्धो तियामरत्तिं झानकीळं कीळित्वा अरुणुग्गमने आलम्बनफलकं आलम्बित्वा ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि। एतेनुपायेन सेसापीति सब्बेव परिनिब्बुता। पुनदिवसे देवी पच्‍चेकबुद्धानं निसीदनट्ठानं हरितुपलित्तं कारेत्वा पुप्फानि विकिरित्वा धूमं दत्वा तेसं आगमनं ओलोकेन्ती निसिन्‍ना; आगमनं अपस्सन्ती पुरिसं पेसेसि ‘‘गच्छ, तात, जानाहि, किं अय्यानं किञ्‍चि अफासुक’’न्ति। सो गन्त्वा महापदुमस्स पण्णसालाद्वारं विवरित्वा तत्थ अपस्सन्तो चङ्कमनं गन्त्वा आलम्बनफलकं निस्साय ठितं दिस्वा वन्दित्वा ‘‘कालो, भन्ते’’ति आह। परिनिब्बुतसरीरं किं कथेस्सति? सो ‘‘निद्दायति मञ्‍ञे’’ति गन्त्वा पिट्ठिपादे हत्थेन परामसित्वा पादानं सीतलताय चेव थद्धताय च परिनिब्बुतभावं ञत्वा दुतियस्स सन्तिकं अगमासि, एवं ततियस्साति सब्बेसं परिनिब्बुतभावं ञत्वा राजकुलं गतो। ‘‘कहं, तात, पच्‍चेकबुद्धा’’ति पुट्ठो ‘‘परिनिब्बुता देवी’’ति आह <pb ed="M" n="1.0137"/>। देवी कन्दन्ती रोदन्ती निक्खमित्वा नागरेहि सद्धिं तत्थ गन्त्वा साधुकीळितं कारेत्वा पच्‍चेकबुद्धानं सरीरकिच्‍चं कत्वा धातुयो गहेत्वा चेतियं पतिट्ठापेसि।</p>

<p rend="bodytext">राजा पच्‍चन्तं वूपसमेत्वा आगतो पच्‍चुग्गमनं आगतं देविं पुच्छि – ‘‘किं, भद्दे, पच्‍चेकबुद्धेसु नप्पमज्‍जि, निरोगा अय्या’’ति? परिनिब्बुता देवाति। राजा चिन्तेसि – ‘‘एवरूपानम्पि पण्डितानं मरणं उप्पज्‍जति, अम्हाकं कुतो मोक्खो’’ति? सो नगरं अगन्त्वा उय्यानमेव पविसित्वा जेट्ठपुत्तं <pb ed="P" n="1.0175"/> पक्‍कोसापेत्वा तस्स रज्‍जं पटियादेत्वा सयं समणकपब्बज्‍जं पब्बजि। देवीपि ‘‘इमस्मिं पब्बजिते अहं किं करिस्सामी’’ति तत्थेव उय्याने पब्बजिता। द्वेपि झानं भावेत्वा ततो चुता ब्रह्मलोके निब्बत्तिंसु।</p>

<p rend="bodytext">तेसु <pb ed="V" n="1.0139"/> तत्थेव वसन्तेसु अम्हाकं सत्था लोके उप्पज्‍जित्वा पवत्तितवरधम्मचक्‍को अनुपुब्बेन राजगहं पाविसि। सत्थरि तत्थ वसन्ते अयं पिप्पलिमाणवो मगधरट्ठे महातित्थब्राह्मणगामे कपिलब्राह्मणस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तो, अयं भद्दा कापिलानी मद्दरट्ठे सागलनगरे कोसियगोत्तब्राह्मणस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ता। तेसं अनुक्‍कमेन वड्ढमानानं पिप्पलिमाणवस्स वीसतिमे वस्से भद्दाय सोळसमे वस्से सम्पत्ते मातापितरो पुत्तं ओलोकेत्वा, ‘‘तात, त्वं वयपत्तो, कुलवंसो नाम पतिट्ठापेतब्बो’’ति अतिविय निप्पीळयिंसु। माणवो आह – ‘‘मय्हं सोतपथे एवरूपं कथं मा कथेथ, अहं याव तुम्हे धरथ, ताव पटिजग्गिस्सामि, तुम्हाकं अच्‍चयेन निक्खमित्वा पब्बजिस्सामी’’ति। ते कतिपाहं अतिक्‍कमित्वा पुन कथयिंसु, सोपि तथेव पटिक्खिपि। पुनपि कथयिंसु, पुनपि पटिक्खिपि। ततो पट्ठाय माता निरन्तरं कथेसियेव।</p>

<p rend="bodytext">माणवो ‘‘मम मातरं सञ्‍ञापेस्सामी’’ति रत्तसुवण्णस्स निक्खसहस्सं दत्वा सुवण्णकारेहि एकं इत्थिरूपं कारापेत्वा तस्स मज्‍जनघट्टनादिकम्मपरियोसाने तं रत्तवत्थं निवासापेत्वा वण्णसम्पन्‍नेहि पुप्फेहि चेव नानाअलङ्कारेहि च अलङ्कारापेत्वा मातरं पक्‍कोसापेत्वा आह – ‘‘अम्म, एवरूपं आरम्मणं लभन्तो गेहे वसिस्सामि, अलभन्तो न <pb ed="M" n="1.0138"/> वसिस्सामी’’ति <pb ed="P" n="1.0176"/>। पण्डिता ब्राह्मणी चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्‍ञवा दिन्‍नदानो कताभिनीहारो, पुञ्‍ञं करोन्तो न एककोव अकासि, अद्धा एतेन सह कतपुञ्‍ञा सुवण्णरूपकपटिभागाव भविस्सती’’ति अट्ठ ब्राह्मणे पक्‍कोसापेत्वा सब्बकामेहि सन्तप्पेत्वा सुवण्णरूपकं रथं आरोपेत्वा ‘‘गच्छथ, ताता, यत्थ अम्हाकं जातिगोत्तभोगेहि समानकुले एवरूपं दारिकं पस्सथ, इममेव सुवण्णरूपकं पण्णाकारं कत्वा देथा’’ति उय्योजेसि।</p>

<p rend="bodytext">ते ‘‘अम्हाकं नाम एतं कम्म’’न्ति निक्खमित्वा ‘‘कत्थ गमिस्सामा’’ति चिन्तेत्वा ‘‘मद्दरट्ठं नाम इत्थाकरो, मद्दरट्ठं गमिस्सामा’’ति मद्दरट्ठे सागलनगरं अगमंसु। तत्थ तं सुवण्णरूपकं न्हानतित्थे ठपेत्वा एकमन्ते निसीदिंसु। अथ भद्दाय धाती भद्दं न्हापेत्वा अलङ्करित्वा सिरिगब्भे निसीदापेत्वा न्हायितुं आगच्छन्ती तं रूपकं दिस्वा ‘‘अय्यधीता मे इधागता’’ति सञ्‍ञाय सन्तज्‍जेत्वा ‘‘दुब्बिनीते किं त्वं इधागता’’ति तलसत्तिकं उग्गिरित्वा ‘‘गच्छ सीघ’’न्ति गण्डपस्से पहरि। हत्थो पासाणे पटिहतो विय कम्पित्थ। सा पटिक्‍कमित्वा ‘‘एवं थद्धं नाम महागीवं दिस्वा ‘अय्यधीता मे’ति सञ्‍ञं उप्पादेसिं, अय्यधीताय <pb ed="V" n="1.0140"/> हि मे निवासनपटिग्गाहिकायपि अयुत्ता’’ति आह। अथ नं ते मनुस्सा परिवारेत्वा ‘‘एवरूपा ते सामिधीता’’ति पुच्छिंसु। किं एसा, इमाय सतगुणेन सहस्सगुणेन मय्हं अय्याधीता अभिरूपतरा, द्वादसहत्थे गब्भे निसिन्‍नाय पदीपकिच्‍चं नत्थि, सरीरोभासेनेव तमं विधमतीति। ‘‘तेन <pb ed="P" n="1.0177"/> हि आगच्छा’’ति खुज्‍जं गहेत्वा सुवण्णरूपकं रथं आरोपेत्वा कोसियगोत्तस्स ब्राह्मणस्स घरद्वारे ठत्वा आगमनं निवेदयिंसु।</p>

<p rend="bodytext">ब्राह्मणो पटिसन्थारं कत्वा ‘‘कुतो आगतत्था’’ति पुच्छि। मगधरट्ठे महातित्थगामे कपिलब्राह्मणस्स घरतोति। किं कारणा आगताति? इमिना नाम कारणेनाति। ‘‘कल्याणं, ताता, समजातिगोत्तविभवो अम्हाकं ब्राह्मणो, दस्सामि दारिक’’न्ति पण्णाकारं गण्हि। ते कपिलब्राह्मणस्स सासनं पहिणिंसु ‘‘लद्धा दारिका, कत्तब्बं करोथा’’ति। तं सासनं सुत्वा पिप्पलिमाणवस्स आरोचयिंसु ‘‘लद्धा किर दारिका’’ति। माणवो ‘‘अहं ‘न लभिस्सन्ती’ति चिन्तेसिं, ‘इमे लद्धाति वदन्ति’, अनत्थिको हुत्वा पण्णं पेसेस्सामी’’ति रहोगतो पण्णं <pb ed="M" n="1.0139"/> लिखि ‘‘भद्दा अत्तनो जातिगोत्तभोगानुरूपं घरावासं लभतु, अहं निक्खमित्वा पब्बजिस्सामि, मा पच्छा विप्पटिसारिनी अहोसी’’ति। भद्दापि ‘‘असुकस्स किर मं दातुकामो’’ति सुत्वा रहोगता पण्णं लिखि ‘‘अय्यपुत्तो अत्तनो जातिगोत्तभोगानुरूपं घरावासं लभतु, अहं निक्खमित्वा पब्बजिस्सामि, मा पच्छा विप्पटिसारी अहोसी’’ति। द्वे पण्णानि अन्तरामग्गे समागच्छिंसु। इदं कस्स पण्णन्ति? पिप्पलिमाणवेन भद्दाय पहितन्ति। इदं कस्साति? भद्दाय पिप्पलिमाणवस्स पहितन्ति च वुत्ते द्वेपि वाचेत्वा ‘‘पस्सथ दारकानं कम्म’’न्ति फालेत्वा अरञ्‍ञे छड्डेत्वा समानपण्णं लिखित्वा इतो च एत्तो च पेसेसुं। इति तेसं अनिच्छमानानंयेव समागमो अहोसि।</p>

<p rend="bodytext">तंदिवसमेव माणवो एकं पुप्फदामं गहेत्वा ठपेसि। भद्दापि, तानि सयनमज्झे ठपेसि। भुत्तसायमासा उभोपि ‘‘सयनं अभिरुहिस्सामा’’ति समागन्त्वा माणवो दक्खिणपस्सेन सयनं अभिरुहि। भद्दा वामपस्सेन अभिरुहित्वा आह – ‘‘यस्स पस्से पुप्फानि <pb ed="P" n="1.0178"/> मिलायन्ति, तस्स रागचित्तं उप्पन्‍नन्ति विजानिस्साम, इमं पुप्फदामं न अल्‍लीयितब्ब’’न्ति। ते पन अञ्‍ञमञ्‍ञं सरीरसम्फस्सभयेन तियामरत्तिं निद्दं अनोक्‍कमन्ताव वीतिनामेन्ति, दिवा पन हासमत्तम्पि नाहोसि। ते लोकामिसेन असंसट्ठा याव मातापितरो धरन्ति, ताव कुटुम्बं अविचारेत्वा तेसु कालङ्कतेसु विचारयिंसु। महती माणवस्स <pb ed="V" n="1.0141"/> सम्पत्ति सत्तासीतिकोटिधनं, एकदिवसं सरीरं उब्बट्टेत्वा छड्डेतब्बं सुवण्णचुण्णमेव मगधनाळिया द्वादसनाळिमत्तं लद्धुं वट्टति। यन्तबद्धानि सट्ठि महातळाकानि, कम्मन्तो द्वादसयोजनिको, अनुराधपुरप्पमाणा चुद्दस गामा, चुद्दस हत्थानीका, चुद्दस अस्सानीका, चुद्दस रथानीका।</p>

<p rend="bodytext">सो एकदिवसं अलङ्कतअस्सं आरुय्ह महाजनपरिवुतो कम्मन्तं गन्त्वा खेत्तकोटियं ठितो नङ्गलेहि भिन्‍नट्ठानतो काकादयो सकुणे गण्डुप्पादादिपाणके उद्धरित्वा खादन्ते दिस्वा, ‘‘ताता, इमे किं खादन्ती’’ति पुच्छि। गण्डुप्पादे, अय्याति। एतेहि कतं पापं कस्स होतीति? तुम्हाकं, अय्याति। सो चिन्तेसि – ‘‘सचे एतेहि कतं पापं <pb ed="M" n="1.0140"/> मय्हं होति, किं मे करिस्सति सत्तासीतिकोटिधनं, किं द्वादसयोजनिको कम्मन्तो, किं सट्ठियन्तबद्धानि तळाकानि, किं चुद्दस गामा? सब्बमेतं भद्दाय कापिलानिया निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति।</p>

<p rend="bodytext">भद्दापि कापिलानी तस्मिं खणे अन्तरवत्थुम्हि तयो तिलकुम्भे पत्थरापेत्वा धातीहि परिवुता निसिन्‍ना काके तिलपाणके खादन्ते दिस्वा, ‘‘अम्मा, किं इमे खादन्ती’’ति पुच्छि। पाणके, अय्येति। अकुसलं कस्स होतीति? तुम्हाकं, अय्येति। सा चिन्तेसि – ‘‘मय्हं चतुहत्थवत्थं नाळिकोदनमत्तञ्‍च लद्धुं वट्टति, यदि पनेतं एत्तकेन जनेन कतं अकुसलं मय्हं होति, अद्धा भवसहस्सेनपि <pb ed="P" n="1.0179"/> वट्टतो सीसं उक्खिपितुं न सक्‍का, अय्यपुत्ते आगतमत्तेयेव सब्बं तस्स निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति।</p>

<p rend="bodytext">माणवो आगन्त्वा न्हायित्वा पासादं आरुय्ह महारहे पल्‍लङ्के निसीदि। अथस्स चक्‍कवत्तिनो अनुच्छविकं भोजनं सज्‍जयिंसु। द्वेपि भुञ्‍जित्वा परिजने निक्खन्ते रहोगता फासुकट्ठाने निसीदिंसु। ततो माणवो भद्दं आह – ‘‘भद्दे इमं घरं आगच्छन्ती कित्तकं धनं आहरी’’ति? पञ्‍चपण्णास सकटसहस्सानि, अय्याति। एतं सब्बं, या च इमस्मिं घरे सत्तासीति कोटियो यन्तबद्धा सट्ठितळाकादिभेदा सम्पत्ति अत्थि, सब्बं तुय्हंयेव निय्यातेमीति। तुम्हे पन कहं गच्छथ, अय्याति? अहं पब्बजिस्सामीति। अय्य, अहम्पि तुम्हाकंयेव आगमनं ओलोकयमाना निसिन्‍ना, अहम्पि पब्बजिस्सामीति। तेसं आदित्तपण्णकुटि विय तयो भवा उपट्ठहिंसु। ते अन्तरापणतो कसावरसपीतानि वत्थानि मत्तिकापत्ते <pb ed="V" n="1.0142"/> च आहरापेत्वा अञ्‍ञमञ्‍ञं केसे ओहारापेत्वा ‘‘ये लोके अरहन्तो, ते उद्दिस्स अम्हाकं पब्बज्‍जा’’ति वत्वा थविकाय पत्ते ओसारेत्वा अंसे लग्गेत्वा पासादतो ओतरिंसु। गेहे दासेसु वा कम्मकारेसु वा न कोचि सञ्‍जानि।</p>

<p rend="bodytext">अथ ने ब्राह्मणगामतो निक्खम्म दासगामद्वारेन गच्छन्ते आकप्पकुत्तवसेन दासगामवासिनो सञ्‍जानिंसु। ते रोदन्ता पादेसु निपतित्वा ‘‘किं अम्हे अनाथे करोथ, अय्या’’ति आहंसु। ‘‘मयं भणे आदित्तपण्णसाला विय तयो भवाति पब्बजिम्हा, सचे तुम्हेसु <pb ed="M" n="1.0141"/> एकेकं भुजिस्सं करोम, वस्ससतम्पि <pb ed="P" n="1.0180"/> नप्पहोति। तुम्हेव तुम्हाकं सीसं धोवित्वा भुजिस्सा हुत्वा जीवथा’’ति वत्वा तेसं रोदन्तानंयेव पक्‍कमिंसु। थेरो पुरतो गच्छन्तो निवत्तित्वा ओलोकेन्तो चिन्तेसि – ‘‘अयं भद्दा कापिलानी सकलजम्बुदीपग्घनिका इत्थी मय्हं पच्छतो आगच्छति। ठानं खो पनेतं विज्‍जति, यं कोचिदेव एवं चिन्तेय्य ‘इमे पब्बजित्वापि विना भवितुं न सक्‍कोन्ति, अननुच्छविकं करोन्ती’ति। कोचि वा पन अम्हेसु मनं पदूसेत्वा अपायपूरको भवेय्य। इमं पहाय मया गन्तुं वट्टती’’ति चित्तं उप्पादेसि।</p>

<p rend="bodytext">सो पुरतो गच्छन्तो द्वेधापथं दिस्वा तस्स मत्थके अट्ठासि। भद्दापि आगन्त्वा वन्दित्वा अट्ठासि। अथ नं आह – ‘‘भद्दे तादिसिं इत्थिं मम पच्छतो आगच्छन्तिं दिस्वा ‘इमे पब्बजित्वापि विना भवितुं न सक्‍कोन्ती’ति चिन्तेत्वा अम्हेसु पदुट्ठचित्तो महाजनो अपायपूरको भवेय्य। इमस्मिं द्वेधापथे त्वं एकं गण्ह, अहं एकेन गमिस्सामी’’ति। ‘‘आम, अय्य, पब्बजितानं मातुगामो नाम मलं, ‘पब्बजित्वापि विना न भवन्ती’ति अम्हाकं दोसं दस्सन्ति, तुम्हे एकं मग्गं गण्हथ, अहं एकं गण्हित्वा विना भविस्सामा’’ति तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु पञ्‍चपतिट्ठितेन वन्दित्वा दसनखसमोधानसमुज्‍जलं अञ्‍जलिं पग्गय्ह ‘‘सतसहस्सकप्पप्पमाणे अद्धाने कतो मित्तसन्थवो अज्‍ज भिज्‍जती’’ति वत्वा ‘‘तुम्हे दक्खिणजातिका नाम, तुम्हाकं दक्खिणमग्गो वट्टति। मयं मातुगामा नाम वामजातिका, अम्हाकं वाममग्गो वट्टती’’ति वन्दित्वा मग्गं पटिपन्‍ना। तेसं द्वेधाभूतकाले अयं महापथवी ‘‘अहं चक्‍कवाळगिरिसिनेरुपब्बते धारेतुं सक्‍कोन्तीपि तुम्हाकं गुणे धारेतुं न <pb ed="P" n="1.0181"/> सक्‍कोमी’’ति वदन्ती विय विरवमाना अकम्पि, आकासे असनिसद्दो विय पवत्ति, चक्‍कवाळपब्बतो उन्‍नदि।</p>

<p rend="bodytext">सम्मासम्बुद्धो <pb ed="V" n="1.0143"/> वेळुवनमहाविहारे गन्धकुटियं निसिन्‍नो पथवीकम्पनसद्दं सुत्वा ‘‘कस्स नु खो पथवी कम्पती’’ति आवज्‍जेन्तो ‘‘पिप्पलिमाणवो च भद्दा च कापिलानी मं उद्दिस्स अप्पमेय्यं सम्पत्तिं पहाय पब्बजिता, तेसं वियोगट्ठाने उभिन्‍नम्पि गुणबलेन अयं पथवीकम्पो जातो, मयापि एतेसं सङ्गहं कातुं वट्टती’’ति गन्धकुटितो निक्खम्म सयमेव <pb ed="M" n="1.0142"/> पत्तचीवरमादाय असीतिमहाथेरेसु कञ्‍चि अनामन्तेत्वा तिगावुतं मग्गं पच्‍चुग्गमनं कत्वा राजगहस्स च नालन्दाय च अन्तरे बहुपुत्तकनिग्रोधरुक्खमूले पल्‍लङ्कं आभुजित्वा निसीदि। निसीदन्तो पन अञ्‍ञतरपंसुकूलिको विय अनिसीदित्वा बुद्धवेसं गहेत्वा असीतिहत्था घनबुद्धरस्मियो विस्सज्‍जेन्तो निसीदि। इति तस्मिं खणे पण्णच्छत्तसकटचक्‍ककूटागारादिप्पमाणा बुद्धरस्मियो इतो चितो च विप्फन्दन्तियो विधावन्तियो चन्दसहस्स-सूरियसहस्स-उग्गमनकालो विय कुरुमाना तं वनन्तं एकोभासं अकंसु। द्वत्तिंसमहापुरिसलक्खणसिरिया समुज्‍जलतारागणं विय गगनं, सुपुप्फितकमलकुवलयं विय सलिलं वनन्तं विरोचित्थ। निग्रोधरुक्खस्स खन्धो नाम सेतो होति, पत्तानि नाम नीलानि, पक्‍कानि रत्तानि। तस्मिं पन दिवसे सतसाखो निग्रोधो सुवण्णवण्णोव अहोसि।</p>

<p rend="bodytext">महाकस्सपत्थेरो ‘‘अयं मय्हं सत्था भविस्सति, इमाहं उद्दिस्स पब्बजितो’’ति दिट्ठट्ठानतो पट्ठाय ओणतोणतो गन्त्वा तीसु ठानेसु वन्दित्वा ‘‘सत्था मे, भन्ते भगवा, सावकोहमस्मि, सत्था <pb ed="P" n="1.0182"/> मे, भन्ते भगवा, सावकोहमस्मी’’ति आह। अथ नं भगवा अवोच – ‘‘कस्सप, सचे त्वं इमं निपच्‍चकारं महापथविया करेय्यासि, सापि धारेतुं न सक्‍कुणेय्य। तथागतस्स एवं गुणमहन्ततं जानता तया कतो निपच्‍चकारो मय्हं लोमम्पि चालेतुं न सक्‍कोति। निसीद, कस्सप, दायज्‍जं ते दस्सामी’’ति। अथस्स भगवा तीहि ओवादेहि उपसम्पदं अदासि। दत्वा बहुपुत्तकनिग्रोधमूलतो निक्खमित्वा थेरं पच्छासमणं कत्वा मग्गं पटिपज्‍जि। सत्थु सरीरं द्वत्तिंसमहापुरिसलक्खणविचित्तं, महाकस्सपस्स सत्तमहापुरिसलक्खणपटिमण्डितं। सो कञ्‍चनमहानावाय पच्छाबन्धो विय सत्थु पदानुपदिकं अनुगञ्छि। सत्था थोकं मग्गं गन्त्वा मग्गा ओक्‍कम्म अञ्‍ञतरस्मिं रुक्खमूले निसज्‍जाकारं दस्सेसि, थेरो ‘‘निसीदितुकामो सत्था’’ति ञत्वा अत्तनो पारुपनपिलोतिकसङ्घाटिं चतुग्गुणं कत्वा पञ्‍ञापेसि।</p>

<p rend="bodytext">सत्था तस्मिं निसीदित्वा हत्थेन चीवरं परामसित्वा ‘‘मुदुका खो त्यायं, कस्सप, पिलोतिकसङ्घाटी’’ति <pb ed="V" n="1.0144"/> आह। थेरो ‘‘सत्था मे <pb ed="M" n="1.0143"/> सङ्घाटिया मुदुकभावं कथेति, पारुपितुकामो भविस्सती’’ति ञत्वा ‘‘पारुपतु, भन्ते, भगवा सङ्घाटि’’न्ति आह। किं त्वं पारुपिस्ससि कस्सपाति? तुम्हाकं निवासनं लभन्तो पारुपिस्सामि, भन्तेति। ‘‘किं पन त्वं, कस्सप, इमं परिभोगजिण्णं पंसुकूलं धारेतुं सक्खिस्ससि? मया हि इमस्स पंसुकूलस्स गहितदिवसे उदकपरियन्तं कत्वा महापथवी कम्पि, इमं बुद्धानं परिभोगजिण्णं चीवरं नाम न सक्‍का परित्तगुणेन धारेतुं, पटिबलेनेविदं पटिपत्तिपूरणसमत्थेन जातिपंसुकूलिकेन गहेतुं वट्टती’’ति वत्वा थेरेन सद्धिं चीवरं परिवत्तेसि।</p>

<p rend="bodytext">एवं पन चीवरपरिवत्तं <pb ed="P" n="1.0183"/> कत्वा थेरेन पारुतचीवरं भगवा पारुपि, सत्थु चीवरं थेरो पारुपि। तस्मिं समये अचेतनापि अयं महापथवी ‘‘दुक्‍करं, भन्ते, अकत्थ, अत्तना पारुतचीवरं सावकस्स दिन्‍नपुब्बं नाम नत्थि, अहं तुम्हाकं गुणं धारेतुं न सक्‍कोमी’’ति वदन्ती विय उदकपरियन्तं कत्वा कम्पि। थेरोपि ‘‘लद्धं दानि मया बुद्धानं परिभोगचीवरं, किं मे इदानि उत्तरि कत्तब्बं अत्थी’’ति उन्‍नतिं अकत्वा बुद्धानं सन्तिकेयेव तेरस धुतगुणे समादाय सत्तदिवसमत्तं पुथुज्‍जनो हुत्वा अट्ठमे अरुणे सह पटिसम्भिदाहि अरहत्तं पापुणि। सत्थापि ‘‘कस्सपो, भिक्खवे, चन्दूपमो कुलानि उपसङ्कमति, अपकस्सेव कायं अपकस्स चित्तं निच्‍चनवको कुलेसु अप्पगब्भो’’ति (सं॰ नि॰ २.१४६) एवमादीहि सुत्तेहि थेरं थोमेत्वा अपरभागे एतदेव कस्सपसंयुत्तं अट्ठुप्पत्तिं कत्वा ‘‘मम सासने धुतवादानं भिक्खूनं महाकस्सपो अग्गो’’ति थेरं ठानन्तरे ठपेसीति।</p>

<p rend="subhead">अनुरुद्धत्थेरवत्थु</p>

<p rend="bodytext" n="192"><hi rend="paranum">१९२</hi><hi rend="dot">.</hi> पञ्‍चमे <hi rend="bold">दिब्बचक्खुकानं यदिदं अनुरुद्धो</hi>ति दिब्बचक्खुकभिक्खूनं अनुरुद्धत्थेरो अग्गोति वदति। तस्स चिण्णवसिताय अग्गभावो वेदितब्बो। थेरो किर भोजनपपञ्‍चमत्तं ठपेत्वा सेसकालं आलोकं वड्ढेत्वा दिब्बचक्खुना सत्ते ओलोकेन्तोव विहरति। इति अहोरत्तं चिण्णवसिताय एस दिब्बचक्खुकानं अग्गो नाम जातो। अपिच कप्पसतसहस्सं पत्थितभावेनपेस दिब्बचक्खुकानं अग्गोव जातो।</p>

<p rend="bodytext">तत्रस्स <pb ed="M" n="1.0144"/> पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि <pb ed="P" n="1.0184"/> हि कुलपुत्तो पदुमुत्तरस्सेव भगवतो काले <pb ed="V" n="1.0145"/> पच्छाभत्तं धम्मस्सवनत्थं विहारं गच्छन्तेन महाजनेन सद्धिं अगमासि। अयं हि तदा अञ्‍ञतरो अपाकटनामो इस्सरकुटुम्बिको अहोसि। सो दसबलं वन्दित्वा परिसपरियन्ते ठितो धम्मकथं सुणाति। सत्था देसनं यथानुसन्धिकं घटेत्वा एकं दिब्बचक्खुकं भिक्खुं एतदग्गट्ठाने ठपेसि।</p>

<p rend="bodytext">ततो कुटुम्बिकस्स एतदहोसि – ‘‘महा वतायं भिक्खु, यं एवं सत्था सयं दिब्बचक्खुकानं अग्गट्ठाने ठपेसि। अहो वताहम्पि अनागते उप्पज्‍जनकबुद्धस्स सासने दिब्बचक्खुकानं अग्गो भवेय्य’’न्ति चित्तं उप्पादेत्वा परिसन्तरेन गन्त्वा स्वातनाय भगवन्तं भिक्खुसङ्घेन सद्धिं निमन्तेत्वा पुनदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा ‘‘महन्तं ठानन्तरं मया पत्थित’’न्ति तेनेव नियामेन अज्‍जतनाय स्वातनायाति निमन्तेत्वा सत्त दिवसानि महादानं पवत्तेत्वा सपरिवारस्स भगवतो उत्तमवत्थानि दत्वा ‘‘भगवा नाहं इमं सक्‍कारं दिब्बसम्पत्तिया न मनुस्ससम्पत्तिया अत्थाय करोमि। यं पन तुम्हे इतो सत्तदिवसमत्थके भिक्खुं दिब्बचक्खुकानं अग्गट्ठाने ठपयित्थ, अहम्पि अनागते एकस्स बुद्धस्स सासने सो भिक्खु विय दिब्बचक्खुकानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा पादमूले निपज्‍जि। सत्था अनागतं ओलोकेत्वा तस्स पत्थनाय समिज्झनभावं ञत्वा एवमाह – ‘‘अम्भो पुरिस, अनागते कप्पसतसहस्सपरियोसाने गोतमो नाम बुद्धो उप्पज्‍जिस्सति, तस्स सासने त्वं दिब्बचक्खुकानं अग्गो अनुरुद्धो नाम भविस्ससी’’ति। एवञ्‍च पन वत्वा भत्तानुमोदनं कत्वा विहारमेव अगमासि।</p>

<p rend="bodytext">कुटुम्बिकोपि याव बुद्धो धरति, ताव <pb ed="P" n="1.0185"/> अविजहितमेव कल्याणकम्मं कत्वा परिनिब्बुते सत्थरि निट्ठिते सत्तयोजनिके सुवण्णचेतिये भिक्खुसङ्घं उपसङ्कमित्वा, ‘‘भन्ते, किं दिब्बचक्खुस्स परिकम्म’’न्ति पुच्छि। पदीपदानं नाम दातुं वट्टति उपासकाति। साधु, भन्ते, करिस्सामीति सहस्सदीपानंयेव ताव दीपरुक्खानं सहस्सं कारेसि, तदनन्तरं ततो परित्ततरे, तदनन्तरं ततो परियत्ततरेति अनेकसहस्से दीपरुक्खे कारेसि। सेसपदीपा पन अपरिमाणा अहेसुं।</p>

<p rend="bodytext">एवं <pb ed="M" n="1.0145"/> यावजीवं कल्याणकम्मं कत्वा देवेसु च मनुस्सेसु च संसरन्तो कप्पसतसहस्सं अतिक्‍कमित्वा कस्सपसम्मासम्बुद्धस्स काले बाराणसियं कुटुम्बियगेहे निब्बत्तित्वा परिनिब्बुते सत्थरि <pb ed="V" n="1.0146"/> निट्ठिते योजनिके चेतिये बहु कंसपातियो कारापेत्वा सप्पिमण्डस्स पूरेत्वा मज्झे एकेकं गुळपिण्डं ठपेत्वा उज्‍जालेत्वा मुखवट्टिया मुखवट्टिं फुसापेन्तो चेतियं परिक्खिपापेत्वा अत्तनो सब्बमहन्तं कंसपातिं कारेत्वा सप्पिमण्डस्स पूरेत्वा तस्सा मुखवट्टियं समन्ततो वट्टिसहस्सं जालापेत्वा मज्झट्ठाने थूपिकं पिलोतिकाय वेठेत्वा जालापेत्वा कंसपातिं सीसेनादाय सब्बरत्तिं योजनिकं चेतियं अनुपरियायि। एवं तेनापि अत्तभावेन यावजीवं कल्याणकम्मं कत्वा देवलोके निब्बत्तो।</p>

<p rend="bodytext">पुन अनुप्पन्‍ने बुद्धे तस्मिंयेव नगरे दुग्गतकुलस्स गेहे पटिसन्धिं गण्हित्वा सुमनसेट्ठिं नाम निस्साय वसि, <hi rend="bold">अन्‍नभारो</hi>तिस्स नामं अहोसि। सो पन सुमनसेट्ठि देवसिकं कपणद्धिकवणिब्बकयाचकानं गेहद्वारे महादानं देति। अथेकदिवसं उपरिट्ठो नाम पच्‍चेकबुद्धो गन्धमादनपब्बते निरोधसमापत्तिं समापन्‍नो। ततो वुट्ठाय ‘‘अज्‍ज कस्स अनुग्गहं कातुं वट्टती’’ति वीमंसि। पच्‍चेकबुद्धा च नाम दुग्गतानुकम्पका <pb ed="P" n="1.0186"/> होन्ति। सो ‘‘अज्‍ज मया अन्‍नभारस्स अनुग्गहं कातुं वट्टती’’ति चिन्तेत्वा ‘‘इदानि अन्‍नभारो अटवितो अत्तनो गेहं आगमिस्सती’’ति ञत्वा पत्तचीवरमादाय गन्धमादनपब्बता वेहासं अब्भुग्गन्त्वा गामद्वारे अन्‍नभारस्स सम्मुखे पच्‍चुट्ठासि।</p>

<p rend="bodytext">अन्‍नभारो पच्‍चेकबुद्धं तुच्छपत्तहत्थं दिस्वा पच्‍चेकबुद्धं अभिवादेत्वा ‘‘अपि, भन्ते, भिक्खं लभित्था’’ति पुच्छि। लभिस्साम महापुञ्‍ञाति। ‘‘भन्ते, थोकं इधेव होथा’’ति वेगेन गन्त्वा अत्तनो गेहे मातुगामं पुच्छि – ‘‘भद्दे, मय्हं ठपितं भागभत्तं अत्थि, नत्थी’’ति? अत्थि सामीति। सो ततोव गन्त्वा पच्‍चेकबुद्धस्स हत्थतो पत्तमादाय आगन्त्वा ‘‘भद्दे, मयं पुरिमभवे कल्याणकम्मस्स अकतत्ता भत्तं पच्‍चासीसमाना विहराम <pb ed="M" n="1.0146"/>, अम्हाकं दातुकामताय सति देय्यधम्मो न होति, देय्यधम्मे सति पटिग्गाहकं न लभाम, अज्‍ज मे उपरिट्ठपच्‍चेकबुद्धो दिट्ठो, भागभत्तञ्‍च अत्थि, मय्हं भागभत्तं इमस्मिं पत्ते पक्खिपाही’’ति।</p>

<p rend="bodytext">ब्यत्ता इत्थी ‘‘यतो मय्हं सामिको भागभत्तं देति, मयापि इमस्मिं दाने भागिनिया भवितब्ब’’न्ति अत्तनो भागभत्तम्पि उपरिट्ठस्स पच्‍चेकबुद्धस्स पत्ते पतिट्ठपेत्वा अदासि। अन्‍नभारो पत्तं आहरित्वा पच्‍चेकबुद्धस्स हत्थे ठपेत्वा, ‘‘भन्ते, एवरूपा दुज्‍जीविता मुच्‍चामा’’ति आह। एवं होतु, महापुञ्‍ञाति। सो अत्तनो उत्तरसाटकं एकस्मिं पदेसे अत्थरित्वा <pb ed="V" n="1.0147"/>, ‘‘भन्ते, इध निसीदित्वा परिभुञ्‍जथा’’ति आह। पच्‍चेकबुद्धो तत्थ निसीदित्वा नवविधं पाटिकूल्यं पच्‍चवेक्खन्तो परिभुञ्‍जि। परिभुत्तकाले <pb ed="P" n="1.0187"/> अन्‍नभारो पत्तधोवनउदकं अदासि। पच्‍चेकबुद्धो निट्ठितभत्तकिच्‍चो –</p>

<p rend="gatha1">‘‘इच्छितं पत्थितं तुय्हं, सब्बमेव समिज्झतु।</p>

<p rend="gathalast">सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्‍नरसो यथा’’ति॥ –</p>

<p rend="unindented">अनुमोदनं कत्वा मग्गं पटिपज्‍जि। सुमनसेट्ठिस्स छत्ते अधिवत्था देवता ‘‘अहो दानं परमदानं उपरिट्ठे सुप्पतिट्ठित’’न्ति तिक्खत्तुं वत्वा साधुकारं अदासि। सुमनसेट्ठि ‘‘किं त्वं मं एत्तकं कालं दानं ददमानं न पस्ससी’’ति आह। नाहं तव दाने साधुकारं देमि, अन्‍नभारेन उपरिट्ठपच्‍चेकबुद्धस्स दिन्‍नपिण्डपाते पसीदित्वा साधुकारं देमीति।</p>

<p rend="bodytext">सुमनसेट्ठि चिन्तेसि – ‘‘अच्छरियं वतिदं, अहं एत्तकं कालं दानं देन्तो देवतं साधुकारं दापेतुं नासक्खिं। अयं अन्‍नभारो मं निस्साय वसन्तो अनुरूपस्स पटिग्गाहकपुग्गलस्स लद्धत्ता एकपिण्डपातदानेनेव साधुकारं दापेसि, एतस्स अनुच्छविकं दत्वा एतं पिण्डपातं मम सन्तकं कातुं वट्टती’’ति अन्‍नभारं पक्‍कोसापेत्वा ‘‘अज्‍ज तया कस्सचि किञ्‍चि दानं दिन्‍न’’न्ति पुच्छि। आम, अय्य, उपरिट्ठपच्‍चेकबुद्धस्स मे अत्तनो भागभत्तं दिन्‍नन्ति। हन्द, भो, कहापणं गण्हित्वा एतं पिण्डपातं मय्हं देहीति। न देमि अय्याति। सो याव सहस्सं वड्ढेसि, अन्‍नभारो ‘‘सहस्सेनापि <pb ed="M" n="1.0147"/> न देमी’’ति आह। होतु, भो, यदि पिण्डपातं न देसि, सहस्सं गण्हित्वा पत्तिं मे देहीति। ‘‘एतम्पि दातुं युत्तं वा अयुत्तं वा न जानामि, अय्यं पन उपरिट्ठपच्‍चेकबुद्धं पुच्छित्वा सचे दातुं युत्तं भविस्सति, दस्सामी’’ति गन्त्वा पच्‍चेकबुद्धं सम्पापुणित्वा, ‘‘भन्ते, सुमनसेट्ठि मय्हं सहस्सं दत्वा तुम्हाकं दिन्‍नपिण्डपाते पत्तिं याचति, दम्मि वा न दम्मि वा’’ति <pb ed="P" n="1.0188"/>। उपमं ते पण्डित करिस्सामि। सेय्यथापि कुलसतिके गामे एकस्मिंयेव घरे दीपं जालेय्य, सेसा अत्तनो अत्तनो तेलेन वट्टिं तेमेत्वा जालापेत्वा गण्हेय्युं, पुरिमदीपस्स पभा अत्थि, नत्थीति। अतिरेकतरा, भन्ते, पभा होतीति। एवमेव पण्डित उळुङ्कयागु वा होतु कटच्छुभिक्खा वा, अत्तनो पिण्डपाते परेसं पत्तिं देन्तस्स सतस्स वा देतु सहस्सस्स वा, यत्तकानं <pb ed="V" n="1.0148"/> देति, तत्तकानं पुञ्‍ञं वड्ढति। त्वं देन्तो एकमेव पिण्डपातं अदासि, सुमनसेट्ठिस्स पन पत्तिया दिन्‍नाय द्वे पिण्डपाता होन्ति एको तव, एको च तस्साति।</p>

<p rend="bodytext">सो पच्‍चेकबुद्धं अभिवादेत्वा सुमनसेट्ठिस्स सन्तिकं गन्त्वा ‘‘पिण्डपाते पत्तिं गण्ह सामी’’ति आह। हन्द, कहापणसहस्सं गण्हाति। नाहं पिण्डपातं विक्‍किणामि, सद्धाय पन तुम्हाकं पत्तिं देमीति। तात, त्वं मय्हं सद्धाय पत्तिं देसि, अहं पन तुय्हं गुणं पूजेन्तो सहस्सं देमि, गण्ह, ताताति। सो ‘‘एवं होतू’’ति सहस्सं गण्हि। तात, तुय्हं सहस्सं लद्धकालतो पट्ठाय सहत्था कम्मकरणकिच्‍चं नत्थि, वीथियं घरं मापेत्वा वस। येन तुय्हं अत्थो, तं मं आहरापेत्वा गण्हाहीति। निरोधसमापत्तितो वुट्ठितपच्‍चेकबुद्धस्स दिन्‍नपिण्डपातो नाम तंदिवसमेव विपाकं देति। तस्मा सुमनसेट्ठि अञ्‍ञं दिवसं अन्‍नभारं गहेत्वा राजकुलं अगच्छन्तोपि तंदिवसं गहेत्वाव गतो।</p>

<p rend="bodytext">अन्‍नभारस्स पुञ्‍ञं आगम्म राजा सेट्ठिं अनोलोकेत्वा अन्‍नभारमेव ओलोकेसि <pb ed="P" n="1.0189"/>। किं, देव, इमं पुरिसं अतिविय ओलोकेसीति? अञ्‍ञं दिवसं अदिट्ठपुब्बत्ता ओलोकेमीति। ओलोकेतब्बयुत्तको एस देवाति। को पनस्स ओलोकेतब्बयुत्तको गुणोति? अज्‍ज अत्तनो भागभत्तं सयं अभुञ्‍जित्वा उपरिट्ठपच्‍चेकबुद्धस्स दिन्‍नत्ता मम हत्थतो सहस्सं लभि देवाति। कोनामो एसोति? अन्‍नभारो नाम <pb ed="M" n="1.0148"/> देवाति। ‘‘तव हत्थतो लद्धत्ता ममपि हत्थतो लद्धुं अरहति, अहम्पिस्स पूजं करिस्सामी’’ति वत्वा सहस्सं अदासि। एतस्स वसनगेहं जानाथ भणेति? साधु देवाति एकं गेहट्ठानं सोधेन्ता कुद्दालेन आहताहतट्ठाने निधिकुम्भियो गीवाय गीवं आहच्‍च ठिता दिस्वा रञ्‍ञो आरोचयिंसु। राजा ‘‘तेन हि गन्त्वा खनथा’’ति आह। तेसं खनन्तानं खनन्तानं हेट्ठा गच्छन्ति। पुन गन्त्वा रञ्‍ञो आरोचयिंसु। राजा ‘‘अन्‍नभारस्स वचनेन खनथा’’ति आह। ते गन्त्वा ‘‘अन्‍नभारस्सेव वचन’’न्ति खनिंसु। कुद्दालेन आहताहतट्ठाने अहिच्छत्तकमकुळानि विय कुम्भियो उट्ठहिंसु। ते धनं आहरित्वा रञ्‍ञो सन्तिके रासिं अकंसु। राजा अमच्‍चे सन्‍निपातेत्वा ‘‘इमस्मिं नगरे कस्स अञ्‍ञस्स एत्तकं धनं अत्थी’’ति पुच्छि। नत्थि कस्सचि देवाति। तेन हि अयं अन्‍नभारो इमस्मिं नगरे धनसेट्ठि नाम होतूति। तंदिवसमेव सेट्ठिच्छत्तं लभि।</p>

<p rend="bodytext">सो ततो पट्ठाय यावजीवं कल्याणकम्मं कत्वा ततो चुतो देवलोके निब्बत्तो। दीघरत्तं <pb ed="V" n="1.0149"/> देवमनुस्सेसु संसरित्वा अम्हाकं सत्थु उप्पज्‍जनकाले कपिलवत्थुनगरे अमित्तोदनसक्‍कस्स गेहे पटिसन्धिं गण्हि। नामग्गहणदिवसे पनस्स <hi rend="bold">अनुरुद्धो</hi>ति नामं अकंसु। महानामसक्‍कस्स <pb ed="P" n="1.0190"/> कनिट्ठभाता सत्थु चूळपितुपुत्तो परमसुखुमालो महापुञ्‍ञो अहोसि। सुवण्णपातियंयेवस्स भत्तं उप्पज्‍जि। अथस्स माता एकदिवसं ‘‘मम पुत्तं नत्थीति पदं जानापेस्सामी’’ति एकं सुवण्णपातिं अञ्‍ञाय सुवण्णपातिया पिदहित्वा तुच्छकंयेव पेसेसि। अन्तरामग्गे देवता दिब्बपूवेहि पूरेसुं। एवं महापुञ्‍ञो अहोसि। तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु अलङ्कतनाटकित्थीहि परिवुतो देवो विय सम्पत्तिं अनुभवि।</p>

<p rend="bodytext">अम्हाकम्पि बोधिसत्तो तस्मिं समये तुसितपुरा चवित्वा सुद्धोदनमहाराजस्स अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा अनुक्‍कमेन वुद्धिप्पत्तो एकूनतिंस वस्सानि अगारमज्झे वसित्वा महाभिनिक्खमनं निक्खमित्वा अनुक्‍कमेन पटिविद्धसब्बञ्‍ञुतञ्‍ञाणो बोधिमण्डे सत्तसत्ताहं वीतिनामेत्वा इसिपतने मिगदाये धम्मचक्‍कप्पत्तनं पवत्तेत्वा लोकानुग्गहं करोन्तो राजगहं आगम्म ‘‘पुत्तो मे राजगहं आगतो’’ति सुत्वा <pb ed="M" n="1.0149"/> ‘‘गच्छथ भणे मम पुत्तं आनेथा’’ति पितरा पहिते सहस्ससहस्सपरिवारे दस अमच्‍चे एहिभिक्खुपब्बज्‍जाय पब्बाजेत्वा काळुदायित्थेरेन चारिकागमनं आयाचितो राजगहतो वीसतिसहस्सभिक्खुपरिवारो निक्खमित्वा कपिलवत्थुपुरं गन्त्वा ञातिसमागमे अनेकेहि इद्धिपाटिहारियेहि सप्पाटिहारियं विचित्रधम्मदेसनं कत्वा महाजनं अमतपानं पायेत्वा दुतियदिवसे पत्तचीवरमादाय नगरद्वारे ठत्वा ‘‘किं नु खो कुलनगरं आगतानं सब्बञ्‍ञुबुद्धानं आचिण्ण’’न्ति आवज्‍जमानो ‘‘सपदानं पिण्डाय चरणं आचिण्ण’’न्ति ञत्वा सपदानं पिण्डाय चरन्तो ‘‘पुत्तो मे पिण्डाय चरती’’ति सुत्वा आगतस्स रञ्‍ञो धम्मं कथेत्वा तेन सकनिवेसनं पवेसेत्वा कतसक्‍कारसम्मानो <pb ed="P" n="1.0191"/> तत्थ कातब्बं ञातिजनानुग्गहं कत्वा राहुलकुमारं पब्बाजेत्वा नचिरस्सेव कपिलवत्थुपुरतो मल्‍लरट्ठे चारिकं चरमानो अनुपियअम्बवनं अगमासि।</p>

<p rend="bodytext">तस्मिं समये सुद्धोदनमहाराजा साकियजनं सन्‍निपातेत्वा आह – ‘‘सचे मम पुत्तो अगारं अज्झावसिस्स, राजा अभविस्स चक्‍कवत्ती सत्तरतनसमन्‍नागतो। नत्तापि मे राहुलकुमारो खत्तियगणेन सद्धिं तं परिवारेत्वा अचरिस्स, तुम्हेपि एतमत्थं जानाथ। इदानि पन मे पुत्तो बुद्धो जातो, खत्तियावस्स परिवारा होन्तु। तुम्हे एकेककुलतो एकेकं दारकं देथा’’ति। एवं वुत्ते एकप्पहारेनेव सहस्सखत्तियकुमारा पब्बजिंसु। तस्मिं समये महानामो कुटुम्बसामिको <pb ed="V" n="1.0150"/> होति। सो अनुरुद्धसक्‍कं उपसङ्कमित्वा एतदवोच – ‘‘एतरहि, तात अनुरुद्ध, अभिञ्‍ञाता अभिञ्‍ञाता सक्यकुमारा भगवन्तं पब्बजितं अनुपब्बजन्ति, अम्हाकं कुले नत्थि कोचि अगारस्मा अनगारियं पब्बजितो। तेन हि त्वं वा पब्बज, अहं वा पब्बजिस्सामी’’ति। सो तस्स वचनं सुत्वा घरावासे रुचिं अकत्वा अत्तसत्तमो अगारस्मा अनगारियं पब्बजितो। तस्स पब्बज्‍जानुक्‍कमो सङ्घभेदकक्खन्धके (चूळव॰ ३३० आदयो) आगतोव।</p>

<p rend="bodytext">एवं अनुपियअम्बवनं गन्त्वा पब्बजितेसु पन तेसु तस्मिंयेव अन्तोवस्से भद्दियत्थेरो अरहत्तं पापुणि। अनुरुद्धत्थेरो दिब्बचक्खुं निब्बत्तेसि, देवदत्तो अट्ठ समापत्तियो निब्बत्तेसि, आनन्दत्थेरो सोतापत्तिफले <pb ed="M" n="1.0150"/> पतिट्ठासि, भगुत्थेरो च किमिलत्थेरो च पच्छा अरहत्तं पापुणिंसु। तेसं पन सब्बेसम्पि थेरानं अत्तनो अत्तनो आगतट्ठाने पुब्बपत्थनाभिनीहारो आगमिस्सति। अयं पन अनुरुद्धत्थेरो धम्मसेनापतिस्स सन्तिके कम्मट्ठानं गहेत्वा चेतियरट्ठे पाचीनवंसमिगदायं गन्त्वा समणधम्मं <pb ed="P" n="1.0192"/> करोन्तो सत्त महापुरिसवितक्‍के वितक्‍केसि, अट्ठमे किलमति। सत्था ‘‘अनुरुद्धो अट्ठमे महापुरिसवितक्‍के किलमती’’ति ञत्वा ‘‘तस्स सङ्कप्पं पूरेस्सामी’’ति तत्थ गन्त्वा पञ्‍ञत्तवरबुद्धासने निसिन्‍नो अट्ठमं महापुरिसवितक्‍कं पूरेत्वा चतुपच्‍चयसन्तोसभावनारामपटिमण्डितं महाअरियवंसपटिपदं (अ॰ नि॰ ८.३०) कथेत्वा आकासे उप्पतित्वा भेसकलावनमेव गतो।</p>

<p rend="bodytext">थेरो तथागते गतमत्तेयेव तेविज्‍जो महाखीणासवो हुत्वा ‘‘सत्था मय्हं मनं जानित्वा आगन्त्वा अट्ठमं महापुरिसवितक्‍कं पूरेत्वा अदासि। सो च मे मनोरथो मत्थकं पत्तो’’ति बुद्धानं धम्मदेसनं अत्तनो च पटिविद्धधम्मं आरब्भ इमा गाथा अभासि –</p>

<p rend="gatha1">‘‘मम सङ्कप्पमञ्‍ञाय, सत्था लोके अनुत्तरो।</p>

<p rend="gathalast">मनोमयेन कायेन, इद्धिया उपसङ्कमि॥</p>

<p rend="gatha1">‘‘यथा मे अहु सङ्कप्पो, ततो उत्तरि देसयि।</p>

<p rend="gathalast">निप्पपञ्‍चरतो बुद्धो, निप्पपञ्‍चमदेसयि॥</p>

<p rend="gatha1">‘‘तस्साहं <pb ed="V" n="1.0151"/> धम्ममञ्‍ञाय, विहासिं सासने रतो।</p>

<p rend="gathalast">तिस्सो विज्‍जा अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति॥ (थेरगा॰ ९०१-९०३)।</p>

<p rend="bodytext">अथ नं अपरभागे सत्था जेतवनमहाविहारे विहरन्तो ‘‘मम सासने दिब्बचक्खुकानं अनुरुद्धो अग्गो’’ति अग्गट्ठाने ठपेसि।</p>

<p rend="subhead">भद्दियत्थेरवत्थु</p>

<p rend="bodytext" n="193"><hi rend="paranum">१९३</hi><hi rend="dot">.</hi> छट्ठे <hi rend="bold">उच्‍चाकुलिकान</hi>न्ति उच्‍चे कुले जातानं। <hi rend="bold">भद्दियो</hi>ति अनुरुद्धत्थेरेन सद्धिं निक्खमन्तो सक्यराजा। <hi rend="bold">काळिगोधाय पुत्तो</hi>ति काळवण्णा सा देवी, गोधाति पनस्सा नामं <pb ed="P" n="1.0193"/>। तस्मा काळिगोधाति वुच्‍चति <pb ed="M" n="1.0151"/>, तस्सा पुत्तोति अत्थो। कस्मा पनायं उच्‍चाकुलिकानं अग्गोति वुत्तो, किं ततो उच्‍चाकुलिकतरा नत्थीति? आम नत्थि। तस्स हि माता साकियानीनं अन्तरे वयेन सब्बजेट्ठिका, सोयेव च साकियकुले सम्पत्तं रज्‍जं पहाय पब्बजितो। तस्मा उच्‍चाकुलिकानं अग्गोति वुत्तो। अपिच पुब्बपत्थनानुभावेन चेस अनुपटिपाटिया पञ्‍च जातिसतानि राजकुले निब्बत्तित्वा रज्‍जं कारेसियेव। इमिनापि कारणेन उच्‍चाकुलिकानं अग्गोति वुत्तो।</p>

<p rend="bodytext">पञ्हकम्मे पनस्स अयमनुपुब्बिकथा – अयम्पि हि अतीते पदुमुत्तरबुद्धकाले महाभोगकुले निब्बत्तो वुत्तनयेनेव धम्मस्सवनत्थाय गतो। तंदिवसं सत्थारं एकं भिक्खुं उच्‍चाकुलिकानं भिक्खूनं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एकस्स बुद्धस्स सासने उच्‍चाकुलिकानं भिक्खूनं अग्गेन भवितुं वट्टती’’ति तथागतं निमन्तेत्वा सत्त दिवसानि बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा, ‘‘भन्ते, अहं इमस्स दानस्स फलेन नाञ्‍ञं सम्पत्तिं आकङ्खामि, अनागते पन एकस्स बुद्धस्स सासने उच्‍चाकुलिकानं भिक्खूनं अग्गो भवेय्य’’न्ति पत्थयित्वा पादमूले निपज्‍जि।</p>

<p rend="bodytext">सत्था अनागतं ओलोकेन्तो समिज्झनभावं दिस्वा ‘‘समिज्झिस्सति ते इदं कम्मं, इतो कप्पसतसहस्सावसाने गोतमो नाम बुद्धो उप्पज्‍जिस्सति, त्वं तस्स सासने उच्‍चाकुलिकानं <pb ed="V" n="1.0152"/> भिक्खूनं अग्गो भविस्ससी’’ति ब्याकरित्वा भत्तानुमोदनं कत्वा विहारं अगमासि। सोपि तं ब्याकरणं लभित्वा उच्‍चाकुलिकसंवत्तनिककम्मं पुच्छित्वा धम्मासनानि कारेत्वा तेसु पच्‍चत्थरणानि सन्थरापेत्वा धम्मबीजनियो धम्मकथिकवट्टं उपोसथागारे पदीपतेलदानन्ति एवं यावजीवं बहुविधं <pb ed="P" n="1.0194"/> कल्याणकम्मं कत्वा तत्थ कालकतो देवेसु च मनुस्सेसु च संसरन्तो कस्सपदसबलस्स च अम्हाकञ्‍च भगवतो अन्तरे बाराणसियं कुटुम्बियघरे निब्बत्तो।</p>

<p rend="bodytext">तेन च समयेन सम्बहुला पच्‍चेकबुद्धा गन्धमादनपब्बता आगम्म बाराणसियं गङ्गाय तीरे फासुकट्ठाने निसीदित्वा पिण्डपातं परिभुञ्‍जन्ति। सो कुटुम्बियो तेसं निबद्धमेव तस्मिं ठाने भत्तविस्सग्गकरणं ञत्वा <pb ed="M" n="1.0152"/> अट्ठ पासाणफलकानि अत्थरित्वा यावजीवं पच्‍चेकबुद्धे उपट्ठहि। अथेकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे खत्तियकुले निब्बत्ति। नामग्गहणदिवसे चस्स <hi rend="bold">भद्दियकुमारो</hi>ति नामं अकंसु। सो वयं आगम्म हेट्ठा अनुरुद्धसुत्ते वुत्तनयेनेव छन्‍नं खत्तियानं अब्भन्तरो हुत्वा सत्थरि अनुपियअम्बवने विहरन्ते सत्थु सन्तिके पब्बजित्वा अरहत्तं पापुणि। अथ सत्था अपरभागे जेतवनमहाविहारे विहरन्तो ‘‘मम सासने उच्‍चाकुलिकानं काळिगोधाय पुत्तो भद्दियत्थेरो अग्गो’’ति अग्गट्ठाने ठपेसि।</p>

<p rend="subhead">लकुण्डकभद्दियत्थेरवत्थु</p>

<p rend="bodytext" n="194"><hi rend="paranum">१९४</hi><hi rend="dot">.</hi> सत्तमे <hi rend="bold">मञ्‍जुस्सरान</hi>न्ति मधुरस्सरानं। <hi rend="bold">लकुण्डकभद्दियो</hi>ति उब्बेधेन रस्सो, नामेन भद्दियो। तस्सापि पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो वुत्तनयेनेव धम्मस्सवनत्थाय विहारं गतो। तस्मिं समये सत्थारं एकं मञ्‍जुस्सरं भिक्खुं एतदग्गे ठपेन्तं दिस्वा ‘‘अहो वताहम्पि अनागते अयं भिक्खु विय एकस्स बुद्धस्स सासने मञ्‍जुस्सरानं भिक्खूनं अग्गो भवेय्य’’न्ति चित्तं <pb ed="P" n="1.0195"/> उप्पादेत्वा सत्थारं निमन्तेत्वा सत्त दिवसानि बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा, ‘‘भन्ते, अहं इमस्स दानस्स फलेन न अञ्‍ञं सम्पत्तिं आकङ्खामि, अनागते पन एकस्स बुद्धस्स सासने मञ्‍जुस्सरानं भिक्खूनं अग्गो भवेय्य’’न्ति पत्थयित्वा सत्थुपादमूले निपज्‍जि। सत्था अनागतं ओलोकेन्तो समिज्झनभावं दिस्वा ‘‘समिज्झिस्सति ते इदं कम्मं, इतो कप्पसतसहस्सावसाने <pb ed="V" n="1.0153"/> गोतमो नाम बुद्धो उप्पज्‍जिस्सति, त्वं तस्स सासने मञ्‍जुस्सरानं भिक्खूनं अग्गो भविस्ससी’’ति ब्याकरित्वा विहारं अगमासि।</p>

<p rend="bodytext">सोपि तं ब्याकरणं लभित्वा यावजीवं कल्याणकम्मं कत्वा ततो कालकतो देवेसु च मनुस्सेसु च संसरन्तो विपस्सीसम्मासम्बुद्धकाले <hi rend="bold">चित्तपत्तकोकिलो</hi> नाम हुत्वा खेमे मिगदाये वसन्तो एकदिवसं हिमवन्तं गन्त्वा मधुरं अम्बफलं तुण्डेन गहेत्वा आगच्छन्तो भिक्खुसङ्घपरिवुतं सत्थारं दिस्वा चिन्तेसि – ‘‘अहं अञ्‍ञेसु दिवसेसु रित्तको तथागतं पस्सामि, अज्‍ज पन मे इमं अम्बपक्‍कं पुत्तकानं <pb ed="M" n="1.0153"/> अत्थाय आगतं। तेसं अञ्‍ञम्पि आहरित्वा दस्सामि, इमं पन दसबलस्स दातुं वट्टती’’ति ओतरित्वा आकासे चरति। सत्था तस्स चित्तं ञत्वा असोकत्थेरं नाम उपट्ठाकं ओलोकेसि। सो पत्तं नीहरित्वा सत्थु हत्थे ठपेसि। सो कोकिलो दसबलस्स पत्ते अम्बपक्‍कं पतिट्ठापेसि। सत्था तत्थेव निसीदित्वा तं परिभुञ्‍जि। कोकिलो पसन्‍नचित्तो पुनप्पुनं दसबलस्स गुणे आवज्‍जेत्वा दसबलं वन्दित्वा अत्तनो कुलावकं गन्त्वा सत्ताहं पीतिसुखेन वीतिनामेसि। एत्तकं तस्मिं अत्तभावे कल्याणकम्मं, इमिनास्स कम्मेन सरो मधुरो अहोसि।</p>

<p rend="bodytext">कस्सपसम्मासम्बुद्धकाले पन चेतिये आरद्धे ‘‘किंपमाणं करोम? सत्तयोजनप्पमाणं। अतिमहन्तं एतं, छयोजनं <pb ed="P" n="1.0196"/> करोम। इदम्पि अतिमहन्तं, पञ्‍चयोजनं करोम, चतुयोजनं, तियोजनं, द्वियोजन’’न्ति वुत्ते अयं तदा जेट्ठवड्ढकी हुत्वा ‘‘एथ, भो, अनागते सुखपटिजग्गियं कातुं वट्टती’’ति वत्वा रज्‍जुं आदाय परिक्खिपन्तो गावुतमत्तके ठत्वा ‘‘एकेकं मुखं गावुतं गावुतं होतु, चेतियं योजनावट्टं योजनुब्बेधं भविस्सती’’ति आह। ते तस्स वचने अट्ठंसु। इति अप्पमाणस्स बुद्धस्स पमाणं अकासीति। तेन कम्मेन निब्बत्तनिब्बत्तट्ठाने अञ्‍ञेहि हीनतरप्पमाणो अहोसि। सो अम्हाकं सत्थु काले सावत्थियं महाभोगकुले निब्बत्ति। ‘‘भद्दियो’’तिस्स नामं अकंसु। सो वयप्पत्तो सत्थरि जेतवनमहाविहारे पटिवसन्ते विहारं गन्त्वा धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा सत्थु सन्तिके कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पापुणि। अथ नं सत्था अपरभागे अरियवरगणमज्झे निसिन्‍नो मञ्‍जुस्सरानं भिक्खूनं अग्गट्ठाने ठपेसि।</p>

<p rend="subhead">पिण्डोलभारद्वाजत्थेरवत्थु</p>

<p rend="bodytext" n="195"><hi rend="paranum">१९५</hi><hi rend="dot">.</hi> अट्ठमे <pb ed="V" n="1.0154"/> <hi rend="bold">सीहनादिकान</hi>न्ति सीहनादं नदन्तानं। <hi rend="bold">पिण्डोलभारद्वाजो</hi>ति सो किर अरहत्तं पत्तदिवसे अवापुरणं आदाय विहारेन विहारं परिवेणेन परिवेणं गन्त्वा ‘‘यस्स मग्गे वा फले वा कङ्खा अत्थि, सो मं पुच्छतू’’ति सीहनादं नदन्तो विचरि। बुद्धानम्पि पुरतो ठत्वा ‘‘इमस्मिं <pb ed="M" n="1.0154"/>, भन्ते, सासने कतब्बकिच्‍चं मय्हं मत्थकं पत्त’’न्ति सीहनादं नदि। तस्मा सीहनादिकानं अग्गो नाम जातो।</p>

<p rend="bodytext">पञ्हकम्मे पनस्स अयमनुपुब्बिकथा – अयं <pb ed="P" n="1.0197"/> किर पदुमुत्तरबुद्धकाले पब्बतपादे सीहयोनियं निब्बत्तो। सत्था पच्‍चूससमये लोकं वोलोकेन्तो तस्स हेतुसम्पत्तिं दिस्वा हंसवतियं पिण्डाय चरित्वा पच्छाभत्तं सीहे गोचराय पक्‍कन्ते तस्स वसनगुहं पविसित्वा आकासे पल्‍लङ्कं आभुजित्वा निरोधं समापज्‍जित्वा निसीदि। सीहो गोचरं लभित्वा निवत्तो गुहाद्वारे ठितो अन्तोगुहायं दसबलं निसिन्‍नं दिस्वा ‘‘मम वसनट्ठानं आगन्त्वा अञ्‍ञो सत्तो निसीदितुं समत्थो नाम नत्थि, महन्तो वतायं पुरिसो, यो अन्तोगुहायं पल्‍लङ्कं आभुजित्वा निसिन्‍नो। सरीरप्पभापिस्स समन्ता फरित्वा गता, मया एवरूपं अच्छरियं नदिट्ठपुब्बं। अयं पुरिसो इमस्मिं लोके पूजनेय्यानं अग्गो भविस्सति, मयापिस्स यथासत्ति यथाबलं सक्‍कारं कातुं वट्टती’’ति जलजथलजानि नानाकुसुमानि आहरित्वा भूमितो याव निसिन्‍नपल्‍लङ्कट्ठाना पुप्फासनं सन्थरित्वा सब्बरत्तिं सम्मुखट्ठाने तथागतं नमस्समानो अट्ठासि। पुनदिवसे पुराणपुप्फानि अपनेत्वा नवपुप्फेहि आसनं सन्थरि।</p>

<p rend="bodytext">एतेनेव नियामेन सत्त दिवसानि पुप्फासनं पञ्‍ञापेत्वा बलवपीतिसोमनस्सं निब्बत्तेत्वा गुहाद्वारे आरक्खं गण्हि। सत्तमे दिवसे सत्था निरोधतो वुट्ठाय गुहाद्वारे अट्ठासि। सीहोपि मिगराजा तथागतं तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा पटिक्‍कमित्वा अट्ठासि। सत्था ‘‘वट्टिस्सति एत्तको उपनिस्सयो एतस्सा’’ति वेहासं अब्भुग्गन्त्वा विहारमेव गतो।</p>

<p rend="bodytext">सोपि सीहो बुद्धवियोगेन दुक्खितो कालं कत्वा हंसवतीनगरे महासालकुले पटिसन्धिं गण्हित्वा वयप्पत्तो एकदिवसं नगरवासीहि सद्धिं विहारं गन्त्वा धम्मदेसनं सुणन्तो सत्थारं <pb ed="P" n="1.0198"/> एकं <pb ed="V" n="1.0155"/> भिक्खुं सीहनादिकानं अग्गट्ठाने ठपेन्तं दिस्वा वुत्तनयेनेव सत्ताहं महादानं पवत्तेत्वा तं ठानन्तरं पत्थेत्वा सत्थारा समिज्झनभावं दिस्वा ब्याकतो यावजीवं कुसलं कत्वा तत्थ कालकतो देवेसु च मनुस्सेसु <pb ed="M" n="1.0155"/> च संसरन्तो इमस्मिं बुद्धुप्पादे राजगहनगरे ब्राह्मणमहासालकुले निब्बत्ति। नामेन भारद्वाजो नाम अहोसि। सो वयप्पत्तो तयो वेदे उग्गहेत्वा पञ्‍च माणवसतानि मन्ते वाचेन्तो विचरति। सो अत्तनो जेट्ठकभावेन निमन्तनट्ठानेसु सब्बेसं भिक्खं सयमेव सम्पटिच्छि। एसो किर ईसकं लोलधातुको अहोसि। सो तेहि माणवेहि सद्धिं ‘‘कुहिं यागु कुहिं भत्त’’न्ति यागुभत्तखज्‍जकानेव परियेसमानो चरति। सो गतगतट्ठाने पिण्डमेव पटिमानेन्तो चरतीति <hi rend="bold">पिण्डोलभारद्वाजो</hi>तेव पञ्‍ञायि।</p>

<p rend="bodytext">सो एकदिवसं सत्थरि राजगहमनुप्पत्ते धम्मकथं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पापुणि। अरहत्तं पत्तवेलायमेव अवापुरणं आदाय विहारेन विहारं परिवेणेन परिवेणं गन्त्वा ‘‘यस्स मग्गे वा फले वा कङ्खा अत्थि, सो मं पुच्छतू’’ति सीहनादं नदन्तो विचरि। सो एकदिवसं राजगहसेट्ठिना वेळुपरम्पराय उस्सापेत्वा आकासे लग्गितं जयसुमनवण्णं चन्दनसारपत्तं इद्धिया आदाय साधुकारं ददन्तेन महाजनेन परिवुतो विहारं आगन्त्वा तथागतस्स हत्थे ठपेसि। सत्था जानन्तोव पटिपुच्छि – ‘‘कुतो ते, भारद्वाज, अयं पत्तो लद्धो’’ति? सो लद्धकारणं कथेसि। सत्था ‘‘त्वं एवरूपं उत्तरिमनुस्सधम्मं महाजनस्स दस्सेसि, अकत्तब्बं तया कत’’न्ति अनेकपरियायेन विगरहित्वा ‘‘न, भिक्खवे, गिहीनं उत्तरिमनुस्सधम्मं <pb ed="P" n="1.0199"/> इद्धिपाटिहारियं दस्सेतब्बं, यो दस्सेय्य, आपत्ति दुक्‍कटस्सा’’ति (चूळव॰ २५२) सिक्खापदं पञ्‍ञापेसि।</p>

<p rend="bodytext">अथ भिक्खुसङ्घमज्झे कथा उदपादि – ‘‘सीहनादियत्थेरो अरहत्तं पत्तदिवसे भिक्खुसङ्घमज्झे ‘यस्स मग्गे वा फले वा कङ्खा अत्थि, सो मं पुच्छतू’ति कथेसि। बुद्धानम्पि सम्मुखे अत्तनो अरहत्तप्पत्तिं कथेसि, अञ्‍ञे सावका तुण्ही अहेसुं। अत्तनो सीहनादियभावेनेव महाजनस्स पसादं जनेत्वा वेहासं अब्भुग्गन्त्वा चन्दनसारपत्तञ्‍च गण्ही’’ति। ते भिक्खू इमे तयोपि गुणे एकतो कत्वा सत्थु कथयिंसु। बुद्धा च नाम गरहितब्बयुत्तकं गरहन्ति, पसंसितब्बयुत्तकं पसंसन्तीति इमस्मिं ठाने थेरस्स पसंसितब्बयुत्तमेव अङ्गं गहेत्वा ‘‘तिण्णं खो पन, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता <pb ed="M" n="1.0156"/> भारद्वाजो भिक्खु अञ्‍ञं ब्याकासि – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं <pb ed="V" n="1.0156"/>, नापरं इत्थत्तायाति पजानामी’ति। कतमेसं तिण्णं? सतिन्द्रियस्स, समाधिन्द्रियस्स, पञ्‍ञिन्द्रियस्स। इमेसं खो, भिक्खवे, तिण्णं इन्द्रियानं भावितत्ता बहुलीकतत्ता भारद्वाजो भिक्खु अञ्‍ञं ब्याकासि – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’’’ति (सं॰ नि॰ ५.५१९) थेरं पसंसित्वा सीहनादिकानं भिक्खूनं अग्गट्ठाने ठपेसि।</p>

<p rend="subhead">मन्ताणिपुत्तपुण्णत्थेरवत्थु</p>

<p rend="bodytext" n="196"><hi rend="paranum">१९६</hi><hi rend="dot">.</hi> नवमे <hi rend="bold">पुण्णो मन्ताणिपुत्तो</hi>ति नामेन पुण्णो, मन्ताणिब्राह्मणिया पन सो पुत्तोति मन्ताणिपुत्तो। तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर पदुमुत्तरदसबलस्स उप्पत्तितो पुरेतरमेव हंसवतीनगरे ब्राह्मणमहासालकुले निब्बत्ति। तस्स नामग्गहणदिवसे गोतमोति नामं अकंसु। सो वयप्पत्तो तयो वेदे उग्गण्हित्वा सब्बसिप्पेसु कोविदो हुत्वा पञ्‍चमाणवकसतपरिवारो <pb ed="P" n="1.0200"/> विचरन्तो तयोपि वेदे ओलोकेत्वा मोक्खधम्मं अदिस्वा ‘‘इदं वेदत्तयं नाम कदलिक्खन्धो विय बहि मट्ठं अन्तो निस्सारं, इमं गहेत्वा विचरणं थुसकोट्टनसदिसं होति। किं मे इमिना’’ति इसिपब्बज्‍जं पब्बजित्वा ब्रह्मविहारे निब्बत्तेत्वा ‘‘अपरिहीनज्झानो ब्रह्मलोकोकूपपन्‍नो भविस्सामी’’ति पञ्‍चहि माणवकसतेहि सद्धिं पब्बतपादं गन्त्वा इसिपब्बज्‍जं पब्बजि। तस्स परिवारानि अट्ठारस्स जटिलसहस्सानि अहेसुं। सो पञ्‍च अभिञ्‍ञा अट्ठ समापत्तियो निब्बत्तेत्वा तेसम्पि कसिणपरिकम्मं आचिक्खि। ते तस्स ओवादे ठत्वा सब्बेपि पञ्‍च अभिञ्‍ञा अट्ठ समापत्तियो निब्बत्तेसुं।</p>

<p rend="bodytext">अद्धाने अतिक्‍कन्ते तस्स गोतमतापसस्स महल्‍लककाले पदुमुत्तरदसबलो पठमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्‍को भिक्खुसतसहस्सपरिवारो हंसवतीनगरं उपनिस्साय विहासि। सो एकदिवसं पच्‍चूससमये लोकं ओलोकेन्तो गोतमतापसस्स परिसाय <pb ed="M" n="1.0157"/> अरहत्तूपनिस्सयं गोतमतापसस्स च ‘‘अहं अनागते उप्पज्‍जमानकबुद्धस्स सासने धम्मकथिकभिक्खूनं अग्गो भवेय्य’’न्ति पत्थनभावञ्‍च दिस्वा पातोव सरीरपटिजग्गनं कत्वा अत्तनो पत्तचीवरं सयमेव गहेत्वा अञ्‍ञातकवेसेन गोतमतापसस्स अन्तेवासिकेसु वनमूलफलाफलत्थाय गतेसु गन्त्वा गोतमस्स पण्णसालाद्वारे अट्ठासि। गोतमो बुद्धानं उप्पन्‍नभावं अजानन्तोपि दूरतोव दसबलं दिस्वा ‘‘अयं पुरिसो लोकतो मुत्तो हुत्वा पञ्‍ञायति, यथा अस्स <pb ed="V" n="1.0157"/> सरीरनिप्फत्ति येहि च लक्खणेहि समन्‍नागतो अगारमज्झे वा तिट्ठन्तो चक्‍कवत्ती राजा होति, पब्बजन्तो वा विवट्टच्छदो सब्बञ्‍ञुबुद्धो होती’’ति ञत्वा पठमदस्सनेनेव दसबलं अभिवादेत्वा ‘‘इतो एथ भगवा’’ति बुद्धासनं पञ्‍ञापेत्वा अदासि। तथागतो तापसस्स धम्मं देसयमानो निसीदि।</p>

<p rend="bodytext">तस्मिं <pb ed="P" n="1.0201"/> समये ते जटिला ‘‘पणीतपणीतं वनमूलफलाफलं आचरियस्स दत्वा सेसकं परिभुञ्‍जिस्सामा’’ति आगच्छन्ता दसबलं उच्‍चासने, आचरियं पन नीचासने निसिन्‍नं दिस्वा ‘‘पस्सथ, मयं ‘इमस्मिं लोके अम्हाकं आचरियेन उत्तरितरो नत्थी’ति विचराम। इदानि पन नो आचरियं नीचासने निसीदापेत्वा उच्‍चासने निसिन्‍नको एको पञ्‍ञायति, महन्तो वतायं पुरिसो भविस्सती’’ति पिटकानि गहेत्वा आगच्छन्ति। गोतमतापसो ‘‘इमे मं दसबलस्स सन्तिके वन्देय्यु’’न्ति भीतो दूरतो आह – ‘‘ताता, मा मं वन्दित्थ, सदेवके लोके अग्गपुग्गलो सब्बेसं वन्दनारहो पुरिसो इध निसिन्‍नो, एतं वन्दथा’’ति। तापसा ‘‘न अजानित्वा आचरियो कथेस्सती’’ति सब्बेव तथागतस्स पादे वन्दिंसु। ‘‘ताता, अम्हाकं अञ्‍ञं दसबलस्स दातब्बयुत्तकं भोजनं नत्थि, इमं वनमूलफलाफलं दस्सामा’’ति पणीतपणीतं बुद्धानं पत्ते पतिट्ठापेसि। सत्था वनमूलफलाफलं परिभुञ्‍जि। तदनन्तरं तापसोपि सद्धिं अन्तेवासिकेहि परिभुञ्‍जि। सत्था भत्तकिच्‍चं कत्वा ‘‘द्वे अग्गसावका भिक्खुसतसहस्सं गहेत्वा आगच्छन्तू’’ति चिन्तेसि। तस्मिं खणे अग्गसावको महादेवलत्थेरो ‘‘कहं नु खो सत्था <pb ed="M" n="1.0158"/> गतो’’ति आवज्‍जेन्तो ‘‘सत्था अम्हाकं आगमनं पच्‍चासीसती’’ति भिक्खुसतसहस्सं गहेत्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा नमस्समानो अट्ठासि।</p>

<p rend="bodytext">गोतमो अन्तेवासिके आह – ‘‘ताता, अम्हाकं अञ्‍ञो सक्‍कारो नत्थि, भिक्खुसङ्घो दुक्खेन ठितो। बुद्धप्पमुखस्स भिक्खुसङ्घस्स पुप्फासनं पञ्‍ञापेस्साम, जलजथलजपुप्फानि आहरथा’’ति। ते तावदेव पब्बतपादतो वण्णगन्धसम्पन्‍नानि पुप्फानि इद्धिया आहरित्वा सारिपुत्तत्थेरस्स वत्थुम्हि वुत्तनयेनेव आसनानि पञ्‍ञापयिंसु। निरोधसमापत्तिसमापज्‍जनम्पि छत्तधारणम्पि सब्बं वुत्तनयेनेव वेदितब्बं।</p>

<p rend="bodytext">सत्था सत्तमे दिवसे निरोधतो <pb ed="P" n="1.0202"/> वुट्ठाय परिवारेत्वा ठिते तापसे दिस्वा धम्मकथिकभावे एतदग्गप्पत्तं सावकं आमन्तेसि – ‘‘इमिना भिक्खु इसिगणेन महासक्‍कारो कतो, एतेसं पुप्फासनानुमोदनं <pb ed="V" n="1.0158"/> करोही’’ति। सो सत्थु वचनं सम्पटिच्छित्वा तीणि पिटकानि सम्मसित्वा अनुमोदनं अकासि। तस्स देसनापरियोसाने सत्था सयं ब्रह्मघोसं निच्छारेत्वा धम्मं देसेसि। देसनापरियोसाने ठपेत्वा गोतमतापसं सेसा अट्ठारस सहस्सजटिला अरहत्तं पापुणिंसु।</p>

<p rend="bodytext">गोतमो पन तेनत्तभावेन पटिवेधं कातुं असक्‍कोन्तो भगवन्तं आह – ‘‘भगवा येन भिक्खुना पठमं धम्मो देसितो, को नाम अयं तुम्हाकं सासने’’ति? अयं गोतम मय्हं सासने धम्मकथिकानं अग्गोति। ‘‘अहम्पि, भन्ते, इमस्स सत्त दिवसानि कतस्स अधिकारस्स फलेन अयं भिक्खु विय अनागते एकस्स बुद्धस्स सासने धम्मकथिकानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा पादमूले निपज्‍जि।</p>

<p rend="bodytext">सत्था अनागतं ओलोकेत्वा अनन्तरायेनस्स पत्थनाय समिज्झनभावं ञत्वा ‘‘अनागते कप्पसतसहस्सावसाने गोतमो नाम बुद्धो उप्पज्‍जिस्सति, त्वं तस्स सासने धम्मकथिकानं अग्गो भविस्ससी’’ति ब्याकरित्वा ते अरहत्तप्पत्ते तापसे ‘‘एथ भिक्खवो’’ति आह। सब्बे अन्तरहितकेसमस्सू इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरसदिसा <pb ed="M" n="1.0159"/> अहेसुं। सत्था भिक्खुसङ्घमादाय विहारं गतो।</p>

<p rend="bodytext">गोतमोपि यावजीवं तथागतं परिचरित्वा यथाबलं कल्याणकम्मं कत्वा कप्पसतसहस्सं देवेसु च मनुस्सेसु च संसरित्वा अम्हाकं भगवतो काले कपिलवत्थुनगरस्स अविदूरे दोणवत्थुब्राह्मणगामे ब्राह्मणमहासालकुले निब्बत्ति। तस्स नामग्गहणदिवसे पुण्णमाणवोति नामं अकंसु। सत्थरि अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्‍के अनुपुब्बेन आगन्त्वा राजगहं उपनिस्साय विहरन्ते अञ्‍ञासिकोण्डञ्‍ञत्थेरो कपिलवत्थुं गन्त्वा अत्तनो भागिनेय्यं पुण्णमाणवं पब्बाजेत्वा पुनदिवसे दसबलस्स <pb ed="P" n="1.0203"/> सन्तिकं आगन्त्वा भगवन्तं वन्दित्वा आपुच्छित्वा निवासत्थाय छद्दन्तदहं गतो। पुण्णोपि मन्ताणिपुत्तो मातुलेन अञ्‍ञासिकोण्डञ्‍ञत्थेरेन सद्धिं दसबलस्स सन्तिकं अगन्त्वा ‘‘मय्हं पब्बजितकिच्‍चं मत्थकं पापेत्वाव दसबलस्स सन्तिकं गमिस्सामी’’ति कपिलवत्थुस्मिंयेव ओहीनो योनिसोमनसिकारे कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तस्स सन्तिके पब्बजितकुलपुत्तापि पञ्‍चसता अहेसुं। थेरो सयं दसकथावत्थुलाभिताय तेपि दसहि कथावत्थूहि ओवदति। ते तस्स ओवादे ठत्वा सब्बेव अरहत्तं पत्ता।</p>

<p rend="bodytext">ते <pb ed="V" n="1.0159"/> अत्तनो पब्बजितकिच्‍चं मत्थकं पत्तं ञत्वा उपज्झायं उपसङ्कमित्वा आहंसु – ‘‘भन्ते, अम्हाकं किच्‍चं मत्थकं पत्तं, दसन्‍नञ्‍च महाकथावत्थूनं लाभिनो, समयो नो दसबलं पस्सितु’’न्ति। थेरो तेसं कथं सुत्वा चिन्तेसि – ‘‘मम दसकथावत्थुलाभितं सत्था जानाति, अहं धम्मं देसेन्तो दस कथावत्थूनि अमुञ्‍चन्तोव देसेमि। मयि गच्छन्ते सब्बेपिमे भिक्खू परिवारेत्वा गच्छिस्सन्ति, एवं गणसङ्गणिकाय गन्त्वा पन अयुत्तं मय्हं दसबलं पस्सितुं, इमे ताव गन्त्वा पस्सन्तू’’ति ते भिक्खू आह – ‘‘आवुसो, तुम्हे पुरतो गन्त्वा तथागतं पस्सथ, मम वचनेन दसबलस्स पादे वन्दथ, अहम्पि तुम्हाकं गतमग्गेन गमिस्सामी’’ति।</p>

<p rend="bodytext">ते थेरा सब्बेपि दसबलस्स जातिभूमिरट्ठवासिनो सब्बे खीणासवा सब्बे दसकथावत्थुलाभिनो अत्तनो उपज्झायस्स ओवादं अभिन्दित्वा अनुपुब्बेन <pb ed="M" n="1.0160"/> चारिकं चरन्ता सट्ठियोजनमग्गं अतिक्‍कम्म राजगहे वेळुवनमहाविहारं गन्त्वा दसबलस्स पादे वन्दित्वा एकमन्तं निसीदिंसु। आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुन्ति <pb ed="P" n="1.0204"/> भगवा तेहि सद्धिं ‘‘कच्‍चि, भिक्खवे, खमनीय’’न्तिआदिना नयेन मधुरपटिसन्थारं कत्वा ‘‘कुतो च तुम्हे, भिक्खवे, आगच्छथा’’ति पुच्छि। तेहि ‘‘जातिभूमितो’’ति वुत्ते ‘‘को नु खो, भिक्खवे, जातिभूमियं जातिभूमकानं भिक्खूनं सब्रह्मचारीहि एवं सम्भावितो अत्तना च अप्पिच्छो अप्पिच्छकथञ्‍च भिक्खूनं कत्ता’’ति दसकथावत्थुलाभिं भिक्खुं पुच्छि। तेपि ‘‘पुण्णो नाम, भन्ते, आयस्मा मन्ताणिपुत्तो’’ति आरोचयिंसु। तं कथं सुत्वा आयस्मा सारिपुत्तो थेरस्स दस्सनकामो अहोसि।</p>

<p rend="bodytext">अथ सत्था राजगहतो सावत्थिं अगमासि। पुण्णत्थेरो दसबलस्स तत्थ आगतभावं सुत्वा ‘‘सत्थारं पस्सिस्सामी’’ति गन्त्वा अन्तोगन्धकुटियंयेव तथागतं सम्पापुणि। सत्था तस्स धम्मं देसेसि। थेरो धम्मं सुत्वा दसबलं वन्दित्वा पटिसल्‍लानत्थाय अन्धवनं गन्त्वा अञ्‍ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। सारिपुत्तत्थेरोपि तस्स गमनं सुत्वा सीसानुलोकिको गन्त्वा ओकासं सल्‍लक्खेत्वा तं रुक्खमूलं उपसङ्कमित्वा थेरेन सद्धिं सम्मोदित्वा सत्तविसुद्धिक्‍कमं पुच्छि। थेरोपिस्स पुच्छितं पुच्छितं ब्याकासि। ते अञ्‍ञमञ्‍ञस्स सुभासितं समनुमोदिंसु। अथ सत्था अपरभागे भिक्खुसङ्घमज्झे निसिन्‍नो थेरं धम्मकथिकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">महाकच्‍चानत्थेरवत्थु</p>

<p rend="bodytext" n="197"><hi rend="paranum">१९७</hi><hi rend="dot">.</hi> दसमे <pb ed="V" n="1.0160"/> <hi rend="bold">संखित्तेन भासितस्सा</hi>ति संखित्तेन कथितधम्मस्स। <hi rend="bold">वित्थारेन अत्थं विभजन्तान</hi>न्ति तं देसनं वित्थारेत्वा अत्थं विभजमानानं। अञ्‍ञे किर तथागतस्स सङ्खेपवचनं अत्थवसेन वा पूरेतुं <pb ed="P" n="1.0205"/> सक्‍कोन्ति ब्यञ्‍जनवसेन वा, अयं पन थेरो उभयवसेनपि सक्‍कोति। तस्मा अग्गोति वुत्तो। पुब्बपत्थनापि चस्स एवरूपाव।</p>

<p rend="bodytext">अयं <pb ed="M" n="1.0161"/> पनस्स पञ्हकम्मे अनुपुब्बिकथा – अयं किर पदुमुत्तरसम्मासम्बुद्धकाले गहपतिमहासालकुले निब्बत्तित्वा वुद्धिप्पत्तो एकदिवसं वुत्तनयेनेव विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं अत्तना संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपेन्तं एकं भिक्खुं दिस्वा ‘‘महन्तो वतायं भिक्खु, यं सत्था एवं वण्णेति, मयापि अनागते एकस्स बुद्धस्स सासने एवरूपेन भवितुं वट्टती’’ति सत्थारं निमन्तेत्वा वुत्तनयेनेव सत्ताहं महादानं दत्वा, ‘‘भन्ते, अहं इमस्स सक्‍कारस्स फलेन न अञ्‍ञं सम्पत्तिं पत्थेमि, अनागते पन एकस्स बुद्धस्स सासने इतो सत्तदिवसमत्थके तुम्हेहि ठानन्तरे ठपितभिक्खु विय अहम्पि तं ठानन्तरं लभेय्य’’न्ति पत्थनं कत्वा पादमूले निपज्‍जि। सत्था अनागतं ओलोकेन्तो ‘‘समिज्झिस्सति इमस्स कुलपुत्तस्स पत्थना’’ति दिस्वा ‘‘अम्भो, कुलपुत्त, अनागते कप्पसतसहस्सावसाने गोतमो नाम बुद्धो उप्पज्‍जिस्सति, त्वं तस्स सासने संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गो भविस्ससी’’ति ब्याकरित्वा अनुमोदनं कत्वा पक्‍कामि।</p>

<p rend="bodytext">सोपि कुलपुत्तो यावजीवं कुसलं कत्वा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा कस्सपबुद्धकाले बाराणसियं कुलगेहे पटिसन्धिं गहेत्वा सत्थरि परिनिब्बुते सुवण्णचेतियकरणट्ठानं गन्त्वा सतसहस्सग्घनिकाय सुवण्णिट्ठकाय पूजं कत्वा ‘‘भगवा मय्हं निब्बत्तनिब्बत्तट्ठाने सरीरं सुवण्णवण्णं होतू’’ति पत्थनं अकासि। ततो यावजीवं कुसलकम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु <pb ed="P" n="1.0206"/> संसरित्वा अम्हाकं दसबलस्स उप्पत्तिकाले उज्‍जेनिनगरे पुरोहितस्स गेहे निब्बत्ति। तस्स नामग्गहणदिवसे ‘‘मय्हं पुत्तो सुवण्णवण्णसरीरो अत्तनाव अत्तनो नामं गहेत्वा आगतो’’ति कञ्‍चनमाणवोतेवस्स नामं अकंसु <pb ed="V" n="1.0161"/>। सो वुद्धिमन्वाय तयो वेदे उग्गण्हित्वा पितु अच्‍चयेन पुरोहितट्ठानं लभि। सो गोत्तवसेन कच्‍चानो नाम जातो।</p>

<p rend="bodytext">चण्डपज्‍जोतराजा अमच्‍चे सन्‍निपातेत्वा आह – ‘‘बुद्धो लोके निब्बत्तो, तं आनेतुं समत्था गन्त्वा आनेथ ताता’’ति। देव, अञ्‍ञो दसबलं आनेतुं समत्थो नाम नत्थि, आचरियो कच्‍चानब्राह्मणोव <pb ed="M" n="1.0162"/> समत्थो, तं पहिणथाति। राजा तं पक्‍कोसापेत्वा, ‘‘तात, दसबलस्स सन्तिकं गच्छाही’’ति आह। गन्त्वा पब्बजितुं लभन्तो गमिस्सामि, महाराजाति। यंकिञ्‍चि कत्वा तथागतं आनेहि, ताताति। सो ‘‘बुद्धानं सन्तिकं गच्छन्तस्स महापरिसाय कम्मं नत्थी’’ति अत्तट्ठमो अगमासि। अथस्स सत्था धम्मं देसेसि। देसनापरियोसाने सद्धिं सत्तहि जनेहि सह पटिसम्भिदाहि अरहत्तं पापुणि। सत्था ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि। तंखणंयेव सब्बेव अन्तरहितकेसमस्सू इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय जाता।</p>

<p rend="bodytext">थेरो अत्तनो किच्‍चे मत्थकं पत्ते तुण्हीभावेन अनिसीदित्वा काळुदायित्थेरो विय सत्थु उज्‍जेनिगमनत्थाय गमनवण्णं कथेसि। सत्था तस्स वचनं सुत्वा ‘‘कच्‍चानो अत्तनो जातिभूमियं मम गमनं पच्‍चासीसती’’ति अञ्‍ञासि। बुद्धा च नाम एकं कारणं पटिच्‍च गन्तुं अयुत्तट्ठानं न गच्छन्ति। तस्मा थेरं आह – ‘‘त्वंयेव भिक्खु गच्छ, तयि गतेपि राजा पसीदिस्सती’’ति। थेरो ‘‘बुद्धानं द्वे कथा नाम नत्थी’’ति तथागतं वन्दित्वा अत्तना सद्धिं आगतेहि सत्तहि भिक्खूहि सद्धिं उज्‍जेनिं <pb ed="P" n="1.0207"/> गच्छन्तो अन्तरामग्गे तेलपनाळि नाम निगमो, तत्थ पिण्डाय चरि। तस्मिं च निगमे द्वे सेट्ठिधीतरो। तासु एका परिजिण्णकुले निब्बत्ता दुग्गता मातापितूनं अच्‍चयेन धातिं निस्साय जीवति। अत्तभावो पनस्सा समिद्धो, केसा अञ्‍ञाहि अतिविय दीघा। तस्मिंयेव निगमे अञ्‍ञा इस्सरसेट्ठिकुलस्स धीता निक्‍केसिका। सा ततो पुब्बे तस्सा समीपं पेसेत्वा ‘‘सतं वा सहस्सं वा दस्सामी’’ति वत्वापि केसे आहरापेतुं नासक्खि।</p>

<p rend="bodytext">तस्मिं पन दिवसे सा सेट्ठिधीता महाकच्‍चानत्थेरं सत्तहि भिक्खूहि परिवुतं तुच्छपत्तं आगच्छन्तं दिस्वा ‘‘अयं सुवण्णवण्णो एको ब्रह्मबन्धुभिक्खु यथाधोतेनेव पत्तेन आगच्छति, मय्हञ्‍च अञ्‍ञं धनं नत्थि। असुकसेट्ठिधीता पन इमेसं केसानं अत्थाय पेसेसि। इदानि इतो <pb ed="V" n="1.0162"/> लद्धउप्पादेन सक्‍का थेरस्स देय्यधम्मं दातु’’न्ति धातिं पेसेत्वा थेरे निमन्तेत्वा अन्तोगेहे निसीदापेसि। थेरानं निसिन्‍नकाले गब्भं पविसित्वा धातिया अत्तनो केसे कप्पापेत्वा, ‘‘अम्म <pb ed="M" n="1.0163"/>, इमे केसे असुकाय नाम सेट्ठिधीताय दत्वा यं सा देति, तं आहर, अय्यानं पिण्डपातं दस्सामा’’ति। धाति पिट्ठिहत्थेन अस्सूनि पुञ्छित्वा एकेन हत्थेन हदयमंसं सन्धारेत्वा थेरानं सन्तिके पटिच्छादेत्वा ते केसे आदाय तस्सा सेट्ठिधीताय सन्तिकं गता।</p>

<p rend="bodytext">पणियं नाम सारवन्तम्पि सयं उपनीतं गारवं न जनेति, तस्मा सा सेट्ठिधीता चिन्तेसि – ‘‘अहं पुब्बे बहुनापि धनेन इमे केसे आहरापेतुं नासक्खिं, इदानि पन छिन्‍नकालतो पट्ठाय न यथामूलमेव लभिस्सती’’ति <pb ed="P" n="1.0208"/>। धातिं आह – ‘‘अहं पुब्बे तव सामिनिं बहुनापि धनेन केसे आहरापेतुं नासक्खिं, यत्थ कत्थचि विनिपाता पन निज्‍जीवकेसा नाम अट्ठ कहापणे अग्घन्ती’’ति अट्ठेव कहापणे अदासि। धाति कहापणे आहरित्वा सेट्ठिधीताय अदासि। सेट्ठिधीता एकेकं पिण्डपातं एकेककहापणग्घनकं कत्वा थेरानं दापेसि। थेरो आवज्‍जित्वा सेट्ठिधीताय उपनिस्सयं दिस्वा ‘‘कहं सेट्ठिधीता’’ति पुच्छि। गब्भे, अय्याति। पक्‍कोसथ नन्ति। सा च थेरेसु गारवेन एकवचनेनेव आगन्त्वा थेरे वन्दित्वा बलवसद्धं उप्पादेसि। सुखेत्ते पतिट्ठितपिण्डपातो दिट्ठेव धम्मे विपाकं देतीति सह थेरानं वन्दनेन केसा पकतिभावेयेव अट्ठंसु। थेरापि तं पिण्डपातं गहेत्वा पस्सन्तियायेव सेट्ठिधीताय वेहासं अब्भुग्गन्त्वा कञ्‍चनवनुय्याने ओतरिंसु।</p>

<p rend="bodytext">उय्यानपालो थेरं दिस्वा रञ्‍ञो सन्तिकं गन्त्वा ‘‘देव, मे अय्यो पुरोहितो कच्‍चानो पब्बजित्वा उय्यानमागतो’’ति आह। राजा चण्डपज्‍जोतो उय्यानं गन्त्वा कतभत्तकिच्‍चं थेरं पञ्‍चपतिट्ठितेन वन्दित्वा एकमन्तं निसिन्‍नो ‘‘कहं, भन्ते, भगवा’’ति पुच्छि। सत्था सयं अनागन्त्वा मं पेसेसि महाराजाति। कहं, भन्ते, अज्‍ज भिक्खं अलत्थाति? थेरो रञ्‍ञो पुच्छासभागेन सब्बं सेट्ठिधीताय कतं दुक्‍करं आरोचेसि। राजा थेरस्स वसनट्ठानं पटियादेत्वा थेरं निमन्तेत्वा निवेसनं गन्त्वा सेट्ठिधीतरं आणापेत्वा अग्गमहेसिट्ठाने ठपेसि। इमिस्सा इत्थिया दिट्ठधम्मिकोव यसपटिलाभो अहोसि।</p>

<p rend="bodytext">ततो <pb ed="M" n="1.0164"/> <pb ed="P" n="1.0209"/> पट्ठाय राजा थेरस्स महासक्‍कारं करोति। थेरस्स धम्मकथाय पसीदित्वा महाजनो थेरस्स सन्तिके पब्बजि। ततो पट्ठाय सकलनगरं एककासावपज्‍जोतं इसिवातपटिवातं <pb ed="V" n="1.0163"/> अहोसि। सापि देवी गब्भं लभित्वा दसमासच्‍चयेन पुत्तं विजायि। तस्स नामग्गहणदिवसे गोपालकुमारोति मातामहसेट्ठिनो नामं अकंसु। सा पुत्तस्स नामवसेन गोपालमाता नाम देवी जाता। सा देवी थेरे अतिविय पसीदित्वा राजानं सम्पटिच्छापेत्वा कञ्‍चनवनुय्याने थेरस्स विहारं कारेसि। थेरो उज्‍जेनिनगरं पसादेत्वा पुन सत्थु सन्तिकं गतो। अथ सत्था अपरभागे जेतवने विहरन्तो मधुपिण्डिकसुत्तं (म॰ नि॰ १.१९९ आदयो) कच्‍चानपेय्यालं (म॰ नि॰ ३.२७९ आदयो) पारायनसुत्तन्ति इमे तयो सुत्तन्ते अट्ठुप्पत्तिं कत्वा थेरं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="centre">पठमवग्गवण्णना।</p>

<p rend="title">१४. एतदग्गवग्गो</p>

<p rend="subhead">(१४) २. दुतियएतदग्गवग्गो</p>

<p rend="subhead">चूळपन्थकत्थेरवत्थु</p>

<p rend="bodytext" n="198-200"><hi rend="paranum">१९८-२००</hi><hi rend="dot">.</hi> दुतियस्स <pb ed="V" n="1.0164"/> पठमे <hi rend="bold">मनोमय</hi>न्ति मनेन निब्बत्तितं। ‘‘मनोमयेन कायेन, इद्धिया उपसङ्कमी’’ति (थेरगा॰ ९०१) वुत्तट्ठानस्मिञ्हि मनेन कतकायो मनोमयकायो नाम जातो। ‘‘अञ्‍ञतरं मनोमयं कायं उपपज्‍जती’’ति (चूळव॰ ३३३) वुत्तट्ठाने मनेन निब्बत्तितकायो मनोमयकायो नाम जातो। अयमिध अधिप्पेतो। तत्थ अञ्‍ञे भिक्खू मनोमयं कायं निब्बत्तेन्ता तयो <pb ed="P" n="1.0210"/> वा चत्तारो वा निब्बत्तेन्ति, न बहुके। एकसदिसेयेव च कत्वा निब्बत्तेन्ति एकविधमेव कम्मं कुरुमाने। चूळपन्थकत्थेरो पन एकावज्‍जनेन समणसहस्सं मापेसि। द्वेपि च जने न एकसदिसे अकासि न एकविधं कम्मं कुरुमाने। तस्मा मनोमयं कायं अभिनिम्मिनन्तानं अग्गो नाम जातो।</p>

<p rend="bodytext">चेतोविवट्टकुसलानम्पि <pb ed="M" n="1.0165"/> चूळपन्थकोव अग्गो, सञ्‍ञाविवट्टकुसलानं पन महापन्थकत्थेरो अग्गोति वुत्तो। तत्थ चूळपन्थकत्थेरो चतुन्‍नं रूपावचरज्झानानं लाभिताय ‘‘चेतोविवट्टकुसलो’’ति वुत्तो, महापन्थकत्थेरो चतुन्‍नं अरूपावचरज्झानानं लाभिताय ‘‘सञ्‍ञाविवट्टकुसलो’’ति वुत्तो। चूळपन्थको च समाधिकुसलताय चेतोविवट्टकुसलो नाम, महापन्थको विपस्सनाकुसलताय सञ्‍ञाविवट्टकुसलो नाम। एको चेत्थ समाधिलक्खणे छेको, एको विपस्सनालक्खणे। तथा एको समाधिगाळ्हो, एको विपस्सनागाळ्हो। एको चेत्थ अङ्गसंखित्ते छेको, एको आरम्मणसंखित्ते। तथा एको अङ्गववत्थाने छेको, एको आरम्मणववत्थानेति एवमेत्थ योजना कातब्बा।</p>

<p rend="bodytext">अपिच चूळपन्थकत्थेरो रूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति चेतोविवट्टकुसलो, महापन्थको अरूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति <pb ed="V" n="1.0165"/> सञ्‍ञाविवट्टकुसलो। उभोपि पन्थे जातत्ता पन्थका नाम जाता। तेसं पठमजातो महापन्थको नाम, पच्छाजातो चूळपन्थको नाम।</p>

<p rend="bodytext">इमेसं पन उभिन्‍नम्पि पञ्हकम्मे अयमनुपुब्बिकथा – अतीते किर पदुमुत्तरबुद्धकाले हंसवतीनगरवासिनो <pb ed="P" n="1.0211"/> द्वे भातिका कुटुम्बिका सद्धा पसन्‍ना निबद्धं सत्थु सन्तिकं गन्त्वा धम्मं सुणन्ति। तेसु एकदिवसं कनिट्ठो सत्थारं द्वीहङ्गेहि समन्‍नागतं एकं भिक्खुं ‘‘मम सासने मनोमयं कायं अभिनिम्मिनन्तानं चेतोविवट्टकुसलानञ्‍च अयं भिक्खु अग्गो’’ति एतदग्गट्ठाने ठपेन्तं दिस्वा चिन्तेसि – ‘‘महा वतायं भिक्खु एको हुत्वा द्वे अङ्गानि परिपूरेत्वा चरति, मयापि अनागते एकस्स बुद्धस्स सासने अङ्गद्वयपूरकेन हुत्वा विचरितुं वट्टती’’ति। सो पुरिमनयेनेव सत्थारं निमन्तेत्वा सत्ताहं महादानं दत्वा एवमाह – ‘‘यं, भन्ते, भिक्खुं तुम्हे इतो सत्तदिवसमत्थके मनोमयङ्गेन च चेतोविवट्टकुसलङ्गेन च ‘अयं मम सासने अग्गो’ति एतदग्गे ठपयित्थ, अहम्पि इमस्स अधिकारकम्मस्स फलेन सो भिक्खु विय अङ्गद्वयपूरको भवेय्य’’न्ति पत्थनं अकासि।</p>

<p rend="bodytext">सत्था <pb ed="M" n="1.0166"/> अनागतं ओलोकेत्वा अनन्तरायेनस्स पत्थनाय समिज्झनभावं दिस्वा ‘‘अनागते कप्पसतसहस्सावसाने गोतमो नाम बुद्धो उप्पज्‍जिस्सति, सो तं इमस्मिं ठानद्वये ठपेस्सती’’ति ब्याकरित्वा अनुमोदनं कत्वा पक्‍कामि। भातापिस्स एकदिवसं सत्थारं सञ्‍ञाविवट्टकुसलं भिक्खुं एतदग्गट्ठाने ठपेन्तं दिस्वा तथेव अधिकारं कत्वा पत्थनं अकासि, सत्थापि तं ब्याकासि।</p>

<p rend="bodytext">ते उभोपि जना सत्थरि धरमाने कुसलकम्मं करित्वा सत्थु परिनिब्बुतकाले सरीरचेतिये सुवण्णपूजं कत्वा ततो चुता देवलोके निब्बत्ता। तेसं देवमनुस्सेसु संसरन्तानंयेव कप्पसतसहस्सं अतिक्‍कन्तं। तत्थ महापन्थकस्स अन्तरा कतकल्याणकम्मं न कथियति, चूळपन्थको पन कस्सपभगवतो सासने पब्बजित्वा वीसति वस्ससहस्सानि <pb ed="P" n="1.0212"/> ओदातकसिणकम्मं कत्वा देवपुरे निब्बत्ति। अथ अम्हाकं सत्था अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्‍को राजगहं उपनिस्साय वेळुवनमहाविहारे पटिवसति।</p>

<p rend="bodytext">इमस्मिं ठाने ठत्वा इमेसं द्विन्‍नं निब्बत्तिं कथेतुं वट्टति। राजगहे किर धनसेट्ठिकुलस्स धीता <pb ed="V" n="1.0166"/> अत्तनो दासेनेव सद्धिं सन्थवं कत्वा ‘‘अञ्‍ञेपि मे इमं कम्मं जानेय्यु’’न्ति चिन्तेत्वा एवमाह – ‘‘अम्हेहि इमस्मिं ठाने वसितुं न सक्‍का, सचे मे मातापितरो इमं दोसं जानिस्सन्ति, खण्डाखण्डं करिस्सन्ति, विदेसं गन्त्वा वसिस्सामा’’ति हत्थसारं गहेत्वा अग्गद्वारेन निक्खमित्वा ‘‘यत्थ वा तत्थ वा अञ्‍ञेहि अजाननट्ठानं गन्त्वा वसिस्सामा’’ति उभोपि अगमंसु।</p>

<p rend="bodytext">तेसं एकस्मिं ठाने वसन्तानं संवासमन्वाय तस्सा कुच्छियं गब्भो पतिट्ठासि। सा गब्भस्स परिपाकं आगम्म सामिकेन सद्धिं मन्तेसि – ‘‘गब्भो मे परिपाकं गतो, ञातिमित्तादिविरहिते ठाने गब्भवुट्ठानं नाम उभिन्‍नम्पि अम्हाकं दुक्खमेव, कुलगेहमेव गच्छामा’’ति। सो ‘‘अज्‍ज गच्छाम, स्वे गच्छामा’’ति दिवसे अतिक्‍कमापेसि। सा चिन्तेसि – ‘‘अयं बालो अत्तनो दोसमहन्ताय गन्तुं न उस्सहति, मातापितरो च नाम एकन्तहिता, अयं गच्छतु वा मा वा, मया गन्तुं वट्टती’’ति। तस्मिं गेहा निक्खन्ते सा गेहे परिक्खारं पटिसामेत्वा अत्तनो कुलघरं गतभावं अनन्तरगेहवासीनं आरोचेत्वा मग्गं पटिपज्‍जि।</p>

<p rend="bodytext">अथ <pb ed="M" n="1.0167"/> सो पुरिसो घरं आगतो तं अदिस्वा पटिविस्सके पुच्छित्वा ‘‘कुलघरं गता’’ति सुत्वा वेगेन अनुबन्धित्वा अन्तरामग्गे <pb ed="P" n="1.0213"/> सम्पापुणि। तस्सापि तत्थेव गब्भवुट्ठानं अहोसि। सो ‘‘किं इदं भद्दे’’ति पुच्छि। सामि एको पुत्तो जातोति। इदानि किं करिस्सामाति? यस्स अत्थाय मयं कुलघरं गच्छाम, तं कम्मं अन्तराव निप्फन्‍नं, तत्थ गन्त्वा किं करिस्साम, निवत्तामाति द्वेपि एकचित्ता हुत्वा निवत्तिंसु। तस्स दारकस्स च पन्थे जातत्ता पन्थकोति नामं अकंसु। तस्सा नचिरस्सेव अपरोपि गब्भो पतिट्ठहि। सब्बं पुरिमनयेनेव वित्थारेतब्बं। तस्सपि दारकस्स पन्थे जातत्ता पठमजातस्स महापन्थकोति नामं कत्वा पच्छाजातस्स चूळपन्थकोति नामं अकंसु।</p>

<p rend="bodytext">ते द्वेपि दारके गहेत्वा अत्तनो वसनट्ठानमेव गता। तेसं तत्थ वसन्तानं अयं महापन्थकदारको अञ्‍ञे दारकजने ‘‘चूळपिता महापिता अय्यको अय्यिका’’ति वदन्ते सुत्वा मातरं पटिपुच्छि – ‘‘अम्म, अञ्‍ञे दारका कथेन्ति ‘अय्यको अय्यिका’ति, किं अम्हाकं ञातका नत्थी’’ति? आम, तात, तुम्हाकं एत्थ ञातका नत्थि, राजगहनगरे पन वो <pb ed="V" n="1.0167"/> धनसेट्ठि नाम अय्यको, तत्थ तुम्हाकं बहू ञातकाति। कस्मा तत्थ न गच्छथ अम्माति? सा अत्तनो अगमनकारणं पुत्तस्स अकथेत्वा पुत्तेसु पुनप्पुनं कथेन्तेसु सामिकमाह – ‘‘इमे दारका अतिविय मं किलमेन्ति, किं नो मातापितरो दिस्वा मंसं खादिस्सन्ति, एहि दारकानं अय्यककुलं दस्सेमा’’ति। अहं सम्मुखा भवितुं न सक्खिस्सामि, तं पन नयिस्सामीति। ‘‘साधु सामि, येन केनचि उपायेन दारकानं अय्यककुलमेव दट्ठुं वट्टती’’ति द्वेपि जना दारके आदाय <pb ed="P" n="1.0214"/> अनुपुब्बेन राजगहं पत्वा नगरद्वारे एकिस्सा सालाय निवासं कत्वा दारकमाता द्वे दारके गहेत्वा आगतभावं मातापितूनं आरोचापेसि।</p>

<p rend="bodytext">ते तं सासनं सुत्वा संसारे संसरन्तानं न पुत्तो न धीता नाम नत्थि, ते अम्हाकं महापराधिका, न सक्‍का तेहि अम्हाकं चक्खुपथे ठातुं। एत्तकं पन धनं गहेत्वा द्वेपि जना फासुकट्ठानं गन्त्वा जीवन्तु, दारके पन इध पेसेन्तूति। सेट्ठिधीता मातापितूहि पेसितं धनं गहेत्वा दारके आगतदूतानं हत्थेयेव दत्वा पेसेसि <pb ed="M" n="1.0168"/>। दारका अय्यककुले वड्ढन्ति। तेसु चूळपन्थको अतिदहरो, महापन्थको पन अय्यकेन सद्धिं दसबलस्स धम्मकथं सोतुं गच्छति। तस्स निच्‍चं सत्थु सम्मुखे धम्मं सुणन्तस्स पब्बज्‍जाय चित्तं नमि। सो अय्यकं आह – ‘‘सचे तुम्हे अनुजानेय्याथ, अहं पब्बज्‍जेय्य’’न्ति। ‘‘किं वदेसि, तात, मय्हं सकललोकस्सपि पब्बज्‍जतो तवेव पब्बज्‍जा भद्दिका। सचे सक्‍कोसि, पब्बज, ताता’’ति सम्पटिच्छित्वा सत्थु सन्तिकं गतो। सत्था ‘‘किं, महासेट्ठि, दारको ते लद्धो’’ति? ‘‘आम, भन्ते, अयं दारको मय्हं नत्ता, तुम्हाकं सन्तिके पब्बजामीति वदती’’ति आह।</p>

<p rend="bodytext">सत्था अञ्‍ञतरं पिण्डचारिकं ‘‘इमं दारकं पब्बाजेही’’ति आणापेसि। थेरो तस्स तचपञ्‍चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि। सो बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पदं लभि। उपसम्पन्‍नो हुत्वा योनिसोमनसिकारे कम्मं करोन्तो चतुन्‍नं अरूपावचरज्झानानं लाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पापुणि। इति सो सञ्‍ञाविवट्टकुसलानं अग्गो जातो। सो झानसुखेन फलसुखेन <pb ed="P" n="1.0215"/> वीतिनामेन्तो चिन्तेसि – ‘‘सक्‍का नु खो इमं सुखं चूळपन्थकस्स दातु’’न्ति। ततो अय्यकसेट्ठिस्स सन्तिकं गन्त्वा ‘‘महासेट्ठि सचे तुम्हे सम्पटिच्छथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति आह। पब्बाजेथ, भन्तेति <pb ed="V" n="1.0168"/>। थेरो चूळपन्थकदारकं पब्बाजेत्वा दससु सीलेसु पतिट्ठापेसि। चूळपन्थकसामणेरो भातिकस्स सन्तिके।</p>

<p rend="gatha1">‘‘पदुमं यथा कोकनदं सुगन्धं,</p>

<p rend="gatha2">पातो सिया फुल्‍लमवीतगन्धं।</p>

<p rend="gatha3">अङ्गीरसं पस्स विरोचमानं,</p>

<p rend="gathalast">तपन्तमादिच्‍चमिवन्तलिक्खे’’ति॥ (सं॰ नि॰ १.१२३; अ॰ नि॰ ५.१९५) –</p>

<p rend="unindented">इमं गाथं गण्हाति। गहितगहितपदं उपरूपरिपदं गण्हन्तस्स नस्सति। तस्स इमं गाथं गहेतुं वायमन्तस्सेव चत्तारो मासा अतिक्‍कन्ता। अथ नं महापन्थको आह – ‘‘चूळपन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकगाथम्पि गहेतुं न सक्‍कोसि, पब्बजितकिच्‍चं पन त्वं कथं <pb ed="M" n="1.0169"/> मत्थकं पापेस्ससि, निक्खम इतो’’ति। सो थेरेन पणामितो विहारपच्‍चन्ते रोदमानो अट्ठासि।</p>

<p rend="bodytext">तेन समयेन सत्था राजगहं उपनिस्साय जीवकम्बवने विहरति। तस्मिं समये जीवको पुरिसं पेसेसि ‘‘पञ्‍चहि भिक्खुसतेहि सद्धिं सत्थारं निमन्तेही’’ति। तेन खो पन समयेन महापन्थको भत्तुद्देसको होति। सो ‘‘पञ्‍चन्‍नं भिक्खुसतानं भिक्खं सम्पटिच्छथ, भन्ते’’ति वुत्तो ‘‘चूळपन्थकं ठपेत्वा सेसानं सम्पटिच्छामी’’ति आह। चूळपन्थको <pb ed="P" n="1.0216"/> तं कथं सुत्वा भिय्योसोमत्ताय दोमनस्सप्पत्तो अहोसि। सत्था चूळपन्थकस्स खेदं दिस्वा ‘‘चूळपन्थको मयि गते बुज्झिस्सती’’ति गन्त्वा अविदूरे ठाने अत्तानं दस्सेत्वा ‘‘किं त्वं, पन्थक, रोदसी’’ति आह। भाता मं, भन्ते, पणामेतीति। पन्थक, तुय्हं भातिकस्स परपुग्गलानं आसयानुसयञाणं नत्थि, त्वं बुद्धवेनेय्यपुग्गलो नामाति इद्धिया अभिसङ्खरित्वा सुद्धं चोळखण्डं अदासि ‘‘इमं गहेत्वा ‘रजोहरणं रजोहरण’न्ति वत्वा भावेहि पन्थका’’ति।</p>

<p rend="bodytext">सो सत्थारा दिन्‍नं चोळखण्डं ‘‘रजोहरणं रजोहरण’’न्ति हत्थेन परिमज्‍जन्तो निसीदि। तस्स परिमज्‍जन्तस्स लोमानि किलिट्ठधातुकानि जातानि। पुन परिमज्‍जन्तस्स उक्खलिपरिपुञ्छनसदिसं <pb ed="V" n="1.0169"/> जातं। सो ञाणपरिपाकं आगम्म तत्थ खयवयं पट्ठपेत्वा चिन्तेसि – ‘‘इदं चोळखण्डं पकतिया पण्डरं परिसुद्धं, उपादिन्‍नकसरीरं निस्साय किलिट्ठं जातं, इदं चित्तम्पि एवंगतिकमेवा’’ति। समाधिं भावेत्वा चत्तारि रूपावचरज्झानानि पादकानि कत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि। सो मनोमयज्झानलाभी हुत्वा एको हुत्वा बहुधा, बहुधा हुत्वा एको भवितुं समत्थो अहोसि। अरहत्तमग्गेनेव चस्स तेपिटकञ्‍च छ अभिञ्‍ञा च आगमिंसु।</p>

<p rend="bodytext">पुनदिवसे सत्था एकूनेहि पञ्‍चहि भिक्खुसतेहि सद्धिं गन्त्वा जीवकस्स निवेसने निसीदि। चूळपन्थको पन अत्तनो भिक्खाय असम्पटिच्छितत्तायेव न गतो। जीवको यागुं दातुं आरभि, सत्था हत्थेन पत्तं पिदहि। कस्मा, भन्ते, न गण्हथाति? विहारे एको भिक्खु अत्थि जीवकाति <pb ed="M" n="1.0170"/>। सो पुरिसं पहिणि ‘‘गच्छ, भणे, विहारे निसिन्‍नं अय्यं गहेत्वा एही’’ति। चूळपन्थकत्थेरोपि तस्स पुरिसस्स पुरे आगमनायेव भिक्खुसहस्सं <pb ed="P" n="1.0217"/> निम्मिनित्वा एकम्पि एकेन असदिसं, एकस्सपि च चीवरविचारणादिसमणकम्मं अञ्‍ञेन असदिसं अकासि। सो पुरिसो विहारे भिक्खूनं बहुभावं दिस्वा गन्त्वा जीवकस्स कथेसि – ‘‘भन्ते, इमस्मिं विहारे भिक्खुसङ्घो बहुतरो, ततो पक्‍कोसितब्बं भदन्तं न जानामी’’ति। जीवको सत्थारं पटिपुच्छि – ‘‘कोनामो, भन्ते, विहारे निसिन्‍नभिक्खू’’ति? चूळपन्थको नाम जीवकाति। गच्छ भो ‘‘चूळपन्थको नाम कतरो’’ति पुच्छित्वा आनेहीति। सो विहारं गन्त्वा ‘‘चूळपन्थको नाम, भन्ते, कतरो’’ति पुच्छि। ‘‘अहं चूळपन्थको अहं चूळपन्थको’’ति भिक्खुसहस्सम्पि कथेसि। सो पुनागन्त्वा जीवकस्स कथेसि ‘‘सहस्समत्ता भिक्खू सब्बेपि ‘अहं चूळपन्थको अहं चूळपन्थको’ति कथेन्ति, अहं ‘असुको नाम पक्‍कोसितब्बो’ति न जानामी’’ति। जीवकोपि पटिविद्धसच्‍चताय ‘‘इद्धिमा भिक्खू’’ति नयतो ञत्वा ‘‘पठमं कथनभिक्खुमेव ‘तुम्हे सत्था पक्‍कोसती’ति वत्वा चीवरकण्णे गण्ह ताता’’ति आह। सो विहारं गन्त्वा तथा अकासि, तावदेव सहस्समत्ता भिक्खू अन्तरधायिंसु। सो थेरं गहेत्वा अगमासि। सत्था तस्मिं खणे यागुं गण्हि।</p>

<p rend="bodytext">दसबले भत्तकिच्‍चं कत्वा विहारं गते धम्मसभायं कथा उदपादि ‘‘याव महन्ता वत बुद्धा नाम चत्तारो मासे एकगाथं गण्हितुं असक्‍कोन्तं भिक्खुं एवंमहिद्धिकं अकंसू’’ति। सत्था तेसं भिक्खूनं चित्ताचारं ञत्वा गन्त्वा पञ्‍ञत्तासने निसज्‍ज ‘‘किं वदेथ, भिक्खवे’’ति <pb ed="V" n="1.0170"/> पुच्छि। न भगवा अञ्‍ञं किञ्‍चि कथेम, चूळपन्थकेन तुम्हाकं सन्तिका महालाभो लद्धोति तुम्हाकंयेव गुणं कथेमाति। अनच्छरियं, भिक्खवे, इदानि मय्हं ओवादं <pb ed="P" n="1.0218"/> कत्वा लोकुत्तरदायज्‍जलाभो, अयं अतीतेपि अपरिपक्‍कञाणे ठितस्स मय्हं ओवादं कत्वा लोकियदायज्‍जं लभीति। भिक्खू ‘‘कदा, भन्ते’’ति आयाचिंसु। सत्था तेसं भिक्खूनं अतीतं आहरित्वा दस्सेसि।</p>

<p rend="bodytext">भिक्खवे, अतीते बाराणसीनगरे ब्रह्मदत्तो नाम राजा रज्‍जं कारेसि। तस्मिं समये चूळकसेट्ठि नाम पण्डितो ब्यत्तो सब्बनिमित्तानि <pb ed="M" n="1.0171"/> जानाति। सो एकदिवसं राजूपट्ठानं गच्छन्तो अन्तरवीथियं मतमूसिकं दिस्वा तस्मिं खणे नक्खत्तं समानेत्वा इदमाह – ‘‘सक्‍का चक्खुमता कुलपुत्तेन इमं उन्दूरं गहेत्वा दारभरणञ्‍च कातुं कम्मन्ते च पयोजेतु’’न्ति। अञ्‍ञतरो दुग्गतकुलपुत्तो तं सेट्ठिस्स वचनं सुत्वा ‘‘नायं अजानित्वा कथेस्सती’’ति मूसिकं गहेत्वा एकस्मिं आपणे बिळारस्सत्थाय दत्वा काकणिकं लभि। ताय काकणिकाय फाणितं किणित्वा एकेन कुटेन पानीयं गण्हित्वा अरञ्‍ञतो आगच्छन्ते मालाकारे दिस्वा थोकं थोकं फाणितखण्डं दत्वा उळुङ्केन पानीयं अदासि। ते तस्स एकेकं पुप्फमुट्ठिं अदंसु। सो तेन पुप्फमूलेन पुनदिवसेपि फाणितञ्‍च पानीयघटञ्‍च गहेत्वा पुप्फाराममेव गतो। तस्स तंदिवसं मालाकारा अड्ढओचितके पुप्फगच्छे दत्वा अगमंसु। सो नचिरस्सेव इमिना उपायेन अट्ठ कहापणे लभि।</p>

<p rend="bodytext">पुन एकस्मिं वातवुट्ठिदिवसे छड्डितउय्यानं गन्त्वा पतितदारूनं रासिं कत्वा निसिन्‍नो राजकुम्भकारस्स सन्तिका सोळस कहापणे लभि। सो चतुवीसतिया कहापणेसु जातेसु ‘‘अत्थि अयं उपायो मय्ह’’न्ति नगरद्वारतो अविदूरे ठाने एकं पानीयचाटिं ठपेत्वा पञ्‍चसते तिणहारके पानीयेन उपट्ठहि। ते <pb ed="P" n="1.0219"/> आहंसु – ‘‘त्वं, सम्म, अम्हाकं बहुपकारो, किं ते करोमा’’ति? सोपि ‘‘मय्हं किच्‍चे उप्पन्‍ने करिस्सथा’’ति वत्वा इतो चितो च विचरन्तो थलपथकम्मिकेन च जलपथकम्मिकेन च सद्धिं मित्तसन्थवं अकासि। तस्स थलपथकम्मिको ‘‘स्वे इमं नगरं अस्सवाणिजको पञ्‍च अस्ससतानि गहेत्वा आगमिस्सती’’ति आचिक्खि। सो तस्स वचनं सुत्वा तिणहारकानं सञ्‍ञं दत्वा एकेकं तिणकलापं दिगुणं कत्वा आहरापेसि। अथ सो अस्सानं नगरं पविट्ठवेलाय तिणकलापसहस्सं <pb ed="V" n="1.0171"/> अन्तरद्वारे रासिं कत्वा निसीदि। अस्सवाणिजो सकलनगरे अस्सानं चारिं अलभित्वा तस्स सहस्सं दत्वा तं तिणं गण्हि।</p>

<p rend="bodytext">ततो कतिपाहच्‍चयेनस्स समुद्दकम्मिकसहायको आरोचेसि ‘‘पट्टनं महानावा आगता’’ति। सो ‘‘अत्थि अयं उपायो’’ति अट्ठहि <pb ed="M" n="1.0172"/> कहापणेहि सब्बपरिवारसम्पन्‍नं तावकालिकं रथं गहेत्वा नावापट्टनं गन्त्वा एकं अङ्गुलिमुद्दिकं नाविकस्स सच्‍चकारं दत्वा अविदूरे ठाने साणिं परिक्खिपापेत्वा तत्थ निसिन्‍नो पुरिसे आणापेसि ‘‘बाहिरकेसु वाणिजेसु आगतेसु ततियेन पटिहारेन आरोचेथा’’ति। ‘‘नावा आगता’’ति सुत्वा बाराणसितो सतमत्ता वाणिजा ‘‘भण्डं गण्हामा’’ति आगमंसु। भण्डं तुम्हे न लभिस्सथ, असुकट्ठाने नाम महावाणिजेन सच्‍चकारो दिन्‍नोति। ते तेसं सुत्वा तस्स सन्तिकं आगता, पादमूलिकपुरिसा पुरिमसञ्‍ञावसेन ततियेन पाटिहारेन तेसं आगतभावं आरोचेसुं। ते सतमत्तापि वाणिजा एकेकं सहस्सं दत्वा तेन सद्धिं नावाय पत्तिका हुत्वा पुन एकेकं सहस्सं दत्वा पत्तिं विस्सज्‍जापेत्वा भण्डं अत्तनो सन्तकं अकंसु। सो <pb ed="P" n="1.0220"/> पुरिसो द्वे सतसहस्सानि गहेत्वा बाराणसिं आगन्त्वा ‘‘कतञ्‍ञुना भवितुं वट्टती’’ति एकं सतसहस्सं गहेत्वा चूळसेट्ठिस्स सन्तिकं गतो।</p>

<p rend="bodytext">अथ तं चूळसेट्ठि ‘‘किं ते, तात, कत्वा इदं धनं लद्ध’’न्ति पुच्छि। सो ‘‘तुम्हेहि कथितउपाये ठत्वा चतुमासब्भन्तरेयेव लद्ध’’न्ति आह। सेट्ठि तस्स वचनं सुत्वा ‘‘इदानि एवरूपं दारकं परसन्तकं कातुं न वट्टती’’ति वयप्पत्तं धीतरं दत्वा सकलकुटुम्बस्स सामिकं अकासि। सोपि कुलपुत्तो सेट्ठिनो अच्‍चयेन तस्मिं नगरे सेट्ठिट्ठानं गहेत्वा यावतायुकं ठत्वा यथाकम्मं गतो। सत्था द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा अभिसम्बुद्धकाले इमं गाथमाह –</p>

<p rend="gatha1">‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो।</p>

<p rend="gathalast">समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति॥ (जा॰ १.१.४)।</p>

<p rend="bodytext">इति सत्था धम्मसभायं सन्‍निसिन्‍नानं इमं कारणं दस्सेसि। अयं द्विन्‍नम्पि महासावकानं पुब्बपत्थनतो पट्ठाय अनुपुब्बिकथा। अपरभागे पन सत्था अरियगणपरिवुतो धम्मासने निसिन्‍नो <pb ed="V" n="1.0172"/> मनोमयं कायं अभिनिम्मिनन्तानं चेतोविवट्टकुसलानञ्‍च चूळपन्थकत्थेरं अग्गट्ठाने ठपेसि, सञ्‍ञाविवट्टकुसलानं महापन्थकन्ति।</p>

<p rend="subhead">सुभूतित्थेरवत्थु</p>

<p rend="bodytext" n="201"><hi rend="paranum">२०१</hi><hi rend="dot">.</hi> ततिये <pb ed="M" n="1.0173"/> <hi rend="bold">अरणविहारीन</hi>न्ति निक्‍किलेसविहारीनं। <hi rend="bold">रण</hi>न्ति हि रागादयो किलेसा वुच्‍चन्ति, तेसं अभावेन निक्‍किलेसविहारो अरणविहारो नाम। सो येसं अत्थि, ते अरणविहारिनो। तेसं <pb ed="P" n="1.0221"/> अरणविहारीनं सुभूतित्थेरो अग्गोति। किञ्‍चापि हि अञ्‍ञेपि खीणासवा अरणविहारिनोव, थेरेन पन धम्मदेसनाय एतं नामं लद्धं। अञ्‍ञे हि भिक्खू धम्मं देसेन्तो उद्दिस्सकं कत्वा वण्णं वा अवण्णं वा कथेन्ति, थेरो पन धम्मं देसेन्तो सत्थारा देसितनियामतो अनोक्‍कमित्वा देसेति, तस्मा अरणविहारीनं अग्गो नाम जातो।</p>

<p rend="bodytext" n="202"><hi rend="paranum">२०२</hi><hi rend="dot">.</hi> चतुत्थे <hi rend="bold">दक्खिणेय्यान</hi>न्ति दक्खिणारहानं। तत्थ किञ्‍चापि अञ्‍ञेपि खीणासवा अग्गदक्खिणेय्या, थेरो पन पिण्डाय चरन्तो घरे घरे मेत्ताझानं समापज्‍जित्वा समापत्तितो वुट्ठाय भिक्खं गण्हाति ‘‘एवं भिक्खादायकानं महप्फलं भविस्सती’’ति। तस्मा दक्खिणेय्यानं अग्गोति वुत्तो। अत्तभावो पनस्स सुसमिद्धो, अलङ्कततोरणं विय चित्तपटो विय च अतिविय विरोचति। तस्मा सुभूतीति वुच्‍चति।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर पदुमुत्तरे भगवति अनुप्पन्‍नेयेव हंसवतीनगरे ब्राह्मणमहासालकुले निब्बत्ति, नन्दमाणवोतिस्स नामं अकंसु। सो वयप्पत्तो तयो वेदे उग्गण्हित्वा तत्थ सारं अपस्सन्तो अत्तनो परिवारेहि चतुचत्तालीसाय माणवकसहस्सेहि सद्धिं पब्बतपादे इसिपब्बज्‍जं पब्बजित्वा पञ्‍च अभिञ्‍ञा अट्ठ समापत्तियो निब्बत्तेसि, अन्तेवासिकेपि झानलाभिनो अकासि।</p>

<p rend="bodytext">तस्मिं समये पदुमुत्तरो भगवा लोके निब्बत्तित्वा हंसवतीनगरं उपनिस्साय विहरन्तो एकदिवसं पच्‍चूससमये लोकं ओलोकेन्तो नन्दतापसस्स अन्तेवासिकानं जटिलानं अरहत्तूपनिस्सयं नन्दतापसस्स च द्वीहङ्गेहि समन्‍नागतस्स सावकस्स ठानन्तरपत्थनं दिस्वा पातोव सरीरपटिजग्गनं <pb ed="P" n="1.0222"/> कत्वा पुब्बण्हसमयं पत्तचीवरमादाय सारिपुत्तत्थेरस्स वत्थुम्हि वुत्तनयेनेव <pb ed="V" n="1.0173"/> नन्दतापसस्स अस्समं अगमासि। तत्थ <pb ed="M" n="1.0174"/> फलाफलदानञ्‍च पुप्फासनपञ्‍ञापनञ्‍च निरोधसमापत्तिसमापज्‍जनञ्‍च वुत्तनयेनेव वेदितब्बं।</p>

<p rend="bodytext">सत्था पन निरोधा वुट्ठितो अरणविहारिअङ्गेन च दक्खिणेय्यङ्गेन चाति द्वीहङ्गेहि समन्‍नागतं एकं सावकं ‘‘इसिगणस्स पुप्फासनानुमोदनं करोही’’ति आणापेसि। सो अत्तनो विसये ठत्वा तेपिटकं सम्मसित्वा अनुमोदनं अकासि। तस्स देसनावसाने सत्था सयं धम्मं देसेसि। देसनापरियोसाने सब्बे चतुचत्तालीससहस्सापि तापसा अरहत्तं पापुणिंसु। नन्दतापसो पन अनुमोदकस्स भिक्खुनो निमित्तं गण्हित्वा सत्थु देसनानुसारेन ञाणं पेसेतुं नासक्खि। सत्था ‘‘एथ, भिक्खवो’’ति सेसभिक्खूनं हत्थं पसारेसि। सब्बेपि अन्तरहितकेसमस्सू इद्धिमयपरिक्खारा वस्ससट्ठिकत्थेरा विय अहेसुं।</p>

<p rend="bodytext">नन्दतापसो तथागतं वन्दित्वा सम्मुखे ठितो आह – ‘‘भन्ते, येन भिक्खुना इसिगणस्स पुप्फासनानुमोदना कता, को नामोयं तुम्हाकं सासने’’ति? अरणविहारिअङ्गेन च दक्खिणेय्यङ्गेन च एतदग्गं पत्तो एसोति। ‘‘भन्ते, अहम्पि इमिना सत्ताहकतेन अधिकारकम्मेन अञ्‍ञं सम्पत्तिं न पत्थेमि, अनागते पनाहं एकस्स बुद्धस्स सासने अयं थेरो विय द्वीहङ्गेहि समन्‍नागतो भवेय्य’’न्ति पत्थनं अकासि। सत्था अनन्तरायं दिस्वा ब्याकरित्वा पक्‍कामि। नन्दतापसोपि कालेन कालं दसबलस्स सन्तिके धम्मं सुत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्तो। इदमस्स कल्याणकम्मं। अन्तरा पन कम्मं न कथियति।</p>

<p rend="bodytext">सो <pb ed="P" n="1.0223"/> कप्पसतसहस्सं अतिक्‍कमित्वा सावत्थियं सुमनसेट्ठिस्स गेहे निब्बत्ति, <hi rend="bold">सुभूती</hi>तिस्स नामं अकंसु। अपरभागे अम्हाकं सत्था लोके निब्बत्तो राजगहं उपनिस्साय विहरति। तदा अनाथपिण्डिको सेट्ठि सावत्थियं उट्ठानकभण्डं गहेत्वा अत्तनो सहायकस्स राजगहसेट्ठिनो घरं गतो सत्थु उप्पन्‍नभावं ञत्वा सत्थारं सीतवने विहरन्तं उपसङ्कमित्वा पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय <pb ed="M" n="1.0175"/> सत्थारं सावत्थिं आगमनत्थाय याचित्वा पञ्‍चचत्तालीसयोजने मग्गे योजने योजने सतसहस्सपरिच्‍चागेन विहारे पतिट्ठापेत्वा सावत्थियं राजमानेन अट्ठकरीसप्पमाणं जेतराजकुमारस्स उय्यानभूमिं कोटिसन्थारेन किणित्वा तत्थ भगवतो विहारं कारेत्वा अदासि। विहारमहदिवसे अयं सुभूतिकुटिम्बिको अनाथपिण्डिकसेट्ठिना <pb ed="V" n="1.0174"/> सद्धिं गन्त्वा धम्मं सुणन्तो सद्धं पटिलभित्वा पब्बजि। सो उपसम्पन्‍नो द्वे मातिका पगुणं कत्वा कम्मट्ठानं कथापेत्वा अरञ्‍ञे समणधम्मं करोन्तो विपस्सनं वड्ढेत्वा मेत्ताझानं पादकं कत्वा अरहत्तं पापुणि। धम्मं देसेन्तो वुत्तनयेनेव धम्मं कथेति, पिण्डाय चरन्तो वुत्तनयेनेव मेत्ताझानतो वुट्ठाय भिक्खं गण्हाति। अथ नं सत्था इमं कारणद्वयं पटिच्‍च अरणविहारीनञ्‍च दक्खिणेय्यानञ्‍च भिक्खूनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">खदिरवनियरेवतत्थेरवत्थु</p>

<p rend="bodytext" n="203"><hi rend="paranum">२०३</hi><hi rend="dot">.</hi> पञ्‍चमे <hi rend="bold">आरञ्‍ञकान</hi>न्ति अरञ्‍ञवासीनं। <hi rend="bold">रेवतो खदिरवनियो</hi>ति धम्मसेनापतित्थेरस्स कनिट्ठभातिको। सो यथा अञ्‍ञे थेरा अरञ्‍ञे वसमाना वनसभागं <pb ed="P" n="1.0224"/> उदकसभागं भिक्खाचारसभागञ्‍च सल्‍लक्खेत्वा अरञ्‍ञे वसन्ति, न एवं वसि। एतानि पन सभागानि अनादियित्वा उज्‍जङ्गलसक्खरपासाणविसमे खदिरवने पटिवसति। तस्मा आरञ्‍ञकानं अग्गोति वुत्तो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर अतीते पदुमुत्तरबुद्धकाले हंसवतीनगरे निब्बत्तो महागङ्गाय पयागपतिट्ठानतित्थे नावाकम्मं करोन्तो पटिवसति। तस्मिं समये सत्था सतसहस्सभिक्खुपरिवारो चारिकं चरन्तो पयागपतिट्ठानतित्थं सम्पापुणि। सो दसबलं दिस्वा चिन्तेसि – ‘‘मय्हं कालेन कालं बुद्धदस्सनं नाम नत्थि, अयं मे कल्याणकम्मायूहनक्खणो’’ति नावासङ्घाटं बन्धापेत्वा उपरि चेलवितानं कारेत्वा गन्धमालादामानि ओसारेत्वा हेट्ठा वरपोत्थकं चित्तत्थरणं अत्थरापेत्वा सपरिवारं सत्थारं परतीरं तारेसि।</p>

<p rend="bodytext">तस्मिं <pb ed="M" n="1.0176"/> समये सत्था एकं आरञ्‍ञकं भिक्खुं एतदग्गे ठपेसि। सो नाविको तं दिस्वा ‘‘मयापि एवमेवं अनागते एकस्स बुद्धस्स सासने आरञ्‍ञकानं अग्गेन भवितुं वट्टती’’ति सत्थारं निमन्तेत्वा सत्ताहं महादानं दत्वा सत्थु पादमूले निपज्‍जित्वा, ‘‘भन्ते, तुम्हेहि एतदग्गे ठपितो सो भिक्खु विय अहम्पि अनागते एकस्स बुद्धस्स सासने आरञ्‍ञकानं अग्गो भवेय्य’’न्ति पत्थनं अकासि। सत्था अनन्तरायं दिस्वा ‘‘अनागते गोतमबुद्धस्स सासने <pb ed="V" n="1.0175"/> त्वं आरञ्‍ञकानं अग्गो भविस्ससी’’ति ब्याकरित्वा पक्‍कामि। अन्तरा पन अञ्‍ञं कम्मं न कथियति।</p>

<p rend="bodytext">सो यावजीवं कल्याणकम्मं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधक्खेत्ते नालकब्राह्मणगामे सारीब्राह्मणिया कुच्छिम्हि पटिसन्धिं गहेत्वा तिण्णं भातिकानं तिस्सन्‍नञ्‍च भगिनीनं सब्बकनिट्ठो हुत्वा निब्बत्ति, <hi rend="bold">रेवतो</hi>तिस्स नामं अकंसु। अथस्स मातापितरो चिन्तेसुं <pb ed="P" n="1.0225"/> – ‘‘वड्ढितवड्ढिते दारके समणा सक्यपुत्तिया नेत्वा पब्बाजेन्ति, अम्हाकं पुत्तं रेवतं दहरमेव घरबन्धनेन बन्धिस्सामा’’ति समानकुलतो दारिकं आनेत्वा रेवतस्स अय्यिकं वन्दापेत्वा, ‘‘अम्म, तव अय्यिकाय महल्‍लकतरा होही’’ति आहंसु। रेवतो तेसं कथं सुत्वा चिन्तेसि – ‘‘अयं दारिका दहरा पठमवये ठिता, इमिस्सा किर एवंविधं रूपं मम अय्यिकाय रूपसदिसं भविस्सति, पुच्छिस्सामि ताव नेसं अधिप्पाय’’न्ति चिन्तेत्वा आह – ‘‘तुम्हे किं कथेथा’’ति? तात, ‘‘अयं दारिका अय्यिका विय ते जरं पापुणातू’’ति वदामाति। सो ‘‘इमिस्सा रूपं एवंविधं भविस्सती’’ति पुच्छि। तात, किं वदेसि, महापुञ्‍ञा एवंविधा होन्तीति।</p>

<p rend="bodytext">सो चिन्तेसि – ‘‘इदं किर रूपं इमिना नियामेन वलित्तचं भविस्सति पलितकेसं खण्डदन्तं, अहं एवरूपे रूपे रज्‍जित्वा किं करिस्सामि, मम भातिकानं गतमग्गमेव गमिस्सामी’’ति कीळन्तो विय हुत्वा समवये तरुणदारके आह – ‘‘एथ, भो, विधावनिकं करिस्सामा’’ति निक्खमि। तात, मङ्गलदिवसे मा बहि गच्छाति। सो दारकेहि सद्धिं कीळन्तो विय अत्तनो धावनवारे सम्पत्ते थोकं गन्त्वा पपञ्‍चेत्वा आगच्छति <pb ed="M" n="1.0177"/>। पुन दुतियवारे सम्पत्ते ततो तुरितं विय गन्त्वा आगतो, ततियवारे सम्पत्ते ‘‘अयं मे कालो’’ति ञत्वा सम्मुखट्ठानेनेव पलायित्वा पंसुकूलिकभिक्खूनं निवासट्ठानं अरञ्‍ञं गन्त्वा थेरे अभिवादेत्वा पब्बज्‍जं याचि। सप्पुरिस मयं तं न जानाम ‘‘कस्सासि पुत्तो’’ति, त्वञ्‍च अलङ्कतनियामेनेव आगतो, को तं पब्बाजेतुं उस्सहिस्सतीति। सो उभो बाहा पग्गय्ह ‘‘विलुम्पन्ति मं विलुम्पन्ति <pb ed="P" n="1.0226"/> म’’न्ति महारवं विरवि। इतो चितो च भिक्खू सन्‍निपतित्वा ‘‘सप्पुरिस, इमस्मिं ठाने तव वत्थं वा पिळन्धनं वा कोचि गण्हन्तो नाम नत्थि, त्वञ्‍च ‘विलुम्पन्ती’ति वदसि, किं सन्धाय वदसी’’ति? भन्ते, नाहं वत्थालङ्कारं सन्धाय वदामि, तिस्सन्‍नं पन मे सम्पत्तीनं विलोपो वत्तति, तं सन्धाय वदामि। मं ताव तुम्हे <pb ed="V" n="1.0176"/> मा पब्बाजयित्थ, भातरं पन मे जानाथाति। कोनामो पन ते भाताति? गिहिकाले उपतिस्सो नाम, इदानि पन सारिपुत्तो नाम जातोति वदन्तीति। ‘‘आवुसो, एवं सन्ते अयं कुलपुत्तो अम्हाकं कनिट्ठभातिको नाम होति, जेट्ठभातिको नो धम्मसेनापति पुरेतरंयेव आह – ‘अम्हाकं ञातका सब्बेव मिच्छादिट्ठिका, यो कोचि अम्हाकं ञातीति आगच्छति, तं येन तेनुपायेन पब्बाजेय्यथा’ति। अयं पन थेरस्स अज्झत्तभातिको, पब्बाजेथ न’’न्ति वत्वा तचपञ्‍चककम्मट्ठानं आचिक्खित्वा पब्बाजयिंसु। अथ नं परिपुण्णवस्सं उपसम्पादेत्वा कम्मट्ठाने योजयिंसु।</p>

<p rend="bodytext">थेरो कम्मट्ठानं गहेत्वा आचरियुपज्झायानं अविदूरे ठाने वुत्तप्पकारं खदिरवनं पविसित्वा समणधम्मं करोति। तस्स ‘‘अरहत्तं अप्पत्वा दसबलं वा भातिकत्थेरं वा न पस्सिस्सामी’’ति वायमन्तस्सेव तयो मासा अतिक्‍कन्ता, सुखुमालकुलपुत्तस्स लूखभोजनं भुञ्‍जन्तस्स चित्तं वलीतं नाम होति, कम्मट्ठानं विमोक्खं न गतं। सो तेमासच्‍चयेन पवारेत्वा वुत्थवस्सो हुत्वा तस्मिंयेव ठाने समणधम्मं करोति। तस्स समणधम्मं करोन्तस्स चित्तं एकग्गं अहोसि, सो विपस्सनं <pb ed="P" n="1.0227"/> वड्ढेत्वा अरहत्तं पापुणि।</p>

<p rend="bodytext">अथायस्मा <pb ed="M" n="1.0178"/> सारिपुत्तो सत्थारं आह – ‘‘भन्ते, मय्हं किर कनिट्ठभाता रेवतो पब्बजितो, सो अभिरमेय्य वा न वा, गन्त्वा नं पस्सिस्सामी’’ति। भगवा रेवतस्स आरद्धविपस्सकभावं ञत्वा द्वे वारे पटिक्खिपित्वा ततियवारे याचितो अरहत्तं पत्तभावं ञत्वा, ‘‘सारिपुत्त, अहम्पि गमिस्सामि, भिक्खूनं आरोचेही’’ति। थेरो भिक्खुसङ्घं सन्‍निपातेत्वा, ‘‘आवुसो, सत्था चारिकं चरितुकामो, गन्तुकामा आगच्छन्तू’’ति सब्बेसंयेव आरोचेसि। दसबलस्स चारिकत्थाय गमनकाले ओहीनकभिक्खू नाम अप्पका होन्ति, ‘‘सत्थु सुवण्णवण्णं सरीरं पस्सिस्साम, मधुरधम्मकथं वा सुणिस्सामा’’ति येभुय्येन गन्तुकामाव बहुका होन्ति। इति सत्था महाभिक्खुसङ्घपरिवारो ‘‘रेवतं पस्सिस्सामी’’ति निक्खन्तो।</p>

<p rend="bodytext">अथेकस्मिं पदेसे आनन्दत्थेरो द्वेधापथं पत्वा भगवन्तं पुच्छि – ‘‘भन्ते, इमस्मिं ठाने द्वे मग्गा, कतरमग्गेन सङ्घो गच्छतू’’ति। कतरमग्गो, आनन्द, उजुकोति? भन्ते, उजुमग्गो तिंसयोजनो अमनुस्सपथो, परिहारमग्गो पन सट्ठियोजनिको खेमो सुभिक्खोति। आनन्द <pb ed="V" n="1.0177"/>, सीवलि अम्हेहि सद्धिं आगतोति? आम, भन्ते, आगतोति। तेन हि सङ्घो उजुमग्गमेव गण्हतु, सीवलिस्स पुञ्‍ञं वीमंसिस्सामाति। सत्था भिक्खुसङ्घपरिवारो सीवलित्थेरस्स पुञ्‍ञवीमंसनत्थं अटविमग्गं अभिरुहि। मग्गं अभिरुहनट्ठानतो पट्ठाय देवसङ्घो योजने योजने ठाने नगरं मापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स वसनत्थाय विहारे पटियादेसि। देवपुत्ता रञ्‍ञा पेसितकम्मकारा विय हुत्वा यागुखज्‍जकादीनि गहेत्वा ‘‘कहं अय्यो <pb ed="P" n="1.0228"/> सीवलि, कहं अय्यो सीवली’’ति पुच्छन्ता गच्छन्ति। थेरो तं सक्‍कारसम्मानं गण्हापेत्वा सत्थु सन्तिकं गच्छति। सत्था भिक्खुसङ्घेन सद्धिं परिभुञ्‍जि।</p>

<p rend="bodytext">इमिनाव नियामेन सत्था सक्‍कारसम्मानं अनुभवन्तो देवसिकं योजनपरमं गन्त्वा तिंसयोजनिकं कन्तारं अतिक्‍कम्म खदिरवनियत्थेरस्स सभागट्ठानं पत्तो। थेरो सत्थु आगमनं ञत्वा अत्तनो वसनट्ठाने बुद्धप्पमुखस्स भिक्खुसङ्घस्स पहोनकविहारे दसबलस्स गन्धकुटिं रत्तिट्ठानदिवाट्ठानादीनि च इद्धिया मापेत्वा तथागतस्स पच्‍चुग्गमनं <pb ed="M" n="1.0179"/> गतो। सत्था अलङ्कतपटियत्तेन मग्गेन विहारं पाविसि। अथ तथागते गन्धकुटिं पविट्ठे भिक्खू वस्सग्गेन पत्तसेनासनानि पविसिंसु। देवता ‘‘अकालो आहारस्सा’’ति अट्ठविधं पानकं आहरिंसु। सत्था सङ्घेन सद्धिं पानकं पिवि। इमिनाव नियामेन तथागतस्स सक्‍कारसम्मानं अनुभवन्तस्सेव अद्धमासो अतिक्‍कन्तो।</p>

<p rend="bodytext">अथेकच्‍चे उक्‍कण्ठितभिक्खू एकस्मिं ठाने निसीदित्वा कथं उप्पादयिंसु ‘‘सत्था दसबलो ‘मय्हं अग्गसावकस्स कनिट्ठभाता’ति वत्वा एवरूपं नवकम्मिकभिक्खुं पस्सितुं आगतो, इमस्स विहारस्स सन्तिके जेतवनमहाविहारो वा वेळुवनविहारादयो वा किं करिस्सन्ति। अयम्पि भिक्खु एवरूपस्स नवकम्मस्स कारको, किं नाम समणधम्मं करिस्सती’’ति? अथ सत्था चिन्तेसि – ‘‘मयि चिरं वसन्ते इदं ठानं आकिण्णं भविस्सति, आरञ्‍ञका भिक्खू नाम पविवेकत्थिका होन्ति, रेवतस्स अफासुविहारो भविस्सती’’ति ततो रेवतस्स दिवाट्ठानं गतो। थेरो एककोव चङ्कमनकोटियं आलम्बनफलकं निस्साय पासाणफलके निसिन्‍नो सत्थारं दूरतोव आगच्छन्तं दिस्वा पच्‍चुग्गन्त्वा वन्दि।</p>

<p rend="bodytext">अथ नं सत्था पुच्छि – ‘‘रेवत, इमं वाळमिगट्ठानं <pb ed="P" n="1.0229"/>, चण्डानं हत्थिअस्सादीनं सद्दं सुत्वा किन्ति करोसी’’ति? तेसं मे, भन्ते, सद्दं सुणतो अरञ्‍ञरति नाम उप्पज्‍जतीति। सत्था <pb ed="V" n="1.0178"/> तस्मिं ठाने रेवतत्थेरस्स पञ्‍चहि गाथासतेहि अरञ्‍ञे निवासानिसंसं नाम कथेत्वा पुनदिवसे अविदूरे ठाने पिण्डाय चरित्वा रेवतत्थेरं निवत्तेत्वा येहि भिक्खूहि थेरस्स अवण्णो कथितो, तेसं कत्तरयट्ठिउपाहनातेलनाळिछत्तानं पमुस्सनभावं अकासि। ते अत्तनो परिक्खारत्थाय निवत्ता आगतमग्गेनेव गच्छन्तापि तं ठानं सल्‍लक्खेतुं न सक्‍कोन्ति। पठमं हि ते अलङ्कतपटियत्तेन मग्गेन गन्त्वा तंदिवसं पन विसममग्गेन गच्छन्ता तस्मिं तस्मिं ठाने उक्‍कुटिकं निसीदन्ति, जाणुकेन गच्छन्ति। ते गुम्बे च गच्छे च कण्टके च मद्दन्ता अत्तनो वसितसभागट्ठानं गन्त्वा तस्मिं तस्मिं खदिरखाणुके अत्तनो छत्तं सञ्‍जानन्ति, उपाहनं कत्तरयट्ठिं तेलनाळिं सञ्‍जानन्ति। ते तस्मिं समये ‘‘इद्धिमा <pb ed="M" n="1.0180"/> अयं भिक्खू’’ति ञत्वा अत्तनो परिक्खारे आदाय ‘‘दसबलस्स पटियत्तसक्‍कारो नाम एवरूपो होती’’ति वदन्ता आगमंसु।</p>

<p rend="bodytext">पुरतो गतभिक्खू, विसाखा उपासिका, अत्तनो गेहे निसिन्‍नकाले पुच्छति – ‘‘मनापं नु खो, भन्ते, रेवतत्थेरस्स वसनट्ठान’’न्ति? मनापं उपासिके नन्दनवनचित्तलतादिपटिभागं तं सेनासनन्ति। अथ नेसं सब्बपच्छतो आगतभिक्खू पुच्छि – ‘‘मनापं, अय्या, रेवतत्थेरस्स वसनट्ठान’’न्ति। मा पुच्छ उपासिके, कथेतुं अयुत्तट्ठानमेतं, उज्‍जङ्गलं सक्खरपासाणविसमं खदिरवनं एतं, तत्थ सो भिक्खु विहरतीति। विसाखा, पुरिमानञ्‍च पच्छिमानञ्‍च भिक्खूनं कथं <pb ed="P" n="1.0230"/> सुत्वा ‘‘केसं नु खो कथा सच्‍चा’’ति पच्छाभत्ते गन्धमालं आदाय दसबलस्स उपट्ठानं गन्त्वा, वन्दित्वा एकमन्तं निसिन्‍ना सत्थारं पुच्छि – ‘‘भन्ते, रेवतत्थेरस्स वसनट्ठानं एकच्‍चे, अय्या, वण्णेन्ति, एकच्‍चे निन्दन्ति, किं नामेतं, भन्ते’’ति? विसाखे रमणीयं वा होतु मा वा, यस्मिं ठाने अरियानं चित्तं रमति, तदेव ठानं रमणीयं नामाति वत्वा इमं गाथमाह –</p>

<p rend="gatha1">‘‘गामे वा यदि वारञ्‍ञे, निन्‍ने वा यदि वा थले।</p>

<p rend="gathalast">यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति॥ (ध॰ प॰ ९८; सं॰ नि॰ १.२६१)।</p>

<p rend="bodytext">अथ सत्था अपरभागे जेतवनमहाविहारे अरियगणमज्झे निसिन्‍नो थेरं आरञ्‍ञकानं भिक्खूनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">कङ्खारेवतत्थेरवत्थु</p>

<p rend="bodytext" n="204"><hi rend="paranum">२०४</hi><hi rend="dot">.</hi> छट्ठे <pb ed="V" n="1.0179"/> <hi rend="bold">झायीन</hi>न्ति झानलाभीनं झानाभिरतानं। सो किर थेरो या झानसमापत्तियो दसबलो समापज्‍जति, ततो अप्पतरं ठपेत्वा बहुतरा समापज्‍जति। तस्मा झायीनं अग्गो नाम जातो। कङ्खायनभावेन <hi rend="bold">कङ्खारेवतो</hi>ति वुच्‍चति। कङ्खा नाम कुक्‍कुच्‍चं, कुक्‍कुच्‍चकोति अत्थो। किं पन अञ्‍ञे कुक्‍कुच्‍चका नत्थीति? अत्थि, अयं पन थेरो कप्पियेपि कुक्‍कुच्‍चं उप्पादेसि। तेनस्स कुक्‍कुच्‍चकता अतिपाकटा जाताति कङ्खारेवतोत्वेव सङ्खं गतो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर पदुमुत्तरबुद्धकाले पुरिमनयेनेव महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं <pb ed="M" n="1.0181"/> सुणन्तो सत्थारं एकं भिक्खुं झानाभिरतानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति देसनावसाने सत्थारं निमन्तेत्वा पुरिमनयेनेव सत्ताहं महासक्‍कारं कत्वा भगवन्तं आह – ‘‘भन्ते, अहं इमिना अधिकारकम्मेन न <pb ed="P" n="1.0231"/> अञ्‍ञं सम्पत्तिं पत्थेमि, यथा पन सो तुम्हेहि इतो सत्तदिवसमत्थके भिक्खु झायीनं अग्गट्ठाने ठपितो, एवं अहम्पि अनागते एकस्स बुद्धस्स सासने झायीनं अग्गो भवेय्य’’न्ति पत्थनं अकासि। सत्था अनागतं ओलोकेत्वा समिज्झनभावं दिस्वा ‘‘अनागते कप्पसतसहस्सावसाने गोतमो नाम बुद्धो उप्पज्‍जिस्सति, तस्स सासने त्वं झायीनं अग्गो भविस्ससी’’ति ब्याकरित्वा पक्‍कामि।</p>

<p rend="bodytext">सो यावजीवं कल्याणकम्मं कत्वा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो काले सावत्थिनगरे महाभोगकुले निब्बत्तो पच्छाभत्तं धम्मस्सवनत्थं गच्छन्तेन महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो दसबलस्स धम्मकथं सुत्वा सद्धं पटिलभित्वा पब्बजितो उपसम्पदं लभित्वा कम्मट्ठानं कथापेत्वा झानपरिकम्मं करोन्तो झानलाभी हुत्वा झानमेव पादकं कत्वा अरहत्तफलं पापुणि। सो दसबलेन समापज्‍जितब्बसमापत्तीनं अप्पतरा ठपेत्वा बहुतरा समापज्‍जन्तो अहोरत्तं झानेसु चिण्णवसी अहोसि। अथ नं अपरभागे सत्था इमं गुणं गहेत्वा झायीनं अग्गट्ठाने ठपेसि। ‘‘अकप्पियो, आवुसो गुळो, अकप्पिया मुग्गा’’ति (महाव॰ २७२) एवं पन कप्पियेस्वेव वत्थूसु <pb ed="V" n="1.0180"/> कुक्‍कुच्‍चस्स उप्पादितताय कुक्‍कुच्‍चसङ्खाताय कङ्खाय भावेन कङ्खारेवतोति सङ्खं गतोति।</p>

<p rend="subhead">सोणकोळिविसत्थेरवत्थु</p>

<p rend="bodytext" n="205"><hi rend="paranum">२०५</hi><hi rend="dot">.</hi> सत्तमे <hi rend="bold">आरद्धवीरियान</hi>न्ति पग्गहितवीरियानं परिपुण्णवीरियानं। <hi rend="bold">सोणो कोळिविसो</hi>ति <hi rend="bold">सोणो</hi>ति तस्स नामं, <hi rend="bold">कोळिविसो</hi>ति गोत्तं। कोटिवेस्सोति वा अत्थो, इस्सरियेन कोटिप्पत्तस्स वेस्सकुलस्स दारकोति अधिप्पायो। यस्मा पन अञ्‍ञेसं भिक्खूनं <pb ed="P" n="1.0232"/> वीरियं नाम वड्ढेतब्बं होति, थेरस्स पन हापेतब्बमेव अहोसि। तस्मा एस आरद्धवीरियानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स <pb ed="M" n="1.0182"/> पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर अतीते पदुमुत्तरबुद्धकाले सेट्ठिकुले निब्बत्ति, सिरिवड्ढकुमारोतिस्स नामं अकंसु। सो वयप्पत्तो पुरिमनयेनेव विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं आरद्धवीरियानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति देसनापरियोसाने दसबलं निमन्तेत्वा सत्ताहं महादानं दत्वा वुत्तनयेनेव पत्थनं अकासि। सत्था तस्स पत्थनाय समिज्झनभावं दिस्वा पुरिमनयेनेव ब्याकरित्वा विहारं गतो।</p>

<p rend="bodytext">सोपि सिरिवड्ढसेट्ठि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कप्पसतसहस्सं अतिक्‍कमित्वा इमस्मिं कप्पे परिनिब्बुते कस्सपदसबले अनुप्पन्‍ने अम्हाकं भगवति बाराणसियं कुलगेहे पटिसन्धिं गण्हि। सो अत्तनो सहायकेहि सद्धिं गङ्गायं कीळति। तस्मिं समये एको जिण्णचीवरिको पच्‍चेकबुद्धो ‘‘बाराणसिं उपनिस्साय गङ्गातीरे पण्णसालं कत्वा वस्सं उपगच्छिस्सामी’’ति उदकेन समुपब्यूळ्हे दण्डके च वल्‍लियो च संकड्ढति। अयं कुमारो सहायकेहि सद्धिं गन्त्वा अभिवादेत्वा ठितो, ‘‘भन्ते, किं करोथा’’ति पुच्छि। कुमार उपकट्ठे अन्तोवस्से पब्बजितानं वसनट्ठानं नाम लद्धुं वट्टतीति। ‘‘भन्ते, अज्‍जेव एकदिवसं अय्यो यथा तथा आगमेतु, अहं स्वे अय्यस्स वसनट्ठानं करिस्सामी’’ति आह। पच्‍चेकबुद्धो ‘‘तस्सेव कुमारस्स सङ्गहं करिस्सामी’’ति आगतत्ता अधिवासेसि। सो तस्स अधिवासनं विदित्वा गतो पुनदिवसे सक्‍कारसम्मानं <pb ed="P" n="1.0233"/> सज्‍जेत्वा पच्‍चेकबुद्धस्स <pb ed="V" n="1.0181"/>आगमनं ओलोकेन्तो अट्ठासि। पच्‍चेकबुद्धोपि ‘‘कहं नु खो अज्‍ज भिक्खाचारं लभिस्सामी’’ति आवज्‍जेन्तो ञत्वा तस्सेव गेहद्वारं अगमासि।</p>

<p rend="bodytext">कुमारो पच्‍चेकबुद्धं दिस्वा सम्पियायमानो पत्तं आदाय भिक्खं दत्वा ‘‘इमं अन्तोवस्सं मय्हं गेहद्वारमेव आगच्छथ, भन्ते’’ति पटिञ्‍ञं गहेत्वा पच्‍चेकबुद्धे भत्तकिच्‍चं कत्वा पक्‍कन्ते अत्तनो सहायकेहि सद्धिं गन्त्वा एकदिवसेनेव पच्‍चेकबुद्धस्स वसनपण्णसालञ्‍च चङ्कमनञ्‍च रत्तिट्ठानदिवाट्ठानानि च कारापेत्वा अदासि। तस्सेव पण्णसालं पविसनवेलाय <pb ed="M" n="1.0183"/> हरितूपलित्ताय भूमिया ‘‘पादेसु कललं मा लग्गी’’ति अत्तनो पारुपनं सतसहस्सग्घनकं रत्तकम्बलं भूमत्थरणं सन्थरित्वा कम्बलस्स वण्णेन सद्धिं पच्‍चेकबुद्धस्स सरीरप्पभं एकसदिसं दिस्वा अतिविय पसन्‍नो हुत्वा आह – ‘‘यथा तुम्हेहि अक्‍कन्तकालतो पट्ठाय इमस्स कम्बलस्स अतिविय पभा विरोचति, एवमेव मय्हम्पि निब्बत्तनिब्बत्तट्ठाने हत्थपादानं वण्णो बन्धुजीवकपुप्फवण्णो होतु, सतक्खत्तुं विहतकप्पासपटलफस्ससदिसोव फस्सो होतू’’ति। सो तेमासं पच्‍चेकबुद्धं उपट्ठहित्वा पवारितकाले तिचीवरं अदासि। पच्‍चेकबुद्धो परिपुण्णपत्तचीवरो गन्धमादनमेव गतो।</p>

<p rend="bodytext">सोपि कुलपुत्तो देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले काळचम्पानगरे उपसेट्ठिस्स घरे पटिसन्धिं गण्हि। तस्स पटिसन्धिग्गहणकालतो पट्ठाय सेट्ठिकुलं अनेकानि <pb ed="P" n="1.0234"/> पण्णाकारसहस्सानि आगच्छन्ति। जातदिवसे च सकलनगरं एकसक्‍कारसम्मानं अहोसि। अथस्स नामग्गहणदिवसे मातापितरो ‘‘अम्हाकं पुत्तो अत्तनो नामं गण्हित्वाव आगतो, रत्तसुवण्णरसपरिसित्ता वियस्स सरीरच्छवी’’ति सोणकुमारोत्वेवस्स नामं अकंसु।</p>

<p rend="bodytext">अथस्स सट्ठि धातियो उपनेत्वा देवकुमारं विय नं सुखेन वड्ढेसुं। तस्स एवरूपं आहारविधानं अहोसि – सट्ठिकरीसमत्तं ठानं कसित्वा तिविधेन उदकेन पोसेन्ति। केदारे पविसन्तीसु उदकमातिकासु खीरोदकस्स च गन्धोदकस्स च अनेकानि चाटिसहस्सानि आसिञ्‍चन्ति। सालिसीसानं खीरग्गहणकाले सुकादीनं पाणानं उच्छिट्ठकरणनिवारणत्थं वीहिगब्भानं सुखुमालभावत्थञ्‍च परियन्तपरिक्खेपे च अन्तरन्तरा च थम्भे निखनित्वा उपरि दण्डके दत्वा किलञ्‍जेहि छादेत्वा समन्ता साणिया परिक्खिपित्वा सब्बपरियन्ते आरक्खं गण्हन्ति। सस्से निप्फन्‍ने कोट्ठे चतुजातिगन्धेहि परिभण्डं कत्वा उपरि उत्तमगन्धेहि परिभावेन्ति <pb ed="V" n="1.0182"/>। अनेकसहस्सपुरिसा खेत्तं ओरुय्ह सालिसीसानि वण्टेसु छिन्दित्वा मुट्ठिमुट्ठियो कत्वा रज्‍जुकेहि बन्धित्वा सुक्खापेन्ति। ततो कोट्ठकस्स हेट्ठिमतले गन्धे सन्थरित्वा उपरि सालिसीसानि सन्थरन्ति। एवं एकन्तरिकं कत्वा सन्थरन्ता कोट्ठकं पूरेत्वा द्वारं पिदहन्ति <pb ed="M" n="1.0184"/>, तिवस्ससम्पत्तकाले कोट्ठकं विवरन्ति। विवटकाले सकलनगरं सुगन्धगन्धिकं होति। सालिम्हि पहते धुत्ता थुसे किणित्वा गण्हन्ति, कुण्डकं पन चूळुपट्ठाका लभन्ति। मुसलघट्टितके सालितण्डुले विचिनित्वा गण्हन्ति <pb ed="P" n="1.0235"/>। ते सुवण्णहीरकपच्छियं पक्खिपित्वा सतकालं परिस्सावेत्वा गहिते पक्‍कुथितजातिरसे एकवारं पक्खिपित्वा उद्धरन्ति, पमुखट्ठानं सुमनपुप्फसदिसं होति। तं भोजनं सुवण्णसरके पक्खिपित्वा पक्‍कुथितअप्पोदकमधुपायासपूरितस्स रजतथालस्स उपरि कत्वा आदाय गन्त्वा सेट्ठिपुत्तस्स पुरतो ठपेन्ति।</p>

<p rend="bodytext">सो अत्तनो यापनमत्तं भुञ्‍जित्वा गन्धवासितेन उदकेन मुखं विक्खालेत्वा हत्थपादे धोवति। अथस्स धोतहत्थपादस्स नानप्पकारं मुखवासं उपनेन्ति। तस्स अक्‍कमनट्ठाने वरपोत्थकचित्तत्थरणं अत्थरन्ति। हत्थपादतलानिस्स बन्धुजीवकपुप्फवण्णानि होन्ति, सतकालविहतकप्पासस्स विय फस्सो, पादतलेसु मणिकुण्डलावत्तवण्णानि लोमानि जायिंसु। सो कस्सचिदेव कुज्झित्वा ‘‘आजानाहि भूमिं अक्‍कमिस्सामी’’ति वदति। तस्स वयप्पत्तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारेत्वा नाटकानि च उपट्ठापेसुं। सो महासम्पत्तिं अनुभवन्तो देवो मञ्‍ञे पटिवसति।</p>

<p rend="bodytext">अथ अम्हाकं सत्थरि सब्बञ्‍ञुतं पत्वा पवत्तितवरधम्मचक्‍के राजगहं उपनिस्साय विहरन्ते पादलोमदस्सनत्थं रञ्‍ञा मागधेन पक्‍कोसापेत्वा असीतिया गामियसहस्सेहि सद्धिं सत्थु सन्तिकं पहितो धम्मदेसनं सुत्वा पटिलद्धसद्धो सत्थारं पब्बज्‍जं याचि। अथ नं भगवा ‘‘अनुञ्‍ञातोसि मातापितूही’’ति पुच्छित्वा अननुञ्‍ञातभावं सुत्वा ‘‘न खो, सोण, तथागता मातापितूहि अननुञ्‍ञातं पुत्तं पब्बाजेन्ती’’ति पटिक्खिपि। सो ‘‘साधु भगवा’’ति तथागतस्स वचनं सिरसा <pb ed="P" n="1.0236"/> सम्पटिच्छित्वा मातापितूनं सन्तिकं गन्त्वा अनुजानापेत्वा सत्थु सन्तिकं आगम्म अञ्‍ञतरस्स भिक्खुनो सन्तिके पब्बजि। अयमेत्थ सङ्खेपो, वित्थारतो पनस्स पब्बज्‍जाविधानं पाळियं (महाव॰ २४३) आगतमेव।</p>

<p rend="bodytext">तस्स पब्बज्‍जञ्‍च उपसम्पदञ्‍च लभित्वा राजगहे विहरन्तस्स सम्बहुला ञातिसालोहिता <pb ed="V" n="1.0183"/> च सन्दिट्ठसम्भत्ता च सक्‍कारसम्मानं आहरन्ति, रूपनिप्फत्तिया <pb ed="M" n="1.0185"/> वण्णं कथेन्ति, अञ्‍ञेपि जना पस्सितुं आगच्छन्ति। थेरो चिन्तेसि – ‘‘मम सन्तिकं बहू जना आगच्छन्ति, कम्मट्ठाने वा विपस्सनाय वा कम्मं कातुं कथं सक्खिस्सामि, यंनूनाहं सत्थु सन्तिके कम्मट्ठानं कथापेत्वा सीतवनसुसानं गन्त्वा समणधम्मं करेय्यं। तत्र हि सुसानन्ति जिगुच्छित्वा बहू जना नागमिस्सन्ति, एवंसन्ते मम किच्‍चं मत्थकं पापुणिस्सती’’ति सत्थु सन्तिके कम्मट्ठानं कथापेत्वा सीतवनं गन्त्वा समणधम्मं कातुं आरभि। सो चिन्तेसि – ‘‘मय्हं सरीरं परमसुखुमालं, न खो पन सक्‍का सुखेनेव सुखं पापुणितुं, कायं किलमेत्वापि समणधम्मं कातुं वट्टती’’ति। ततो ठानचङ्कममेव अधिट्ठाय पधानमकासि। तस्स सुखुमालानं पादतलानं अन्तन्तेहि फोटा उट्ठाय भिज्‍जिंसु, चङ्कमो एकलोहितोव अहोसि। पादेसु अवहन्तेसु जण्णुकेहिपि हत्थेहिपि वायमित्वा चङ्कमति। एवं वीरियं दळ्हं करोन्तोपि ओभासमत्तम्पि निब्बत्तेतुं असक्‍कोन्तो चिन्तेसि – ‘‘सचे अञ्‍ञोपि आरद्धवीरियो भवेय्य, मादिसोव भवेय्य। अहं खो पन एवं वायमन्तोपि मग्गं वा फलं वा उप्पादेतुं न सक्‍कोमि, अद्धा नेवाहं उग्घटितञ्‍ञू, न विपञ्‍चितञ्‍ञू, न नेय्यो, पदपरमेन मया भवितब्बं। किं मे पब्बज्‍जाय, हीनायावत्तित्वा <pb ed="P" n="1.0237"/> भोगे च भुञ्‍जिस्सामि पुञ्‍ञानि च करिस्सामी’’ति।</p>

<p rend="bodytext">तस्मिं समये सत्था थेरस्स वितक्‍कं ञत्वा सायन्हसमये भिक्खुसङ्घपरिवुतो तत्थ गन्त्वा लोहितेन फुट्ठं चङ्कमं दिस्वा थेरं वीणोवादेन (महाव॰ २४३) ओवदित्वा वीरियसमथयोजनत्थाय तस्स कम्मट्ठानं कथेत्वा गिज्झकूटमेव गतो। सोणत्थेरोपि दसबलस्स सम्मुखा ओवादं लभित्वा नचिरस्सेव अरहत्ते पतिट्ठासि। अथ सत्था अपरभागे जेतवने भिक्खुसङ्घपरिवुतो धम्मं देसेन्तो थेरं आरद्धवीरियानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">सोणकुटिकण्णत्थेरवत्थु</p>

<p rend="bodytext" n="206"><hi rend="paranum">२०६</hi><hi rend="dot">.</hi> अट्ठमे <hi rend="bold">कल्याणवाक्‍करणान</hi>न्ति वाक्‍करणं वुच्‍चति वचनकिरिया, मधुरवचनानन्ति अत्थो। अयञ्हि थेरो दसबलेन सद्धिं एकगन्धकुटिया तथागतस्स <pb ed="M" n="1.0186"/> मधुरेन सरेन धम्मकथं कथेसि। अथस्स सत्था साधुकारं अदासि। तस्मा सो कल्याणवाक्‍करणानं अग्गो <pb ed="V" n="1.0184"/> नाम जातो। <hi rend="bold">सोणो</hi>ति तस्स नामं, कोटिअग्घनकं पन कण्णपिळन्धनं धारेसि। तस्मा <hi rend="bold">कुटिकण्णो</hi>ति वुच्‍चति, कोटिकण्णोति अत्थो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि पदुमुत्तरबुद्धकाले पुरिमनयेनेव महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते ठत्वा सत्थु धम्मं सुणन्तो सत्थारं एकं भिक्खुं कल्याणवाक्‍करणानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एकस्स बुद्धस्स सासने कल्याणवाक्‍करणानं अग्गेन भवितुं वट्टती’’ति चिन्तेत्वा दसबलं निमन्तेत्वा सत्ताहं महादानं दत्वा, ‘‘भन्ते, यं भिक्खुं तुम्हे इतो <pb ed="P" n="1.0238"/> सत्तदिवसमत्थके कल्याणवाक्‍करणानं अग्गट्ठाने ठपयित्थ, अहम्पि इमस्स अधिकारकम्मस्स फलेन अनागते एकस्स बुद्धस्स सासने तथारूपो भवेय्य’’न्ति पत्थनं अकासि। सत्था तस्स अनन्तरायं दिस्वा ‘‘अनागते गोतमबुद्धस्स सासने कल्याणवाक्‍करणानं अग्गो भविस्ससी’’ति ब्याकरित्वा पक्‍कामि।</p>

<p rend="bodytext">सोपि यावजीवं कुसलं कत्वा कप्पसतसहस्सं देवेसु च मनुस्सेसु च संसरन्तो अम्हाकं दसबलस्स उप्पत्तितो पुरेतरमेव देवलोका चवित्वा काळिया नाम कुररघरिकाय उपासिकाय कुच्छिस्मिं पटिसन्धिं गण्हि। सा परिपक्‍के गब्भे राजगहनगरे अत्तनो कुलनिवेसनं आगता।</p>

<p rend="bodytext">तस्मिं समये अम्हाकं सत्था सब्बञ्‍ञुतं पत्तो इसिपतने धम्मचक्‍कं पवत्तेसि। धम्मचक्‍कप्पवत्तने दससहस्सचक्‍कवाळदेवता सन्‍निपतिंसु। तत्थ एको अट्ठवीसतिया यक्खसेनापतीनं अब्भन्तरे सातागिरो नाम यक्खो दसबलस्स धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठाय चिन्तेसि – ‘‘किं नु खो अयं एवं मधुरधम्मकथा मम सहायेन हेमवतेन सुता न सुता’’ति? सो देवसङ्घस्स अन्तरे ओलोकेन्तो तं अपस्सित्वा ‘‘अद्धा मम सहायो तिण्णं रतनानं उप्पन्‍नभावं न जानाति, गच्छामि दसबलस्स चेव वण्णं कथेस्सामि, पटिविद्धधम्मञ्‍च आरोचेस्सामी’’ति अत्तनो परिसाय सद्धिं राजगहमत्थकेन तस्स सन्तिकं पायासि।</p>

<p rend="bodytext">हेमवतोपि <pb ed="M" n="1.0187"/> तियोजनसहस्सं हिमवन्तं अकालपुप्फितं दिस्वा ‘‘मम सहायेन सातागिरेन सद्धिं हिमवन्तकीळितं कीळिस्सामी’’ति अत्तनो परिसाय सद्धिं राजगहमत्थकेनेव <pb ed="V" n="1.0185"/> पायासि। तेसं द्विन्‍नम्पि अग्गबलकाया कुलघरिकाय काळिउपासिकाय निवेसनमत्थके समागन्त्वा ‘‘तुम्हे कस्स परिसा, मयं सातागिरस्स। तुम्हे कस्स परिसा, मयं हेमवतस्सा’’ति आहंसु। ते हट्ठतुट्ठाव गन्त्वा तेसं यक्खसेनापतीनं आरोचयिंसु। तेपि तंखणञ्‍ञेव <pb ed="P" n="1.0239"/> उपासिकाय निवेसनमत्थके समागच्छिंसु। सातागिरो हेमवतं आह – ‘‘कहं, सम्म, गच्छसी’’ति? तव सन्तिकं सम्माति। किंकारणाति? हिमवन्तं पुप्फितं दिस्वा तया सद्धिं तत्थ कीळिस्सामीति। त्वं पन, सम्म, कहं गच्छसीति? तव सन्तिकं, सम्माति। किंकारणाति? त्वं हिमवन्तस्स केन पुप्फितभावं जानासीति? न जानामि, सम्माति। सुद्धोदनमहाराजस्स पुत्तो सिद्धत्थकुमारो दससहस्सिलोकधातुं कम्पेत्वा पटिविद्धसब्बञ्‍ञुतञ्‍ञाणो दससहस्सचक्‍कवाळदेवतानं मज्झे अनुत्तरं धम्मचक्‍कं पवत्तेसि। तस्स पवत्तितभावं न जानासीति? न जानामि, सम्माति। त्वं एत्तकमेव ठानं पुप्फितन्ति अञ्‍ञासि, तस्स पन पुरिसस्स सक्‍कारत्थाय सकलदससहस्सचक्‍कवाळं एकमालागुळसदिसं अज्‍ज जातं सम्माति। माला ताव पुप्फन्तु, तया सो सत्था अक्खीनि पूरेत्वा दिट्ठोति। आम, सम्म, सत्था च मे दिट्ठो, धम्मो च सुतो, अमतञ्‍च पीतं। अहं ‘‘एतं अमतधम्मं तम्पि जानापेस्सामी’’ति तव सन्तिकं आगतोस्मि, सम्माति। तेसं अञ्‍ञमञ्‍ञं कथेन्तानंयेव उपासिका सिरिसयनतो उट्ठाय निसिन्‍ना तं कथासल्‍लापं सुत्वा सद्दे निमित्तं गण्हि। ‘‘अयं सद्दो उद्धं, न हेट्ठा, अमनुस्सभासितो, नो मनुस्सभासितो’’ति सल्‍लक्खेत्वा ओहितसोता पग्गहितमानसा हुत्वा निसीदि। ततो –</p>

<p rend="gatha1">‘‘अज्‍ज पन्‍नरसो उपोसथो (इति सातागिरो यक्खो),</p>

<p rend="gatha2">दिब्बा रत्ति उपट्ठिता।</p>

<p rend="gatha3">अनोमनामं सत्थारं,</p>

<p rend="gathalast">हन्द पस्साम गोतम’’न्ति॥ (सु॰ नि॰ १५३) –</p>

<p rend="unindented">एवं <pb ed="M" n="1.0188"/> सातागिरेन वुत्ते –</p>

<p rend="gatha1">‘‘कच्‍चि मनो सुपणिहितो (इति हेमवतो यक्खो),</p>

<p rend="gatha2">सब्बभूतेसु तादिनो।</p>

<p rend="gatha3">कच्‍चि <pb ed="V" n="1.0186"/> इट्ठे अनिट्ठे च,</p>

<p rend="gathalast">सङ्कप्पस्स वसीकता’’ति॥ (सु॰ नि॰ १५४)।</p>

<p rend="bodytext">एवं <pb ed="P" n="1.0240"/> हेमवतो सत्थु कायसमाचारञ्‍च आजीवञ्‍च मनोसमाचारञ्‍च पुच्छि। पुच्छितं पुच्छितं सातागिरो विस्सज्‍जेसि। एवं सत्थु सरीरवण्णगुणवण्णकथनवसेन हेमवतसुत्तन्ते निट्ठिते हेमवतो सहायकस्स धम्मदेसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठहि।</p>

<p rend="bodytext">अथ, काळी उपासिका, परस्स धम्मे देसीयमाने तथागतं अदिट्ठपुब्बाव हुत्वा अनुस्सवप्पसादं उप्पादेत्वा परस्स वड्ढितं भोजनं भुञ्‍जमाना विय सोतापत्तिफले पतिट्ठासि। सा सब्बमातुगामानं अन्तरे पठमकसोतापन्‍ना सब्बजेट्ठिका अहोसि। तस्सा सह सोतापत्तिभावेन तमेव रत्तिं गब्भवुट्ठानं जातं, पटिलद्धदारकस्स नामग्गहणदिवसे सोणोति नामं अकासि। सा यथारुचिया कुलगेहे वसित्वा कुलघरमेव अगमासि।</p>

<p rend="bodytext">तस्मिं समये महाकच्‍चानत्थेरो तं नगरं उपनिस्साय उपवत्ते पब्बते पटिवसति। उपासिका थेरं उपट्ठाति। थेरो निबद्धं तस्सा निवेसनं गच्छति। सोणदारकोपि निबद्धं थेरस्स सन्तिके विचरन्तो विस्सासिको अहोसि। सो अपरेन समयेन थेरस्स सन्तिके पब्बजि। थेरो तं उपसम्पादेतुकामो तीणि वस्सानि गणं परियेसित्वा उपसम्पादेसि। सो उपसम्पन्‍नो कम्मट्ठानं कथापेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा थेरस्सेव सन्तिके सुत्तनिपातं उग्गण्हित्वा वुत्थवस्सो पवारेत्वा सत्थारं पस्सितुकामो हुत्वा उपज्झायं आपुच्छि। थेरो आह – ‘‘सोण, तयि गते सत्था तं एकगन्धकुटियं वसापेत्वा धम्मं अज्झेसिस्सति, त्वं धम्मं कथेस्ससि। सत्था तव धम्मकथाय पसीदित्वा तुय्हं वरं दस्सति। त्वं वरं गण्हन्तो इमञ्‍च इमञ्‍च गण्हाहि, मम वचनेन दसबलस्स पादे वन्दाही’’ति। सो उपज्झायेन अनुञ्‍ञातो <pb ed="P" n="1.0241"/> मातुउपासिकाय गेहं गन्त्वा आरोचेसि। सापि ‘‘साधु <pb ed="M" n="1.0189"/>, तात, त्वं दसबलं पस्सितुं गच्छन्तो इमं कम्बलं आहरित्वा सत्थु वसनगन्धकुटिया भूमत्थरणं कत्वा अत्थराही’’ति कम्बलं अदासि। सोणत्थेरो तं आदाय सेनासनं संसामेत्वा अनुपुब्बेन सत्थु वसनट्ठानं गन्त्वा दसबलस्स बुद्धासने निसिन्‍नवेलायमेव उपसङ्कमित्वा अभिवादेत्वा एकमन्तं अट्ठासि। सत्था तेन सद्धिं पटिसन्थारं कत्वा आनन्दत्थेरं आमन्तेसि – ‘‘आनन्द, इमस्स भिक्खुस्स <pb ed="V" n="1.0187"/> सेनासनं जानाही’’ति। थेरो सत्थु अधिप्पायं ञत्वा अन्तोगन्धकुटियंयेव भूमत्थरणं उस्सारेन्तो विय अत्थरि।</p>

<p rend="bodytext">अथ खो भगवा बहुदेवरत्तिं अज्झोकासे वीतिनामेत्वा विहारं पाविसि, आयस्मापि खो सोणो बहुदेवरत्तिं अज्झोकासे वीतिनामेत्वा विहारं पाविसि। सत्था पच्छिमयामे सीहसेय्यं कप्पेत्वा पच्‍चूससमये वुट्ठाय निसीदित्वा ‘‘एत्तकेन कालेन सोणस्स कायदरथो पटिप्पस्सद्धो भविस्सती’’ति ञत्वा आयस्मन्तं सोणं अज्झेसि – ‘‘पटिभातु तं भिक्खु धम्मो भासितु’’न्ति। सोणत्थेरो मधुरस्सरेन एकब्यञ्‍जनम्पि अविनासेन्तो अट्ठकवग्गियानि सुत्तानि (सु॰ नि॰ ७७२ आदयो) अभासि। कथापरियोसाने भगवा साधुकारं दत्वा ‘‘सुग्गहितो ते भिक्खु धम्मो, मया देसितकाले च अज्‍ज च एकसदिसाव देसना, किञ्‍चि ऊनं वा अधिकं वा नत्थी’’ति पसन्‍नभावं पकासेसि। सोणत्थेरोपि ‘‘अयं ओकासो’’ति सल्‍लक्खेत्वा उपज्झायस्स वचनेन दसबलं वन्दित्वा विनयधरपञ्‍चमेन गणेन उपसम्पदं आदिं कत्वा सब्बे वरे याचि, सत्था अदासि। पुन थेरो मातुउपासिकाय वचनेन वन्दित्वा ‘‘अयं, भन्ते, उपासिकाय तुम्हाकं वसनगन्धकुटियं भूमत्थरणत्थं कम्बलो <pb ed="P" n="1.0242"/> पहितो’’ति कम्बलं दत्वा उट्ठायासना सत्थारं वन्दित्वा पदक्खिणं कत्वा पक्‍कामि। अयमेत्थ सङ्खेपो, वित्थारतो पन थेरस्स पब्बज्‍जं आदिं कत्वा सब्बं सुत्ते आगतमेव।</p>

<p rend="bodytext">इति थेरो सत्थु सन्तिका अट्ठ वरे लभित्वा उपज्झायस्स सन्तिकं गन्त्वा सब्बं तं पवत्तिं आरोचेसि। पुनदिवसे मातुउपासिकाय निवेसनद्वारं गन्त्वा भिक्खाय अट्ठासि। उपासिका ‘‘पुत्तो किर मे द्वारे ठितो’’ति सुत्वा वेगेन आगन्त्वा अभिवादेत्वा हत्थतो पत्तं गहेत्वा <pb ed="M" n="1.0190"/> अन्तोनिवेसने निसीदापेत्वा भोजनं अदासि। अथ नं भत्तकिच्‍चपरियोसाने आह – ‘‘दिट्ठो ते, तात, दसबलो’’ति? आम उपासिकेति। वन्दितो ते मम वचनेनाति? आम वन्दितो, सोपि च मे कम्बलो तथागतस्स वसनट्ठाने भूमत्थरणं कत्वा अत्थतोति। किं, तात, तया किर सत्थु धम्मकथा कथिता, सत्थारा च ते साधुकारो दिन्‍नोति? तया कथं ञातं उपासिकेति? तात, मय्हं गेहे अधिवत्था देवता दसबलेन तुय्हं साधुकारं दिन्‍नदिवसे ‘‘सकलदससहस्सचक्‍कवाळे देवता साधुकारं अदंसू’’ति आह – तात, तया कथितधम्मकथं बुद्धानं कथितनियामेनेव मय्हम्पि कथेतुं पच्‍चासीसामीति। थेरो मातु कथं सम्पटिच्छि। सा तस्स अधिवासनं विदित्वा द्वारे मण्डपं कारेत्वा दसबलस्स कथितनियामेनेव अत्तनो धम्मकथं <pb ed="V" n="1.0188"/> कथापेसीति वत्थु एत्थ समुट्ठितं। सत्था अपरभागे अरियगणमज्झे निसिन्‍नो थेरं कल्याणवाक्‍करणानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">सीवलित्थेरवत्थु</p>

<p rend="bodytext" n="207"><hi rend="paranum">२०७</hi><hi rend="dot">.</hi> नवमे <pb ed="P" n="1.0243"/> <hi rend="bold">लाभीनं यदिदं सीवली</hi>ति ठपेत्वा तथागतं लाभीनं भिक्खूनं सीवलित्थेरो अग्गोति दस्सेति। तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि अतीते पदुमुत्तरबुद्धकाले वुत्तनयेनेव विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं लाभीनं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति दसबलं निमन्तेत्वा पुरिमनयेनेव सत्ताहं महादानं दत्वा ‘‘भगवा अहम्पि इमिना अधिकारकम्मेन अञ्‍ञं सम्पत्तिं न पत्थेमि, अनागते पन एकस्स बुद्धस्स सासने अहम्पि तुम्हेहि सो एतदग्गे ठपितभिक्खु विय लाभीनं अग्गो भवेय्य’’न्ति पत्थनं अकासि। सत्था अनन्तरायं दिस्वा ‘‘अयं ते पत्थना अनागते गोतमस्स बुद्धस्स सासने समिज्झिस्सती’’ति ब्याकरित्वा पक्‍कामि।</p>

<p rend="bodytext">सोपि कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो विपस्सीबुद्धकाले बन्धुमतीनगरतो अविदूरे एकस्मिं गामे पटिसन्धिं गण्हि। तस्मिं समये बन्धुमतीनगरवासिनो रञ्‍ञा सद्धिं साकच्छित्वा साकच्छित्वा दसबलस्स <pb ed="M" n="1.0191"/> दानं देन्ति। ते एकदिवसं सब्बेव एकतो हुत्वा दानं देन्ता ‘‘किं नु खो अम्हाकं दानमुखे नत्थी’’ति मधुञ्‍च गुळदधिञ्‍च न अद्दसंसु। ते ‘‘यतो कुतोचि आहरिस्सामा’’ति जनपदतो नगरं पविसनमग्गे पुरिसं ठपेसुं। तदा एस कुलपुत्तो अत्तनो गामतो गुळदधिवारकं गहेत्वा ‘‘किञ्‍चिदेव आहरिस्सामी’’ति नगरं गच्छन्तो मुखं धोवित्वा ‘‘धोतहत्थपादो पविसिस्सामी’’ति फासुकट्ठानं ओलोकेन्तो नङ्गलसीसमत्तं निम्मक्खिकं दण्डकमधुं दिस्वा ‘‘पुञ्‍ञेन मे इदं उप्पन्‍न’’न्ति गहेत्वा नगरं पविसति। नागरेहि ठपितपुरिसो तं दिस्वा, ‘‘भो पुरिस, कस्सिमं आहरसी’’ति <pb ed="P" n="1.0244"/> पुच्छि। न कस्सचि सामि, विक्‍किणितुं पन मे इदं आनीतन्ति। तेन हि, भो पुरिस, इमं कहापणं गहेत्वा एतं मधुञ्‍च गुळदधिञ्‍च देहीति।</p>

<p rend="bodytext">सो चिन्तेसि – ‘‘इदं न बहुमूलं, अयञ्‍च एकप्पहारेनेव बहुं देति, वीमंसितुं वट्टती’’ति <pb ed="V" n="1.0189"/>। ततो नं ‘‘नाहं एककहापणेन देमी’’ति आह। यदि एवं, द्वे गहेत्वा देहीति। द्वीहिपि न देमीति। एतेनुपायेन वड्ढन्तं वड्ढन्तं सहस्सं पापुणि। सो चिन्तेसि – ‘‘अतिअञ्छितुं न वट्टति, होतु ताव, इमस्स कत्तब्बकिच्‍चं पुच्छिस्सामी’’ति। अथ नं आह – ‘‘इदं न बहुअग्घनकं, त्वञ्‍च बहुं देसि, केन कम्मेन इदं गण्हासी’’ति? इध, भो, नगरवासिनो रञ्‍ञा सद्धिं पटिविरुज्झित्वा विपस्सीदसबलस्स दानं देन्ता इदं द्वयं दानमुखे अपस्सन्ता परियेसन्ति। सचे इदं द्वयं न लभिस्सन्ति, नागरानं पराजयो भविस्सति। तस्मा सहस्सं दत्वा गण्हामीति। किं पनेतं नागरानमेव वट्टति, न अञ्‍ञेसं दातुं वट्टतीति? यस्स कस्सचि दातुं अवारितमेतन्ति। अत्थि पन ते कोचि नागरानं दाने एकदिवसं सहस्सं दाताति? नत्थि सम्माति। इमेसं पन द्विन्‍नं सहस्सग्घनकभावं जानासीति? आम जानामीति। तेन हि गच्छ, नागरानं आचिक्ख – ‘‘एको पुरिसो इमानि द्वे मूलेन न देति, सहत्थेनेव दातुकामो, तुम्हे इमेसं द्विन्‍नं कारणा निरुस्सुक्‍का होथा’’ति। त्वं पन मे इमस्मिं दानमुखे जेट्ठकभावस्स कायसक्खी होहीति।</p>

<p rend="bodytext">सो गामवासी परिब्बयत्थं गहितमासकेन पञ्‍चकटुकं गहेत्वा चुण्णं कत्वा दधितो कञ्‍जियं वाहेत्वा तत्थ मधुपटलं <pb ed="P" n="1.0245"/> पीळेत्वा पञ्‍चकटुकचुण्णेन योजेत्वा एकस्मिं पदुमिनिपत्ते पक्खिपित्वा तं संविदहित्वा आदाय <pb ed="M" n="1.0192"/> दसबलस्स अविदूरे ठाने निसीदि। महाजनेन आहरियमानस्स सक्‍कारस्स अन्तरे अत्तनो पत्तवारं ओलोकयमानो ओकासं ञत्वा सत्थु सन्तिकं गन्त्वा ‘‘भगवा अयं मय्हं दुग्गतपण्णाकारो, इमं मे अनुकम्पं पटिच्‍च गण्हथा’’ति। सत्था तस्स अनुकम्पं पटिच्‍च चतुमहाराजदत्तियेन सेलमयेन पत्तेन तं पटिग्गहेत्वा यथा अट्ठसट्ठिभिक्खुसतसहस्सस्स दिय्यमानं न खीयति, एवं अधिट्ठासि। सोपि कुलपुत्तो निट्ठितभत्तकिच्‍चं भगवन्तं अभिवादेत्वा एकमन्तं ठितो आह – ‘‘दिट्ठो मे भगवा अज्‍ज बन्धुमतीनगरवासिकेहि तुम्हाकं सक्‍कारो आहरियमानो, अहम्पि इमस्स कम्मस्स निस्सन्देन निब्बत्तनिब्बत्तभवे लाभग्गयसग्गप्पत्तो भवेय्य’’न्ति। सत्था ‘‘एवं होतु कुलपुत्ता’’ति वत्वा तस्स च नगरवासीनञ्‍च भत्तानुमोदनं कत्वा पक्‍कामि।</p>

<p rend="bodytext">सोपि कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुप्पवासाय राजधीताय कुच्छिस्मिं पटिसन्धिं गण्हि। पटिसन्धिग्गहणतो पट्ठाय सायं पातञ्‍च पण्णाकारसतानि पापुणन्ति, सुप्पवासा सम्पत्तिं गच्छति। अथ नं पुञ्‍ञवीमंसनत्थं हत्थेन बीजपच्छिं <pb ed="V" n="1.0190"/> फुसापेन्ति, एकेकबीजतो सलाकसतम्पि सलाकसहस्सम्पि निगच्छति। एककरीसखेत्ततो पञ्‍ञासम्पि सट्ठिपि सकटानि उप्पज्‍जन्ति। कोट्ठपूरणकालेपि कोट्ठद्वारं हत्थेन फुसापेन्ति, राजधीताय पुञ्‍ञेन गण्हन्तानं गहितगहितट्ठानं पुन पूरति। परिपुण्णभत्तकुम्भितोपि ‘‘राजधीताय पुञ्‍ञ’’न्ति <pb ed="P" n="1.0246"/> वत्वा यस्स कस्सचि देन्तानं याव न उक्‍कड्ढन्ति, न ताव भत्तं खीयति। दारके कुच्छिगतेयेव सत्त वस्सानि अतिक्‍कमिंसु।</p>

<p rend="bodytext">गब्भे पन परिपक्‍के सत्ताहं महादुक्खं अनुभोसि। सा सामिकं आमन्तेत्वा ‘‘पुरे मरणा जीवमानाव दानं दस्सामी’’ति सत्थु सन्तिकं पेसेसि – ‘‘गच्छ इमं पवत्तिं सत्थु आरोचेत्वा सत्थारं निमन्तेहि, यञ्‍च सत्था वदेति, तं साधुकं उपलक्खेत्वा आगन्त्वा मय्हं कथेही’’ति। सो गन्त्वा तस्सा सासनं भगवतो आरोचेसि। सत्था ‘‘सुखिनी होतु सुप्पवासा कोलियधीता, सुखिनी अरोगा अरोगं पुत्तं विजायतू’’ति आह। राजा तं सुत्वा भगवन्तं अभिवादेत्वा अन्तोगामाभिमुखो पायासि। तस्स पुरे आगमनायेव सुप्पवासाय कुच्छितो <pb ed="M" n="1.0193"/> धमकरणा उदकं विय गब्भो निक्खमि, परिवारेत्वा निसिन्‍नजनो अस्सुमुखोव हसितुं आरद्धो। हट्ठतुट्ठो महाजनो रञ्‍ञो पुत्तसासनं आरोचेतुं अगमासि।</p>

<p rend="bodytext">राजा तेसं इङ्गितं दिस्वाव ‘‘दसबलेन कथितकथा निप्फन्‍ना मञ्‍ञे’’ति चिन्तेसि। सो आगन्त्वा सत्थु सासनं राजधीताय आरोचेसि। राजधीता ‘‘तया निमन्तितं जीवितभत्तमेव मङ्गलभत्तं भविस्सति, गच्छ सत्ताहं दसबलं निमन्तेही’’ति। राजा तथा अकासि। सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तयिंसु। दारको सब्बेसं ञातीनं सन्तत्तचित्तं निब्बापेन्तो जातोति <hi rend="bold">सीवलिदारको</hi>त्वेवस्स नामं अकंसु। सो सत्त वस्सानि गब्भे वसितत्ता जातकालतो पट्ठाय सब्बकम्मक्खमो अहोसि। धम्मसेनापति सारिपुत्तो सत्तमे दिवसे तेन सद्धिं कथासल्‍लापं अकासि। सत्थापि धम्मपदे गाथं अभासि –</p>

<p rend="gatha1">‘‘योमं <pb ed="P" n="1.0247"/> पलिपथं दुग्गं, संसारं मोहमच्‍चगा।</p>

<p rend="gatha2">तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी।</p>

<p rend="gathalast">अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ४१४)।</p>

<p rend="bodytext">अथ नं थेरो एवमाह – ‘‘किं पन तया एवरूपं दुक्खरासिं अनुभवित्वा पब्बजितुं न <pb ed="V" n="1.0191"/> वट्टती’’ति? लभमानो पब्बजेय्यं, भन्तेति। सुप्पवासा तं दारकं थेरेन सद्धिं कथेन्तं दिस्वा ‘‘किं नु खो मे पुत्तो धम्मसेनापतिना सद्धिं कथेती’’ति थेरं उपसङ्कमित्वा पुच्छि – ‘‘मय्हं पुत्तो तुम्हेहि सद्धिं किं कथेति, भदन्ते’’ति? अत्तना अनुभूतं गब्भवासदुक्खं कथेत्वा तुम्हेहि अनुञ्‍ञातो पब्बजिस्सामीति वदतीति। साधु, भन्ते, पब्बाजेथ नन्ति। थेरो तं विहारं नेत्वा तचपञ्‍चककम्मट्ठानं दत्वा पब्बाजेन्तो, ‘‘सीवलि, न तुय्हं अञ्‍ञेन ओवादेन कम्मं अत्थि, तया सत्त वस्सानि अनुभूतदुक्खमेव पच्‍चवेक्खाही’’ति। भन्ते, पब्बाजनमेव तुम्हाकं भारो, यं पन मया कातुं सक्‍का, तमहं जानिस्सामीति। सो पठमकेसवट्टिया ओहारितक्खणेयेव सोतापत्तिफले पतिट्ठासि, दुतियाय ओहारितक्खणे सकदागामिफले, ततियाय अनागामिफले। सब्बेसंयेव पन केसानं ओरोपनञ्‍च अरहत्तसच्छिकिरिया च अपच्छा अपुरिमा अहोसि। तस्स पब्बजितदिवसतो पट्ठाय भिक्खुसङ्घस्स चत्तारो पच्‍चया यदिच्छकं उप्पज्‍जन्ति। एवं एत्थ वत्थु समुट्ठितं।</p>

<p rend="bodytext">अपरभागे <pb ed="M" n="1.0194"/> सत्था सावत्थिं अगमासि। थेरो सत्थारं अभिवादेत्वा, ‘‘भन्ते, मय्हं पुञ्‍ञं वीमंसिस्सामि, पञ्‍च मे भिक्खुसतानि देथा’’ति आह <pb ed="P" n="1.0248"/>। गण्ह, सीवलीति। सो पञ्‍चसते भिक्खू गहेत्वा हिमवन्ताभिमुखं गच्छन्तो अटविमग्गं गच्छति। तस्स पठमं दिट्ठा निग्रोधे अधिवत्था देवता सत्त दिवसानि दानं अदासि। इति सो –</p>

<p rend="gatha1">‘‘निग्रोधं पठमं पस्सि, दुतियं पण्डवपब्बतं।</p>

<p rend="gathalast">ततियं अचिरवतियं, चतुत्थं वरसागरं॥</p>

<p rend="gatha1">‘‘पञ्‍चमं हिमवन्तं सो, छट्ठं छद्दन्तुपागमि।</p>

<p rend="gathalast">सत्तमं गन्धमादनं, अट्ठमं अथ रेवत’’न्ति॥</p>

<p rend="bodytext">सब्बट्ठानेसु सत्त सत्त दिवसानेव दानं अदंसु। गन्धमादनपब्बते पन नागदत्तदेवराजा नाम सत्तदिवसेसु एकदिवसं खीरपिण्डपातं अदासि, एकदिवसं सप्पिपिण्डपातं अदासि। भिक्खुसङ्घो आह – ‘‘आवुसो, इमस्स देवरञ्‍ञो नेव धेनुयो दुय्हमाना पञ्‍ञायन्ति, न दधिनिम्मथनं, कुतो ते, देवराज, इमं उप्पज्‍जती’’ति? ‘‘भन्ते, कस्सपदसबलस्स काले खीरसलाकभत्तदानस्सेतं <pb ed="V" n="1.0192"/> फल’’न्ति देवराजा आह। अपरभागे सत्था खदिरवनियरेवतस्स पच्‍चुग्गमनं अट्ठुप्पत्तिं कत्वा थेरं अत्तनो सासने लाभग्गयसग्गप्पत्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">वक्‍कलित्थेरवत्थु</p>

<p rend="bodytext" n="208"><hi rend="paranum">२०८</hi><hi rend="dot">.</hi> दसमे <hi rend="bold">सद्धाधिमुत्तान</hi>न्ति सद्धाय अधिमुत्तानं, बलवसद्धानं भिक्खूनं वक्‍कलित्थेरो अग्गोति दस्सेति। अञ्‍ञेसं हि सद्धा वड्ढेतब्बा होति, थेरस्स पन हापेतब्बा जाता। तस्मा सो सद्धाधिमुत्तानं अग्गोति वुत्तो। <hi rend="bold">वक्‍कली</hi>ति पनस्स नामं।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि अतीते पदुमुत्तरबुद्धकाले वुत्तनयेनेव <pb ed="P" n="1.0249"/> विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं सद्धाधिमुत्तानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति वुत्तनयेनेव सत्थारं निमन्तेत्वा सत्ताहं महादानं दत्वा दसबलं वन्दित्वा, ‘‘भन्ते, अहम्पि इमिना अधिकारकम्मेन तुम्हेहि सद्धाधिमुत्तानं एतदग्गे ठपितभिक्खु विय अनागते <pb ed="M" n="1.0195"/> एकस्स बुद्धस्स सासने सद्धाधिमुत्तानं अग्गो भवेय्य’’न्ति पत्थनं अकासि। सत्था तस्स अनन्तरायं दिस्वा ब्याकरित्वा पक्‍कामि।</p>

<p rend="bodytext">सोपि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं सत्थुकाले सावत्थियं ब्राह्मणकुले पटिसन्धिं गण्हि, वक्‍कलीतिस्स नामं अकंसु। सो वुद्धिप्पत्तो तयो वेदे उग्गण्हित्वा दसबलं भिक्खुसङ्घपरिवुतं सावत्थियं चरन्तं दिस्वा सत्थु सरीरसम्पत्तिं ओलोकेन्तो सरीरसम्पत्तिदस्सनेन अतित्तो दसबलेन सद्धिंयेव विचरति। विहारं गच्छन्तेन सद्धिं विहारं गन्त्वा सरीरनिप्फत्तिं ओलोकेन्तोव तिट्ठति। धम्मसभायं निसीदित्वा धम्मं कथेन्तस्स सम्मुखट्ठाने ठितो धम्मं सुणाति। सो सद्धं पटिलभित्वा ‘‘अगारमज्झे वसन्तो निबद्धं दसबलस्स दस्सनं न लभिस्सामी’’ति पब्बज्‍जं याचित्वा सत्थु सन्तिके पब्बजि।</p>

<p rend="bodytext">ततो पट्ठाय ठपेत्वा आहारकरणवेलं अवसेसकाले यत्थ ठितेन सक्‍का दसबलं पस्सितुं, तत्थ ठितो योनिसोमनसिकारं पहाय दसबलं ओलोकेन्तोव विहरति। सत्था तस्स ञाणपरिपाकं आगमेन्तो दीघम्पि अद्धानं तस्मिं रूपदस्सनवसेनेव विचरन्ते किञ्‍चि अवत्वा ‘‘इदानिस्स <pb ed="V" n="1.0193"/> ञाणं परिपाकगतं, सक्‍का एतं बोधेतु’’न्ति ञत्वा एवमाह – ‘‘किं ते, वक्‍कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्‍कलि, धम्मं पस्सति, सो मं पस्सति। यो मं पस्सति, सो धम्मं पस्सति। धम्मञ्हि, वक्‍कलि <pb ed="P" n="1.0250"/>, पस्सन्तो मं पस्सति, मं पस्सन्तो धम्मं पस्सती’’ति।</p>

<p rend="bodytext">सत्थरि एवं ओवदन्तेपि थेरो दसबलस्स दस्सनं पहाय नेव अञ्‍ञत्थ गन्तुं सक्‍कोति। ततो सत्था ‘‘नायं भिक्खु संवेगं अलभित्वा बुज्झिस्सती’’ति उपकट्ठाय वस्सूपनायिकाय राजगहं गन्त्वा वस्सूपनायिकदिवसे ‘‘अपेहि, वक्‍कली’’ति थेरं पणामेति। बुद्धा च नाम आदेय्यवचना होन्ति, तस्मा थेरो सत्थारं पटिप्फरित्वा ठातुं असक्‍कोन्तो तेमासं दसबलस्स सम्मुखे आगन्तुं अविसहन्तो ‘‘किं दानि सक्‍का कातुं, तथागतेनम्हि पणामितो, सम्मुखीभावं न लभामि, किं मय्हं जीवितेना’’ति गिज्झकूटपब्बते पपातट्ठानं अभिरुहि। सत्था तस्स किलमनभावं ञत्वा ‘‘अयं भिक्खु मम सन्तिका अस्सासं अलभन्तो <pb ed="M" n="1.0196"/> मग्गफलानं उपनिस्सयं नासेय्या’’ति अत्तानं दस्सेतुं ओभासं विस्सज्‍जेसि। अथस्स सत्थु दिट्ठकालतो पट्ठाय एव महन्तं सोकसल्‍लं पहीनं। सत्था सुक्खतळाके ओघं आहरन्तो विय वक्‍कलित्थेरस्स बलवपीतिसोमनस्सं उप्पादेतुं धम्मपदे इमं गाथमाह –</p>

<p rend="gatha1">‘‘पामोज्‍जबहुलो भिक्खु, पसन्‍नो बुद्धसासने।</p>

<p rend="gathalast">अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति॥ (ध॰ प॰ ३८१)।</p>

<p rend="bodytext">वक्‍कलित्थेरस्स च ‘‘एहि, वक्‍कली’’ति हत्थं पसारेसि। थेरो ‘‘दसबलो मे दिट्ठो, एहीति अव्हायनम्पि लद्ध’’न्ति बलवपीतिं उप्पादेत्वा ‘‘कुतो गच्छामी’’ति अत्तनो गमनभावं अजानित्वाव दसबलस्स सम्मुखे आकासे पक्खन्दित्वा पठमपादेन पब्बते ठितोयेव सत्थारा वुत्तगाथं <pb ed="P" n="1.0251"/> आवज्‍जेन्तो आकासेयेव पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा तथागतं वन्दमानोव ओतरि। अपरभागे सत्था अरियगणमज्झे निसिन्‍नो थेरं सद्धाधिमुत्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="centre">दुतियवग्गवण्णना।</p>

<p rend="title">१४. एतदग्गवग्गो</p>

<p rend="subhead">(१४) ३. ततियएतदग्गवग्गो</p>

<p rend="bodytext" n="209"><hi rend="paranum">२०९</hi><hi rend="dot">.</hi> ततियवग्गस्स <pb ed="V" n="1.0194"/> पठमे <hi rend="bold">सिक्खाकामान</hi>न्ति तिस्सो सिक्खा कामयमानानं सम्पियायित्वा सिक्खन्तानन्ति अत्थो। <hi rend="bold">राहुलो</hi>ति अत्तनो पुत्तं राहुलत्थेरं दस्सेति। थेरो किर पब्बजितदिवसतो पट्ठाय पातोव उट्ठहन्तो हत्थपूरं वालिकं उक्खिपित्वा ‘‘अहो वताहं अज्‍ज दसबलस्स चेव आचरियुपज्झायानञ्‍च सन्तिका एत्तकं ओवादञ्‍चेव अनुसासनिञ्‍च लभेय्य’’न्ति पत्थेति। तस्मा सिक्खाकामानं अग्गो नाम जातोति।</p>

<p rend="bodytext" n="210"><hi rend="paranum">२१०</hi><hi rend="dot">.</hi> दुतिये <hi rend="bold">सद्धापब्बजितान</hi>न्ति सद्धाय पब्बजितानं। <hi rend="bold">रट्ठपालो</hi>ति रट्ठं पालेतुं समत्थो, भिन्‍नं वा रट्ठं सन्धारेतुं समत्थे कुले जातोतिपि <pb ed="M" n="1.0197"/> रट्ठपालोति सङ्खं गतो। सो हि सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो चुद्दसभत्तच्छेदे कत्वा मातापितरो पब्बज्‍जं अनुजानापेत्वा पब्बजितो। तस्मा सद्धापब्बजितानं अग्गो नाम जातो।</p>

<p rend="subhead">राहुल-रट्ठपालत्थेरवत्थु</p>

<p rend="bodytext">इमेसं पन उभिन्‍नम्पि थेरानं पञ्हकम्मे अयमनुपुब्बिकथा – एते किर द्वेपि अतीते पदुमुत्तरबुद्धकाले हंसवतीनगरे गहपतिमहासालकुले निब्बत्तिंसु। तेसं दहरकाले नामं वा गोत्तं वा न कथियति। वयप्पत्ता पन घरावासे पतिट्ठाय अत्तनो अत्तनो पितु अच्‍चयेन उभोपि अत्तनो अत्तनो <pb ed="P" n="1.0252"/> रतनकोट्ठागारकम्मिके पक्‍कोसापेत्वा अपरिमाणं धनं दिस्वा – ‘‘इमं एत्तकं धनरासिं अय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, अम्हेहि दानि येन केनचि उपायेन इमं धनं गहेत्वा गन्तुं वट्टती’’ति ते उभोपि जना चतूसु ठानेसु कपणद्धिकादीनं महादानं दातुं आरद्धा। एको अत्तनो दानग्गे आगतागतजनं पुच्छित्वा यागुखज्‍जकादीसु यस्स यं पटिभाति, तस्स तं अदासि, तस्स तेनेव कारणेन आगतपाकोति <pb ed="V" n="1.0195"/> नामं जातं। इतरो अपुच्छित्वाव गहितगहितभाजनं पूरेत्वा पूरेत्वा देति, तस्सपि तेनेव कारणेन अनग्गपाकोति नामं जातं, अप्पमाणपाकोति अत्थो।</p>

<p rend="bodytext">ते उभोपि एकदिवसं पातोव मुखधोवनत्थं बहिगामं अगमंसु। तस्मिं समये हिमवन्ततो द्वे महिद्धिका तापसा भिक्खाचारत्थाय आकासेन आगन्त्वा तेसं सहायकानं अविदूरे ओतरित्वा ‘‘मा नो एते पस्सिंसू’’ति एकपस्से अट्ठंसु। ते उभोपि जना तेसं लाबुभाजनादिपरिक्खारं संविधाय अन्तोगामं सन्धाय भिक्खाय गतानं सन्तिकं आगम्म वन्दिंसु। अथ ने तापसा ‘‘काय वेलाय आगतत्थ महापुञ्‍ञा’’ति आहंसु। ते ‘‘अधुनाव, भन्ते’’ति वत्वा <pb ed="M" n="1.0198"/> तेसं हत्थतो लाबुभाजनं गहेत्वा अत्तनो अत्तनो गेहं नेत्वा भत्तकिच्‍चपरियोसाने निबद्धं भिक्खागहणत्थं पटिञ्‍ञं गण्हिंसु।</p>

<p rend="bodytext">तेसु एको तापसो सपरिळाहकायधातुको होति। सो अत्तनो आनुभावेन महासमुद्दउदकं द्वेधा कत्वा पथविन्धरनागराजस्स भवनं गन्त्वा दिवाविहारं निसीदति। सो उतुसप्पायं गहेत्वा पच्‍चागन्त्वा अत्तनो उपट्ठाकस्स गेहे भत्तानुमोदनं करोन्तो ‘‘पथविन्धरनागभवनं विय <pb ed="P" n="1.0253"/> होतू’’ति वदति। अथ नं एकदिवसं उपट्ठाको पुच्छि – ‘‘भन्ते, तुम्हे अनुमोदनं करोन्ता ‘पथविन्धरनागभवनं विय होतू’ति वदथ, मयमस्स अत्थं न जानाम, किं वुत्तं होति इदं, भन्ते’’ति? आम, कुटुम्बिय अहं ‘‘तुम्हाकं सम्पत्ति पथविन्धरनागराजसम्पत्तिसदिसा होतू’’ति वदामीति। कुटुम्बिको ततो पट्ठाय पथविन्धरनागराजभवने चित्तं ठपेसि।</p>

<p rend="bodytext">इतरो तापसो तावतिंसभवनं गन्त्वा सुञ्‍ञे सेरिसकविमाने दिवाविहारं करोति। सो आगच्छन्तो गच्छन्तो च सक्‍कस्स देवराजस्स सम्पत्तिं दिस्वा अत्तनो उपट्ठाकस्स अनुमोदनं करोन्तो ‘‘सक्‍कविमानं विय होतू’’ति वदति। अथ नं सोपि कुटुम्बियो इतरो सहायको तं तापसं विय पुच्छि। सो तस्स वचनं सुत्वा सक्‍कभवने चित्तं ठपेसि। ते उभोपि पत्थितट्ठानेसुयेव निब्बत्ता।</p>

<p rend="bodytext">पथविन्धरभवने निब्बत्तो पथविन्धरनागराजा नाम जातो। सो निब्बत्तक्खणे अत्तनो अत्तभावं दिस्वा ‘‘अमनापस्स वत मे ठानस्स कुलुपकतापसो वण्णं कथेसि, उरेन परिसक्‍कित्वा <pb ed="V" n="1.0196"/> विचरणट्ठानमेतं, नून सो अञ्‍ञं ठानं न जानाती’’ति विप्पटिसारी अहोसि। अथस्स तंखणेयेव अलङ्कतपटियत्तानि नागनाटकानि सब्बदिसासु तूरियानि पग्गण्हिंसु। सो तस्मिंयेव खणे तं अत्तभावं विजहित्वा माणवकवण्णी अहोसि। अन्वद्धमासञ्‍च चत्तारो महाराजानो सक्‍कस्स उपट्ठानं गच्छन्ति। तस्मा सोपि विरूपक्खेन नागरञ्‍ञा सद्धिं सक्‍कस्स उपट्ठानं गतो। सक्‍को तं दूरतोव आगच्छन्तं दिस्वा सञ्‍जानि। अथ नं समीपे आगन्त्वा ठितकाले ‘‘कहं निब्बत्तोसि <pb ed="P" n="1.0254"/> सम्मा’’ति पुच्छि। मा कथेसि, महाराज, उरेन परिसक्‍कनट्ठाने निब्बत्तोम्हि, तुम्हे पन कल्याणमित्तं लभित्थाति। सम्म, त्वं ‘‘अट्ठाने निब्बत्तोम्ही’’ति मा वितक्‍कयि <pb ed="M" n="1.0199"/>, पदुमुत्तरदसबलो लोके निब्बत्तो, तस्स अधिकारकम्मं कत्वा इमंयेव ठानं पत्थेहि, उभो सुखं वसिस्सामाति। सो ‘‘एवं, देव, करिस्सामी’’ति गन्त्वा पदुमुत्तरदसबलं निमन्तेत्वा अत्तनो नागभवने नागपरिसाय सद्धिं सब्बरत्तिं सक्‍कारसम्मानं सज्‍जेसि।</p>

<p rend="bodytext">सत्था पुनदिवसे उट्ठिते अरुणे अत्तनो उपट्ठाकं सुमनत्थेरं आमन्तेसि – ‘‘सुमन, अज्‍ज तथागतो दूरं भिक्खाचारं गमिस्सति, मा पुथुज्‍जनभिक्खू आगच्छन्तु, तेपिटका पटिसम्भिदाप्पत्ता छळभिञ्‍ञाव आगच्छन्तू’’ति। थेरो सत्थु वचनं सुत्वा सब्बेसं आरोचेसि। सत्थारा सद्धिं सतसहस्सा भिक्खू आकासं पक्खन्दिंसु। पथविन्धरो नागपरिसाय सद्धिं दसबलस्स पच्‍चुग्गमनं आगतो सत्थारं परिवारेत्वा समुद्दमत्थके मणिवण्णा ऊमियो मद्दमानं भिक्खुसङ्घं ओलोकेत्वा आदितो सत्थारं, परियोसाने सङ्घनवकं तथागतस्स पुत्तं उपरेवतसामणेरं नाम ओलोकेन्तो ‘‘अनच्छरियो सेससावकानं एवरूपो इद्धानुभावो, इमस्स पन तरुणबालदारकस्स एवरूपो इद्धानुभावो अतिविय अच्छरियो’’ति पीतिपामोज्‍जं उप्पादेसि।</p>

<p rend="bodytext">अथस्स भवने दसबले निसिन्‍ने सेसभिक्खूसु कोटितो पट्ठाय निसीदन्तेसु सत्थु सम्मुखट्ठानेयेव उपरेवतसामणेरस्स आसनं पापुणि। नागराजा यागुं देन्तोपि खज्‍जकं देन्तोपि सकिं दसबलं ओलोकेति, सकिं उपरेवतसामणेरं। तस्स किर सरीरे सत्थु सरीरे विय द्वत्तिंस महापुरिसलक्खणानि पञ्‍ञायन्ति। ततो नागराजा ‘‘अयं सामणेरो बुद्धानं सदिसो पञ्‍ञायति, किं नु खो <pb ed="P" n="1.0255"/> होती’’ति अविदूरे निसिन्‍नं अञ्‍ञतरं भिक्खुं पुच्छि – ‘‘अयं, भन्ते, सामणेरो दसबलस्स किं होती’’ति? पुत्तो, महाराजाति। सो चिन्तेसि – ‘‘महा <pb ed="V" n="1.0197"/> वतायं भिक्खु, एवरूपस्स सोभग्गप्पत्तस्स तथागतस्स पुत्तभावं लभि। सरीरम्पिस्स एकदेसेन बुद्धानं सरीरसदिसं पञ्‍ञायति, मयापि अनागते एवरूपेन भवितुं वट्टती’’ति सत्ताहं महादानं दत्वा, ‘‘भन्ते, अहं इमस्स अधिकारकम्मस्सानुभावेन अयं उपरेवतो विय अनागते एकस्स बुद्धस्स पुत्तो भवेय्य’’न्ति पत्थनं अकासि। सत्था <pb ed="M" n="1.0200"/> अनन्तरायं दिस्वा ‘‘अनागते गोतमबुद्धस्स पुत्तो भविस्ससी’’ति ब्याकरित्वा पक्‍कामि।</p>

<p rend="bodytext">पथविन्धरोपि पुन अद्धमासे सम्पत्ते विरूपक्खेन सद्धिं सक्‍कस्स उपट्ठानं गतो। अथ नं समीपे ठितं सक्‍को पुच्छि – ‘‘पत्थितो ते, सम्म, अयं देवलोको’’ति? न पत्थितो महाराजाति। किं दोसं अद्दसाति? दोसो नत्थि, महाराज, अहं पन दसबलस्स पुत्तं उपरेवतसामणेरं पस्सिं। तस्स मे दिट्ठकालतो पट्ठाय अञ्‍ञत्थ चित्तं न नमि, स्वाहं ‘‘अनागते एकस्स बुद्धस्स एवरूपो पुत्तो भवेय्य’’न्ति पत्थनं अकासिं। त्वम्पि, महाराज, एकं पत्थनं करोहि, ते मयं निब्बत्तट्ठाने न विना भविस्सामाति। सक्‍को तस्स वचनं सम्पटिच्छित्वा एकं महानुभावं भिक्खुं दिस्वा ‘‘कतरकुला नु खो निक्खमित्वा अयं कुलपुत्तो पब्बजितो’’ति आवज्‍जेन्तो ‘‘अयं भिन्‍नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स पुत्तो हुत्वा चुद्दस भत्तच्छेदे कत्वा मातापितरो पब्बज्‍जं अनुजानापेत्वा पब्बजितो’’ति अञ्‍ञासि। ञत्वा च पन अजानन्तो विय दसबलं पुच्छित्वा सत्ताहं महासक्‍कारं कत्वा, ‘‘भन्ते, अहं इमस्स कल्याणकम्मस्स निस्सन्देन तुम्हाकं सासने अयं कुलपुत्तो विय अनागते एकस्स बुद्धस्स सासने सद्धापब्बजितानं अग्गो भवेय्य’’न्ति पत्थनं <pb ed="P" n="1.0256"/> अकासि। सत्था अनन्तरायं दिस्वा ‘‘त्वं, महाराज, अनागते गोतमस्स बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्ससी’’ति ब्याकरित्वा पक्‍कामि। सक्‍कोपि अत्तनो देवपुरमेव गतो।</p>

<p rend="bodytext">ते उभोपि निब्बत्तट्ठानतो चवित्वा देवमनुस्सेसु संसरन्ता अनेकसहस्सकप्पे अतिक्‍कमिंसु। इतो पन द्वानवुतिकप्पमत्थके फुस्सो नाम बुद्धो लोके उदपादि। तस्स पिता महिन्दो नाम राजा अहोसि, वेमातिका तयो कनिट्ठभातरो। राजा दिवसे दिवसे ‘‘मय्हंयेव बुद्धो मय्हं धम्मो मय्हं सङ्घो’’ति ममायन्तो सयमेव दसबलं निबद्धं भोजनं भोजेति।</p>

<p rend="bodytext">अथस्स एकदिवसं पच्‍चन्तो कुपितो। सो पुत्ते आमन्तेसि – ‘‘ताता, पच्‍चन्तो कुपितो <pb ed="V" n="1.0198"/>, तुम्हेहि वा मया वा गन्तब्बं। यदि अहं गच्छामि, तुम्हेहि इमिना नियामेन दसबलो परिचरितब्बो’’ति। ते तयोपि एकप्पहारेनेव आहंसु – ‘‘तात, तुम्हाकं गमनकिच्‍चं नत्थि, मयं <pb ed="M" n="1.0201"/> चोरे विधमिस्सामा’’ति पितरं वन्दित्वा पच्‍चन्तं गन्त्वा चोरे विधमित्वा विजितसङ्गामा हुत्वा निवत्तिंसु। ते अन्तरामग्गे पादमूलिकेहि सद्धिं मन्तयिंसु – ‘‘ताता, अम्हाकं गतक्खणेयेव पिता वरं दस्सति, कतरं वरं गण्हामा’’ति? अय्या, तुम्हाकं पितु अच्‍चयेन दुल्‍लभं नाम नत्थि, तुम्हाकं पन जेट्ठभातिकं फुस्सबुद्धं पटिजग्गनवरं गण्हथा’’ति आहंसु। ते ‘‘कल्याणं तुम्हेहि वुत्त’’न्ति सब्बेपि एकचित्ता हुत्वा गन्त्वा पितरं अद्दसंसु। तदा पिता तेसं पसीदित्वा वरं अदासि। ते ‘‘तेमासं तथागतं पटिजग्गिस्सामा’’ति वरं याचिंसु। राजा ‘‘अयं दातुं न सक्‍का, अञ्‍ञं वरं गण्हथा’’ति आह। तात, अम्हाकं अञ्‍ञेन वरेन किच्‍चं नत्थि, सचे तुम्हे दातुकामा, एतंयेव <pb ed="P" n="1.0257"/> नो वरं देथाति। राजा तेसु पुनप्पुनं कथेन्तेसु अत्तना पटिञ्‍ञातत्ता ‘‘न सक्‍का न दातु’’न्ति चिन्तेत्वा आह – ‘‘ताता, अहं तुम्हाकं वरं देमि, अपिच खो पन बुद्धा नाम दुरासदा होन्ति सीहा विय एकचरा, दसबलं पटिजग्गन्ता अप्पमत्ता भवेय्याथा’’ति।</p>

<p rend="bodytext">ते चिन्तयिंसु – ‘‘अम्हेहि तथागतं पटिजग्गन्तेहि अनुच्छविकं कत्वा पटिजग्गितुं वट्टती’’ति सब्बेपि एकचित्ता हुत्वा दससीलानि समादाय निरामगन्धा हुत्वा सत्थु दानग्गपरिवहनके तयो पुरिसे ठपयिंसु। तेसु एको धनधञ्‍ञुप्पादको अहोसि, एको मापको, एको दानसंविधायको। तेसु धनधञ्‍ञुप्पादको पच्‍चुप्पन्‍ने बिम्बिसारो महाराजा जातो, मापको विसाखो उपासको, दानसंविधायको रट्ठपालत्थेरोति। सो तत्थ यावजीवं कुसलं कत्वा देवपुरे निब्बत्तो। अयं पन राहुलत्थेरो नाम कस्सपदसबलस्स काले किकिस्स कासिरञ्‍ञो जेट्ठपुत्तो हुत्वा निब्बत्ति, पथविन्धरकुमारोतिस्स नामं अकंसु। तस्स सत्त भगिनियो अहेसुं। ता दसबलस्स सत्त परिवेणानि कारयिंसु। पथविन्धरो ओपरज्‍जं लभि। सो ता भगिनियो आह – ‘‘तुम्हेहि कारितपरिवेणेसु मय्हम्पि एकं देथा’’ति। भातिक, तुम्हे उपराजट्ठाने ठिता, तुम्हेहि नाम अम्हाकं दातब्बं, तुम्हे अञ्‍ञं परिवेणं करोथाति। सो तासं वचनं सुत्वा पञ्‍च विहारसतानि कारेसि। पञ्‍च परिवेणसतानीतिपि वदन्ति। सो तत्थ यावजीवं कुसलं कत्वा देवपुरे निब्बत्ति। इमस्मिं पन बुद्धुप्पादे पथविन्धरकुमारो अम्हाकं बोधिसत्तस्स <pb ed="M" n="1.0202"/> अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गण्हि, तस्स सहायको कुरुरट्ठे थुल्‍लकोट्ठितनिगमे रट्ठपालसेट्ठिगेहे निब्बत्ति।</p>

<p rend="bodytext">अथ <pb ed="V" n="1.0199"/> अम्हाकं दसबलो अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्‍को अनुपुब्बेन कपिलवत्थुं आगन्त्वा <pb ed="P" n="1.0258"/> राहुलकुमारं पब्बाजेसि। तस्स पब्बज्‍जाविधानं पाळियं (महाव॰ १०५) आगतमेव। एवं पब्बजितस्स पनस्स सत्था अभिण्हओवादवसेन राहुलोवादसुत्तं अभासि। राहुलोपि पातोव वुट्ठाय हत्थेन वालुकं उक्खिपित्वा ‘‘दसबलस्स चेव आचरियुपज्झायानञ्‍च सन्तिका अज्‍ज एत्तकं ओवादं लभेय्य’’न्ति वदति। भिक्खुसङ्घमज्झे कथा उदपादि ‘‘ओवादक्खमो वत राहुलसामणेरो पितु अनुच्छविको पुत्तो’’ति। सत्था भिक्खूनं चित्ताचारं ञत्वा ‘‘मयि गते एका धम्मदेसना च वड्ढिस्सति, राहुलस्स च गुणो पाकटो भविस्सती’’ति गन्त्वा धम्मसभायं बुद्धासाने निसिन्‍नो भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्‍निसिन्‍ना’’ति। राहुलसामणेरस्स ओवादक्खमभावं कथेम भगवाति। सत्था इमस्मिं ठाने ठत्वा राहुलस्स गुणदीपनत्थं मिगजातकं आहरित्वा कथेसि –</p>

<p rend="gatha1">‘‘मिगं तिपल्‍लत्थमनेकमायं,</p>

<p rend="gatha2">अट्ठक्खुरं अड्ढरत्ता पपायिं।</p>

<p rend="gatha3">एकेन सोतेन छमा’स्ससन्तो,</p>

<p rend="gathalast">छहि कलाहितिभोति भागिनेय्यो’’ति॥ (जा॰ १.१.१६)।</p>

<p rend="bodytext">अथस्स सत्तवस्सिकसामणेरकाले ‘‘मा हेव खो राहुलो दहरभावेन कीळनत्थायपि सम्पजानमुसा भासेय्या’’ति अम्बलट्ठियराहुलोवादं (म॰ नि॰ २.१०७ आदयो) देसेसि। अट्ठारसवस्सिकसामणेरकाले तथागतस्स पच्छतो पिण्डाय पविसन्तस्स सत्थु चेव अत्तनो च रूपसम्पत्तिं दिस्वा गेहसितं वितक्‍कं वितक्‍केन्तस्स ‘‘यंकिञ्‍चि, राहुल, रूप’’न्तिआदिना <pb ed="P" n="1.0259"/> नयेन महाराहुलोवादसुत्तन्तं (म॰ नि॰ २.११३) कथेसि। संयुत्तके (सं॰ नि॰ ४.१२१) पन राहुलोवादोपि अङ्गुत्तरे (अ॰ नि॰ ४.१७७) राहुलोवादोपि थेरस्स विपस्सनाचारोयेव। अथस्स सत्था ञाणपरिपाकं ञत्वा अवस्सिकभिक्खुकाले अन्धवने निसिन्‍नो चूळराहुलोवादं (म॰ नि॰ ३.४१६ आदयो) कथेसि। देसनापरियोसाने राहुलत्थेरो कोटिसतसहस्सदेवताहि सद्धिं अरहत्तं पापुणि, सोतापन्‍नसकदागामिअनागामिदेवतानं <pb ed="M" n="1.0203"/> गणना नत्थि। अथ सत्था अपरभागे अरियसङ्घमज्झे निसिन्‍नो थेरं इमस्मिं सासने सिक्खाकामानं अग्गट्ठाने ठपेसि।</p>

<p rend="bodytext">सत्थरि <pb ed="V" n="1.0200"/> पन कुरुरट्ठे चारिकाय निक्खमित्वा थुल्‍लकोट्ठितं अनुप्पत्ते रट्ठपालो कुलपुत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो मातापितरो अनुजानापेत्वा दसबलं उपसङ्कमित्वा सत्थु आणत्तिया अञ्‍ञतरस्स थेरस्स सन्तिके पब्बजि। तस्स पब्बजितदिवसतो पट्ठाय सेट्ठिगहपति भिक्खू अत्तनो निवेसनद्वारेन गच्छन्ते दिस्वा ‘‘किं तुम्हाकं इमस्मिं गेहे कम्मं, एकोव पुत्तको अहोसि, तं गण्हित्वा गतत्थ, इदानि किं करिस्सथा’’ति अक्‍कोसति परिभासति। सत्था अद्धमासं थुल्‍लकोट्ठिते वसित्वा पुन सावत्थिमेव अगमासि। तत्थायस्मा रट्ठपालो योनिसो मनसिकरोन्तो कम्मं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। सो सत्थारं अनुजानापेत्वा मातापितरो दस्सनत्थं थुल्‍लकोट्ठितं गन्त्वा तत्थ सपदानं पिण्डाय चरन्तो पितु निवेसने आभिदोसिकं कुम्मासं लभित्वा तं अमतं विय परिभुञ्‍जन्तो पितरा निमन्तितो अधिवासेत्वा दुतियदिवसे <pb ed="P" n="1.0260"/> पितु निवेसने पिण्डपातं परिभुञ्‍जित्वा अलङ्कतपटियत्ते इत्थिजने असुभसञ्‍ञं उप्पादेत्वा ठितकोव धम्मं देसेत्वा जिया मुत्तो विय नाराचो आकासं उप्पतित्वा कोरब्यरञ्‍ञो मिगचीरं गन्त्वा मङ्गलसिलापट्टे निसिन्‍नो दस्सनत्थाय आगतस्स रञ्‍ञो चतुपारिजुञ्‍ञपटिमण्डितं धम्मं (म॰ नि॰ २.३०४) देसेत्वा अनुपुब्बेन चारिकं चरमानो पुन सत्थु सन्तिकंयेव आगतो। एवमेतं वत्थु समुट्ठितं। अथ सत्था अपरभागे अरियगणमज्झे निसिन्‍नो थेरं इमस्मिं सासने सद्धापब्बजितानं कुलपुत्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">कुण्डधानत्थेरवत्थु</p>

<p rend="bodytext" n="211"><hi rend="paranum">२११</hi><hi rend="dot">.</hi> ततिये <hi rend="bold">पठमं सलाकं गण्हन्तान</hi>न्ति सब्बपठमं सलाकगाहकानं भिक्खूनं कुण्डधानत्थेरो अग्गोति दस्सेति। सो किर थेरो महासुभद्दाय निमन्तितदिवसे तथागते उग्गनगरं गच्छन्ते ‘‘अज्‍ज सत्था दूरं भिक्खाचारं गमिस्सति, पुथुज्‍जना सलाकं मा गण्हन्तु, पञ्‍चसता <pb ed="M" n="1.0204"/> खीणासवाव गण्हन्तू’’ति वुत्ते पठममेव सीहनादं नदित्वा सलाकं गण्हि। चूळसुभद्दाय निमन्तितदिवसे तथागते साकेतं गच्छन्तेपि पञ्‍चन्‍नं भिक्खुसतानं अन्तरे पठममेव सलाकं गण्हि, सुनापरन्तजनपदं गच्छन्तेपि। इमेहि कारणेहि थेरो पठमं सलाकं गण्हन्तानं अग्गो नाम जातो। <hi rend="bold">कुण्डधानो</hi>ति पनस्स नामं।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे <pb ed="V" n="1.0201"/> निब्बत्तो वुत्तनयेनेव विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेन्तं दिस्वा बुद्धानं अधिकारकम्मं <pb ed="P" n="1.0261"/> कत्वा तं ठानन्तरं पत्थेत्वा सत्थारा अनन्तरायं दिस्वा ब्याकतो यावजीवं कुसलं कत्वा देवेसु च मनुस्सेसु च संसरन्तो कस्सपबुद्धकाले भूमट्ठकदेवता हुत्वा निब्बत्ति। दीघायुकबुद्धानञ्‍च नाम न अन्वद्धमासिको उपोसथो होति। विपस्सीदसबलस्स हि छब्बस्सन्तरे छब्बस्सन्तरे उपोसथो अहोसि, कस्सपदसबलो पन छट्ठे छट्ठे मासे पातिमोक्खं ओसारेसि। तस्स पातिमोक्खं ओसारणकाले दिसावासिका द्वे सहायका भिक्खू ‘‘उपोसथं करिस्सामा’’ति गच्छन्ति। अयं भुम्मदेवता चिन्तेसि – ‘‘इमेसं द्विन्‍नं भिक्खूनं मेत्ति अतिविय दळ्हा, किं नु खो भेदके सति भिज्‍जेय्य, न भिज्‍जेय्या’’ति? तेसं ओकासं ओलोकयमाना तेसं अविदूरेनेव गच्छति।</p>

<p rend="bodytext">अथेको थेरो एकस्स हत्थे पत्तचीवरं दत्वा सरीरवळञ्‍जनत्थं उदकफासुकट्ठानं गन्त्वा धोतहत्थपादो हुत्वा गुम्बसभागतो निक्खमति। भुम्मदेवता तस्स थेरस्स पच्छतो पच्छतो उत्तमरूपा इत्थी हुत्वा केसे विधुनित्वा संविधाय बन्धन्ती विय पिट्ठितो पंसुं पुञ्छमाना विय साटकं संविधाय निवासयमाना विय च हुत्वा थेरस्स पदानुपदिका हुत्वा गुम्बतो निक्खन्ता। एकमन्ते ठितो सहायकत्थेरो इमं कारणं दिस्वा दोमनस्सजातो ‘‘नट्ठो दानि मे इमिना भिक्खुना सद्धिं दीघरत्तानुगतो सिनेहो। सचाहं एवंविधभावं जानेय्यं, एत्तकं अद्धानं इमिना सद्धिं विस्सासं न करेय्य’’न्ति चिन्तेत्वा आगच्छन्तस्सेवस्स ‘‘हन्दावुसो, तुय्हं पत्तचीवरं, तादिसेन पापेन सहायेन सद्धिं एकमग्गं न गच्छामी’’ति आह <pb ed="P" n="1.0262"/>। तं कथं सुत्वा तस्स <pb ed="M" n="1.0205"/> लज्‍जिभिक्खुनो हदयं तिखिणसत्तिं गहेत्वा विद्धं विय अहोसि। ततो नं आह – ‘‘आवुसो, किं नामेतं वदसि, अहं एत्तकं कालं दुक्‍कटमत्तम्पि आपत्तिं न जानामि। त्वं पन मं अज्‍ज ‘पापो’ति वदसि, किं ते दिट्ठ’’न्ति? किं अञ्‍ञेन दिट्ठेन, किं त्वं एवंविधेन अलङ्कतपटियत्तेन मातुगामेन सद्धिं एकट्ठाने हुत्वा निक्खन्तोति? नत्थेतं, आवुसो, मय्हं, नाहं एवरूपं मातुगामं पस्सामीति। तस्स यावततियं कथेन्तस्सापि इतरो थेरो कथं असद्दहित्वा अत्तना दिट्ठकारणंयेव अत्थं गहेत्वा तेन सद्धिं एकमग्गेन अगन्त्वा अञ्‍ञेन मग्गेन सत्थु सन्तिकं गतो। इतरोपि अञ्‍ञेन मग्गेन सत्थु सन्तिकंयेव गतो।</p>

<p rend="bodytext">ततो भिक्खुसङ्घस्स उपोसथागारं पविसनवेलाय सो भिक्खु तं भिक्खुं उपोसथग्गे सञ्‍जानित्वा <pb ed="V" n="1.0202"/> ‘‘इमस्मिं उपोसथग्गे एवरूपो नाम पापभिक्खु अत्थि, नाहं तेन सद्धिं उपोसथं करिस्सामी’’ति निक्खमित्वा बहि अट्ठासि। भुम्मदेवता ‘‘भारियं मया कम्मं कत’’न्ति महल्‍लकउपासकवण्णेन तस्स सन्तिकं गन्त्वा ‘‘कस्मा, भन्ते, अय्यो इमस्मिं ठाने ठितो’’ति आह। उपासक, इमं उपोसथग्गं एको पापभिक्खु पविट्ठो, अहं तेन सद्धिं उपोसथं न करोमीति वत्वा निक्खमित्वा बहि ठितोम्हीति। भन्ते, मा एवं गण्हथ, परिसुद्धसीलो एस भिक्खु। तुम्हेहि दिट्ठमातुगामो नाम अहं, मया तुम्हाकं वीमंसनत्थाय ‘‘दळ्हा नु खो इमेसं थेरानं मेत्ति, नो दळ्हा’’ति लज्‍जिअलज्‍जिभावं ओलोकेन्तेन तं कम्मं कतन्ति। को पन त्वं सप्पुरिसाति? अहं एका भुम्मदेवता, भन्तेति। देवपुत्तो कथेन्तोव दिब्बानुभावेन <pb ed="P" n="1.0263"/> ठत्वा थेरस्स पादेसु पतित्वा ‘‘मय्हं, भन्ते, खमथ, एतं दोसं थेरो न जानाति, उपोसथं करोथा’’ति थेरं याचित्वा उपोसथग्गं पवेसेसि। सो थेरो उपोसथं ताव एकट्ठाने अकासि, मित्तसन्थववसेन न पुन तेन सद्धिं एकट्ठाने अहोसीति। इमस्स थेरस्स कम्मं न कथियति, चुदितकत्थेरो पन अपरापरं विपस्सनाय कम्मं करोन्तो अरहत्तं पापुणि।</p>

<p rend="bodytext">भुम्मदेवता तस्स कम्मस्स निस्सन्देन एकं बुद्धन्तरं अपायतो न मुच्‍चित्थ। सचे पन कालेन कालं मनुस्सत्तं आगच्छति, अञ्‍ञेन येन केनचि कतो दोसो तस्सेव उपरि पतति। सो अम्हाकं भगवतो <pb ed="M" n="1.0206"/> काले सावत्थियं ब्राह्मणकुले निब्बत्ति, धानमाणवोतिस्स नामं अकंसु। सो वयप्पत्तो तयो वेदे उग्गण्हित्वा महल्‍लककाले सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजि, तस्स उपसम्पन्‍नदिवसतो पट्ठाय एका अलङ्कतपटियत्ता इत्थी तस्मिं गामं पविसन्ते सद्धिंयेव गामं पविसति, निक्खमन्ते निक्खमति। विहारं पविसन्तेपि पविसति, तिट्ठन्तेपि तिट्ठतीति एवं निच्‍चानुबन्धा पञ्‍ञायति। थेरो तं न पस्सति, तस्स पन पुरिमस्स कम्मस्स निस्सन्देन सा अञ्‍ञेसं उपट्ठाति।</p>

<p rend="bodytext">गामे यागुभिक्खं ददमाना इत्थियो, ‘‘भन्ते, अयं एको यागुउळुङ्को तुम्हाकं, एको इमिस्सा अम्हाकं सहायिकाया’’ति परिहासं करोन्ति। थेरस्स महती विहेसा होति। विहारं गतम्पि नं सामणेरा चेव दहरभिक्खू च परिवारेत्वा ‘‘धानो कोण्डो जातो’’ति परिहासं करोन्ति। अथस्स तेनेव कारणेन कुण्डधानत्थेरोति नामं जातं <pb ed="P" n="1.0264"/>। सो उट्ठाय समुट्ठाय तेहि कयिरमानं केळिं सहितुं असक्‍कोन्तो उम्मादं गहेत्वा ‘‘तुम्हे कोण्डा, तुम्हाकं उपज्झाया कोण्डा <pb ed="V" n="1.0203"/>, आचरिया कोण्डा’’ति वदति। अथ नं सत्थु आरोचेसुं – ‘‘कुण्डधानो दहरसामणेरेहि सद्धिं एवं फरुसवाचं वदती’’ति। सत्था तं पक्‍कोसापेत्वा ‘‘सच्‍चं भिक्खू’’ति पुच्छित्वा ‘‘सच्‍चं भगवा’’ति वुत्ते ‘‘कस्मा एवं वदेसी’’ति आह। भन्ते, निबद्धं विहेसं असहन्तो एवं कथेमीति। ‘‘त्वं पुब्बे कतकम्मं यावज्‍जदिवसा जीरापेतुं न सक्‍कोसि, पुन एवरूपं फरुसं मा वद भिक्खू’’ति वत्वा आह –</p>

<p rend="gatha1">‘‘मावोच फरुसं कञ्‍चि, वुत्ता पटिवदेय्यु तं।</p>

<p rend="gathalast">दुक्खा हि सारम्भकथा, पटिदण्डा फुसेय्यु तं॥</p>

<p rend="gatha1">‘‘सचे नेरेसि अत्तानं, कंसो उपहतो यथा।</p>

<p rend="gathalast">एस पत्तोसि निब्बानं, सारम्भो ते न विज्‍जती’’ति॥ (ध॰ प॰ १३३-१३४)।</p>

<p rend="bodytext">इमञ्‍च पन तस्स थेरस्स मातुगामेन सद्धिं विचरणभावं कोसलरञ्‍ञोपि कथयिंसु। राजा ‘‘गच्छथ, भणे, वीमंसथा’’ति पेसेत्वा सयम्पि मन्देनेव परिवारेन सद्धिं थेरस्स वसनट्ठानं गन्त्वा एकमन्ते ओलोकेन्तो अट्ठासि। तस्मिं खणे थेरो सूचिकम्मं करोन्तो निसिन्‍नो होति, सापिस्स इत्थी अविदूरे ठाने ठिता विय पञ्‍ञायति।</p>

<p rend="bodytext">राजा <pb ed="M" n="1.0207"/> तं दिस्वा ‘‘अत्थिदं कारण’’न्ति तस्सा ठितट्ठानं अगमासि। सा तस्मिं आगच्छन्ते थेरस्स वसनपण्णसालं पविट्ठा विय अहोसि। राजापि <pb ed="P" n="1.0265"/> ताय सद्धिंयेव पण्णसालं पविसित्वा सब्बत्थ ओलोकेन्तो अदिस्वा ‘‘नायं मातुगामो, थेरस्स एको कम्मविपाको’’ति सञ्‍ञं कत्वा पठमं थेरस्स समीपेन गच्छन्तोपि थेरं अवन्दित्वा तस्स कारणस्स अभूतभावं ञत्वा आगम्म थेरं वन्दित्वा एकमन्तं निसिन्‍नो ‘‘कच्‍चि, भन्ते, पिण्डकेन न किलमथा’’ति पुच्छि। थेरो ‘‘वट्टति महाराजा’’ति आह। ‘‘जानामि, भन्ते, अय्यस्स कथं, एवरूपेन च परिक्‍किलेसेन सद्धिं चरन्तानं तुम्हाकं के नाम पसीदिस्सन्ति, इतो पट्ठाय वो कत्थचि गमनकिच्‍चं नत्थि, अहं चतूहि पच्‍चयेहि उपट्ठहिस्सामि, तुम्हे योनिसोमनसिकारे मा पमज्‍जित्था’’ति निबद्धं भिक्खं पट्ठपेसि। थेरो राजानं उपत्थम्भकं लभित्वा <pb ed="V" n="1.0204"/> भोजनसप्पायेन एकग्गचित्तो हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। ततो पट्ठाय सा इत्थी अन्तरधायि।</p>

<p rend="bodytext">महासुभद्दा उग्गनगरे मिच्छादिट्ठिकुले वसमाना ‘‘सत्था मं अनुकम्पतू’’ति उपोसथं अधिट्ठाय निरामगन्धा हुत्वा उपरिपासादतले ठिता ‘‘इमानि पुप्फानि अन्तरे अट्ठत्वा दसबलस्स मत्थके वितानं हुत्वा तिट्ठन्तु, दसबलो इमाय सञ्‍ञाय स्वे पञ्‍चहि भिक्खुसतेहि सद्धिं मय्हं भिक्खं गण्हतू’’ति सच्‍चकिरियं कत्वा अट्ठ सुमनपुप्फमुट्ठियो विस्सज्‍जेसि। पुप्फानि गन्त्वा धम्मदेसनावेलाय सत्थु मत्थके वितानं हुत्वा अट्ठंसु। सत्था तं सुमनपुप्फवितानं दिस्वा चित्तेनेव सुभद्दाय भिक्खं अधिवासेत्वा पुनदिवसे अरुणे उट्ठिते आनन्दत्थेरं आह – ‘‘आनन्द, मयं अज्‍ज दूरं भिक्खाचारं गमिस्साम, पुथुज्‍जनानं अदत्वा अरियानंयेव सलाकं देही’’ति। थेरो भिक्खूनं <pb ed="P" n="1.0266"/> आरोचेसि – ‘‘आवुसो, सत्था अज्‍ज दूरं भिक्खाचारं गमिस्सति, पुथुज्‍जना मा गण्हन्तु, अरियाव सलाकं गण्हन्तू’’ति। कुण्डधानत्थेरो ‘‘आहरावुसो, सलाक’’न्ति पठमंयेव हत्थं पसारेसि। आनन्दा ‘‘सत्था तादिसानं भिक्खूनं सलाकं न दापेति, अरियानंयेव दापेती’’ति वितक्‍कं उप्पादेत्वा गन्त्वा सत्थु आरोचेसि। सत्था ‘‘आहरापेन्तस्स सलाकं देही’’ति आह। थेरो चिन्तेसि – ‘‘सचे कुण्डधानस्स सलाका दातुं न <pb ed="M" n="1.0208"/> युत्ता अस्स, अथ सत्था पटिबाहेय्य, भविस्सति एकं कारण’’न्ति। ‘‘कुण्डधानस्स सलाकं दस्सामी’’ति गमनं अभिनीहरि। कुण्डधानत्थेरो तस्स पुरे आगमनाव अभिञ्‍ञापादकं चतुत्थज्झानं समापज्‍जित्वा इद्धिया आकासे ठत्वा ‘‘आहरावुसो आनन्द, सत्था मं जानाति, मादिसं भिक्खुं पठमं सलाकं गण्हन्तं न सत्था वारेती’’ति हत्थं पसारेत्वा सलाकं गण्हि। सत्था तं अट्ठुप्पत्तिं कत्वा थेरं इमस्मिं सासने पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">वङ्गीसत्थेरवत्थु</p>

<p rend="bodytext" n="212"><hi rend="paranum">२१२</hi><hi rend="dot">.</hi> चतुत्थे <hi rend="bold">पटिभानवन्तान</hi>न्ति सम्पन्‍नपटिभानानं वङ्गीसत्थेरो अग्गोति दस्सेति। अयं किर थेरो दसबलस्स सन्तिकं उपसङ्कमन्तो चक्खुपथतो पट्ठाय चन्देन सद्धिं उपमेत्वा, सूरियेन, आकासेन, महासमुद्देन, हत्थिनागेन, सीहेन मिगरञ्‍ञा सद्धिं उपमेत्वापि अनेकेहि पदसतेहि <pb ed="V" n="1.0205"/> पदसहस्सेहि सत्थु वण्णं वदन्तोयेव उपसङ्कमति। तस्मा पटिभानवन्तानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले पटिसन्धिं गण्हित्वा पुरिमनयेनेव विहारं <pb ed="P" n="1.0267"/> गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पटिभानवन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा ‘‘अहम्पि अनागते पटिभानवन्तानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति। वङ्गीसमाणवोतिस्स नामं अकंसु। सो वयप्पत्तो तयो वेदे उग्गण्हन्तो आचरियं आराधेत्वा छवसीसमन्तं नाम सिक्खित्वा छवसीसं नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं नाम निब्बत्तो’’ति जानाति।</p>

<p rend="bodytext">ब्राह्मणा ‘‘अयं अम्हाकं जीविकमग्गो’’ति ञत्वा वङ्गीसमाणवं पटिच्छन्‍नयाने निसीदापेत्वा गामनिगमराजधानियो चरन्ता नगरद्वारे वा निगमद्वारे वा ठपेत्वा महाजनस्स रासिभूतभावं ञत्वा ‘‘यो वङ्गीसं पस्सति, सो धनं वा लभति, यसं वा लभति, सग्गं वा गच्छती’’ति वदन्ति। तेसं कथं सुत्वा बहू जना लञ्‍जं दत्वा पस्सितुकामा होन्ति। राजराजमहामत्ता <pb ed="M" n="1.0209"/> तेसं सन्तिकं गन्त्वा ‘‘को आचरियस्स जानविसेसो’’ति पुच्छन्ति। तुम्हे न जानाथ, सकलजम्बुदीपे अम्हाकं आचरियसदिसो अञ्‍ञो पण्डितो नाम नत्थि, तिवस्समत्थके मतकानं सीसं आहरापेत्वा नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति जानाति। वङ्गीसोपि महाजनस्स कङ्खछेदनत्थं ते ते जने आवाहेत्वा अत्तनो अत्तनो गतिं कथापेति। तं निस्साय महाजनस्स हत्थतो सतम्पि सहस्सम्पि लभति।</p>

<p rend="bodytext">ब्राह्मणा वङ्गीसमाणवं आदाय यथारुचिं विचरित्वा पुन सावत्थिं आगमंसु। वङ्गीसो जेतवनमहाविहारस्स अविदूरट्ठाने ठितो चिन्तेसि – ‘‘समणो गोतमो पण्डितोति वदन्ति, न खो पन सब्बकालं मया इमेसंयेव वचनं करोन्तेन चरितुं <pb ed="P" n="1.0268"/> वट्टति, पण्डितानम्पि सन्तिकं गन्तुं वट्टती’’ति। सो ब्राह्मणे आह – ‘‘तुम्हे गच्छथ, अहं न बहुकेहि सद्धिं गन्त्वा समणं गोतमं पस्सिस्सामी’’ति। ते आहंसु – ‘‘वङ्गीस, मा ते रुच्‍चि समणं गोतमं पस्सितुं <pb ed="V" n="1.0206"/>। यो हि नं पस्सति, तं सो मायाय आवट्टेती’’ति। वङ्गीसो तेसं कथं अनादियित्वा सत्थु सन्तिकं गन्त्वा मधुरपटिसन्थारं कत्वा एकमन्तं निसीदि।</p>

<p rend="bodytext">अथ नं सत्था पुच्छि – ‘‘वङ्गीस, किञ्‍चि सिप्पं जानासी’’ति। आम, भो गोतम, छवसीसमन्तं नामेकं जानामीति। किं सो मन्तो करोतीति? तिवस्समत्थके मतानम्पि तं मन्तं जप्पित्वा सीसं नखेन आकोटेत्वा निब्बत्तट्ठानं जानामीति। सत्था तस्स एकं निरये उप्पन्‍नस्स सीसं दस्सेसि, एकं मनुस्सेसु उप्पन्‍नस्स, एकं देवेसु, एकं परिनिब्बुतस्स सीसं दस्सेसि। सो पठमं सीसं आकोटेत्वा, ‘‘भो गोतम, अयं सत्तो निरयं गतो’’ति आह। साधु साधु, वङ्गीस, सुदिट्ठं तया, अयं सत्तो कहं गतोति पुच्छि। मनुस्सलोकं, भो गोतमाति। अयं सत्तो कहं गतोति? देवलोकं, भो गोतमाति तिण्णम्पि गतट्ठानं कथेसि। परिनिब्बुतस्स पन सीसं नखेन आकोटेन्तो नेव अन्तं न कोटिं पस्सति। अथ नं सत्था ‘‘न सक्‍कोसि त्वं, वङ्गीसा’’ति पुच्छि। ‘‘पस्सथ, भो गोतम, उपपरिक्खामि तावा’’ति पुनप्पुनं परिवत्तेति। बाहिरकमन्तेन खीणासवस्स गतिं कथं जानिस्सति, अथस्स मत्थकतो सेदो मुच्‍चि। सो लज्‍जित्वा तुण्हीभूतो अट्ठासि। अथ नं सत्था <pb ed="M" n="1.0210"/> ‘‘किलमसि, वङ्गीसा’’ति आह। आम, भो गोतम, इमस्स सत्तस्स गतट्ठानं जानितुं न सक्‍कोमि। सचे तुम्हे जानाथ, कथेथाति। ‘‘वङ्गीस, अहं एतम्पि जानामि इतो उत्तरितरम्पी’’ति वत्वा धम्मपदे इमा द्वे गाथा अभासि –</p>

<p rend="gatha1">‘‘चुतिं यो वेदि सत्तानं, उपपत्तिं च सब्बसो।</p>

<p rend="gathalast">असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥</p>

<p rend="gatha1">‘‘यस्स <pb ed="P" n="1.0269"/> गतिं न जानन्ति, देवा गन्धब्बमानुसा।</p>

<p rend="gathalast">खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ४१९-४२०)।</p>

<p rend="bodytext">ततो वङ्गीसो आह – ‘‘भो गोतम, विज्‍जाय विज्‍जं देन्तस्स नाम परिहानि नत्थि, अहं अत्तना जाननकं मन्तं तुम्हाकं दस्सामि, तुम्हे एतं मन्तं मय्हं देथा’’ति। वङ्गीस, न मयं मन्तेन मन्तं देम, एवमेव देमाति। ‘‘साधु, भो गोतम, देथ मे मन्त’’न्ति अपचितिं दस्सेत्वा हत्थकच्छपकं कत्वा निसीदि। किं, वङ्गीस, तुम्हाकं समये महग्घमन्तं वा <pb ed="V" n="1.0207"/> किञ्‍चि वा गण्हन्तानं परिवासो नाम न होतीति? होति, भो गोतमाति। अम्हाकं पन मन्तो निप्परिवासोति सञ्‍ञं करोसीति? ब्राह्मणा नाम मन्तेहि अतित्ता होन्ति, तस्मा सो भगवन्तं आह – ‘‘भो गोतम, तुम्हेहि कथितनियामं करिस्सामी’’ति। भगवा आह – ‘‘वङ्गीस, मयं इमं मन्तं देन्ता अम्हेहि समानलिङ्गस्स देमा’’ति। वङ्गीसो ‘‘यंकिञ्‍चि कत्वा मया इमं मन्तं गण्हित्वा गन्तुं वट्टती’’ति ब्राह्मणे आह। तुम्हे मयि पब्बजन्ते मा चिन्तयित्थ, अहं इमं मन्तं गण्हित्वा सकलजम्बुदीपे जेट्ठको भविस्सामि। एवं सन्ते तुम्हाकम्पि भद्दकं भविस्सती’’ति मन्तत्थाय सत्थु सन्तिके पब्बजि। सत्था ‘‘मन्तपरिवासं ताव वसाही’’ति द्वत्तिंसाकारं आचिक्खि। पञ्‍ञवा सत्तो द्वत्तिंसाकारं सज्झायन्तोव तत्थ खयवयं पट्ठपेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि <pb ed="P" n="1.0270"/>।</p>

<p rend="bodytext">तस्मिं अरहत्तं पत्ते ब्राह्मणा ‘‘का नु खो वङ्गीसस्स पवत्ति, पस्सिस्साम न’’न्ति तस्स सन्तिकं गन्त्वा ‘‘किं, भो वङ्गीस, समणस्स गोतमस्स सन्तिके सिप्पं सिक्खित’’न्ति पुच्छिंसु। आम, सिक्खितन्ति। तेन हि <pb ed="M" n="1.0211"/> एहि गमिस्सामाति। गच्छथ तुम्हे, तुम्हेहि सद्धिं गन्तब्बकिच्‍चं मय्हं निट्ठितन्ति। पठममेव अम्हेहि तुय्हं कथितं ‘‘समणो गोतमो अत्तानं पस्सितुं आगते मायाय आवट्टेती’’ति। त्वं हि इदानि समणस्स गोतमस्स वसं आपन्‍नो, किं मयं तव सन्तिके करिस्सामाति आगतमग्गेनेव पक्‍कमिंसु। वङ्गीसत्थेरोपि यं यं वेलं दसबलं पस्सितुं गच्छति, एकं थुतिं करोन्तोव गच्छति। तेन तं सत्था सङ्घमज्झे निसिन्‍नो पटिभानवन्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">उपसेनवङ्गन्तपुत्तत्थेरवत्थु</p>

<p rend="bodytext" n="213"><hi rend="paranum">२१३</hi><hi rend="dot">.</hi> पञ्‍चमे <hi rend="bold">समन्तपासादिकान</hi>न्ति सब्बपासादिकानं। <hi rend="bold">उपसेनो</hi>ति तस्स थेरस्स नामं। वङ्गन्तब्राह्मणस्स पन सो पुत्तो, तस्मा <hi rend="bold">वङ्गन्तपुत्तो</hi>ति वुच्‍चति। अयं पन थेरो न केवलं अत्तनाव पासादिको, परिसापिस्स पासादिका, इति परिसं निस्साय लद्धनामवसेन समन्तपासादिकानं अग्गो नाम जातो।</p>

<p rend="bodytext">पञ्हकम्मे पनस्स अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो वयं आगम्म पुरिमनयेनेव सत्थु सन्तिकं गन्त्वा धम्मं सुणमानो सत्थारं एकं <pb ed="V" n="1.0208"/> भिक्खुं समन्तपासादिकानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकब्राह्मणगामे सारिब्राह्मणिया कुच्छिस्मिं <pb ed="P" n="1.0271"/> पटिसन्धिं गण्हि, उपसेनदारकोतिस्स नामं अकंसु।</p>

<p rend="bodytext">सो वयप्पत्तो तयो वेदे उग्गण्हित्वा दसबलस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजि। सो उपसम्पदाय एकवस्सिको हुत्वा ‘‘अरियगब्भं वड्ढेमी’’ति एकं कुलपुत्तं अत्तनो सन्तिके पब्बाजेत्वा उपसम्पादेसि। सो पवारेत्वा सद्धिविहारिकस्स एकवस्सिककाले अत्तना दुवस्सो ‘‘दसबलो मं पस्सित्वा तुसिस्सती’’ति सद्धिविहारिकं आदाय दसबलं पस्सितुं आगतो। सत्था तं वन्दित्वा एकमन्ते निसिन्‍नं पुच्छि – ‘‘कतिवस्सोसि त्वं भिक्खू’’ति? दुवस्सो अहं भगवाति। अयं पन भिक्खु कतिवस्सोति? एकवस्सो भगवाति। किन्तायं भिक्खु होतीति? सद्धिविहारिको मे भगवाति। अथ नं सत्था ‘‘अतिलहुं खो <pb ed="M" n="1.0212"/> त्वं, मोघपुरिस, बाहुल्‍लाय आवत्तो’’ति वत्वा अनेकपरियायेन विगरहि। थेरो सत्थु सन्तिका गरहं लभित्वा भगवन्तं वन्दित्वा ‘‘इमिनाव पुण्णचन्दसस्सिरिकेन मुखेन सत्थारं परिसमेव निस्साय साधुकारं दापेस्सामी’’ति तंदिवसेयेव एकं ठानं गन्त्वा विपस्सनाय कम्मं कत्वा नचिरस्सेव अरहत्तं पापुणि।</p>

<p rend="bodytext">ततो यस्मा थेरो महाकुलतो निक्खमित्वा पब्बजितो पथविघुट्ठधम्मकथिकोव, तस्मा तस्स धम्मकथाय चेव पसीदित्वा मित्तामच्‍चञातिकुलेहि च निक्खमित्वा बहू कुलदारका थेरस्स सन्तिके पब्बजन्ति। ‘‘अहं आरञ्‍ञको, तुम्हेपि आरञ्‍ञका भवितुं सक्‍कोन्ता पब्बजथा’’ति तेरस धुतङ्गानि आचिक्खित्वा ‘‘सक्खिस्साम, भन्ते’’ति वदन्ते पब्बाजेति। ते अत्तनो बलेन तं तं धुतङ्गं अधिट्ठहन्ति। थेरो अत्तनो दसवस्सकाले विनयं पगुणं कत्वा <pb ed="P" n="1.0272"/> सब्बेव उपसम्पादेसि। एवं उपसम्पन्‍ना चस्स पञ्‍चसतमत्ता भिक्खू परिवारा अहेसुं।</p>

<p rend="bodytext">तस्मिं समये सत्था जेतवनमहाविहारे वसन्तो ‘‘इच्छामहं, भिक्खवे, अद्धमासं पटिसल्‍लीयितु’’न्ति भिक्खुसङ्घस्स आरोचेत्वा एकविहारी होति। भिक्खुसङ्घोपि ‘‘यो भगवन्तं दस्सनाय उपसङ्कमति, सो पाचित्तियं देसापेतब्बो’’ति कतिकं अकासि। तदा उपसेनत्थेरो ‘‘भगवन्तं पस्सिस्सामी’’ति अत्तनो परिसाय सद्धिं जेतवनं गन्त्वा सत्थारं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं निसीदि। सत्था कथासमुट्ठापनत्थं अञ्‍ञतरं थेरस्स सद्धिविहारिकं <pb ed="V" n="1.0209"/> आमन्तेसि – ‘‘मनापानि ते भिक्खु पंसुकूलानी’’ति। ‘‘न खो मे, भन्ते, मनापानि पंसुकूलानी’’ति वत्वा उपज्झाये गारवेन पंसुकूलिकभावं आरोचेसि। इमस्मिं ठाने सत्था ‘‘साधु साधु, उपसेना’’ति थेरस्स साधुकारं दत्वा अनेकपरियायेन गुणकथं कथेसि। अयमेत्थ सङ्खेपो, वित्थारतो पन इदं वत्थु पाळियं (पारा॰ ५६५) आगतमेव। अथ सत्था अपरभागे अरियगणमज्झे निसिन्‍नो इमस्मिं सासने थेरं समन्तपासादिकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">दब्बत्थेरवत्थु</p>

<p rend="bodytext" n="214"><hi rend="paranum">२१४</hi><hi rend="dot">.</hi> छट्ठे <pb ed="M" n="1.0213"/> <hi rend="bold">सेनासनपञ्‍ञापकान</hi>न्ति सेनासनं पञ्‍ञापेन्तानं। थेरस्स किर सेनासनपञ्‍ञापनकाले अट्ठारससु महाविहारेसु असम्मट्ठं परिवेणं वा अपटिजग्गितं सेनासनं वा असोधितं मञ्‍चपीठं वा अनुपट्ठितं पानीयपरिभोजनीयं वा नाहोसि। तस्मा सेनासनपञ्‍ञापकानं अग्गो नाम जातो। <hi rend="bold">दब्बो</hi>तिस्स नामं। मल्‍लराजकुले पन उप्पन्‍नत्ता <hi rend="bold">मल्‍लपुत्तो</hi> नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयञ्हि <pb ed="P" n="1.0273"/> पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो वुत्तनयेनेव विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं सेनासनपञ्‍ञापकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरित्वा कस्सपदसबलस्स सासनस्स ओसक्‍कनकाले पब्बजि, तदा तेन सद्धिं अपरे छ जनाति सत्त भिक्खू एकचित्ता हुत्वा अञ्‍ञे सासने अगारवं करोन्ते दिस्वा ‘‘इध किं करोम, एकमन्ते समणधम्मं कत्वा दुक्खस्सन्तं करिस्सामा’’ति निस्सेणिं बन्धित्वा उच्‍चपब्बतसिखरं अभिरुहित्वा ‘‘अत्तनो चित्तबलं जानन्ता निस्सेणिं पातेन्तु, जीविते सालया ओतरन्तु, मा पच्छानुतापिनो अहुवत्था’’ति वत्वा सब्बे एकचित्ता हुत्वा निस्सेणिं पातेत्वा ‘‘अप्पमत्ता होथ, आवुसो’’ति अञ्‍ञमञ्‍ञं ओवदित्वा चित्तरुचियेसु ठानेसु निसीदित्वा समणधम्मं कातुं आरभिंसु।</p>

<p rend="bodytext">तत्रेको थेरो पञ्‍चमे दिवसे अरहत्तं पत्वा ‘‘मम किच्‍चं निप्फन्‍नं, अहं इमस्मिं ठाने किं करिस्सामी’’ति इद्धिया उत्तरकुरुतो पिण्डपातं आहरित्वा, ‘‘आवुसो, इमं पिण्डपातं परिभुञ्‍जथ <pb ed="V" n="1.0210"/>, भिक्खाचारकिच्‍चं ममायत्तं होतु, तुम्हे अत्तनो कम्मं करोथा’’ति आह। किं नु खो मयं, आवुसो, निस्सेणिं पातेन्ता एवं अवोचुम्हा ‘‘यो पठमं धम्मं सच्छिकरोति, सो भिक्खं आहरतु, तेन आभतं सेसा परिभुञ्‍जित्वा समणधम्मं करिस्सन्ती’’ति। नत्थि, आवुसोति। तुम्हे अत्तनो पुब्बहेतुना लभित्थ, मयम्पि सक्‍कोन्ता वट्टस्सन्तं करिस्साम, गच्छथ तुम्हेति <pb ed="M" n="1.0214"/>। थेरो ते सञ्‍ञापेतुं असक्‍कोन्तो फासुकट्ठाने पिण्डपातं परिभुञ्‍जित्वा गतो। अपरो थेरो सत्तमे दिवसे अनागामिफलं पत्वा ततो चुतो सुद्धावासब्रह्मलोके निब्बत्तो।</p>

<p rend="bodytext">इतरेपि थेरा <pb ed="P" n="1.0274"/> ततो चुता एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे तेसु तेसु कुलेसु निब्बत्ता। एको गन्धाररट्ठे तक्‍कसिलनगरे राजगेहे निब्बत्तो, एको पब्बतेय्यरट्ठे परिब्बाजिकाय कुच्छिम्हि निब्बत्तो, एको बाहियरट्ठे कुटुम्बिकगेहे निब्बत्तो, एको राजगहे कुटुम्बिकगेहे निब्बत्तो। अयं पन दब्बत्थेरो मल्‍लरट्ठे अनुपियनगरे एकस्स मल्‍लरञ्‍ञो गेहे पटिसन्धिं गण्हि। तस्स माता उपविजञ्‍ञकाले कालमकासि, मतसरीरं सुसानं नेत्वा दारुचितकं आरोपेत्वा अग्गिं अदंसु। तस्सा अग्गिवेगसन्तत्तं उदरपटलं द्वेधा अहोसि। दारको अत्तनो पुञ्‍ञबलेन उप्पतित्वा एकस्मिं दब्बत्थम्भे निपति। तं दारकं गहेत्वा अय्यिकाय अदंसु। सा तस्स नामं गण्हन्ती दब्बत्थम्भे निपतित्वा लद्धजीवितत्ता दब्बोतिस्स नामं अकासि।</p>

<p rend="bodytext">तस्स सत्तवस्सिककाले सत्था भिक्खुसङ्घपरिवारो मल्‍लरट्ठे चारिकं चरमानो अनुपियनिगमं पत्वा अनुपियम्बवने विहरति। दब्बकुमारो सत्थारं दिस्वा दस्सनेनेव पसीदित्वा पब्बजितुकामो हुत्वा ‘‘अहं दसबलस्स सन्तिके पब्बजिस्सामी’’ति अय्यिकं आपुच्छि। सा ‘‘साधु, ताता’’ति दब्बकुमारं आदाय सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, इमं कुमारं पब्बाजेथा’’ति आह। सत्था अञ्‍ञतरस्स भिक्खुनो सञ्‍ञं अदासि ‘‘भिक्खु इमं दारकं पब्बाजेही’’ति। सो थेरो सत्थु वचनं सुत्वा दब्बकुमारं पब्बाजेन्तो तचपञ्‍चकं कम्मट्ठानं आचिक्खि। पुब्बहेतुसम्पन्‍नो कताभिनीहारो सत्तो पठमकेसवट्टिया ओरोपियमानाय सोतापत्तिफले पतिट्ठासि, दुतियकेसवट्टिया <pb ed="P" n="1.0275"/> ओरोपियमानाय सकदागामिफले, ततियाय अनागामिफले। सब्बकेसानं पन ओरोपनञ्‍च अरहत्तफलसच्छिकिरिया च अपच्छा अपुरे अहोसि।</p>

<p rend="bodytext">सत्था <pb ed="V" n="1.0211"/> मल्‍लरट्ठे यथाभिरन्तं विहरित्वा राजगहं गन्त्वा वेळुवने वासं कप्पेसि। तत्रायस्मा दब्बो मल्‍लपुत्तो रहोगतो अत्तनो किच्‍चनिप्फत्तिं <pb ed="M" n="1.0215"/> ओलोकेत्वा सङ्घस्स वेय्यावच्‍चकरणे कायं योजेतुकामो चिन्तेसि – ‘‘यंनूनाहं सङ्घस्स सेनासनञ्‍च पञ्‍ञापेय्यं, भत्तानि च उद्दिसेय्य’’न्ति। सो सत्थु सन्तिकं गन्त्वा अत्तनो परिवितक्‍कं आरोचेसि। सत्था तस्स साधुकारं दत्वा सेनासनपञ्‍ञापकत्तञ्‍च भत्तुद्देसकत्तञ्‍च सम्पटिच्छि। अथ नं ‘‘अयं दब्बो दहरोव समानो महन्तट्ठाने ठितो’’ति सत्तवस्सिककालेयेव उपसम्पादेसि। थेरो उपसम्पन्‍नकालतोयेव पट्ठाय राजगहं उपनिस्साय विहरन्तानं सब्बभिक्खूनं सेनासनानि च पञ्‍ञापेति, भिक्खञ्‍च सम्पटिच्छित्वा उद्दिसति। तस्स सेनासनपञ्‍ञापकभावो सब्बदिसासु पाकटो अहोसि – ‘‘दब्बो किर मल्‍लपुत्तो सभागसभागानं भिक्खूनं एकट्ठाने सेनासनानि पञ्‍ञापेति, दूरेपि सेनासनं पञ्‍ञापेतियेव। गन्तुं असक्‍कोन्ते इद्धिया नेतीति।</p>

<p rend="bodytext">अथ नं भिक्खू कालेपि विकालेपि ‘‘अम्हाकं, आवुसो, जीवकम्बवने सेनासनं पञ्‍ञापेहि, अम्हाकं मद्दकुच्छिस्मिं मिगदाये’’ति एवं सेनासनं उद्दिसापेत्वा तस्स इद्धिं पस्सन्ता गच्छन्ति। सोपि इद्धिया मनोमये काये अभिसङ्खरित्वा एकेकस्स थेरस्स एकेकं अत्तना सदिसं भिक्खुं निम्मिनित्वा अङ्गुलिया जलमानाय पुरतो पुरतो गन्त्वा ‘‘अयं मञ्‍चो, इदं पीठ’’न्तिआदीनि वत्वा सेनासनं पञ्‍ञापेत्वा पुन अत्तनो वसनट्ठानमेव <pb ed="P" n="1.0276"/> आगच्छति। अयमेत्थ सङ्खेपो, वित्थारतो पनिदं वत्थु पाळियं आगतमेव। सत्था इदमेव कारणं अट्ठुप्पत्तिं कत्वा अपरभागे अरियगणमज्झे निसिन्‍नो थेरं सेनासनपञ्‍ञापकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">पिलिन्दवच्छत्थेरवत्थु</p>

<p rend="bodytext" n="215"><hi rend="paranum">२१५</hi><hi rend="dot">.</hi> सत्तमे <hi rend="bold">देवतानं पियमनापान</hi>न्ति देवतानं पियानञ्‍चेव मनापानञ्‍च पिलिन्दवच्छत्थेरो अग्गोति दस्सेति। सो किर अनुप्पन्‍ने बुद्धे चक्‍कवत्ती राजा हुत्वा महाजनं पञ्‍चसु सीलेसु पतिट्ठापेत्वा सग्गपरायणं अकासि। येभुय्येन किर छसु कामसग्गेसु निब्बत्तदेवता तस्सेव ओवादं लभित्वा निब्बत्तनिब्बत्तट्ठाने अत्तनो सम्पत्तिं ओलोकेत्वा ‘‘कं नु खो निस्साय इमं सग्गसम्पत्तिं लभिम्हा’’ति आवज्‍जमाना <pb ed="M" n="1.0216"/> इमं थेरं दिस्वा ‘‘थेरं निस्साय अम्हेहि सम्पति लद्धा’’ति सायंपातं थेरं नमस्सन्ति। तस्मा सो देवतानं <pb ed="V" n="1.0212"/> पियमनापानं अग्गो नाम जातो। <hi rend="bold">पिलिन्दो</hi>ति पनस्स गोत्तं, <hi rend="bold">वच्छो</hi>ति नामं। तदुभयं संसन्देत्वा पिलिन्दवच्छोति वुच्‍चति।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो पुरिमनयेनेव सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं देवतानं पियमनापट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति। पिलिन्दवच्छोतिस्स नामं अकंसु। सो अपरेन समयेन सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पन्‍नो विपस्सनं वड्ढेत्वा अरहत्तं <pb ed="P" n="1.0277"/> पापुणि। सो गिहीहिपि भिक्खूहिपि सद्धिं कथेन्तो ‘‘एहि, वसल, गच्छ, वसल, आहर, वसल, गण्ह, वसला’’ति वसलवादेनेव समुदाचरति। तं कथं आहरित्वा तथागतं पुच्छिंसु – ‘‘भगवा अरिया नाम फरुसवाचा न होन्ती’’ति। भिक्खवे, अरियानं परवम्भनवसेन फरुसवाचा नाम नत्थि, अपिच खो पन भवन्तरे आचिण्णवसेन भवेय्याति। भन्ते, पिलिन्दवच्छत्थेरो उट्ठाय समुट्ठाय गिहीहिपि भिक्खूहिपि सद्धिं कथेन्तो, ‘‘वसल, वसला’’ति कथेति, किमेत्थ कारणं भगवाति। भिक्खवे, न मय्हं पुत्तस्स एतं इदानेव आचिण्णं, अतीते पनेस पञ्‍च जातिसतानि वसलवादिब्राह्मणकुले निब्बत्ति। इच्‍चेस भवाचिण्णेनेव कथेसि, न फरुसवसेन। अरियानञ्हि वोहारो फरुसोपि समानो चेतनाय अफरुसभावेन परिसुद्धोव, अप्पमत्तकम्पेत्थ पापं न उपलब्भतीति वत्वा धम्मपदे इमं गाथमाह –</p>

<p rend="gatha1">‘‘अकक्‍कसं विञ्‍ञापनिं, गिरं सच्‍चमुदीरये।</p>

<p rend="gathalast">याय नाभिसजे कञ्‍चि, तमहं ब्रूमि ब्राह्मण’’न्ति॥</p>

<p rend="bodytext">अथेकदिवसं थेरो राजगहं पिण्डाय पविसन्तो एकं पुरिसं पिप्पलीनं भाजनं पूरेत्वा आदाय अन्तोनगरं पविसन्तं दिस्वा ‘‘किं ते, वसल, भाजने’’ति आह। सो चिन्तेसि – ‘‘अयं समणो मया सद्धिं पातोव फरुसकथं कथेसि, इमस्स अनुच्छविकमेव वत्तुं वट्टती’’ति ‘‘मूसिकवच्‍चं <pb ed="M" n="1.0217"/> मे, भन्ते, भाजने’’ति <pb ed="P" n="1.0278"/> आह। एवं भविस्सति, वसलाति। तस्स थेरस्स दस्सनं विजहन्तस्स सब्बं मूसिकवच्‍चमेव अहोसि। सो चिन्तेसि – ‘‘इमा पिप्पलियो मूसिकवच्‍चसदिसा पञ्‍ञायन्ति, सभावो नु खो नो’’ति वीमंसन्तो हत्थेन उप्पीळेसि <pb ed="V" n="1.0213"/>। अथस्स उन्दूरवच्‍चभावं ञत्वा बलवदोमनस्सं उप्पज्‍जि। सो ‘‘इमायेव नु खो एवरूपा, उदाहु सकटेपी’’ति गन्त्वा ओलोकेन्तो सब्बापि पिप्पलियो तादिसाव दिस्वा हदयं हत्थेन सन्धारेत्वा ‘‘इदं न अञ्‍ञस्स कम्मं, मया पातोव दिट्ठभिक्खुस्सेतं कम्मं, अद्धा एकं उपायं भविस्सति, तस्स गतट्ठानं अनुविचिनित्वा एतं कारणं जानिस्सामी’’ति थेरस्स गतमग्गं पुच्छित्वा पायासि।</p>

<p rend="bodytext">अथेको पुरिसो तं अतिविय चण्डिकतं गच्छन्तं दिस्वा, ‘‘भो पुरिस, त्वं अतिविय चण्डिकतोव गच्छसि, केन कम्मेन गच्छसी’’ति पुच्छि। सो तस्स तं पवत्तिं आरोचेसि। सो तस्स कथं सुत्वा एवमाह – ‘‘भो, मा चिन्तयि, मय्हं अय्यो पिलिन्दवच्छो भविस्सति, त्वं एतदेव भाजनं पूरेत्वा आदाय गन्त्वा थेरस्स पुरतो तिट्ठ। ‘किं नामेतं, वसला’ति वुत्तकाले च ‘पिप्पलियो, भन्ते’ति वद, थेरो ‘एवं भविस्सति, वसला’ति वक्खति। पुन सब्बापि पिप्पलियो भविस्सन्ती’’ति। सो तथा अकासि। सब्बा पिप्पलियो पटिपाकतिका अहेसुं। इदमेत्तकं वत्थु। अपरभागे पन सत्था देवतानं पियमनापकारणमेव वत्थुं कत्वा थेरं देवतानं पियमनापानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">बाहियदारुचीरियत्थेरवत्थु</p>

<p rend="bodytext" n="216"><hi rend="paranum">२१६</hi><hi rend="dot">.</hi> अट्ठमे <pb ed="P" n="1.0279"/> <hi rend="bold">खिप्पाभिञ्‍ञान</hi>न्ति खिप्पं अधिगतअभिञ्‍ञानं दारुचीरियत्थेरो अग्गोति दस्सेति। अयञ्हि थेरो संखित्तधम्मदेसनापरियोसाने अरहत्तं पापुणि, मग्गफलानं परिकम्मकिच्‍चं नाहोसि। तस्मा खिप्पाभिञ्‍ञानं अग्गो नाम जातो। बाहियरट्ठे पन जातत्ता <hi rend="bold">बाहियो</hi>तिस्स नामं अहोसि। सो अपरभागे दारुचीरं निवासेसि। तस्मा <hi rend="bold">दारुचीरियो</hi> नाम जातो।</p>

<p rend="bodytext">तस्स <pb ed="M" n="1.0218"/> पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो दसबलस्स धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं खिप्पाभिञ्‍ञानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कस्सपदसबलस्स सासनस्स ओसक्‍कनकाले हेट्ठा वुत्तेहि भिक्खूहि सद्धिं समणधम्मं कत्वा परिपुण्णसीलो जीवितक्खयं पत्वा देवलोके निब्बत्ति।</p>

<p rend="bodytext">सो <pb ed="V" n="1.0214"/> एकं बुद्धन्तरं देवलोके वसित्वा इमस्मिं बुद्धुप्पादे बाहियरट्ठे कुलगेहे निब्बत्तो। वयं आगम्म घरावासं वसन्तो ‘‘वोहारं करिस्सामी’’ति सुवण्णभूमिगमनीयं नावं अभिरुहि। नावा इच्छितं देसं अप्पत्वाव समुद्दमज्झे भिन्‍ना, महाजनो मच्छकच्छपभक्खो अहोसि। अयं पन एकं दारुखण्डं गहेत्वा सत्तमे दिवसे सुप्पारकपट्टने उत्तिण्णो मनुस्सावासं पत्वा ‘‘अचेलकनियामेन मनुस्से उपसङ्कमितुं <pb ed="P" n="1.0280"/> अयुत्त’’न्ति अविदूरे ठाने एकं महातळाका सेवालं गहेत्वा सरीरं वेठेत्वा एकस्मिं ठाने पतितं एकं कपालं आदाय भिक्खाय पाविसि।</p>

<p rend="bodytext">मनुस्सा तं दिस्वा चिन्तेसुं – ‘‘सचे लोके अरहन्ता नाम अत्थि, एवंविधेहि भवितब्बं। किं नु खो अय्यो उक्‍कट्ठभावेन वत्थं न गण्हाति, उदाहु दिय्यमानं गण्हेय्या’’ति वीमंसन्ता नानादिसाहि वत्थानि आहरिंसु। सो चिन्तेसि – ‘‘सचाहं न इमिना नियामेन आगमिस्सं, न मे एते पसीदेय्युं, यंकिञ्‍चि कत्वा इमे वञ्‍चेत्वा जीविकुपायं कातुं वट्टती’’ति वत्थानि न पटिग्गण्हि। मनुस्सा भिय्योसोमत्ताय पसन्‍ना महासक्‍कारं करिंसु। सोपि भत्तकिच्‍चं कत्वा अविदूरट्ठाने देवकुलं गतो। महाजनो तेन सद्धिंयेव गन्त्वा देवकुलं पटिजग्गित्वा अदासि। सो चिन्तेसि – ‘‘इमे मय्हं सेवाले निवासनमत्ते पसीदित्वा एवंविधं सक्‍कारं करोन्ति, एतेसं मया उक्‍कट्ठेनेव भवितुं वट्टती’’ति सल्‍लहुकानि रुक्खफलकानि गहेत्वा तच्छेत्वा वाकेसु आवुणित्वा चीरं कत्वा निवासेत्वा पारुपित्वा जीविकं कप्पेन्तो वसि।</p>

<p rend="bodytext">अथ <pb ed="M" n="1.0219"/> यो सो कस्सपबुद्धकाले सत्तसु जनेसु समणधम्मं करोन्तेसु एको भिक्खु सुद्धावासब्रह्मलोके निब्बत्तो। सो निब्बत्तसमनन्तरमेव अत्तनो ब्रह्मसम्पत्तिं ओलोकेत्वा आगतट्ठानं आवज्‍जेन्तो सत्तन्‍नं जनानं पब्बतं आरुय्ह समणधम्मकरणट्ठानं दिस्वा सेसानं छन्‍नं निब्बत्तट्ठानं आवज्‍जेन्तो एकस्स परिनिब्बुतभावं इतरेसं पञ्‍चन्‍नं कामावचरदेवलोके निब्बत्तभावं ञत्वा कालानुकालं ते पञ्‍च जने आवज्‍जेति <pb ed="P" n="1.0281"/>। इमस्मिं पन काले ‘‘कहं नु खो’’ति आवज्‍जेन्तो दारुचीरियं सुप्पारकपट्टनं उपनिस्साय कुहनकम्मेन जीविकं कप्पेन्तं दिस्वा ‘‘नट्ठो वतायं बालो, पुब्बे समणधम्मं करोन्तो अतिउक्‍कट्ठभावेन अरहतापि आभतं पिण्डपातं अपरिभुञ्‍जित्वा इदानि उदरत्थाय अनरहाव अरहत्तं पटिजानित्वा लोकं वञ्‍चेन्तो विचरति, दसबलस्स च निब्बत्तभावं न जानाति, गच्छामि नं संवेजेत्वा दसबलस्स <pb ed="V" n="1.0215"/> निब्बत्तभावं जानापेमी’’ति तंखणंयेव ब्रह्मलोकतो सुप्पारकपट्टने रत्तिभागसमनन्तरे दारुचीरियस्स सम्मुखे पातुरहोसि।</p>

<p rend="bodytext">सो अत्तनो वसनट्ठाने ओभासं दिस्वा बहि निक्खमित्वा ठितो महाब्रह्मं ओलोकेत्वा अञ्‍जलिं पग्गय्ह ‘‘के तुम्हे’’ति पुच्छि। अहं तुय्हं पोराणकसहायो अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो। अम्हाकं पन सब्बजेट्ठको अरहत्तं पत्वा परिनिब्बुतो, तुम्हे पञ्‍च जना देवलोके निब्बत्ता। स्वाहं तं इमस्मिं ठाने कुहनकम्मेन जीवन्तं दिस्वा दमेतुं आगतोति वत्वा इदं कारणमाह – ‘‘न खो त्वं, बाहिय अरहा, नपि अरहत्तमग्गं समापन्‍नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्‍नो’’ति। अथस्स सत्थु उप्पन्‍नभावं सावत्थियं वसनभावञ्‍च आचिक्खित्वा ‘‘सत्थु सन्तिकं गच्छाही’’ति तं उय्योजेत्वा ब्रह्मलोकमेव अगमासि।</p>

<p rend="bodytext">दारुचीरियो महाब्रह्मुना संवेजितो ‘‘मोक्खमग्गं गवेसिस्सामी’’ति <pb ed="P" n="1.0282"/> वीसयोजनसतं मग्गं एकरत्तिवासेन गन्त्वा सत्थारं पिण्डाय पविट्ठं अन्तरघरे सम्पापुणित्वा सत्थु पादेसु निपतित्वा ‘‘देसेतु मे, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्म’’न्ति यावततियं याचि। सत्था ‘‘एत्तावता बाहियस्स ञाणं परिपाकं गत’’न्ति ञत्वा ‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं दिट्ठे दिट्ठमत्तं भविस्सती’’ति (उदा॰ १०) इमिना ओवादेन ओवदि <pb ed="M" n="1.0220"/>। सोपि देसनापरियोसाने अन्तरवीथियं ठितोव देसनानुसारेन ञाणं पेसेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि।</p>

<p rend="bodytext">सो अत्तनो किच्‍चं मत्थकप्पत्तं ञत्वा भगवन्तं पब्बज्‍जं याचित्वा अपरिपुण्णपत्तचीवरताय पत्तचीवरं परियेसन्तो सङ्कारट्ठानतो चोळक्खण्डानि संकड्ढति। अथ नं पुब्बवेरिको अमनुस्सो एकिस्सा तरुणवच्छाय गाविया सरीरे अधिमुच्‍चित्वा जीवितक्खयं पापेसि। सत्था सावत्थितो निक्खमन्तो अन्तरवीथियं बाहियं सङ्कारट्ठाने पतितं दिस्वा ‘‘गण्हथ, भिक्खवे, बाहियस्स दारुचीरियस्स सरीर’’न्ति नीहरापेत्वा सरीरकिच्‍चं कारेत्वा चातुमहापथे चेतियं कारापेसि। ततो सङ्घमज्झे कथा उदपादि – ‘‘तथागतो भिक्खुसङ्घेन बाहियस्स सरीरज्झापनकिच्‍चं कारेसि, धातुयो गहेत्वा चेतियं कारेसि, कतरमग्गो नु खो तेन सच्छिकतो, सामणेरो नु खो सो, भिक्खु नु खो’’ति चित्तं उप्पादयिंसु <pb ed="V" n="1.0216"/>। सत्था तं अट्ठुप्पत्तिं कत्वा ‘‘पण्डितो, भिक्खवे, बाहियो’’ति उपरि धम्मदेसनं वड्ढेत्वा तस्स परिनिब्बुतभावं पकासेसि। पुन सङ्घमज्झे कथा उदपादि ‘‘न च सत्थारा बाहियस्स बहु धम्मो देसितो, अरहत्तं पत्तोति च वदेति। किं नामेत’’न्ति? सत्था ‘‘धम्मो मन्दो <pb ed="P" n="1.0283"/> बहूति अकारणं, विसपीतकस्स अगदो विय चेसो’’ति वत्वा धम्मपदे गाथमाह –</p>

<p rend="gatha1">‘‘सहस्समपि चे गाथा, अनत्थपदसंहिता।</p>

<p rend="gathalast">एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मती’’ति॥ (ध॰ प॰ १००)।</p>

<p rend="bodytext">देसनापरियोसाने चतुरासीति पाणसहस्सानि अमतपानं पिविंसु। इदञ्‍च पन बाहियत्थेरस्स वत्थु सुत्ते (उदा॰ १०) आगतत्ता वित्थारेन न कथितं। अपरभागे पन सत्था सङ्घमज्झे निसिन्‍नो बाहियत्थेरं खिप्पाभिञ्‍ञानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">कुमारकस्सपत्थेरवत्थु</p>

<p rend="bodytext" n="217"><hi rend="paranum">२१७</hi><hi rend="dot">.</hi> नवमे <hi rend="bold">चित्तकथिकान</hi>न्ति विचित्तं कत्वा धम्मं कथेन्तानं। थेरो किर एकस्सपि द्विन्‍नम्पि धम्मं कथेन्तो बहूहि उपमाहि च कारणेहि च मण्डयित्वा बोधेन्तो कथेति। तस्मा चित्तकथिकानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स <pb ed="M" n="1.0221"/> पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे पटिसन्धिं गण्हित्वा वयप्पत्तो दसबलस्स धम्मकथं सुणन्तो सत्थारं एकं भिक्खुं चित्तकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा देवमनुस्सेसु संसरन्तो कस्सपबुद्धसासनोसक्‍कनकाले सत्तन्‍नं भिक्खूनं अब्भन्तरो हुत्वा पब्बतमत्थके समणधम्मं कत्वा अपरिहीनसीलो ततो चुतो देवलोके निब्बत्तित्वा एकं बुद्धन्तरं सम्पत्तिं अनुभवमानो अम्हाकं सत्थु काले राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि उप्पन्‍नो। सा च पठमं मातापितरो याचित्वा पब्बज्‍जं अलभमाना कुलघरं गता गब्भं गण्हि। तम्पि अजानन्ती <pb ed="P" n="1.0284"/> सामिकं आराधेत्वा तेन अनुञ्‍ञाता भिक्खुनीसु पब्बजिता। तस्सा गब्भनिमित्तं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु, सो ‘‘अस्समणी’’ति आह। दसबलं पुच्छिंसु, सत्था उपालित्थेरं पटिच्छापेसि। थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्‍च <pb ed="V" n="1.0217"/> उपासिकं पक्‍कोसापेत्वा सोधेन्तो ‘‘पुरे लद्धो गब्भो, पब्बज्‍जा अरोगा’’ति आह। सत्था ‘‘सुविनिच्छितं अधिकरण’’न्ति थेरस्स साधुकारं अदासि।</p>

<p rend="bodytext">सा भिक्खुनी सुवण्णबिम्बसदिसं पुत्तं विजायि। तं गहेत्वा राजा पसेनदिकोसलो पोसापेसि, कस्सपोति चस्स नामं कत्वा अपरभागे अलङ्करित्वा सत्थु सन्तिकं नेत्वा पब्बाजेसि। कुमारकाले पन पब्बजितत्ता भगवता ‘‘कस्सपं पक्‍कोसथ, इदं फलं वा खादनीयं वा कस्सपस्स देथा’’ति वुत्ते ‘‘कतरकस्सपस्साति। कुमारकस्सपस्सा’’ति एवं गहितनामत्ता ततो पट्ठाय वुड्ढकालेपि <hi rend="bold">कुमारकस्सपो</hi>त्वेव वुच्‍चति। अपिच रञ्‍ञो पोसावनिकपुत्तत्तापि कुमारकस्सपोति तं सञ्‍जानिंसु।</p>

<p rend="bodytext">सो पब्बजितकालतो पट्ठाय विपस्सनाय चेव कम्मं करोति, बुद्धवचनञ्‍च गण्हाति। अथ सो तेन सद्धिं पब्बतमत्थके समणधम्मं कत्वा अनागामिफलं पत्वा सुद्धावासे निब्बत्तो महाब्रह्मा तस्मिं समये आवज्‍जेन्तो कुमारकस्सपं दिस्वा ‘‘सहायको मे विपस्सनाय किलमति, गन्त्वा तस्स विपस्सनाय नयमुखं दस्सेत्वा मग्गफलपत्तिया उपायं करिस्सामी’’ति ब्रह्मलोके ठितोव पञ्‍चदस पञ्हे <pb ed="M" n="1.0222"/> अभिसङ्खरित्वा रत्तिभागसमनन्तरे कुमारकस्सपत्थेरस्स वसनट्ठाने अन्धवने पातुरहोसि। थेरो आलोकं दिस्वा ‘‘को एत्था’’ति आह। ‘‘अहं पुब्बे तया सद्धिं समणधम्मं कत्वा अनागामिफलं पत्वा सुद्धावासे निब्बत्तब्रह्मा’’ति <pb ed="P" n="1.0285"/> आह। केन कम्मेन आगतत्थाति? महाब्रह्मा अत्तनो आगतकारणं दीपेतुं ते पञ्हे आचिक्खित्वा ‘‘त्वं इमे पञ्हे उग्गण्हित्वा अरुणे उट्ठिते तथागतं उपसङ्कमित्वा पुच्छ, ठपेत्वा हि तथागतं अञ्‍ञो इमे पञ्हे कथेतुं समत्थो नाम नत्थी’’ति वत्वा ब्रह्मलोकमेव गतो।</p>

<p rend="bodytext">थेरोपि पुनदिवसे सत्थारं उपसङ्कमित्वा वन्दित्वा महाब्रह्मुना कथितनियामेनेव पञ्हे पुच्छि। सत्था कुमारकस्सपत्थेरस्स अरहत्तं पापेत्वा पञ्हे कथेसि। थेरो सत्थारा कथितनियामेनेव उग्गण्हित्वा अन्धवनं गन्त्वा विपस्सनं गब्भं गाहापेत्वा अरहत्तं पापुणि। ततो पट्ठाय चतुन्‍नं परिसानं धम्मकथं कथेन्तो बहुकाहि उपमाहि च कारणेहि च मण्डेत्वा चित्तकथमेव कथेति। अथ नं सत्था पायासिरञ्‍ञो पञ्‍चदसहि पञ्हेहि पटिमण्डेत्वा सुत्तन्ते (दी॰ नि॰ २.४०६ आदयो) देसिते <pb ed="V" n="1.0218"/> तं सुत्तन्तं अट्ठुप्पत्तिं कत्वा इमस्मिं सासने चित्तकथिकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">महाकोट्ठितत्थेरवत्थु</p>

<p rend="bodytext" n="218"><hi rend="paranum">२१८</hi><hi rend="dot">.</hi> दसमे <hi rend="bold">पटिसम्भिदापत्तान</hi>न्ति चतस्सो पटिसम्भिदा पत्वा ठितानं महाकोट्ठितत्थेरो अग्गोति दस्सेति। अयं हि थेरो अत्तनो पटिसम्भिदासु चिण्णवसिभावेन अभिञ्‍ञाते अभिञ्‍ञाते महासावके उपसङ्कमित्वा पञ्हं पुच्छन्तोपि दसबलं उपसङ्कमित्वा पञ्हं पुच्छन्तोपि पटिसम्भिदासुयेव पञ्हं पुच्छति। इति इमिना चिण्णवसिभावेन पटिसम्भिदापत्तानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि <pb ed="P" n="1.0286"/> हि पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो अपरेन समयेन सत्थु धम्मकथं सुणन्तो सत्थारं एकं भिक्खुं पटिसम्भिदापत्तानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले <pb ed="M" n="1.0223"/> निब्बत्ति। कोट्ठितमाणवोतिस्स नामं अकंसु। सो वयप्पत्तो तयो वेदे उग्गण्हित्वा एकदिवसं सत्थु धम्मकथं सुत्वा पटिलद्धसद्धो पब्बजि। सो उपसम्पन्‍नकालतो पट्ठाय विपस्सनाय कम्मं करोन्तो सह पटिसम्भिदाहि अरहत्तं पत्वा निच्‍चकालं पटिसम्भिदासु चिण्णवसी हुत्वा पञ्हं पुच्छन्तो पटिसम्भिदासुयेव पुच्छति। अथ नं सत्था अपरभागे महावेदल्‍लसुत्तं (म॰ नि॰ १.४४९ आदयो) अट्ठुप्पत्तिं कत्वा पटिसम्भिदापत्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="centre">ततियवग्गवण्णना।</p>

<p rend="title">१४. एतदग्गवग्गो</p>

<p rend="subhead">(१४) ४. चतुत्थएतदग्गवग्गो</p>

<p rend="subhead">आनन्दत्थेरवत्थु</p>

<p rend="bodytext" n="219-223"><hi rend="paranum">२१९-२२३</hi><hi rend="dot">.</hi> चतुत्थस्स <pb ed="V" n="1.0219"/> पठमे <hi rend="bold">बहुस्सुतान</hi>न्तिआदीसु अञ्‍ञेपि थेरा बहुस्सुता सतिमन्ता गतिमन्ता धितिमन्ता उपट्ठाका च अत्थि। अयं पनायस्मा बुद्धवचनं उग्गण्हन्तो दसबलस्स सासने भण्डागारिकपरियत्तियं ठत्वा गण्हि। तस्मा बहुस्सुतानं अग्गो नाम जातो। इमस्सेव च थेरस्स बुद्धवचनं गहेत्वा धारणकसति अञ्‍ञेहि थेरेहि बलवतरा अहोसि, तस्मा <hi rend="bold">सतिमन्तानं</hi> अग्गो नाम जातो। अयमेव <pb ed="P" n="1.0287"/> चायस्मा एकपदे ठत्वा सट्ठि पदसहस्सानि गण्हन्तो सत्थारा कथितनियामेनेव सब्बपदानि जानाति, तस्मा <hi rend="bold">गतिमन्तानं</hi> अग्गो नाम जातो। तस्सेव चायस्मतो बुद्धवचनं उग्गण्हनवीरियं सज्झायनवीरियञ्‍च धारणवीरियञ्‍च सत्थु उपट्ठानवीरियञ्‍च अञ्‍ञेहि असदिसं अहोसि, तस्मा <hi rend="bold">धितिमन्तानं</hi> अग्गो नाम जातो। तथागतं उपट्ठहन्तो चेस न अञ्‍ञेसं उपट्ठाकभिक्खूनं उपट्ठानाकारेन उपट्ठहि, अञ्‍ञे हि तथागतं उपट्ठहन्ता न चिरं उपट्ठहिंसु, न च बुद्धानं मनं गहेत्वा उपट्ठहिंसु। अयं थेरो पन उपट्ठाकट्ठानं लद्धदिवसतो पट्ठाय आरद्धवीरियो हुत्वा तथागतस्स मनं गहेत्वा उपट्ठहि। तस्मा <hi rend="bold">उपट्ठाकानं</hi> अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स <pb ed="M" n="1.0224"/> पञ्हकम्मे अयमनुपुब्बिकथा – इतो किर सतसहस्समत्थके कप्पे पदुमुत्तरो नाम सत्था लोके उप्पज्‍जि। तस्स हंसवती नाम नगरं अहोसि, नन्दो नाम राजा पिता, सुमेधा नाम देवी माता, बोधिसत्तो उत्तरकुमारो नाम अहोसि। सो पुत्तस्स जातदिवसे महाभिनिक्खमनं निक्खम्म पब्बजित्वा पधानमनुयुत्तो अनुक्‍कमेन सब्बञ्‍ञुतं पत्वा ‘‘अनेकजातिसंसार’’न्ति उदानं उदानेत्वा सत्ताहं बोधिपल्‍लङ्के वीतिनामेत्वा ‘‘पथवियं ठपेस्सामी’’ति पादं अभिनीहरि। अथ पथविं भिन्दित्वा हेट्ठा वुत्तप्पमाणं पदुमं उट्ठासि। तदुपादाय भगवा पदुमुत्तरोतेव पञ्‍ञायित्थ। तस्स देवलो च सुजातो च द्वे अग्गसावका अहेसुं <pb ed="V" n="1.0220"/>, अमिता च असमा च द्वे अग्गसाविका, सुमनो नाम उपट्ठाको। पदुमुत्तरो भगवा पितु सङ्गहं कुरुमानो भिक्खुसतसहस्सपरिवारो हंसवतिया राजधानिया वसति।</p>

<p rend="bodytext">कनिट्ठभाता <pb ed="P" n="1.0288"/> पनस्स सुमनकुमारो नाम। तस्स राजा हंसवतितो वीसयोजनसते भोगगामं अदासि। सो कदाचि कदाचि आगन्त्वा पितरञ्‍च सत्थारञ्‍च पस्सति। अथेकदिवसं पच्‍चन्तो कुपितो सुमनो रञ्‍ञो पेसेसि। राजा ‘‘त्वं मया तत्थ कस्मा ठपितो’’ति पटिपेसेसि। सो चोरे वूपसमेत्वा ‘‘उपसन्तो, देव, जनपदो’’ति रञ्‍ञो पेसेसि। राजा तुट्ठो ‘‘सीघं मम पुत्तो आगच्छतू’’ति आह। तस्स सहस्समत्ता अमच्‍चा होन्ति। सो तेहि सद्धिं अन्तरामग्गे मन्तेसि – ‘‘मय्हं पिता तुट्ठो सचे मे वरं देति, किं गण्हामी’’ति? अथ नं एकच्‍चे ‘‘हत्थिं गण्हथ, अस्सं गण्हथ, जनपदं गण्हथ, सत्त रतनानि गण्हथा’’ति आहंसु। अपरे ‘‘तुम्हे पथविस्सरस्स पुत्ता, न तुम्हाकं धनं दुल्‍लभं, लद्धम्पि चेतं सब्बं पहाय गमनीयं, पुञ्‍ञमेव एकं आदाय गमनीयं। तस्मा देवे वरं ददमाने तेमासं पदुमुत्तरभगवन्तं उपट्ठातुं वरं गण्हथा’’ति आहंसु। सो ‘‘तुम्हे मय्हं कल्याणमित्ता, न मेतं चित्तं अत्थि, तुम्हेहि पन उप्पादितं, एवं करिस्सामी’’ति गन्त्वा पितरं वन्दित्वा पितरा आलिङ्गेत्वा मत्थके चुम्बेत्वा ‘‘वरं ते पुत्त देमी’’ति वुत्ते ‘‘इच्छामहं, महाराज, भगवन्तं तेमासं चतूहि पच्‍चयेहि उपट्ठहन्तो जीवितं अवञ्झं कातुं, इमं मे देव वरं देही’’ति आह। न सक्‍का, तात, अञ्‍ञं वरेहीति। देव, खत्तियानं नाम द्वे <pb ed="M" n="1.0225"/> कथा नत्थि, एतदेव मे वरं देहि, न मम अञ्‍ञेन अत्थोति। तात, बुद्धानं नाम चित्तं दुज्‍जानं, सचे भगवा न इच्छिस्सति, मया दिन्‍नेपि <pb ed="P" n="1.0289"/> किं भविस्सतीति? ‘‘साधु, देव, अहं भगवतो चित्तं जानिस्सामी’’ति विहारं गतो।</p>

<p rend="bodytext">तेन च समयेन भत्तकिच्‍चं निट्ठापेत्वा भगवा गन्धकुटिं पविट्ठो होति, सो मण्डलमाळे सन्‍निपतितानं भिक्खूनं सन्तिकं अगमासि। ते नं आहंसु – ‘‘राजपुत्त, कस्मा आगतोसी’’ति? भगवन्तं दस्सनाय, दस्सेथ मे भगवन्तन्ति। न मयं, राजपुत्त, इच्छितिच्छितक्खणे सत्थारं दट्ठुं लभामाति। को पन, भन्ते, लभतीति? सुमनत्थेरो नाम राजपुत्ताति। सो ‘‘कुहिं, भन्ते, थेरो’’ति? थेरस्स निसिन्‍नट्ठानं पुच्छित्वा गन्त्वा वन्दित्वा ‘‘इच्छामहं, भन्ते, भगवन्तं पस्सितुं, दस्सेथ मे भगवन्त’’न्ति आह। थेरो पस्सन्तस्सेव राजकुमारस्स आपोकसिणज्झानं समापज्‍जित्वा महापथविं उदकं अधिट्ठाय पथवियं निमुज्‍जित्वा <pb ed="V" n="1.0221"/> सत्थु गन्धकुटियंयेव पातुरहोसि। अथ नं भगवा ‘‘सुमन कस्मा आगतोसी’’ति आह। राजपुत्तो, भन्ते, भगवन्तं दस्सनाय आगतोति। तेन हि भिक्खु आसनं पञ्‍ञापेहीति। पुन थेरो पस्सन्तस्सेव राजकुमारस्स बुद्धासनं गहेत्वा अन्तोगन्धकुटियं निमुज्‍जित्वा बहिपरिवेणे पातुभवित्वा परिवेणे आसनं पञ्‍ञापेसि। राजकुमारो इमानि द्वे अच्छरियाकारानि दिस्वा ‘‘महन्तो वतायं भिक्खू’’ति चिन्तेसि।</p>

<p rend="bodytext">भगवापि गन्धकुटितो निक्खमित्वा पञ्‍ञत्ते आसने निसीदि। राजपुत्तो भगवन्तं वन्दित्वा पटिसन्थारं अकासि। ‘‘कदा आगतोसि राजपुत्ता’’ति वुत्ते, ‘‘भन्ते, तुम्हेसु गन्धकुटिं पविट्ठेसु, भिक्खू पन ‘न मयं इच्छितिच्छितक्खणे भगवन्तं दट्ठुं लभामा’ति मं थेरस्स सन्तिकं पाहेसुं। थेरो पन एकवचनेनेव दस्सेति, थेरो, भन्ते, तुम्हाकं सासने वल्‍लभो मञ्‍ञे’’ति। आम राजकुमार, वल्‍लभो एस भिक्खु मय्हं <pb ed="P" n="1.0290"/> सासनेति। भन्ते, बुद्धानं सासने किं कत्वा वल्‍लभा होन्तीति? दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा कुमाराति। भगवा अहं थेरो विय बुद्धसासने वल्‍लभो होतुकामो, स्वे मय्हं भिक्खं अधिवासेथाति। अधिवासेसि भगवा तुण्हीभावेन <pb ed="M" n="1.0226"/>। राजकुमारो अत्तनो वसनट्ठानं गन्त्वा सब्बरत्तिं महासक्‍कारं सज्‍जेत्वा सत्त दिवसानि खन्धावारभत्तं नाम अदासि।</p>

<p rend="bodytext">सत्तमे दिवसे सत्थारं वन्दित्वा, भन्ते, मया पितु सन्तिका तेमासं अन्तोवस्सं तुम्हाकं पटिजग्गनवरो लद्धो, तेमासं मे वस्सावासं अधिवासेथाति। भगवा ‘‘अत्थि नु खो तत्थ गतेन अत्थो’’ति ओलोकेत्वा ‘‘अत्थी’’ति दिस्वा ‘‘सुञ्‍ञागारे खो, राजकुमार, तथागता अभिरमन्ती’’ति आह। कुमारो ‘‘अञ्‍ञातं भगवा अञ्‍ञातं सुगता’’ति वत्वा ‘‘अहं, भन्ते, पुरिमतरं गन्त्वा विहारं कारेमि, मया पेसिते भिक्खुसतसहस्सेन सद्धिं आगच्छथा’’ति भगवन्तं पटिञ्‍ञं गाहापेत्वा पितु सन्तिकं गन्त्वा ‘‘दिन्‍ना मे, देव, भगवता पटिञ्‍ञा, मया पहिते भगवन्तं पेसेय्यथा’’ति वत्वा पितरं वन्दित्वा निक्खमित्वा योजने योजने विहारं कारेन्तो वीसयोजनसतं अद्धानं गतो। गन्त्वा च अत्तनो नगरे विहारट्ठानं विचिनन्तो सोभननामस्स कुटुम्बिकस्स उय्यानं दिस्वा सतसहस्सेन किणित्वा सतसहस्सं विस्सज्‍जेत्वा विहारं कारेसि। तत्थ भगवतो गन्धकुटिं सेसभिक्खूनञ्‍च रत्तिट्ठानदिवाट्ठानत्थाय कुटिलेणमण्डपे कारेत्वा पाकारपरिक्खेपं द्वारकोट्ठकञ्‍च निट्ठापेत्वा पितु सन्तिकं पेसेसि – ‘‘निट्ठितं मय्हं किच्‍चं, सत्थारं पहिणथा’’ति।</p>

<p rend="bodytext">राजा <pb ed="V" n="1.0222"/> भगवन्तं भोजेत्वा ‘‘भगवा सुमनस्स किच्‍चं निट्ठितं, तुम्हाकं गमनं <pb ed="P" n="1.0291"/> पच्‍चासीसती’’ति आह। भगवा भिक्खुसतसहस्सपरिवुतो योजने योजने विहारेसु वसमानो अगमासि। कुमारो ‘‘सत्था आगच्छती’’ति सुत्वा योजनं पच्‍चुग्गन्त्वा गन्धमालादीहि पूजयमानो विहारं पवेसेत्वा –</p>

<p rend="gatha1">‘‘सतसहस्सेन मे कीतं, सतसहस्सेन मापितं।</p>

<p rend="gathalast">सोभनं नाम उय्यानं, पटिग्गण्ह महामुनी’’ति॥ –</p>

<p rend="unindented">विहारं निय्यादेसि। सो वस्सूपनायिकादिवसे दानं दत्वा अत्तनो पुत्तदारे च अमच्‍चे च पक्‍कोसापेत्वा आह – ‘‘सत्था अम्हाकं सन्तिकं दूरतोव आगतो, बुद्धा च नाम धम्मगरुका न आमिसचक्खुका <pb ed="M" n="1.0227"/>। तस्मा अहं इमं तेमासं द्वे साटके निवासेत्वा दस सीलानि समादियित्वा इधेव वसिस्सामि, तुम्हे खीणासवसतसहस्सस्स इमिनाव नीहारेन तेमासं दानं ददेय्याथा’’ति।</p>

<p rend="bodytext">सो सुमनत्थेरस्स वसनट्ठानसभागेयेव ठाने वसन्तो यं थेरो भगवतो वत्तं करोति, तं सब्बं दिस्वा ‘‘इमस्मिं ठाने एकन्तवल्‍लभो एस थेरो, एतस्सेव मे ठानन्तरं पत्थेतुं वट्टती’’ति चिन्तेत्वा उपकट्ठाय पवारणाय गामं पविसित्वा सत्ताहं महादानं दत्वा सत्तमे दिवसे भिक्खुसतसहस्सस्स पादमूले तिचीवरं ठपेत्वा भगवन्तं वन्दित्वा, ‘‘भन्ते, यदेतं मया सत्ताहं खन्धावारदानतो पट्ठाय पुञ्‍ञं कतं, तं नेव सक्‍कसम्पत्तिं, न मारब्रह्मसम्पत्तिं पत्थयन्तेन, बुद्धस्स पन उपट्ठाकभावं पत्थेन्तेन कतं। तस्मा अहम्पि भगवा अनागते सुमनत्थेरो विय एकस्स बुद्धस्स उपट्ठाको होमी’’ति पञ्‍चपतिट्ठितेन पतिट्ठहित्वा वन्दि। सत्था तस्स अनन्तरायं दिस्वा ब्याकरित्वा पक्‍कामि। कुमारो <pb ed="P" n="1.0292"/> तं सुत्वा ‘‘बुद्धा च नाम अद्वेज्झकथा होन्ती’’ति दुतियदिवसे गोतमबुद्धस्स पत्तचीवरं गहेत्वा पिट्ठितो पिट्ठितो गच्छन्तो विय अहोसि।</p>

<p rend="bodytext">सो तस्मिं बुद्धुप्पादे वस्ससतसहस्सं दानं दत्वा सग्गे निब्बत्तित्वा कस्सपबुद्धकाले पिण्डाय चरतो थेरस्स पत्तग्गहणत्थं उत्तरिसाटकं दत्वा पूजं अकासि। पुन सग्गे निब्बत्तित्वा ततो चुतो बाराणसिराजा हुत्वा उपरिपासादवरगतो गन्धमादनतो आकासेन आगच्छन्ते <pb ed="V" n="1.0223"/> अट्ठ पच्‍चेकबुद्धे दिस्वा निमन्तापेत्वा भोजेत्वा अत्तनो मङ्गलउय्याने तेसं अट्ठ पण्णसालायो कारेत्वा तेसं निसीदनत्थाय अत्तनो निवेसने अट्ठ सब्बरतनमयानि पीठानि चेव मणिआधारके च पटियादेत्वा दस वस्ससहस्सानि उपट्ठानं अकासि। एतानि पाकटट्ठानानि।</p>

<p rend="bodytext">कप्पसतसहस्सं पन दानं ददमानोव अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ततो चुतो अमितोदनसक्‍कस्स गेहे निब्बत्ति। अथस्स सब्बेव ञातके आनन्दिते पमुदिते करोन्तो जातोति आनन्दोत्वेव नामं अकंसु। सो अनुपुब्बेन कताभिनिक्खमने सम्मासम्बोधिं पत्वा पठमगमनेन कपिलवत्थुं आगन्त्वा ततो <pb ed="M" n="1.0228"/> निक्खन्ते भगवति भगवतो परिवारत्थं राजकुमारेसु पब्बजन्तेसु भद्दियादीहि सद्धिं निक्खमित्वा भगवतो सन्तिके पब्बजित्वा नचिरस्सेव आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स सन्तिके धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठहि।</p>

<p rend="bodytext">तेन खो पन समयेन भगवतो पठमबोधियं वीसति वस्सानि अनिबद्धा उपट्ठाका अहेसुं। एकदा नागसमालो पत्तचीवरं गहेत्वा विचरि एकदा नागितो, एकदा उपवानो, एकदा सुनक्खत्तो, एकदा चुन्दो समणुद्देसो <pb ed="P" n="1.0293"/>, एकदा सागतो, एकदा राधो, एकदा मेघियो। तत्थ एकदा भगवा नागसमालत्थेरेन सद्धिं अद्धानमग्गप्पटिपन्‍नो द्वेधापथं पत्तो। थेरो मग्गा ओक्‍कम्म ‘‘भगवा अहं इमिना मग्गेन गच्छामी’’ति आह। अथ नं भगवा ‘‘एहि भिक्खु, इमिना मग्गेन गच्छामा’’ति आह। सो ‘‘हन्द भगवा तुम्हाकं पत्तचीवरं गण्हथ, अहं इमिना मग्गेन गच्छामी’’ति वत्वा पत्तचीवरं भूमियं ठपेतुं आरद्धो। अथ नं भगवा ‘‘आहर भिक्खू’’ति वत्वा पत्तचीवरं गहेत्वा गतो। तस्सपि भिक्खुनो इतरेन मग्गेन गच्छतो चोरा पत्तचीवरञ्‍चेव हरिंसु, सीसञ्‍च भिन्दिंसु। सो ‘‘भगवा इदानि मे पटिसरणं, न अञ्‍ञो’’ति चिन्तेत्वा लोहितेन गलन्तेन भगवतो सन्तिकं आगमि। ‘‘किमिदं भिक्खू’’ति च वुत्ते तं पवत्तिं आरोचेसि। अथ नं भगवा ‘‘मा चिन्तेयि भिक्खु, एतस्स कारणायेव तं निवारयिम्हा’’ति वत्वा समस्सासेसि।</p>

<p rend="bodytext">एकदा पन भगवा मेघियत्थेरेन सद्धिं पाचीनवंसे मिगदाये जन्तुगामं अगमासि। तत्रापि मेघियो जन्तुगामे पिण्डाय चरित्वा नदीतीरे पासादिकं अम्बवनं दिस्वा ‘‘भगवा तुम्हाकं <pb ed="V" n="1.0224"/> पत्तचीवरं गण्हथ, अहं तस्मिं अम्बवने समणधम्मं करोमी’’ति वत्वा भगवता तिक्खत्तुं निवारियमानोपि गन्त्वा अकुसलवितक्‍केहि अन्वासत्तो पच्‍चागन्त्वा तं पवत्तिं आरोचेसि। तम्पि भगवा ‘‘इममेव ते कारणं सल्‍लक्खेत्वा निवारयिम्हा’’ति वत्वा अनुपुब्बेन सावत्थिं अगमासि। तत्थ गन्धकुटिपरिवेणे पञ्‍ञत्तवरबुद्धासने निसिन्‍नो भिक्खुसङ्घपरिवुतो भिक्खू आमन्तेसि – ‘‘भिक्खवे, इदानिम्हि महल्‍लको, ‘एकच्‍चे भिक्खू इमिना मग्गेन गच्छामा’ति वुत्ते अञ्‍ञेन गच्छन्ति, एकच्‍चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, मय्हं निबद्धुपट्ठाकं एकं भिक्खुं <pb ed="M" n="1.0229"/> जानाथा’’ति <pb ed="P" n="1.0294"/>। भिक्खूनं धम्मसंवेगो उदपादि। अथायस्मा सारिपुत्तो उट्ठायासना भगवन्तं वन्दित्वा ‘‘अहं, भन्ते, तुम्हेयेव पत्थयमानो सतसहस्सकप्पाधिकं असङ्ख्येय्यं पारमियो पूरयिं, ननु मादिसो महापञ्‍ञो उपट्ठाको नाम वट्टति, अहं उपट्ठहिस्सामी’’ति आह। तं भगवा ‘‘अलं, सारिपुत्त, यस्सं दिसायं त्वं विहरसि, असुञ्‍ञा वे सा दिसा, तव हि ओवादो बुद्धानं ओवादसदिसो, तेन मे तया उपट्ठाककिच्‍चं अत्थी’’ति पटिक्खिपि। एतेनेव उपायेन महामोग्गल्‍लानं आदिं कत्वा असीति महासावका उट्ठहिंसु। ते सब्बे भगवा पटिक्खिपि।</p>

<p rend="bodytext">आनन्दत्थेरो पन तुण्हीयेव निसीदि। अथ नं भिक्खू आहंसु – ‘‘आवुसो आनन्द, भिक्खुसङ्घो उपट्ठाकट्ठानं याचति, त्वम्पि याचाही’’ति। याचित्वा लद्धट्ठानं नाम, आवुसो, कीदिसं होति, किं मं सत्था न पस्सति? सचे सत्था रोचिस्सति, ‘‘आनन्दो मं उपट्ठहतू’’ति वक्खतीति। अथ भगवा ‘‘न, भिक्खवे, आनन्दो अञ्‍ञेहि उस्साहेतब्बो, सयमेव जानित्वा मं उपट्ठहिस्सती’’ति आह। ततो भिक्खू ‘‘उट्ठेहि, आवुसो आनन्द, उट्ठेहि, आवुसो आनन्द, दसबलं उपट्ठाकट्ठानं याचाही’’ति आहंसु। थेरो उट्ठहित्वा चत्तारो पटिक्खेपा चतस्सो च आयाचनाति अट्ठ वरे याचि।</p>

<p rend="bodytext"><hi rend="bold">चत्तारो पटिक्खेपा</hi> नाम – ‘‘सचे मे, भन्ते, भगवा अत्तना लद्धं पणीतं चीवरं न दस्सति, पिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं <pb ed="P" n="1.0295"/> गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति वत्वा ‘‘कं पनेत्थ, आनन्द, आदीनवं अद्दसा’’ति वुत्ते आह – ‘‘सचाहं, भन्ते, इमानि वत्थूनि लभिस्सामि, भविस्सन्ति वत्तारो ‘आनन्दो दसबलेन लद्धं पणीतं चीवरं परिभुञ्‍जति, पिण्डपातं परिभुञ्‍जति, एकगन्धकुटियं वसति <pb ed="V" n="1.0225"/>, एकतो निमन्तनं गच्छति। एतं लाभं लभन्तो तथागतं उपट्ठाति, को एवं उपट्ठहतो भारो’’’ति? इमे चत्तारो पटिक्खेपे याचि।</p>

<p rend="bodytext"><hi rend="bold">चतस्सो आयाचना</hi> नाम – ‘‘सचे, भन्ते, भगवा मया गहितनिमन्तनं गमिस्सति, सचाहं तिरोरट्ठा तिरोजनपदा भगवन्तं दट्ठुं आगतं परिसं आगतक्खणेयेव भगवन्तं दस्सेतुं लच्छामि, यदा मे कङ्खा उप्पज्‍जति, तस्मिंयेव खणे भगवन्तं उपसङ्कमितुं लच्छामि, तथा यं भगवा मय्हं परम्मुखे धम्मं देसेति, तं आगन्त्वा मय्हं कथेस्सति, एवाहं <pb ed="M" n="1.0230"/> भगवन्तं उपट्ठहिस्सामी’’ति वत्वा ‘‘कं पनेत्थ, आनन्द, आनिसंसं पस्ससी’’ति वुत्ते आह – ‘‘इध, भन्ते, सद्धा कुलपुत्ता भगवतो ओकासं अलभन्ता मं एवं वदन्ति ‘स्वे, भन्ते आनन्द, भगवता सद्धिं अम्हाकं घरे भिक्खं गण्हेय्याथा’ति। सचे भगवा तत्थ न गमिस्सति, इच्छितिच्छितक्खणेयेव परिसं दस्सेतुं, कङ्खञ्‍च विनोदेतुं ओकासं न लच्छामि, भविस्सन्ति वत्तारो ‘किं आनन्दो दसबलं उपट्ठाति <pb ed="P" n="1.0296"/>। एत्तकम्पिस्स भगवा अनुग्गहं न करोती’ति। भगवतो च परम्मुखा मं पुच्छिस्सन्ति ‘अयं, आवुसो आनन्द, गाथा, इदं सुत्तं, इदं जातकं कत्थ देसित’न्ति। सचाहं तं न सम्पादयिस्सामि, भविस्सन्ति वत्तारो – ‘एत्तकम्पि, आवुसो, न जानासि, कस्मा त्वं छाया विय भगवन्तं अविजहन्तो दीघरत्तं विचरसी’ति। तेनाहं परम्मुखा देसितस्सपि धम्मस्स पुन कथनं इच्छामी’’ति। इमा चतस्सो आयाचना याचि। भगवापिस्स अदासि।</p>

<p rend="bodytext">एवं इमे अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि। तस्सेव ठानन्तरस्स अत्थाय कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणि। सो उपट्ठाकट्ठानं लद्धदिवसतो पट्ठाय दसबलस्स दुविधेन उदकेन तिविधेन दन्तकट्ठेन हत्थपादपरिकम्मेन पिट्ठिपरिकम्मेन गन्धकुटिपरिवेणं सम्मज्‍जनेनाति एवमादीहि किच्‍चेहि उपट्ठहन्तो ‘‘इमाय नाम वेलाय सत्थु इमं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टती’’ति दिवसभागं सन्तिकावचरो हुत्वा रत्तिभागसमनन्तरे दण्डदीपिकं गहेत्वा एकरत्तिं गन्धकुटिपरिवेणं नव वारे अनुपरियायति। एवञ्हिस्स अहोसि – ‘‘सचे मे थिनमिद्धं ओक्‍कमेय्य, दसबले पक्‍कोसन्ते पटिवचनं दातुं न सक्‍कुणेय्य’’न्ति। तस्मा सब्बरत्तिं दण्डदीपिकं हत्थेन न मुञ्‍चति। इदमेत्तकं वत्थु। अपरभागे पन सत्था जेतवने विहरन्तो अनेकपरियायेन धम्मभण्डागारिकआनन्दत्थेरस्स वण्णं कथेत्वा <pb ed="V" n="1.0226"/> थेरं इमस्मिं सासने बहुस्सुतानं सतिमन्तानं गतिमन्तानं धितिमन्तानं उपट्ठाकानञ्‍च भिक्खूनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">उरुवेलकस्सपत्थेरवत्थु</p>

<p rend="bodytext" n="224"><hi rend="paranum">२२४</hi><hi rend="dot">.</hi> दुतिये <pb ed="P" n="1.0297"/> <hi rend="bold">महापरिसान</hi>न्ति महापरिवारानं उरुवेलकस्सपो अग्गोति दस्सेति। अञ्‍ञेसञ्हि थेरानं कञ्‍चि कालं परिवारो महा होति कञ्‍चि <pb ed="M" n="1.0231"/> कालं अप्पो, इमस्स पन थेरस्स द्वीहि भातिकेहि सद्धिं एकं समणसहस्सं निबद्धपरिवारोव अहोसि। तेसु एकेकस्मिं एकेकं पब्बाजेन्ते द्वे समणसहस्सानि होन्ति, द्वे द्वे पब्बाजेन्ते तीणि सहस्सानि होन्ति। तस्मा सो महापरिवारानं अग्गो नाम जातो। <hi rend="bold">कस्सपो</hi>ति पनस्स गोत्तं। उरुवेलायं पब्बजितत्ता <hi rend="bold">उरुवेलकस्सपो</hi>ति पञ्‍ञायित्थ।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे पटिसन्धिं गहेत्वा वयप्पत्तो सत्थु धम्मकथं सुणन्तो सत्थारं एकं भिक्खुं महापरिसानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा तिचीवरेन अच्छादेत्वा सत्थारं वन्दित्वा महापरिसानं अग्गभावत्थं पत्थनं अकासि। सत्था अनन्तरायं दिस्वा अनागते गोतमबुद्धस्स सासने महापरिसानं अग्गो भविस्सती’’ति ब्याकरित्वा पक्‍कामि।</p>

<p rend="bodytext">सोपि कुलपुत्तो यावजीवं कल्याणकम्मं कत्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुतिकप्पमत्थके फुस्सबुद्धस्स वेमातिककनिट्ठभाता हुत्वा निब्बत्तो, पिता महिन्दराजा नाम। अपरे पनस्स द्वे कनिट्ठभातरो अहेसुं। एवं ते तयो भातरो विसुं विसुं ठानन्तरं लभिंसु। ते हेट्ठा वुत्तनयेनेव कुपितं पच्‍चन्तं वूपसमेत्वा पितु सन्तिका वरं लभित्वा ‘‘तेमासं दसबलं पटिजग्गिस्सामा’’ति वरं गण्हिंसु। अथ नेसं <pb ed="P" n="1.0298"/> एतदहोसि – ‘‘अम्हेहि दसबलं पटिजग्गन्तेहि अनुच्छविकं कातुं वट्टती’’ति एकं अमच्‍चं उप्पादकट्ठाने ठपेत्वा एकं आयवयजाननकं कत्वा एकं बुद्धप्पमुखस्स भिक्खुसङ्घस्स परिवेसकट्ठाने ठपेत्वा अत्तना दस सीलानि समादाय तेमासं सिक्खापदानि रक्खिंसु। ते तयो अमच्‍चा हेट्ठा वुत्तनयेनेव इमस्मिं बुद्धुप्पादे बिम्बिसारविसाखरट्ठपाला जाता।</p>

<p rend="bodytext">ते <pb ed="V" n="1.0227"/> पन राजकुमारा वुत्थवस्से दसबले सहत्था बुद्धप्पमुखं भिक्खुसङ्घं पच्‍चयपूजाय पूजेत्वा यावजीवं कल्याणकम्मं कत्वा अम्हाकं दसबलस्स निब्बत्तितो पुरेतरमेव ब्राहमणकुले निब्बत्तित्वा अत्तनो गोत्तवसेन <pb ed="M" n="1.0232"/> तयोपि जना कस्सपा एव नाम जाता। ते वयप्पत्ता तयो वेदे उग्गण्हिंसु। तेसं जेट्ठभातिकस्स पञ्‍च माणवकसतानि परिवारो अहोसि, मज्झिमस्स तीणि, कनिट्ठस्स द्वे। ते अत्तनो गन्थे सारं ओलोकेन्ता दिट्ठधम्मिकमेव पस्सिंसु, न सम्परायिकं। अथ नेसं जेट्ठभाता अत्तनो परिवारेन सद्धिं उरुवेलं गन्त्वा इसिपब्बज्‍जं पब्बजित्वा उरुवेलकस्सपो नाम जातो, महागङ्गानदीवङ्के पब्बजितो नदीकस्सपो नाम जातो, गयासीसे पब्बजितो गयाकस्सपो नाम जातो।</p>

<p rend="bodytext">एवं तेसु इसिपब्बज्‍जं पब्बजित्वा तत्थ वसन्तेसु बहूनं दिवसानं अच्‍चयेन अम्हाकं बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा पटिविद्धसब्बञ्‍ञुतञ्‍ञाणो अनुक्‍कमेन धम्मचक्‍कं पवत्तेत्वा पञ्‍चवग्गिये थेरे अरहत्ते पतिट्ठापेत्वा यसदारकप्पमुखे पञ्‍चपञ्‍ञास सहायकेपि विनेत्वा सट्ठि अरहन्ते ‘‘चरथ, भिक्खवे <pb ed="P" n="1.0299"/>, चारिक’’न्ति बहुजनहिताय चारिकं पेसेत्वा भद्दवग्गिये विनेत्वा उरुवेलकस्सपस्स हेतुं दिस्वा ‘‘मयि गते तयो भातिका सपरिवारा अरहत्तं पापुणिस्सन्ती’’ति ञत्वा एकको अदुतियो उरुवेलकस्सपस्स वसनट्ठानं गन्त्वा वसनत्थाय अग्यागारं याचित्वा तत्थ कतं नागदमनं आदिं कत्वा अड्ढुड्ढसहस्सेहि पाटिहारियेहि उरुवेलकस्सपं सपरिवारं विनेत्वा पब्बाजेसि। तस्स पब्बजितभावं ञत्वा इतरेपि द्वे भातरो सपरिवारा आगन्त्वा पब्बजिंसु, सब्बेपि एहिभिक्खू इद्धिमयपत्तचीवरधरा अहेसुं।</p>

<p rend="bodytext">सत्था तं समणसहस्सं आदाय गयासीसं गन्त्वा पिट्ठिपासाणे निसिन्‍नो ‘‘कथंरूपा नु खो एतेसं धम्मदेसना सप्पाया’’ति ओलोकेन्तो ‘‘इमे अग्गिं परिचरन्ता विचरिंसु, इमेसं तयो भवे आदित्तागारसदिसे कत्वा दस्सेतुं वट्टती’’ति आदित्तपरियायसुत्तं (महाव॰ ५४) देसेसि। देसनापरियोसाने सब्बेव अरहत्तं पत्ता। सत्था तेहि परिवुतो पुब्बे बिम्बिसाररञ्‍ञो दिन्‍नपटिञ्‍ञत्ता राजगहनगरे लट्ठिवनुय्यानं अगमासि। राजा दसबलस्स आगतभावं सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि सद्धिं सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि। सत्था सब्बावन्तं परिसं ओलोकेत्वा महाजनं उरुवेलकस्सपस्स निपच्‍चकारं करोन्तं दिस्वा ‘‘इमे मय्हं वा कस्सपस्स वा <pb ed="M" n="1.0233"/> महन्तभावं न जानन्ति, सवितक्‍का च नाम देसनं सम्पटिच्छितुं <pb ed="V" n="1.0228"/> न सक्‍कोन्ती’’ति <pb ed="P" n="1.0300"/> चिन्तेत्वा, ‘‘कस्सप, तुय्हं उपट्ठाकानं वितक्‍कं छिन्दा’’ति थेरस्स सञ्‍ञं अदासि। थेरो सत्थु वचनं सम्पटिच्छित्वा उट्ठायासना सत्थारं पञ्‍चपतिट्ठितेन वन्दित्वा तालप्पमाणं आकासं उप्पतित्वा इद्धिविकुब्बनं दस्सेत्वा ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मि, सत्था मे, भन्ते, भगवा, सावकोहमस्मी’’ति वत्वा ओरुय्ह दसबलस्स पादे वन्दि। एतेनुपायेन सत्तमे वारे सत्ततालप्पमाणं आकासं अब्भुग्गन्त्वा पुन आगन्त्वा दसबलस्स पादे वन्दित्वा एकमन्तं निसीदि।</p>

<p rend="bodytext">तस्मिं काले महाजनो ‘‘अयं लोके महासमणो’’ति सत्थरि निब्बितक्‍को जातो, अथस्स सत्था धम्मं देसेसि। देसनापरियोसाने राजा एकादसनहुतेहि ब्राह्मणगहपतिकेहि सद्धिं सोतापत्तिफले पतिट्ठितो, एकनहुतं उपासकत्तं पटिवेदेसि। तेपि उरुवेलकस्सपस्स परिवारा सहस्समत्ता भिक्खू अत्तनो आसेवनवसेन चिन्तेसुं – ‘‘अम्हाकं पब्बजितकिच्‍चं मत्थकं पत्तं, बहि गन्त्वा किं करिस्सामा’’ति उरुवेलकस्सपत्थेरंयेव परिवारेत्वा विचरिंसु। तेसु एकेकस्मिं एकेकं निस्सितकं गण्हन्ते द्वे सहस्सानि होन्ति, द्वे द्वे गण्हन्ते तीणि सहस्सानि होन्ति। ततो पट्ठाय यत्तका तेसं निस्सितका, तत्तके कथेतुं वट्टतीति। इदमेत्थ वत्थु। अपरभागे पन सत्था जेतवने विहरन्तो थेरं महापरिसानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">काळुदायित्थेरवत्थु</p>

<p rend="bodytext" n="225"><hi rend="paranum">२२५</hi><hi rend="dot">.</hi> ततिये <hi rend="bold">कुलप्पसादकान</hi>न्ति कुलं पसादेन्तानं। अयं हि थेरो अदिट्ठबुद्धदस्सनंयेव सुद्धोदनमहाराजस्स निवेसनं पसादेसि, तस्मा कुलप्पसादकानं <pb ed="P" n="1.0301"/> अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु <pb ed="M" n="1.0234"/> संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्‍चगेहे पटिसन्धिं गण्हि। जातदिवसे बोधिसत्तेन सद्धिंयेव जातोति तंदिवसंयेव तं दुकूलचुम्बुटके निपज्‍जापेत्वा बोधिसत्तस्स उपट्ठानत्थाय नयिंसु। बोधिसत्तेन हि <pb ed="V" n="1.0229"/> सद्धिं बोधिरुक्खो राहुलमाता चतस्सो निधिकुम्भियो आरोहनियहत्थी कण्डको छन्‍नो काळुदायीति इमे सत्त एकदिवसे जातत्ता सहजाता नाम अहेसुं। अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातोति उदायीत्वेव नामं अकंसु। थोकं काळधातुकत्ता पन <hi rend="bold">काळुदायी</hi> नाम जातो। सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि।</p>

<p rend="bodytext">अपरभागे बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा अनुक्‍कमेन सब्बञ्‍ञुतं पत्वा पवत्तितवरधम्मचक्‍को लोकानुग्गहं करोन्तो राजगहं उपनिस्साय विहरति। तस्मिं समये सुद्धोदनमहाराजा ‘‘सिद्धत्थकुमारो अभिसम्बोधिं पत्वा राजगहं उपनिस्साय वेळुवने विहरती’’ति सुत्वा पुरिससहस्सपरिवारं एकं अमच्‍चं ‘‘पुत्तं मे इध आनेही’’ति पेसेसि। सो सट्ठियोजनमग्गं गन्त्वा दसबलस्स चतुपरिसमज्झे <pb ed="P" n="1.0302"/> निसीदित्वा धम्मदेसनावेलाय विहारं पाविसि। सो ‘‘तिट्ठतु ताव रञ्‍ञा पहितसासन’’न्ति परिसपरियन्ते ठितो सत्थु धम्मदेसनं सुत्वा यथाठितोव सद्धिं पुरिससहस्सेहि अरहत्तं पापुणि। अथ नेसं सत्था ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि, सब्बे तंखणंयेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं। अरहत्तं पत्तकालतो पट्ठाय पन अरिया नाम मज्झत्ताव होन्तीति रञ्‍ञा पहितसासनं दसबलस्स न कथेसि। राजा ‘‘नेव गतो आगच्छति, न सासनं सुय्यती’’ति ‘‘एहि, तात, त्वं गच्छा’’ति तेनेव नियामेन अञ्‍ञं अमच्‍चं पेसेसि। सोपि गन्त्वा पुरिमनयेनेव सद्धिं परिसाय अरहत्तं पत्वा तुण्ही अहोसि। एवं नवहि अमच्‍चेहि सद्धिं नव पुरिससहस्सानि पेसेसि। सब्बे अत्तनो किच्‍चं निट्ठापेत्वा तुण्ही अहेसुं।</p>

<p rend="bodytext">अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्‍चि कथयिंसु, अञ्‍ञे गन्त्वापि दसबलं आनेतुं <pb ed="M" n="1.0235"/> न सक्खिस्सन्ति। मय्हं खो पन पुत्तो उदायी दसबलेन सद्धिं एकवयो सहपंसुकीळिको, मयि चस्स सिनेहो अत्थी’’ति काळुदायिं पक्‍कोसापेत्वा, ‘‘तात, पुरिससहस्सपरिवारो गन्त्वा दसबलं आनेही’’ति आह। पठमं गतपुरिसा विय पब्बजितुं लभन्तो आनेस्सामि, देवाति। यंकिञ्‍चि कत्वा मम पुत्तं दस्सेहीति। ‘‘साधु, देवा’’ति रञ्‍ञो सासनं आदाय राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तफलं पत्वा एहिभिक्खुभावे पतिट्ठासि। ततो चिन्तेसि – ‘‘न ताव दसबलस्स कुलनगरं गन्तुं एस कालो, वसन्तसमये सुपुप्फितेसु वनसण्डेसु <pb ed="V" n="1.0230"/> हरिततिणसञ्छन्‍नाय पथविया एस कालो भविस्सती’’ति <pb ed="P" n="1.0303"/> कालं पटिमानेन्तो तस्स कालस्स आगतभावं ञत्वा –</p>

<p rend="gatha1">‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं।</p>

<p rend="gathalast">सद्दला हरिता भूमि, एस कालो महामुनी’’ति॥ –</p>

<p rend="unindented">सट्ठिमत्ताहि गाथाहि दसबलस्स कुलनगरं गमनत्थाय गमनवण्णं वण्णेसि। सत्था ‘‘उदायी गमनवण्णं कथेति, कपिलवत्थुनगरं गन्तुं एस कालो’’ति वीसतिसहस्सभिक्खुपरिवारो अतुरितगमनेन चारिकं निक्खमि।</p>

<p rend="bodytext">उदायित्थेरो सत्थु निक्खन्तभावं ञत्वा ‘‘पितु महाराजस्स सञ्‍ञं दातुं वट्टती’’ति वेहासं अब्भुग्गन्त्वा रञ्‍ञो निवेसने पातुरहोसि। सुद्धोदनमहाराजा थेरं दिस्वा तुट्ठचित्तो महारहे पल्‍लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा अदासि। थेरो उट्ठाय गमनाकप्पं दस्सेसि। निसीदित्वाव भुञ्‍ज, ताताति। सत्थु सन्तिकं गन्त्वा भुञ्‍जिस्सामि, महाराजाति। कहं पन, तात, सत्थाति? वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय चारिकं निक्खन्तो, महाराजाति। तुम्हे इमं पिण्डपातं परिभुञ्‍जित्वा याव मम पुत्तो इमं नगरं सम्पापुणाति, तावस्स इतोव पिण्डपातं हरथाति। थेरो भत्तकिच्‍चं कत्वा दसबलस्स आहरितब्बं भत्तं गहेत्वा धम्मकथं कथेत्वा दसबलस्स अदस्सनेनेव सकलराजनिवेसनं सद्धापटिलाभं लभापेत्वा सब्बेसं पस्सन्तानञ्‍ञेव पत्तं आकासे <pb ed="M" n="1.0236"/> विस्सज्‍जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं आदाय सत्थु हत्थे ठपेसि, सत्था तं पिण्डपातं परिभुञ्‍जि। थेरो सट्ठियोजनमग्गं योजनपरमं गच्छन्तस्स सत्थुनो दिवसे दिवसे राजगेहतो भत्तं आहरित्वा अदासि। एवं <pb ed="P" n="1.0304"/> वत्थु वेदितब्बं। अथ अपरभागे सत्था ‘‘मय्हं पितु महाराजस्स सकलनिवेसनं पसादेसी’’ति थेरं कुलप्पसादकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">बाकुलत्थेरवत्थु</p>

<p rend="bodytext" n="226"><hi rend="paranum">२२६</hi><hi rend="dot">.</hi> चतुत्थे <hi rend="bold">अप्पाबाधान</hi>न्ति निराबाधानं। <hi rend="bold">बाकुलो</hi>ति द्वीसु कुलेसु वड्ढितत्ता एवंलद्धनामो थेरो।</p>

<p rend="bodytext">तस्स <pb ed="V" n="1.0231"/> पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर अतीते इतो कप्पसतसहस्साधिके असङ्ख्येय्यमत्थके अनोमदस्सिदसबलस्स निब्बत्तितो पुरेतरमेव ब्राह्मणकुले पटिसन्धिं गण्हित्वा वयं आगम्म उग्गहितवेदो वेदत्तये सारं अपस्सन्तो ‘‘सम्परायिकत्थं गवेसिस्सामी’’ति पब्बतपादे इसिपब्बज्‍जं पब्बजित्वा पञ्‍चाभिञ्‍ञा-अट्ठसमापत्तिलाभी हुत्वा झानकीळिताय वीतिनामेसि। तस्मिं समये अनोमदस्सी बोधिसत्तो सब्बञ्‍ञुतं पत्वा अरियगणपरिवुतो चारिकं चरति। तापसो ‘‘तीणि रतनानि उप्पन्‍नानी’’ति सुत्वा सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा देसनापरियोसाने सरणेसु पतिट्ठितो, अत्तनो ठानं पन विजहितुं नासक्खि। सो कालेन कालं सत्थु दस्सनाय चेव गच्छति, धम्मञ्‍च सुणाति।</p>

<p rend="bodytext">अथेकस्मिं समये तथागतस्स उदरवातो उप्पज्‍जि। तापसो सत्थु दस्सनत्थाय आगतो ‘‘सत्था गिलानो’’ति सुत्वा ‘‘को, भन्ते, आबाधो’’ति। ‘‘उदरवातो’’ति वुत्ते ‘‘अयं कालो मय्हं पुञ्‍ञं कातु’’न्ति पब्बतपादं गन्त्वा नानाविधानि भेसज्‍जानि समोधानेत्वा ‘‘इदं भेसज्‍जं सत्थु उपनेथा’’ति उपट्ठाकत्थेरस्स अदासि। सह भेसज्‍जस्स उपयोगेन उदरवातो पटिप्पस्सम्भि। सो सत्थु फासुककाले गन्त्वा एवमाह – ‘‘भन्ते, यदिदं मम भेसज्‍जेन <pb ed="P" n="1.0305"/> तथागतस्स फासुकं जातं, तस्स मे निस्सन्देन निब्बत्तनिब्बत्तभवे गद्दूहनमत्तम्पि सरीरे <pb ed="M" n="1.0237"/> ब्याधि नाम मा होतू’’ति। इदमस्स तस्मिं अत्तभावे कल्याणकम्मं।</p>

<p rend="bodytext">सो ततो चुतो ब्रह्मलोके निब्बत्तित्वा एकं असङ्ख्येय्यं देवमनुस्सेसु संसरन्तो पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे पटिसन्धिं गहेत्वा सत्थारं एकं भिक्खुं अप्पाबाधानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावतायुकं कुसलं कत्वा देवमनुस्सेसु संसरन्तो विपस्सीदसबलस्स निब्बत्तितो पुरेतरमेव बन्धुमतीनगरे ब्राह्मणकुले निब्बत्तो पुरिमनयेनेव इसिपब्बज्‍जं पब्बजित्वा झानलाभी हुत्वा पब्बतपादे वसति।</p>

<p rend="bodytext">विपस्सीबोधिसत्तोपि सब्बञ्‍ञुतं पत्वा अट्ठसट्ठिभिक्खुसतसहस्सपरिवारो बन्धुमतीनगरं उपनिस्साय पितु महाराजस्स सङ्गहं करोन्तो खेमे मिगदाये विहरति। अथायं तापसो दसबलस्स लोके निब्बत्तभावं ञत्वा आगन्त्वा सत्थु धम्मकथं सुत्वा सरणेसु पतिट्ठासि, अत्तनो पब्बज्‍जं जहितुं नासक्खि, कालेन कालं पन सत्थु उपट्ठानं गच्छति।</p>

<p rend="bodytext">अथेकस्मिं <pb ed="V" n="1.0232"/> समये ठपेत्वा सत्थारञ्‍चेव द्वे अग्गसावके च हिमवति पुप्फितानं विसरुक्खानं वातसम्फस्सेन सेसभिक्खूनं मत्थकरोगो नाम उदपादि। तापसो सत्थु उपट्ठानं आगतो भिक्खू ससीसं पारुपित्वा निपन्‍ने दिस्वा – ‘‘किं, भन्ते, भिक्खुसङ्घस्स अफासुक’’न्ति पुच्छि। भिक्खूनं तिणपुप्फकरोगो, आवुसोति। तापसो चिन्तेसि – ‘‘अयं कालो मय्हं भिक्खुसङ्घस्स कायवेय्यावतिककम्मं कत्वा पुञ्‍ञं निब्बत्तेतु’’न्ति अत्तनो <pb ed="P" n="1.0306"/> आनुभावेन नानाविधानि भेसज्‍जानि संकड्ढित्वा योजेत्वा अदासि। सब्बभिक्खूनं रोगो तंखणंयेव वूपसन्तो।</p>

<p rend="bodytext">सो यावतायुकं ठत्वा ब्रह्मलोके निब्बत्तित्वा एकनवुतिकप्पे देवमनुस्सेसु संसरन्तो कस्सपबुद्धकाले बाराणसियं कुलगेहे निब्बत्तो घरावासं वसन्तो ‘‘मय्हं वसनगेहं दुब्बलं, पच्‍चन्तं गन्त्वा दब्बसम्भारं आहरित्वा गेहं करिस्सामी’’ति वड्ढकीहि सद्धिं गच्छन्तो अन्तरामग्गे एकं जिण्णं महाविहारं दिस्वा ‘‘तिट्ठतु ताव मय्हं गेहकम्मं, न तं मया सद्धिं गमिस्सति, यंकिञ्‍चि कत्वा पन सद्धिं गमनकम्ममेव पुरेतरं कातुं <pb ed="M" n="1.0238"/> वट्टती’’ति तेहेव वड्ढकीहि दब्बसम्भारं गाहापेत्वा तस्मिं विहारे उपोसथागारं कारेसि, भोजनसालं अग्गिसालं दीघचङ्कमं जन्ताघरं कप्पियकुटिं वच्‍चकुटिं आरोग्यसालं कारेसि, यंकिञ्‍चि भिक्खुसङ्घस्स उपभोगपरिभोगं भेसज्‍जं नाम सब्बं पटियादेत्वा ठपेसि।</p>

<p rend="bodytext">सो यावजीवं कुसलं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरन्तो अम्हाकं दसबलस्स निब्बत्तितो पुरेतरमेव कोसम्बियं सेट्ठिगेहे पटिसन्धिं गण्हि। तस्स पटिसन्धिग्गहणदिवसतो पट्ठाय तं सेट्ठिकुलं लाभग्गयसग्गप्पत्तं अहोसि। अथस्स माता पुत्तं विजायित्वा चिन्तेसि – ‘‘अयं दारको पुञ्‍ञवा कताधिकारो, यत्तकं कालं अरोगो दीघायुको हुत्वा तिट्ठति, तत्तकं अम्हाकं सम्पत्तिदायको भविस्सति। जातदिवसेयेव महायमुनाय न्हातदारका निरोगा होन्ती’’ति न्हापनत्थाय नं पेसेसि। ‘‘पञ्‍चमे दिवसे सीसं न्हापेत्वा नदीकीळनत्थाय नं पेसेसी’’ति मज्झिमभाणका। तत्थ <pb ed="P" n="1.0307"/> धातिया दारकं निमुज्‍जनुम्मुज्‍जनवसेन कीळापेन्तिया एको मच्छो दारकं दिस्वा ‘‘भक्खो मे अय’’न्ति मञ्‍ञमानो मुखं विवरित्वा उपगतो। धाती दारकं छड्डेत्वा पलाता, मच्छो तं गिलि। पुञ्‍ञवा सत्तो दुक्खं न पापुणि, सयनगब्भं पविसित्वा निपन्‍नो विय अहोसि। मच्छो दारकस्स तेजेन तत्तफालं गिलित्वा डय्हमानो विय वेगेन तिंसयोजनं गन्त्वा बाराणसिनगरवासिनो मच्छबन्धस्स जालं पाविसि। महामच्छा <pb ed="V" n="1.0233"/> नाम जालेन बद्धा मारियमानाव मरन्ति, अयं पन दारकस्स तेजेन जालतो नीहटमत्तोव मतो। मच्छबन्धा च महामच्छं लभित्वा फालेत्वा विक्‍किणन्ति, तं पन दारकस्स आनुभावेन अफालेत्वा सकलमेव काजेन हरित्वा ‘‘सहस्सेन देमा’’ति वदन्ता नगरे विचरिंसु, कोचि न गण्हाति।</p>

<p rend="bodytext">तस्मिं पन नगरे अपुत्तकं असीतिकोटिविभवं सेट्ठिकुलं अत्थि। तस्स द्वारमूलं पत्वा ‘‘किं गहेत्वा देथा’’ति वुत्ता ‘‘कहापण’’न्ति आहंसु। तेहि कहापणं दत्वा गहितो। सेट्ठिभरियापि अञ्‍ञेसु दिवसेसु मच्छे न केळायति, तंदिवसं पन मच्छं फलके ठपेत्वा सयमेव फालेसि। मच्छञ्‍च नाम कुच्छितो फालेन्ति, सा पन पिट्ठितो फालेन्ती <pb ed="M" n="1.0239"/> मच्छकुच्छियं सुवण्णवण्णं दारकं दिस्वा ‘‘मच्छकुच्छियं मे पुत्तो लद्धो’’ति नादं नदित्वा दारकं आदाय सामिकस्स सन्तिकं अगमासि। सेट्ठि तावदेव भेरिं चरापेत्वा दारकमादाय रञ्‍ञो सन्तिकं गन्त्वा ‘‘मच्छकुच्छियं मे, देव, दारको लद्धो, किं करोमा’’ति आह। पुञ्‍ञवा एस, यो मच्छकुच्छियं आरोगो वसि, पोसेहि नन्ति <pb ed="P" n="1.0308"/>।</p>

<p rend="bodytext">अस्सोसि खो इतरं कुलं ‘‘बाराणसियं किर एकं सेट्ठिकुलं मच्छकुच्छियं दारकं लभी’’ति। ते तत्थ अगमंसु। अथस्स माता दारकं अलङ्करित्वा कीळापियमानं दिस्वा ‘‘मनापो वतायं दारको’’ति गहेत्वा पकतिं आचिक्खि। इतरा ‘‘मय्हं पुत्तो’’ति आह। कहं ते लद्धोति। मच्छकुच्छियन्ति। न तुय्हं पुत्तो, मय्हं पुत्तोति। कहं ते लद्धोति। मया दस मासे कुच्छिया धारितो, अथ नं नदिया कीळापियमानं मच्छो गिलीति। तुय्हं पुत्तो अञ्‍ञेन मच्छेन गिलितो भविस्सति, अयं पन मया मच्छकुच्छियं लद्धोति उभोपि राजकुलं अगमंसु। राजा आह – ‘‘अयं दस मासे कुच्छिया धारितत्ता अमाता कातुं न सक्‍का, मच्छं गण्हन्तापि वक्‍कयकनादीनि बहि कत्वा गण्हन्ता नाम नत्थीति मच्छकुच्छियं लद्धत्ता अयम्पि अमाता कातुं न सक्‍का, दारको उभिन्‍नम्पि कुलानं दायादो होतू’’ति। ततो पट्ठाय द्वेपि कुलानि अतिविय लाभग्गयसग्गप्पत्तानि अहेसुं। तस्स द्वीहि कुलेहि वड्ढितत्ता बाकुलकुमारोति नामं करिंसु।</p>

<p rend="bodytext">तस्स विञ्‍ञुतं पत्तस्स द्वीसुपि नगरेसु तयो तयो पासादे कारेत्वा नाटकानि पच्‍चुपट्ठपेसुं। एकेकस्मिं नगरे चत्तारो चत्तारो मासे वसति। एकस्मिं नगरे चत्तारो मासे वुत्थस्स <pb ed="V" n="1.0234"/> सङ्घाटनावासु मण्डपं कारेत्वा तत्थ नं सद्धिं नाटकेहि आरोपेन्ति। सो सम्पत्तिं अनुभवमानो चतूहि मासेहि इतरं नगरं गच्छति। तंनगरवासीनि नाटकानि ‘‘द्वीहि मासेहि उपड्ढमग्गं <pb ed="P" n="1.0309"/> आगतो भविस्सती’’ति पच्‍चुग्गन्त्वा तं परिवारेत्वा द्वीहि मासेहि अत्तनो नगरं नेन्ति, इतरानि नाटकानि निवत्तित्वा अत्तनो नगरमेव गच्छन्ति। तत्थ चत्तारो मासे वसित्वा तेनेव नियामेन पुन इतरं नगरं गच्छति। एवमस्स सम्पत्तिं अनुभवन्तस्स असीति वस्सानि परिपुण्णानि।</p>

<p rend="bodytext">तस्मिं <pb ed="M" n="1.0240"/> समये अम्हाकं बोधिसत्तो सब्बञ्‍ञुतं पत्वा पवत्तितवरधम्मचक्‍को अनुक्‍कमेन चारिकं चरमानो कोसम्बिं पापुणि, बाराणसिन्ति मज्झिमभाणका। बाकुलो सेट्ठिपि खो ‘‘दसबलो आगतो’’ति सुत्वा बहुं गन्धमालं आदाय सत्थु सन्तिकं गन्त्वा धम्मकथं सुत्वा पटिलद्धसद्धो पब्बजि। सो सत्ताहमेव पुथुज्‍जनो हुत्वा अट्ठमे अरुणे सह पटिसम्भिदाहि अरहत्तं पापुणि। अथस्स द्वीसु नगरेसु गिहिकाले परिचारिकमातुगामा अत्तनो कुलघरानि आगन्त्वा तत्थ वसमाना चीवरानि कत्वा पहिणिंसु। थेरो एकं अद्धमासं कोसम्बिवासिकेहि पहितं चीवरं भुञ्‍जति, एकं अद्धमासं बाराणसिवासिकेहीति। एतेनेव नियामेन द्वीसुपि नगरेसु यं यं उत्तमं, तं तं थेरस्सेव आहरियति। थेरस्स असीति वस्सानि अगारमज्झे वसन्तस्स द्वीहङ्गुलेहि गन्धपिण्डं गहेत्वा उपसिङ्घनमत्तम्पि कालं न कोचि आबाधो नाम अहोसि। आसीतिमे वस्से सुखेनेव पब्बज्‍जं उपगतो। पब्बजितस्सापिस्स अप्पमत्तकोपि आबाधो वा चतूहि पच्‍चयेहि वेकल्‍लं वा नाहोसि। सो पच्छिमे काले परिनिब्बानसमयेपि पुराणगिहिसहायकस्स <pb ed="P" n="1.0310"/> अचेलकस्सपस्स अत्तनो कायिकचेतसिकसुखदीपनवसेनेव सकलं बाकुलसुत्तं (म॰ नि॰ ३.२०९ आदयो) कथेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि। एवं अट्ठुप्पत्ति समुट्ठिता। सत्था पन थेरस्स धरमानकालेयेव थेरे यथा पटिपाटिया ठानन्तरे ठपेन्तो बाकुलत्थेरं इमस्मिं सासने अप्पाबाधानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">सोभितत्थेरवत्थु</p>

<p rend="bodytext" n="227"><hi rend="paranum">२२७</hi><hi rend="dot">.</hi> पञ्‍चमे <hi rend="bold">पुब्बेनिवासं अनुस्सरन्तान</hi>न्ति पुब्बे निवुत्थक्खन्धसन्तानं अनुस्सरणसमत्थानं सोभितत्थेरो अग्गोति दस्सेति। सो किर पुब्बेनिवासं अनुपटिपाटिया अनुस्सरमानो <pb ed="V" n="1.0235"/> पञ्‍च कप्पसतानि असञ्‍ञिभवे अचित्तकपटिसन्धिं नयतो अग्गहेसि आकासे पदं दस्सेन्तो विय। तस्मा पुब्बेनिवासं अनुस्सरन्तानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि किर पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे पटिसन्धिं गण्हित्वा वयप्पत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं पुब्बेनिवासञाणलाभीनं भिक्खूनं <pb ed="M" n="1.0241"/> अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलकम्मं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति, <hi rend="bold">सोभितो</hi>तिस्स नामं अकंसु।</p>

<p rend="bodytext">सो अपरेन समयेन सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं <pb ed="P" n="1.0311"/> पत्वा पुब्बेनिवासञाणे चिण्णवसी अहोसि। सो अनुपटिपाटिया अत्तनो निब्बत्तट्ठानं अनुस्सरन्तो याव असञ्‍ञिभवे अचित्तकपटिसन्धि, ताव पटिसन्धिं अद्दस। ततो परं अन्तरे पञ्‍च कप्पसतानि पवत्तिं अदिस्वा अवसाने चुतिं दिस्वा ‘‘किं नामेत’’न्ति आवज्‍जमानो नयवसेन ‘‘असञ्‍ञिभवो भविस्सती’’ति निट्ठं अगमासि। सत्था इमं कारणं अट्ठुप्पत्तिं कत्वा थेरं पुब्बेनिवासं अनुस्सरन्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">उपालित्थेरवत्थु</p>

<p rend="bodytext" n="228"><hi rend="paranum">२२८</hi><hi rend="dot">.</hi> छट्ठे <hi rend="bold">विनयधरानं यदिदं उपाली</hi>ति विनयधरानं भिक्खूनं उपालित्थेरो अग्गोति दस्सेति। थेरो किर तथागतस्सेव सन्तिके कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तथागतस्सेव सन्तिके विनयपिटकं उग्गण्हित्वा भारुकच्छकवत्थुं, अज्‍जुकवत्थुं, (पारा॰ १५८) कुमारकस्सपवत्थुन्ति इमानि तीणि वत्थूनि सब्बञ्‍ञुतञ्‍ञाणेन सद्धिं संसन्देत्वा कथेसि। तस्मा विनयधरानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – पदुमुत्तरबुद्धकाले किरेस हंसवतियं कुलघरे निब्बत्तो एकदिवसं सत्थु धम्मकथं सुणन्तो सत्थारं एकं भिक्खुं विनयधरानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कप्पकगेहे पटिसन्धिं गण्हि <pb ed="P" n="1.0312"/>, उपालिदारकोतिस्स नामं अकंसु। सो <pb ed="V" n="1.0236"/> वयप्पत्तो छन्‍नं खत्तियानं पसाधको हुत्वा तथागते अनुपियम्बवने विहरन्ते पब्बज्‍जत्थाय निक्खमन्तेहि तेति छहि खत्तियेहि सद्धिं निक्खमित्वा पब्बजि। तस्स पब्बज्‍जाविधानं पाळियं (चूळव॰ ३३०) आगतमेव।</p>

<p rend="bodytext">सो <pb ed="M" n="1.0242"/> पब्बजित्वा उपसम्पन्‍नो सत्थारं कम्मट्ठानं कथापेत्वा ‘‘मय्हं, भन्ते, अरञ्‍ञवासं अनुजानाथा’’ति आह। भिक्खु तव अरञ्‍ञे वसन्तस्स एकमेव धुरं वड्ढिस्सति, अम्हाकं पन सन्तिके वसन्तस्स विपस्सनाधुरञ्‍च गन्थधुरञ्‍च परिपूरेस्सतीति। थेरो सत्थु वचनं सम्पटिच्छित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। अथ नं सत्था सयमेव सकलं विनयपिटकं उग्गण्हापेसि। सो अपरभागे हेट्ठा वुत्तानि तीणि वत्थूनि विनिच्छिनि। सत्था एकेकस्मिं विनिच्छिते साधुकारं दत्वा तयोपि विनिच्छये अट्ठुप्पत्तिं कत्वा थेरं विनयधरानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">नन्दकत्थेरवत्थु</p>

<p rend="bodytext" n="229"><hi rend="paranum">२२९</hi><hi rend="dot">.</hi> सत्तमे <hi rend="bold">भिक्खुनोवादकानं यदिदं नन्दको</hi>ति अयं हि थेरो धम्मकथं कथेन्तो एकसमोधाने पञ्‍च भिक्खुनीसतानि अरहत्तं पापेसि। तस्मा भिक्खुनोवादकानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयञ्हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुनोवादकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो <pb ed="P" n="1.0313"/> इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे पटिसन्धिं गहेत्वा वयप्पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो सत्थु सन्तिके पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि, पुब्बेनिवासञाणे च चिण्णवसी अहोसि। सो चतूसु परिसासु सम्पत्तासु ‘‘सब्बेसंयेव मनं गहेत्वा कथेतुं सक्‍कोती’’ति धम्मकथिकनन्दको नाम जातो। तथागतोपि खो रोहिणीनदीतीरे चुम्बटककलहे निक्खमित्वा पब्बजितानं पञ्‍चन्‍नं साकियकुमारसतानं अनभिरतिया उप्पन्‍नाय ते भिक्खू आदाय कुणालदहं गन्त्वा कुणालजातककथाय (जा॰ २.२१.कुणालजातक) नेसं संविग्गभावं ञत्वा चतुसच्‍चकथं कथेत्वा सोतापत्तिफले पतिट्ठापेसि। अपरभागे महासमयसुत्तं <pb ed="V" n="1.0237"/> (दी॰ नि॰ २.३३१ आदयो) कथेत्वा अग्गफलं अरहत्तं पापेसि। तेसं थेरानं पुराणदुतियिका ‘‘अम्हे दानि इध किं करिस्सामा’’ति वत्वा सब्बाव एकचित्ता <pb ed="M" n="1.0243"/> हुत्वा महापजापतिं उपसङ्कमित्वा पब्बज्‍जं याचिंसु। तापि पञ्‍चसता थेरिया सन्तिके पब्बज्‍जञ्‍च उपसम्पदञ्‍च लभिंसु। अतीतानन्तराय पन जातिया सब्बाव ता नन्दकत्थेरस्स राजपुत्तभावे ठितस्स पादपरिचारिका अहेसुं।</p>

<p rend="bodytext">तेन समयेन सत्था ‘‘भिक्खू भिक्खुनियो ओवदन्तू’’ति आह। थेरो अत्तनो वारे सम्पत्ते तासं पुरिमभवे अत्तनो पादपरिचारिकभावं ञत्वा चिन्तेसि – ‘‘मं इमस्स भिक्खुनीसङ्घस्स मज्झे निसिन्‍नं उपमायो च कारणानि च आहरित्वा धम्मं कथयमानं दिस्वा अञ्‍ञो पुब्बेनिवासञाणलाभी भिक्खु इमं कारणं ओलोकेत्वा ‘आयस्मा <pb ed="P" n="1.0314"/> नन्दको यावज्‍जदिवसा ओरोधे न विस्सज्‍जेति, सोभतायमायस्मा ओरोधपरिवुतो’ति वत्तब्बं मञ्‍ञेय्या’’ति। तस्मा सयं अगन्त्वा अञ्‍ञं भिक्खुं पेसेसि। ता पन पञ्‍चसता भिक्खुनियो थेरस्सेव ओवादं पच्‍चासीसन्ति। इमिना कारणेन भगवा ‘‘अत्तनो वारे सम्पत्ते अञ्‍ञं अपेसेत्वा सयमेव गन्त्वा भिक्खुनीसङ्घं ओवदाही’’ति थेरं आह। सो सत्थु कथं पटिबाहितुं असक्‍कोन्तो अत्तनो वारे सम्पत्ते चातुद्दसे भिक्खुनिसङ्घस्स ओवादं दत्वा सब्बाव ता भिक्खुनियो सळायतनपटिमण्डिताय धम्मदेसनाय सोतापत्तिफले पतिट्ठापेसि।</p>

<p rend="bodytext">ता भिक्खुनियो थेरस्स धम्मदेसनाय अत्तमना हुत्वा सत्थु सन्तिकं गन्त्वा अत्तनो पटिविद्धगुणं आरोचेसुं। सत्था ‘‘कस्मिं नु खो धम्मं देसेन्ते इमा भिक्खुनियो उपरिमग्गफलानि पापुणेय्यु’’न्ति आवज्‍जेन्तो पुन ‘‘तंयेव नन्दकस्स धम्मदेसनं सुत्वा पञ्‍चसतापि एता अरहत्तं पापुणिस्सन्ती’’ति दिस्वा पुनदिवसेपि थेरस्सेव सन्तिकं धम्मस्सवनत्थाय पेसेसि। ता पुनदिवसे धम्मं सुत्वा सब्बाव अरहत्तं पत्ता। तंदिवसं भगवा तासं भिक्खुनीनं अत्तनो सन्तिकं आगतकाले धम्मदेसनाय सफलभावं ञत्वा ‘‘हिय्यो नन्दकस्स धम्मदेसना चातुद्दसियं चन्दसदिसी अहोसि, अज्‍ज पन्‍नरसियं चन्दसदिसी’’ति वत्वा थेरस्स साधुकारं दत्वा तदेव च कारणं अट्ठुप्पत्तिं कत्वा थेरं भिक्खुनोवादकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">नन्दत्थेरवत्थु</p>

<p rend="bodytext" n="230"><hi rend="paranum">२३०</hi><hi rend="dot">.</hi> अट्ठमे <pb ed="V" n="1.0238"/> <pb ed="P" n="1.0315"/> <pb ed="M" n="1.0244"/> <hi rend="bold">इन्द्रियेसु गुत्तद्वारान</hi>न्ति छसु इन्द्रियेसु पिहितद्वारानं नन्दत्थेरो अग्गोति दस्सेति। किञ्‍चापि हि सत्थुसावका अगुत्तद्वारा नाम नत्थि, नन्दत्थेरो पन दससु दिसासु यं यं दिसं ओलोकेतुकामो होति, न तं चतुसम्पजञ्‍ञवसेन अपरिच्छिन्दित्वा ओलोकेति। तस्मा इन्द्रियेसु गुत्तद्वारानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे पटिसन्धिं गहेत्वा वयप्पत्तो सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं इन्द्रियेसु गुत्तद्वारानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कपिलवत्थुपुरे महापजापतिगोतमिया कुच्छिम्हि पटिसन्धिं गण्हि। अथस्स नामग्गहणदिवसे ञातिसङ्घं नन्दयन्तो तोसेन्तो जातोति <hi rend="bold">नन्दकुमारो</hi>तेव नामं अकंसु।</p>

<p rend="bodytext">महासत्तोपि सब्बञ्‍ञुतं पत्वा पवत्तितवरधम्मचक्‍को लोकानुग्गहं करोन्तो राजगहतो कपिलवत्थुपुरं गन्त्वा पठमदस्सनेनेव पितरं सोतापत्तिफले पतिट्ठापेसि। पुनदिवसे पितु निवेसनं गन्त्वा राहुलमाताय ओवादं दत्वा सेसजनस्सपि धम्मं कथेसि। पुनदिवसे नन्दकुमारस्स अभिसेकगेहपवेसनआवाहमङ्गलेसु वत्तमानेसु तस्स निवेसनं गन्त्वा कुमारं पत्तं गाहापेत्वा <pb ed="P" n="1.0316"/> पब्बाजेतुं विहाराभिमुखो पायासि। नन्दकुमारं अभिसेकमङ्गलं न तथा पीळेसि, पत्तं आदाय गमनकाले पन जनपदकल्याणी उपरिपासादवरगता सीहपञ्‍जरं उग्घाटेत्वा ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति यं वाचं निच्छारेसि। तं सुत्वा गेहसितछन्दरागवसेन ओलोकेन्तो पनेस सत्थरि गारवेन यथारुचिया निमित्तं गहेतुं नासक्खि, तेनस्स चित्तसन्तापो अहोसि। अथ नं ‘‘इमस्मिं ठाने निवत्तेस्सति, इमस्मिं ठाने निवत्तेस्सती’’ति चिन्तेन्तमेव सत्था विहारं नेत्वा पब्बाजेसि। पब्बजितोपि पटिबाहितुं असक्‍कोन्तो तुण्ही अहोसि। पब्बजितदिवसतो पट्ठाय पन जनपदकल्याणिया वुत्तवचनमेव सरति। अथस्स सा आगन्त्वा अविदूरे <pb ed="M" n="1.0245"/> ठिता विय अहोसि। सो अनभिरतिया पीळितो थोकं ठानं गच्छति, तस्स गुम्बं वा गच्छं वा अतिक्‍कमन्तस्सेव दसबलो पुरतो ठितको विय <pb ed="V" n="1.0239"/> अहोसि। सो अग्गिम्हि पक्खित्तं कुक्‍कुटपत्तं विय पटिनिवत्तित्वा अत्तनो वसनट्ठानमेव पविसति।</p>

<p rend="bodytext">सत्था चिन्तेसि – ‘‘नन्दो अतिविय पमत्तो विहरति, अनभिरतिं वूपसमेतुं न सक्‍कोति, एतस्स चित्तनिब्बापनं कातुं वट्टती’’ति। ततो नं आह – ‘‘एहि, नन्द, देवचारिकं गच्छिस्सामा’’ति। भगवा कथाहं इद्धिमन्तेहि गन्तब्बट्ठानं गमिस्सामीति। त्वं केवलं गमनचित्तं उप्पादेहि, गन्त्वा पस्सिस्ससीति। सो दसबलस्स आनुभावेन तथागतेनेव सद्धिं देवचारिकं गन्त्वा सक्‍कस्स देवरञ्‍ञो निवेसनं ओलोकेत्वा पञ्‍च अच्छरासतानि अद्दस। सत्था नन्दत्थेरं सुभनिमित्तवसेन ता ओलोकेन्तं दिस्वा, ‘‘नन्द, इमा नु खो अच्छरा मनापा, अथ जनपदकल्याणी’’ति पुच्छि। भन्ते, जनपदकल्याणी <pb ed="P" n="1.0317"/> इमा अच्छरा उपनिधाय कण्णनासच्छिन्‍नका मक्‍कटी विय खायतीति। नन्द, एवरूपा अच्छरा समणधम्मं करोन्तानं न दुल्‍लभाति। सचे मे, भन्ते भगवा, पाटिभोगो होति, अहं समणधम्मं करिस्सामीति। विस्सत्थो त्वं, नन्द, समणधम्मं करोहि। सचे ते सप्पटिसन्धिका कालकिरिया भविस्सति, अहं एतासं पटिलाभत्थाय पाटिभोगोति। इति सत्था यथारुचिया देवचारिकं चरित्वा जेतवनमेव पच्‍चागञ्छि।</p>

<p rend="bodytext">ततो पट्ठाय नन्दत्थेरो अच्छरानं हेतु रत्तिन्दिवं समणधम्मं करोति। सत्था भिक्खू आणापेसि – ‘‘तुम्हे नन्दस्स वसनट्ठाने ‘एको किर भिक्खु दसबलं पाटिभोगं कत्वा अच्छरानं हेतु समणधम्मं करोती’ति तत्थ तत्थ कथेन्ता विचरथा’’ति। ते सत्थु वचनं सम्पटिच्छित्वा ‘‘भतको किरायस्मा नन्दो, उपक्‍कितको किरायस्मा नन्दो, अच्छरानं हेतु ब्रह्मचरियं चरति, भगवा किरस्स पाटिभोगो पञ्‍चन्‍नं अच्छरासतानं पटिलाभाय ककुटपादीन’’न्ति थेरस्स सवनूपचारे कथेन्ता विचरन्ति। नन्दत्थेरो तं कथं सुत्वा ‘‘इमे भिक्खू न अञ्‍ञं कथेन्ति, मं आरब्भ कथेन्ति, अयुत्तं मम कम्म’’न्ति पटिसङ्खानं उप्पादेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। अथस्स अरहत्तपत्तक्खणेयेव अञ्‍ञतरा <pb ed="M" n="1.0246"/> देवता भगवतो एतमत्थं आरोचेसि, सयम्पि भगवा अञ्‍ञासियेव। पुनदिवसे नन्दत्थेरो भगवन्तं उपसङ्कमित्वा एवमाह – ‘‘यं मे, भन्ते भगवा <pb ed="P" n="1.0318"/>, पाटिभोगो पञ्‍चन्‍नं अच्छरासतानं पटिलाभाय ककुटपादीनं, मुञ्‍चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति। एवं वत्थु (उदा॰ २२) समुट्ठितं <pb ed="V" n="1.0240"/>। सत्था अपरभागे जेतवनविहारे विहरन्तो थेरं इन्द्रियेसु गुत्तद्वारानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">महाकप्पिनत्थेरवत्थु</p>

<p rend="bodytext" n="231"><hi rend="paranum">२३१</hi><hi rend="dot">.</hi> नवमे <hi rend="bold">भिक्खुओवादकान</hi>न्ति भिक्खू ओवदन्तानं महाकप्पिनत्थेरो अग्गोति दस्सेति। अयं किर थेरो एकसमोधानस्मिंयेव धम्मकथं कथेन्तो भिक्खुसहस्सं अरहत्तं पापेसि। तस्मा भिक्खुओवादकानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतियं कुलघरे निब्बत्तित्वा अपरभागे सत्थु धम्मकथं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुओवादकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कस्सपसम्मासम्बुद्धकाले बाराणसियं कुलगेहे पटिसन्धिं गहेत्वा पुरिससहस्सस्स गणजेट्ठको हुत्वा गब्भसहस्सपटिमण्डितं महापरिवेणं कारेसि। ते सब्बेपि जना यावजीवं कुसलं कत्वा कप्पिनउपासकं जेट्ठकं कत्वा सपुत्तदारा देवलोके निब्बत्ता। एकं बुद्धन्तरं देवमनुस्सेसु संसरिंसु।</p>

<p rend="bodytext">अथ अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव अयं कप्पिनो पच्‍चन्तदेसे कुक्‍कुटवतीनगरे राजगेहे पटिसन्धिं गण्हि, सेसपुरिसा तस्मिंयेव नगरे अमच्‍चकुलेसु निब्बत्तिंसु। तेसु कप्पिनकुमारो पितु <pb ed="P" n="1.0319"/> अच्‍चयेन छत्तं उस्सापेत्वा महाकप्पिनराजा नाम जातो। पुब्बे कल्याणकम्मकरणकाले तस्स घरसामिनी इत्थी समानजातिके राजकुले निब्बत्तित्वा महाकप्पिनरञ्‍ञो अग्गमहेसी जाता, अनोजापुप्फसदिसवण्णताय पनस्सा अनोजादेवीत्वेव नामं अहोसि। महाकप्पिनराजापि सुतवित्तको अहोसि। सो पातोव उट्ठाय चतूहि द्वारेहि <pb ed="M" n="1.0247"/> सीघं दूते पेसेसि – ‘‘यत्थ बहुस्सुते सुतधरे पस्सथ, ततो निवत्तित्वा मय्हं आरोचेथा’’ति।</p>

<p rend="bodytext">तेन खो पन समयेन अम्हाकं सत्था लोके निब्बत्तित्वा सावत्थिं उपनिस्साय पटिवसति। तस्मिं काले सावत्थिनगरवासिनो वाणिजा सावत्थियं उट्ठानकभण्डं गहेत्वा, तं नगरं गन्त्वा, भण्डं पटिसामेत्वा, ‘‘राजानं पस्सिस्सामा’’ति पण्णाकारं गहेत्वा, राजकुलद्वारं <pb ed="V" n="1.0241"/> गन्त्वा, ‘‘राजा उय्यानं गतो’’ति सुत्वा, उय्यानं गन्त्वा, द्वारे ठिता पटिहारकस्स आरोचयिंसु। अथ रञ्‍ञो निवेदि, ते राजा पक्‍कोसापेत्वा निय्यातितपण्णाकारे वन्दित्वा ठिते, ‘‘ताता, कुतो आगच्छथा’’ति पुच्छि। सावत्थितो, देवाति। कच्‍चि वो रट्ठं सुभिक्खं, धम्मिको राजाति? आम, देवाति। अत्थि पन तुम्हाकं देसे किञ्‍चि सासनन्ति? अत्थि देव, न पन सक्‍का उच्छिट्ठमुखेहि कथेतुन्ति। राजा सुवण्णभिङ्गारेन उदकं दापेसि। ते मुखं विक्खालेत्वा दसबलाभिमुखा अञ्‍जलिं पग्गहेत्वा, ‘‘देव, अम्हाकं देसे बुद्धरतनं नाम उप्पन्‍न’’न्ति आहंसु। रञ्‍ञो ‘‘बुद्धो’’ति वचने सुतमत्तेयेव सकलसरीरं फरमाना पीति <pb ed="P" n="1.0320"/> उप्पज्‍जि। ततो ‘‘बुद्धोति, ताता, वदथा’’ति आह। बुद्धोति, देव, वदामाति। एवं तिक्खत्तुं वदापेत्वा ‘‘बुद्धोतिपदं अपरिमाणं, नास्स सक्‍का परिमाणं कातु’’न्ति तस्मिंयेव पदे पसन्‍नो सतसहस्सं दत्वा ‘‘अपरं किं सासन’’न्ति पुच्छि। देव धम्मरतनं नाम उप्पन्‍नन्ति। तम्पि सुत्वा तथेव तिक्खत्तुं पटिञ्‍ञं गहेत्वा अपरम्पि सतसहस्सं दत्वा पुन ‘‘अञ्‍ञं किं सासन’’न्ति पुच्छि। सङ्घरतनं देव उप्पन्‍नन्ति। तम्पि सुत्वा तथेव पटिञ्‍ञं गहेत्वा अपरम्पि सतसहस्सं दत्वा दिन्‍नभावं पण्णे लिखित्वा, ‘‘ताता, देविया सन्तिकं गच्छथा’’ति पेसेसि। तेसु गतेसु अमच्‍चे पुच्छि – ‘‘ताता, बुद्धो लोके उप्पन्‍नो, तुम्हे किं करिस्सथा’’ति? देव तुम्हे किं कत्तुकामाति? अहं पब्बजिस्सामीति। मयम्पि पब्बजिस्सामाति। ते सब्बेपि घरं वा कुटुम्बं वा अनपलोकेत्वा ये अस्से आरुय्ह गता तेहेव निक्खमिंसु।</p>

<p rend="bodytext">वाणिजा <pb ed="M" n="1.0248"/> अनोजादेविया सन्तिकं गन्त्वा पण्णं दस्सेसुं। सा तं वाचेत्वा ‘‘रञ्‍ञा तुम्हाकं बहू कहापणा दिन्‍ना, किं तुम्हेहि कतं, ताता’’ति पुच्छि। पियसासनं, देवि, आनीतन्ति। अम्हेपि सक्‍का, ताता, सुणापेतुन्ति? सक्‍का, देवि, उच्छिट्ठमुखेहि पन वत्तुं न सक्‍काति। सा सुवण्णभिङ्गारेन उदकं दापेसि। ते मुखं विक्खालेत्वा रञ्‍ञो आरोचितनियामेनेव आरोचेसुं। सापि तं सुत्वा उप्पन्‍नपामोज्‍जा तेनेव नयेन एकेकस्मिं पदे तिक्खत्तुं पटिञ्‍ञं गहेत्वा पटिञ्‍ञागणनाय तीणि तीणि कत्वा नव सतसहस्सानि अदासि। वाणिजा सब्बानिपि द्वादस सतसहस्सानि लभिंसु। अथ ने ‘‘राजा कहं, ताता’’ति पुच्छि। पब्बजिस्सामीति <pb ed="P" n="1.0321"/> निक्खन्तो, देवीति। ‘‘तेन हि, ताता, तुम्हे गच्छथा’’ति ते उय्योजेत्वा रञ्‍ञा सद्धिं गतानं अमच्‍चानं मातुगामे पक्‍कोसापेत्वा ‘‘तुम्हे अत्तनो सामिकानं गतट्ठानं जानाथ अम्मा’’ति पुच्छि। जानाम, अय्ये, रञ्‍ञा सद्धिं उय्यानकीळं <pb ed="V" n="1.0242"/> गताति। आम, अम्मा गता, तत्थ पन गन्त्वा ‘‘बुद्धो उप्पन्‍नो, धम्मो उप्पन्‍नो, सङ्घो उप्पन्‍नो’’ति सुत्वा ‘‘दसबलस्स सन्तिके पब्बजिस्सामा’’ति गता, तुम्हे किं करिस्सथाति? तुम्हे पन, अय्ये, किं कत्तुकामाति? ‘‘अहं पब्बजिस्सामि, न तेहि वन्तवमनं जिव्हग्गे ठपेय्यन्ति। ‘‘यदि एवं, मयम्पि पब्बजिस्सामा’’ति सब्बापि रथे योजेत्वा निक्खमिंसु।</p>

<p rend="bodytext">राजापि अमच्‍चसहस्सेहि सद्धिं गङ्गातीरं पापुणि, तस्मिं समये गङ्गा पूरा होति। अथ नं दिस्वा ‘‘अयं गङ्गा पूरा होति चण्डमच्छाकिण्णा, अम्हेहि च सद्धिं आगता दासा वा मनुस्सा वा नत्थि, ये नो नावं वा उळुम्पं वा कत्वा ददेय्युं। एतस्स पन सत्थु गुणा नाम हेट्ठा अवीचितो उपरि याव भवग्गा पत्थटा। सचे एस सत्था सम्मासम्बुद्धो, इमेसं अस्सानं खुरपिट्ठानि मा तेमेन्तू’’ति उदकपिट्ठेन अस्से पक्खन्दापेसुं। एकस्स अस्सस्सापि खुरपिट्ठमत्तं न तेमि, राजमग्गेन गच्छन्ता विय परतीरं पत्वा परतो अञ्‍ञं महानदिं पापुणिंसु। ‘‘दुतिया किन्‍नमा’’ति पुच्छि। नीलवाहिनी नाम गम्भीरतोपि पुथुलतोपि अड्ढयोजनमत्ता देवाति। तत्थ <pb ed="P" n="1.0322"/> अञ्‍ञा सच्‍चकिरिया नत्थि, ताय एव सच्‍चकिरियाय <pb ed="M" n="1.0249"/> तम्पि अड्ढयोजनवित्थारं नदिं अतिक्‍कमिंसु। अथ ततियं चन्दभागं नाम महानदिं पत्वा तम्पि ताय एव सच्‍चकिरियाय अतिक्‍कमिंसु।</p>

<p rend="bodytext">सत्थापि तंदिवसं पच्‍चूससमये महाकरुणासमापत्तितो वुट्ठाय लोकं ओलोकेन्तो ‘‘अज्‍ज महाकप्पिनो तियोजनसतिकं रज्‍जं पहाय अमच्‍चसहस्सपरिवारो मम सन्तिके पब्बजितुं आगच्छती’’ति दिस्वा ‘‘मया तेसं पच्‍चुग्गमनं कातुं युत्त’’न्ति पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवारो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो सयमेव पत्तचीवरं गहेत्वा आकासे उप्पतित्वा चन्दभागाय तीरे तेसं उत्तरणतित्थअभिमुखट्ठाने महानिग्रोधरुक्खो अत्थि, तत्थ पल्‍लङ्केन निसीदित्वा परिमुखं सतिं उपट्ठपेत्वा छब्बण्णबुद्धरस्मियो विस्सज्‍जेसि। ते तेन तित्थेन उत्तरन्ता बुद्धरस्मियो इतो चितो च धावन्तियो ओलोकेत्वा दसबलस्स पुण्णचन्दसस्सिरिकं मुखं दिस्वा ‘‘यं सत्थारं उद्दिस्स मयं पब्बजिता, अद्धा सो एसो’’ति दस्सनेनेव निट्ठं गन्त्वा दिट्ठट्ठानतो पट्ठाय ओणमित्वा वन्दमाना आगम्म सत्थारं वन्दिंसु। राजा गोप्फकेसु गहेत्वा सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्‍चसहस्सेन। सत्था तेसं धम्मकथं कथेसि। देसनापरियोसाने सब्बेव <pb ed="V" n="1.0243"/> अरहत्ते पतिट्ठाय सत्थारं पब्बज्‍जं याचिंसु। सत्था ‘‘पुब्बे इमे चीवरदानस्स दिन्‍नत्ता अत्तनो पत्तचीवरानि गहेत्वाव आगता’’ति सुवण्णवण्णं हत्थं पसारेत्वा ‘‘एथ भिक्खवो, स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह। साव तेसं आयस्मन्तानं पब्बज्‍जा <pb ed="P" n="1.0323"/> च उपसम्पदा च अहोसि, वस्ससट्ठिकत्थेरा विय सत्थारं परिवारयिंसु।</p>

<p rend="bodytext">अनोजापि देवी रथसहस्सपरिवारा गङ्गातीरं पत्वा रञ्‍ञो अत्थाय आभतं नावं वा उळुम्पं वा अदिस्वा अत्तनो ब्यत्तताय चिन्तेसि – ‘‘राजा सच्‍चकिरियं कत्वा गतो भविस्सति, सो पन सत्था न केवलं तेसंयेव अत्थाय निब्बत्तो, सचे सो सत्था सम्मासम्बुद्धो, अम्हाकं रथा मा उदके निमुज्‍जिंसू’’ति उदकपिट्ठेन रथे पक्खन्दापेसि। रथानं नेमिवट्टिमत्तम्पि न तेमि। दुतियनदिम्पि ततियनदिम्पि तेनेव सच्‍चकारेन उत्तरि। उत्तरमाना एव च निग्रोधरुक्खमूले सत्थारं <pb ed="M" n="1.0250"/> अद्दस। सत्थापि ‘‘इमासं अत्तनो सामिके पस्सन्तीनं छन्दरागो उप्पज्‍जित्वा मग्गफलानं अन्तरायं करेय्य, धम्मं सोतुं च न सक्खिस्सन्ती’’ति। यथा अञ्‍ञमञ्‍ञं न पस्सन्ति, तथा अकासि। ता सब्बापि तित्थतो उत्तरित्वा दसबलं वन्दित्वा निसीदिंसु। सत्था तासं धम्मकथं कथेसि। देसनापरियोसाने सब्बा सोतापत्तिफले पतिट्ठाय अञ्‍ञमञ्‍ञं पस्सिंसु। सत्था ‘‘उप्पलवण्णा आगच्छतू’’ति चिन्तेसि। थेरी आगन्त्वा सब्बा पब्बाजेत्वा आदाय भिक्खुनिउपस्सयं गता, सत्था भिक्खुसहस्सं गहेत्वा आकासेन जेतवनं अगमासि।</p>

<p rend="bodytext">अथायं महाकप्पिनत्थेरो अत्तनो किच्‍चं मत्थकप्पत्तं ञत्वा अप्पोस्सुक्‍को हुत्वा फलसमापत्तिसुखेन वीतिनामेन्तो अरञ्‍ञगतोपि रुक्खमूलगतोपि सुञ्‍ञागारगतोपि ‘‘अहो सुखं अहो <pb ed="P" n="1.0324"/> सुख’’न्ति अभिण्हं उदानं उदानेसि। भिक्खू कथं उप्पादेसुं ‘‘कप्पिनत्थेरो रज्‍जसुखं अनुस्सरन्तो उदानं उदानेती’’ति। ते तथागतस्स आरोचेसुं। भगवा ‘‘मम पुत्तो मग्गसुखं फलसुखं आरब्भ उदानं उदानेसी’’ति वत्वा धम्मपदे इमं गाथमाह –</p>

<p rend="gatha1">‘‘धम्मपीति सुखं सेति, विप्पसन्‍नेन चेतसा।</p>

<p rend="gathalast">अरियप्पवेदिते धम्मे, सदा रमति पण्डितो’’ति॥ (ध॰ प॰ ७९)।</p>

<p rend="bodytext">अथेकदिवसं <pb ed="V" n="1.0244"/> सत्था तस्स अन्तेवासिकभिक्खुसहस्सं आमन्तेत्वा आह – ‘‘कच्‍चि वो, भिक्खवे, आचरियो धम्मं देसेती’’ति। न भगवा देसेति, अप्पोस्सुक्‍को दिट्ठधम्मसुखविहारं अनुयुत्तो विहरति, कस्सचि ओवादमत्तम्पि न देतीति। सत्था तं पक्‍कोसापेत्वा ‘‘सच्‍चं किर त्वं, कप्पिन, अन्तेवासिकानं ओवादमत्तम्पि न देसी’’ति? सच्‍चं भगवाति। ब्राह्मण, मा एवं करि, अज्‍ज पट्ठाय अन्तेवासिकानं धम्मं देसेहीति। ‘‘साधु, भन्ते’’ति थेरो सत्थु कथं सिरवरेन सम्पटिच्छित्वा एकसमोधानेयेव समणसहस्सस्स धम्मं देसेत्वा सब्बे अरहत्तं पापेसि। अपरभागे सत्था सङ्घमज्झे निसिन्‍नो पटिपाटिया थेरे ठानन्तरेसु ठपेन्तो महाकप्पिनत्थेरं भिक्खुओवादकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">सागतत्थेरवत्थु</p>

<p rend="bodytext" n="232"><hi rend="paranum">२३२</hi><hi rend="dot">.</hi> दसमे <pb ed="M" n="1.0251"/> <hi rend="bold">तेजोधातुकुसलान</hi>न्ति तेजोधातुं समापज्‍जितुं कुसलानं सागतत्थेरो अग्गोति दस्सेति। अयञ्हि थेरो तेजोधातुसमापत्तिया अम्बतित्थनागस्स तेजसा तेजं परियादियित्वा तं नागं निब्बिसेवनं अकासि। तस्मा <pb ed="P" n="1.0325"/> तेजोधातुकुसलानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे पटिसन्धिं गहेत्वा अपरभागे सत्थुधम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं तेजोधातुकुसलानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति, सागतमाणवोतिस्स नामं अकंसु। सो अपरभागे सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा अट्ठ समापत्तियो निब्बत्तेत्वा तत्थ वसीभावं पापुणि।</p>

<p rend="bodytext">अथेकदिवसं सत्था चारिकं चरमानो कोसम्बिनगरसमीपं अगमासि। तेन च समयेन नदीतित्थे पोराणकनाविकस्स बहू आगन्तुकगमिका वेरिनो हुत्वा तं पोथेत्वा मारयिंसु। सो विरुद्धेन चित्तेन पत्थनं पट्ठपेत्वा तस्मिंयेव तित्थे महानुभावो नागराजा हुत्वा निब्बत्तो। सो विरुद्धचित्तत्ता अकालेयेव वस्सापेति, काले पन न वस्सापेति, सस्सानि न सम्मा सम्पज्‍जन्ति। सकलरट्ठवासिनो च तस्स वूपसमनत्थं अनुसंवच्छरं बलिकम्मं करोन्ति, वसनत्थाय <pb ed="V" n="1.0245"/> चस्स एकं गेहं अकंसु। सत्थापि तेनेव तित्थेन उत्तरित्वा भिक्खुसङ्घपरिवुतो ‘‘तस्मिंयेव पदेसे रत्तिं वसिस्सामी’’ति अगमासि।</p>

<p rend="bodytext">अथायं थेरो ‘‘चण्डो किरेत्थ नागराजा’’ति सुत्वा ‘‘इमं नागराजानं दमेत्वा निब्बिसेवनं कत्वा सत्थु वसनट्ठानं परियादेतुं वट्टती’’ति नागराजस्स वसनट्ठानं पविसित्वा पल्‍लङ्कं आभुजित्वा निसीदि। नागो कुज्झित्वा ‘‘कोनामायं <pb ed="P" n="1.0326"/> मुण्डको मय्हं वसनट्ठानं पविसित्वा निसिन्‍नो’’ति धूपायि, थेरो उत्तरितरं धूपायि। नागो, पज्‍जलि, थेरोपि उत्तरितरं पज्‍जलित्वा तस्स तेजं परियादियि। सो ‘‘महन्तो वतायं <pb ed="M" n="1.0252"/> भिक्खू’’ति थेरस्स पादमूले निपतित्वा, ‘‘भन्ते, तुम्हाकं सरणं गच्छामी’’ति आह। मय्हं सरणगमनकिच्‍चं नत्थि, दसबलस्स सरणं गच्छाति। सो ‘‘साधू’’ति सरणगतो हुत्वा ततो पट्ठाय न कञ्‍चि विहेठेति, देवम्पि सम्मा वस्सापेति, सस्सानि सम्मा सम्पज्‍जन्ति।</p>

<p rend="bodytext">कोसम्बिवासिनो ‘‘अय्येन किर सागतेन अम्बतित्थकनागो दमितो’’ति सुत्वा सत्थु आगमनं उदिक्खमाना दसबलस्स महासक्‍कारं सज्‍जयिंसु। ते दसबलस्स <pb ed="P" n="1.0327"/> महासक्‍कारं कत्वा छब्बग्गियानं वचनेन सब्बगेहेसु कापोतिकं पसन्‍नं पटियादेत्वा पुनदिवसे सागतत्थेरस्स पिण्डाय चरन्तस्स गेहे गेहे थोकं थोकं अदंसु। थेरो अपञ्‍ञत्ते सिक्खापदे मनुस्सेहि याचियमानो गेहे गेहे थोकं <pb ed="M" n="1.0253"/> थोकं पिवित्वा अविदूरं गन्त्वाव अनाहारिकभावेन सतिं विस्सज्‍जेत्वा सङ्कारट्ठाने पति।</p>

<p rend="bodytext">सत्था कतभत्तकिच्‍चो निक्खमन्तो तं दिस्वा गाहापेत्वा विहारं गन्त्वा विगरहित्वा सिक्खापदं पञ्‍ञापेसि। सो पुनदिवसे सतिं लभित्वा अत्तना कतकारणं सुत्वा अच्‍चयं देसेत्वा दसबलं खमापेत्वा उप्पन्‍नसंवेगो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। एवं वत्थु विनये समुट्ठितं। तं तत्थ आगतनयेनेव वित्थारतो वेदितब्बं। अपरभागे पन सत्था जेतवने महाविहारे निसीदित्वा पटिपाटिया थेरे ठानन्तरेसु ठपेन्तो सागतत्थेरं तेजोधातुकुसलानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">राधत्थेरवत्थु</p>

<p rend="bodytext" n="233"><hi rend="paranum">२३३</hi><hi rend="dot">.</hi> एकादसमे <pb ed="V" n="1.0246"/> <hi rend="bold">पटिभानेय्यकान</hi>न्ति सत्थु धम्मदेसनापटिभानस्स पच्‍चयभूतानं पटिभानजनकानं भिक्खूनं राधत्थेरो अग्गोति दस्सेति। थेरस्स हि दिट्ठिसमुदाचारञ्‍च ओकप्पनियसद्धञ्‍च आगम्म दसबलस्स नवनवा धम्मदेसना पटिभाति। तस्मा थेरो पटिभानेय्यकानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे <pb ed="P" n="1.0328"/> निब्बत्तित्वा अपरभागे सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं पटिभानेय्यकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं तथागतं परिचरित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहनगरे ब्राह्मणकुले पटिसन्धिं गण्हि, राधमाणवोतिस्स नामं अकंसु।</p>

<p rend="bodytext">सो महल्‍लककाले अत्तनो पुत्तदारेन अबहुमतो ‘‘पब्बजित्वा कालं वीतिनामेस्सामी’’ति विहारं गन्त्वा थेरे पब्बज्‍जं याचि। ‘‘जिण्णो महल्‍लकब्राह्मणो’’ति न कोचि पब्बाजेतुं इच्छि। अथेकदिवसं ब्राह्मणो सत्थु सन्तिकं गन्त्वा पटिसन्थारं कत्वा एकमन्तं निसीदि। सत्था तस्स उपनिस्सयसम्पत्तिं दिस्वा कथं समुट्ठापेतुकामो ‘‘किं, ब्राह्मण, पुत्तदारा तं पटिजग्गन्ती’’ति? कुतो, भो गोतम, पटिजग्गनं, महल्‍लकोति <pb ed="M" n="1.0254"/> मं बहि नीहरिंसु। किं पन ते, ब्राह्मण, पब्बजितुं न वट्टतीति? को मं, भो गोतम, पब्बाजेस्सति, महल्‍लकभावेन मं न कोचि इच्छतीति। सत्था सारिपुत्तत्थेरस्स सञ्‍ञं अदासि। थेरो सत्थु वचनं सिरसा सम्पटिच्छित्वा राधब्राह्मणं पब्बाजेत्वा चिन्तेसि – ‘‘सत्था इमं ब्राह्मणं सादरेन पब्बजापेसि, न खो मे एतं अनादरेन परिहरितुं वट्टती’’ति राधत्थेरं आदाय गामकावासं अगमासि। तत्रस्स अधुना पब्बजितत्ता किच्छलाभिस्स थेरो अत्तनो पत्तं आवासं देति, अत्तनो पत्तं पणीतपिण्डपातम्पि तस्सेव दत्वा सयं पिण्डाय चरति। राधत्थेरो सेनासनसप्पायञ्‍च भोजनसप्पायञ्‍च लभित्वा सारिपुत्तत्थेरस्स सन्तिके कम्मट्ठानं गहेत्वा नचिरस्सेव अरहत्तं पापुणि।</p>

<p rend="bodytext">अथ नं थेरो गहेत्वा दसबलं पस्सितुं आगतो। सत्था जानन्तोव पुच्छि – ‘‘यो ते मया <pb ed="V" n="1.0247"/> <pb ed="P" n="1.0329"/>, सारिपुत्त, निस्सितको दिन्‍नो, कीदिसं तस्स, न उक्‍कण्ठती’’ति? भन्ते, सासने अभिरमितभिक्खु नाम एवरूपो भवेय्याति। अथायस्मतो सारिपुत्तस्स ‘‘सारिपुत्तत्थेरो कतञ्‍ञू कतवेदी’’ति सङ्घमज्झे कथा उदपादि। तं सुत्वा सत्था भिक्खू आमन्तेसि – ‘‘अनच्छरियं, भिक्खवे, सारिपुत्तस्स इदानि कतञ्‍ञूकतवेदिता, सो अतीते अहेतुकपटिसन्धियं निब्बत्तोपि कतञ्‍ञूकतवेदीयेव अहोसी’’ति। कतरस्मिं काले भगवाति?</p>

<p rend="bodytext">अतीते, भिक्खवे, पब्बतपादम्हि पञ्‍चसतमत्ता वड्ढकिपुरिसा महाअरञ्‍ञं पविसित्वा दब्बसम्भारे छिन्दित्वा महाउळुम्पं बन्धित्वा नदिया ओतारेन्ति। अथेको हत्थिनागो एकस्मिं विसमट्ठाने सोण्डाय साखं गण्हन्तो साखाभङ्गवेगं सन्धारेतुं असक्‍कोन्तो तिखिणखाणुके पादेन अवत्थासि, पादो विद्धो, दुक्खवेदना वत्तन्ति। सो गमनं अभिनीहरितुं असक्‍कोन्तो तत्थेव निपज्‍जि। सो कतिपाहच्‍चयेन ते वड्ढकी अत्तनो समीपेन गच्छन्ते दिस्वा ‘‘इमे निस्सायाहं जीवितं लभिस्सामी’’ति तेसं अनुपदं अगमासि। ते निवत्तित्वा हत्थिं दिस्वा भीता पलायन्ति। सो तेसं पलायनभावं ञत्वा अट्ठासि, पुन ठितकाले अनुबन्धि।</p>

<p rend="bodytext">वड्ढकिजेट्ठको चिन्तेसि – ‘‘अयं हत्थि अम्हेसु तिट्ठन्तेसु अनुबन्धति, पलायन्तेसु तिट्ठति, भविस्सति तत्थ कारण’’न्ति। सब्बे तं तं रुक्खं आरुय्ह <pb ed="M" n="1.0255"/> तस्स आगमनं पटिमानेन्ता निसीदिंसु। सो तेसं सन्तिकं आगन्त्वा अत्तनो पादं दस्सेन्तो परिवत्तेत्वा निपज्‍जि। तदा वड्ढकीनं सञ्‍ञा उदपादि – ‘‘गिलानभावेन, भो, एस आगच्छति, न अञ्‍ञेन कारणेना’’ति तस्स सन्तिकं गन्त्वा पादे पविट्ठखाणुकं दिस्वा <pb ed="P" n="1.0330"/> ‘‘इमिना कारणेन एस आगतो’’ति तिखिणवासिया खाणुककोटियं ओधिं दत्वा दळ्हाय रज्‍जुया बन्धित्वा कड्ढित्वा नीहरिंसु। अथस्स वणमुखं पीळेत्वा पुब्बलोहितं नीहरित्वा कसावोदकेन धोवित्वा अत्तनो जाननभेसज्‍जं मक्खेत्वा नचिरस्सेव फासुकं अकंसु।</p>

<p rend="bodytext">हत्थिनागो गिलाना वुट्ठितो चिन्तेसि – ‘‘इमे मय्हं बहुपकारा, इमे मया निस्साय जीवितं लद्धं, मया इमेसं कतञ्‍ञुना कतवेदिना भवितुं वट्टती’’ति अत्तनो वसनट्ठानं गन्त्वा सेतं गन्धहत्थिपोतकं आनेसि। वड्ढकिनो हत्थिपोतकं दिस्वा ‘‘अम्हाकं हत्थी पुत्तम्पि गहेत्वा आगतो’’ति अतिविय तुट्ठचित्ता अहेसुं। हत्थिनागो चिन्तेसि – ‘‘मयि तिट्ठन्ते ‘किं नु खो अयं आगतो’ति मम आगतकारणं न जानिस्सन्ती’’ति ठितट्ठानतो पक्‍कामि। हत्थिपोतको <pb ed="V" n="1.0248"/> पितु पच्छतो पच्छतो अनुपायासि। हत्थिनागो तस्स आगतभावं ञत्वा निवत्तनत्थाय सद्दसञ्‍ञं अदासि। सो पितु कथं सुत्वा निवत्तित्वा वड्ढकीनं सन्तिकं गतो। वड्ढकिनो ‘‘इमं हत्थिपोतकं अम्हाकं दातुं आगतो भविस्सति एसो’’ति ञत्वा ‘‘अम्हाकं सन्तिके तया कत्तब्बकिच्‍चं नत्थि, पितु सन्तिकंयेव गच्छा’’ति पहिणिंसु। हत्थिनागो यावततियं अत्तनो सन्तिकं आगतम्पि पुन वड्ढकीनंयेव समीपं पेसेसि। ततो पट्ठाय वड्ढकिनो हत्थिपोतकं अत्तनो सन्तिके कत्वा पटिजग्गन्ति। भोजनकाले एकेकं भत्तपिण्डं देन्ति, भत्तं तस्स यावदत्थं अहोसि। सो वड्ढकीहि अन्तोगहने कोट्टितं दब्बसम्भारं आहरित्वा अङ्गणट्ठाने रासिं करोति। एतेनेव नियामेन अञ्‍ञम्पि उपकारकम्मं करोति।</p>

<p rend="bodytext">सत्था <pb ed="P" n="1.0331"/> इमं कारणं आहरित्वा पुब्बेपि सारिपुत्तस्स कतञ्‍ञूकतवेदिभावं दीपेति। सारिपुत्तत्थेरो हि तदा महाहत्थी अहोसि, अट्ठुप्पत्तियं आगतो ओस्सट्ठवीरियो भिक्खु हत्थिपोतको अहोसि। संयुत्तनिकायं पन पत्वा सकलं राधसंयुत्तं, धम्मपदे च –</p>

<p rend="gatha1">‘‘निधीनंव <pb ed="M" n="1.0256"/> पवत्तारं, यं पस्से वज्‍जदस्सिनं।</p>

<p rend="gatha2">निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे।</p>

<p rend="gathalast">तादिसं भजमानस्स, सेय्यो होति न पापियो’’ति॥ (ध॰ प॰ ७६) –</p>

<p rend="unindented">गाथा थेरस्स धम्मदेसना नाम। अपरभागे पन सत्था पटिपाटिया थेरे ठानन्तरेसु ठपेन्तो राधत्थेरं पटिभानेय्यकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">मोघराजत्थेरवत्थु</p>

<p rend="bodytext" n="234"><hi rend="paranum">२३४</hi><hi rend="dot">.</hi> द्वादसमे <hi rend="bold">लूखचीवरधरान</hi>न्ति लूखचीवरं धारेन्तानं मोघराजा अग्गोति दस्सेति। अयं हि थेरो सत्थलूखं सुत्तलूखं रजनलूखन्ति तिविधेनपि लूखेन समन्‍नागतं पंसुकूलं धारेसि। तस्मा लूखचीवरधरानं अग्गो नाम जातो।</p>

<p rend="bodytext">तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे पटिसन्धिं गहेत्वा निब्बत्ति, ततो अपरभागे सत्थु धम्मकथं सुणन्तो सत्थारं एकं भिक्खुं लूखचीवरधरानं <pb ed="V" n="1.0249"/> अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कस्सपदसबलस्स निब्बत्तितो पुरेतरमेव <pb ed="P" n="1.0332"/> कट्ठवाहननगरे अमच्‍चगेहे पटिसन्धिं गण्हि। अपरभागे वयप्पत्तो कट्ठवाहनराजानं उपट्ठहन्तो अमच्‍चट्ठानं लभि।</p>

<p rend="bodytext">तस्मिं काले कस्सपदसबलो लोके उप्पज्‍जि। कट्ठवाहनराजा ‘‘बुद्धो किर लोके उप्पन्‍नो’’ति सुत्वा तं पक्‍कोसापेत्वा आह – ‘‘तात, बुद्धो किर लोके उप्पन्‍नो, इमं पच्‍चन्तनगरं एकप्पहारेनेव उभोहि अम्हेहि तुच्छं कातुं न सक्‍का, त्वं ताव मज्झिमदेसं गन्त्वा बुद्धस्स उप्पन्‍नभावं ञत्वा दसबलं इमं नगरं आनेही’’ति पुरिससहस्सेन सद्धिं पेसेसि। सो अनुपुब्बेन सत्थु सन्तिकं गन्त्वा धम्मकथं सुत्वा पटिलद्धसद्धो तत्थेव पब्बजित्वा वीसति वस्ससहस्सानि समणधम्मं अकासि। तेन सद्धिं गतपुरिसा पन सब्बेपि निवत्तित्वा पुन रञ्‍ञो सन्तिकं आगता।</p>

<p rend="bodytext">अयं थेरो परिपुण्णसीलो कालं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरन्तो अम्हाकं दसबलस्स निब्बत्तितो पुरेतरमेव सावत्थियं <pb ed="M" n="1.0257"/> ब्राह्मणकुले पटिसन्धिं गण्हि, मोघराजमाणवोतिस्स नामं अकंसु। कट्ठवाहनराजापि कस्सपस्स भगवतो अधिकारकम्मं कत्वा एकं बुद्धन्तरं सपरिवारो देवमनुस्सेसु संसरित्वा अम्हाकं दसबलस्स निब्बत्तितो पुरेतरमेव सावत्थियं पुरोहितगेहे पटिसन्धिं गण्हि, बावरिमाणवोतिस्स नामं अकंसु। सो अपरेन समयेन तयो वेदे उग्गण्हित्वा सोळसन्‍नं माणवकसहस्सानं सिप्पं वाचेन्तो चरति। अथस्स पसेनदिकोसलरञ्‍ञो काले पितु अच्‍चयेन पुरोहितट्ठानं अदंसु। तदा अयम्पि मोघराजमाणवो बावरिब्राह्मणस्स सन्तिके सिप्पं गण्हाति।</p>

<p rend="bodytext">अथेकदिवसं बावरिब्राह्मणो रहोगतो अत्तनो सिप्पे सारं ओलोकेन्तो सम्परायिकं सारं अदिस्वा ‘‘एकं पब्बज्‍जं <pb ed="P" n="1.0333"/> पब्बजित्वा सम्परायिकं गवेसेस्सामी’’ति कोसलराजानं उपसङ्कमित्वा अत्तनो पब्बज्‍जं अनुजानापेसि। सो तेन अनुञ्‍ञातो सोळसहि माणवकसहस्सेहि परिवुतो पब्बज्‍जत्थाय निक्खमि। कोसलराजापि तेन सद्धिंयेव एकं अमच्‍चं कहापणसहस्सं दत्वा पेसेसि – ‘‘यस्मिं ठाने आचरियो पब्बजति, तत्रस्स वसनट्ठानं गहेत्वा देथा’’ति। बावरिब्राह्मणो फासुकट्ठानं ओलोकेन्तो मज्झिमदेसतो पटिक्‍कम्म <pb ed="V" n="1.0250"/> अस्सकरञ्‍ञो च मुळ्हकरञ्‍ञो च सीमन्तरे गोधावरितीरे अत्तनो वसनट्ठानं कारेसि।</p>

<p rend="bodytext">अथेको पुरिसो जटिलानं दस्सनाय गतो तेसं सन्तके भूमिट्ठाने तेहि अनुञ्‍ञातो अत्तनो वसनट्ठानं अकासि। तेन कतं दिस्वा अपरं कुलसतं गेहसतं कारेसि। ते सब्बेपि सन्‍निपतित्वा ‘‘मयं अय्यानं सन्तके भूमिभागे वसाम, मुधा वसितुं न कारणं, सुखवासं वो दस्सामा’’ति एकेको एकेकं कहापणं <pb ed="M" n="1.0258"/> बावरिब्राह्मणस्स वसनट्ठाने ठपेसि। सब्बेहिपि आभतकहापणा सतसहस्समत्ता अहेसुं। बावरिब्राह्मणो ‘‘किमत्थं एते आभता’’ति आह। सुखवासदानत्थाय, भन्तेति। सचाहं हिरञ्‍ञसुवण्णेन अत्थिको अस्सं, अहं महन्तं धनरासिं पहाय न पब्बजेय्यं। तुम्हाकं कहापणे गण्हित्वा गच्छथाति। अम्हेहि अय्यस्स परिच्‍चत्तं न पुन गण्हाम, अनुसंवच्छरं पन एतेनेव नियामेन आहरिस्साम, इमे गहेत्वा अय्यो दानं देतूति। ब्राह्मणो अधिवासेत्वा कपणद्धिकवणिब्बकयाचकानं <pb ed="P" n="1.0334"/> दानमुखे निय्यातेसि। तस्स अपरापरं दायकभावो सकलजम्बुदीपे पञ्‍ञायित्थ।</p>

<p rend="bodytext">ततो कालिङ्गरट्ठे दुन्‍निविट्ठे नाम गामे जूजकब्राह्मणस्स वंसे जातब्राह्मणस्स ब्राह्मणी उट्ठाय समुट्ठाय ब्राह्मणं चोदेति – ‘‘बावरी, किर दानं देति, गन्त्वा ततो हिरञ्‍ञसुवण्णं आहरा’’ति। सो ताय चोदियमानो सण्ठातुं असक्‍कोन्तो बावरिस्स सन्तिकं गच्छमानो बावरिम्हि दानं दत्वा पण्णसालं पविसित्वा निपज्‍जित्वा दानं अनुस्सरमाने गतो। गन्त्वा च ‘‘दानं मे, ब्राह्मण, देहि, दानं मे, ब्राह्मण, देही’’ति आह। अकाले त्वं, ब्राह्मण, आगतो, सम्पत्तयाचकानं मे दिन्‍नं, इदानि कहापणं नत्थीति। न मय्हं, ब्राह्मण, बहूहि कहापणेहि अत्थो, तव एत्तकं दानं ददन्तस्स न सक्‍का कहापणेहि विना भवितुं, मय्हं पञ्‍च कहापणसतानि देहीति। ब्राह्मण, पञ्‍चपि सतानि नत्थि, पुन दानकाले सम्पत्ते लभिस्ससीति। किं पनाहं तव दानकाले आगमिस्सामीति? बावरिब्राह्मणस्स पण्णसालद्वारे वालुकं थूपं कत्वा समन्ततो रत्तवण्णानि पुप्फानि विकिरित्वा मन्तं जप्पेन्तो विय ओट्ठे चालेत्वा चालेत्वा ‘‘मुद्धा फलतु सत्तधा’’ति वदति।</p>

<p rend="bodytext">बावरिब्राह्मणो चिन्तेसि – ‘‘अयं महातपो तपचारं गण्हित्वा चरणब्राह्मणको मय्हं सत्तदिवसमत्थके ‘सत्तधा मुद्धा फालतू’ति वदति, मय्हञ्‍च <pb ed="P" n="1.0335"/> इमस्स दातब्बानि पञ्‍च कहापणसतानि <pb ed="V" n="1.0251"/> नत्थि, एकंसेन मं एस घातेस्सती’’ति। एवं तस्मिं सोकसल्‍लसमप्पिते निपन्‍ने रत्तिभागसमनन्तरे अनन्तरत्तभावे बावरिस्स माता देवता हुत्वा निब्बत्ति। सा पुत्तस्स सोकसल्‍लसमप्पितभावं दिस्वा आगन्त्वा आह – ‘‘तात <pb ed="M" n="1.0259"/>, एस मुद्धं वा मुद्धफालनं वा न जानाति, त्वम्पि लोके बुद्धानं उप्पन्‍नभावं न जानासि। सचे ते संसयो अत्थि, सत्थु सन्तिकं गन्त्वा पुच्छ, सो ते एतं कारणं कथेस्सती’’ति। ब्राह्मणो देवताय कथं सुतकालतो पट्ठाय अस्सासं लभित्वा पुनदिवसे उट्ठिते अरुणे सब्बेव अन्तेवासिके पक्‍कोसित्वा, ‘‘ताता, बुद्धो किर लोके उप्पन्‍नो, तुम्हे सीघं गन्त्वा ‘बुद्धो वा नो वा’ति ञत्वा आगन्त्वा मय्हं आरोचेथ, अहं सत्थु सन्तिकं गमिस्सामि। अपिच खो पन मय्हं महल्‍लकभावेन जीवितन्तरायो दुज्‍जानो, तुम्हे तस्स सन्तिकं गन्त्वा इमिना च इमिना च नियामेन पञ्हे पुच्छथा’’ति मुद्धफालनपञ्हं नाम अभिसङ्खरित्वा अदासि।</p>

<p rend="bodytext">ततो चिन्तेसि – ‘‘सब्बे इमे माणवा पण्डिता, सत्थु धम्मकथं सुत्वा अत्तनो किच्‍चे मत्थकं पत्ते पुन मय्हं सन्तिकं आगच्छेय्युं वा नो वा’’ति। अथ अत्तनो भागिनेय्यस्स अजितमाणवस्स नाम सञ्‍ञं अदासि – ‘‘त्वं पन एकन्तेनेव मम सन्तिकं आगन्तुं अरहसि, तया पटिलद्धगुणं आगन्त्वा मय्हं कथेय्यासी’’ति। अथ ते सोळससहस्सजटिला अजितमाणवं जेट्ठकं कत्वा सोळसहि जेट्ठन्तेवासिकेहि सद्धिं ‘‘सत्थारं पञ्हं पुच्छिस्सामा’’ति चारिकं चरन्ता गतगतट्ठाने, ‘‘अय्या, कहं गच्छथ, कहं गच्छथा’’ति पुच्छिता ‘‘दसबलस्स <pb ed="P" n="1.0336"/> सन्तिकं पञ्हं पुच्छितुं गच्छामा’’ति कोटितो पट्ठाय परिसं संकड्ढन्ता अनेकयोजनसतं मग्गं गता। सत्था ‘‘तेसं आगमनदिवसे अञ्‍ञस्स ओकासो न भविस्सति, इदं इमिस्सा परिसाय अनुच्छविकट्ठान’’न्ति गन्त्वा पासाणचेतिये पिट्ठिपासाणे निसीदि। सो अजितमाणवोपि सपरिसो तं पिट्ठिपासाणं आरुय्ह सत्थु सरीरसम्पत्तिं दिस्वा ‘‘अयं पुरिसो इमस्मिं लोके विवटच्छदो बुद्धो भविस्सती’’ति अत्तनो आचरियेन पहिते पञ्हे मनसा पुच्छन्तोव गतो।</p>

<p rend="bodytext">तंदिवसं तस्मिं ठाने सम्पत्तपरिसा द्वादसयोजनिका अहोसि। तेसं सोळसन्‍नं अन्तेवासिकानं अन्तरे मोघराजमाणवो ‘‘अहं सब्बेहि पण्डिततरो’’ति मानत्थद्धो, तस्स एतदहोसि – ‘‘अयं अजितमाणवो सब्बेसं जेट्ठको, एतस्स पठमतरं मम पञ्हं पुच्छितुं न युत्त’’न्ति <pb ed="M" n="1.0260"/>। तस्स लज्‍जायन्तो पठमतरं पञ्हं अपुच्छित्वा तेन पुच्छिते दुतियो हुत्वा सत्थारं <pb ed="V" n="1.0252"/> पञ्हं पुच्छि। सत्था ‘‘मानत्थद्धो मोघराजमाणवा, न तावस्स ञाणं परिपाकं गच्छति, अस्स मानं निवारितुं वट्टती’’ति चिन्तेत्वा आह – ‘‘तिट्ठ त्वं, मोघराज, अञ्‍ञे ताव पञ्हे पुच्छन्तू’’ति। सो सत्थु सन्तिका अपसादं लभित्वा चिन्तेसि – ‘‘अहं एत्तकं कालं मया पण्डिततरो नाम नत्थीति विचरामि, बुद्धा च नाम अजानित्वा न कथेन्ति। सत्थारा मम पुच्छाय दोसो दिट्ठो भविस्सती’’ति <pb ed="P" n="1.0337"/> तुण्ही अहोसि। सो अट्ठहि जनेहि पटिपाटिया पञ्हे पुच्छिते अधिवासेतुं असक्‍कोन्तो नवमो हुत्वा पुन उट्ठासि। पुनपि नं सत्था अपसादेसि।</p>

<p rend="bodytext">सो पुनपि तुण्ही हुत्वा ‘‘सङ्घनवको दानि भवितुं न सक्खिस्सामी’’ति पञ्‍चदसमो हुत्वा पञ्हं पुच्छि। अथ सत्था ञाणस्स परिपाकभावं ञत्वा पञ्हं कथेसि। सो देसनापरियोसाने अत्तनो परिवारेन जटिलसहस्सेन सद्धिं अरहत्तं पापुणि। इमिनाव नियामेन सेसानिपि पन्‍नरस जटिलसहस्सानि अरहत्तं पापुणिंसु। सब्बेपि इद्धिमयपत्तचीवरधरा एहिभिक्खूव अहेसुं। सेसजना पन न कथियन्ति। अयं मोघराजत्थेरो ततो पट्ठाय तीहि लूखेहि समन्‍नागतं चीवरं धारेति। एवं पारायने (सु॰ नि॰ ९८२ आदयो) वत्थु समुट्ठितं। सत्था पन अपरभागे जेतवने निसिन्‍नो थेरे पटिपाटिया ठानन्तरेसु ठपेन्तो मोघराजत्थेरं इमस्मिं सासने लूखचीवरधरानं अग्गट्ठाने ठपेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं लूखचीवरधरानं यदिदं मोघराजा’’ति आह।</p>

<p rend="centre">चतुत्थवग्गवण्णना।</p>

<p rend="centre">एकचत्तालीससुत्तमत्ताय थेरपाळिया वण्णना निट्ठिता।</p>

<p rend="title">१४. एतदग्गवग्गो</p>

<p rend="subhead">(१४) ५. पञ्‍चमएतदग्गवग्गो</p>

<p rend="subhead">महापजापतिगोतमीथेरीवत्थु</p>

<p rend="bodytext" n="235"><hi rend="paranum">२३५</hi><hi rend="dot">.</hi> थेरिपाळिया <pb ed="V" n="1.0253"/> <pb ed="M" n="1.0261"/> पठमे <hi rend="bold">यदिदं महापजापतिगोतमी</hi>ति महापजापतिगोतमी थेरी रत्तञ्‍ञूनं अग्गाति दस्सेति।</p>

<p rend="bodytext">तस्सा पञ्हकम्मे पन अयमनुपुब्बिकथा – अयं <pb ed="P" n="1.0338"/> किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे पटिसन्धिं गण्हित्वा अपरेन समयेन सत्थु धम्मदेसनं सुणन्ती सत्थारं एकं भिक्खुनिं रत्तञ्‍ञूनं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा यावजीवं दानं दत्वा सीलं रक्खित्वा ततो चुतो देवलोके निब्बत्तित्वा पन एकस्मिं बुद्धन्तरे देवलोकतो चवित्वा बाराणसियं पञ्‍चन्‍नं दासिसतानं जेट्ठकदासी हुत्वा निब्बत्ति। अथ वस्सूपनायिकसमये पञ्‍च पच्‍चेकबुद्धा नन्दमूलकपब्भारतो इसिपतने ओतरित्वा नगरे पिण्डाय चरित्वा इसिपतनमेव गन्त्वा ‘‘वस्सूपनायिककुटिया अत्थाय हत्थकम्मं याचिस्सामा’’ति चिन्तेसुं। कस्मा? वस्सं उपगच्छन्तेन हि नालकपटिपदं पटिपन्‍नेनापि पञ्‍चन्‍नं छदनानं अञ्‍ञतरेन छदनेन छन्‍ने सद्वारबद्धे सेनासने उपगन्तब्बं। वुत्तञ्हेतं ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बं, यो उपगच्छेय्य, आपत्ति दुक्‍कटस्सा’’ति (महाव॰ २०४)। तस्मा वस्सकाले उपकट्ठे सचे सेनासनं लभति, इच्‍चेतं कुसलं। नो चे लभति, हत्थकम्मं परियेसित्वापि कातब्बं। हत्थकम्मं अलभन्तेन सामम्पि कातब्बं, न त्वेव असेनासनिकेन वस्सं उपगन्तब्बं। अयमनुधम्मता। तस्मा ते पच्‍चेकबुद्धा ‘‘हत्थकम्मं याचिस्सामा’’ति चीवरं पारुपित्वा सायन्हसमये नगरं पविसित्वा सेट्ठिस्स घरद्वारे अट्ठंसु। जेट्ठकदासी कुटं गहेत्वा उदकतित्थं गच्छन्ती पच्‍चेकबुद्धे नगरं पविसन्ते अद्दस। सेट्ठि तेसं आगतकारणं सुत्वा ‘‘अम्हाकं ओकासो नत्थि, गच्छन्तू’’ति आह।</p>

<p rend="bodytext">अथ <pb ed="V" n="1.0254"/> ते नगरा निक्खन्ते जेट्ठकदासी कुटं गहेत्वा पविसन्ती दिस्वा कुटं ओतारेत्वा वन्दित्वा ओनमित्वा मुखं उक्खिपित्वा, ‘‘अय्या, नगरं पविट्ठमत्ताव निक्खन्ता, किं नु खो’’ति पुच्छि। वस्सूपनायिककुटिया हत्थकम्मं याचितुं आगतम्हाति। लद्धं, भन्तेति? न लद्धं उपासिकेति। किं <pb ed="M" n="1.0262"/> पनेसा कुटि इस्सरेहेव कातब्बा, उदाहु <pb ed="P" n="1.0339"/> दुग्गतेहिपि सक्‍का कातुन्ति? येन केनचि सक्‍का कातुन्ति। साधु, भन्ते, मयं करिस्साम, स्वे मय्हं भिक्खं गण्हथाति निमन्तेत्वा पुन कुटं गहेत्वा आगमनतित्थमग्गे ठत्वा आगतागता अवसेसदासियो ‘‘एत्थेव होथा’’ति वत्वा सब्बासं आगतकाले आह – ‘‘अम्मा, किं निच्‍चमेव परस्स दासिकम्मं करिस्सथ, उदाहु दासिभावतो मुच्‍चितुं इच्छथा’’ति। अज्‍जेव मुच्‍चितुं इच्छाम, अय्येति। यदि एवं, मया पच्‍चेकबुद्धा हत्थकम्मं अलभन्ता स्वातनाय निमन्तिता, तुम्हाकं सामिकेहि एकदिवसं हत्थकम्मं दापेथाति। ता ‘‘साधू’’ति सम्पटिच्छित्वा सायं अटवितो आगतकाले सामिकानं आरोचेसुं। ते ‘‘साधू’’ति जेट्ठकदासस्स गेहद्वारे सन्‍निपतिंसु।</p>

<p rend="bodytext">अथ ने जेट्ठकदासी ‘‘स्वे, ताता, पच्‍चेकबुद्धानं हत्थकम्मं देथा’’ति आनिसंसं आचिक्खित्वा येपि न कातुकामा, ते गाळ्हेन ओवादेन तज्‍जेत्वा सब्बेपि सम्पटिच्छापेसि। सा पुनदिवसे पच्‍चेकबुद्धानं भत्तं दत्वा सब्बेसं दासपुत्तानं सञ्‍ञं अदासि। ते तावदेव अरञ्‍ञं पविसित्वा दब्बसम्भारे समोधानेत्वा सतं सतं हुत्वा एकेकं कुटिं चङ्कमनादिपरिवारं कत्वा मञ्‍चपीठपानीय-परिभोजनीयादीनि ठपेत्वा पच्‍चेकबुद्धानं तेमासं तत्थेव वसनत्थाय पटिञ्‍ञं कारेत्वा वारभिक्खं पट्ठपेसुं। या अत्तनो वारदिवसे न सक्‍कोति, तस्सा जेट्ठकदासी सकगेहतो नीहरित्वा देति। एवं तेमासं पटिजग्गित्वा जेट्ठकदासी एकेकं दासिं एकेकं साटकं सज्‍जापेसि, पञ्‍च थूलसाटकसतानि अहेसुं। तानि परिवत्तापेत्वा पञ्‍चन्‍नं पच्‍चेकबुद्धानं तिचीवरानि कत्वा अदासि। पच्‍चेकबुद्धा तासं पस्सन्तीनंयेव आकासेन गन्धमादनपब्बतं अगमंसु।</p>

<p rend="bodytext">तापि <pb ed="P" n="1.0340"/> सब्बा यावजीवं कुसलं कत्वा देवलोके निब्बत्तिंसु। तासु जेट्ठिका ततो चवित्वा बाराणसिया अविदूरे पेसकारगामे पेसकारजेट्ठकस्स गेहे निब्बत्ति। अथेकदिवसं पदुमवतिया पुत्ता पञ्‍चसता पच्‍चेकबुद्धा बाराणसिरञ्‍ञा निमन्तिता राजद्वारं आगन्त्वा कञ्‍चि ओलोकेन्तम्पि अदिस्वा निवत्तित्वा नगरद्वारेन निक्खमित्वा तं पेसकारगामं <pb ed="M" n="1.0263"/> अगमंसु <pb ed="V" n="1.0255"/>। सा इत्थी पच्‍चेकबुद्धे दिस्वा सम्पियायमाना सब्बे वन्दित्वा भिक्खं अदासि। ते भत्तकिच्‍चं कत्वा गन्धमादनमेव अगमंसु।</p>

<p rend="bodytext">सापि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्ती अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव देवदहनगरे महासुप्पबुद्धस्स गेहे पटिसन्धिं गण्हि, गोतमीतिस्सा नामं अकंसु। महामायाय कनिट्ठभगिनी होति। मन्तज्झायका ब्राह्मणा लक्खणानि परिग्गण्हन्ता ‘‘इमासं द्विन्‍नम्पि कुच्छियं वसितदारका चक्‍कवत्तिनो भविस्सन्ती’’ति ब्याकरिंसु। सुद्धोदनमहाराजा वयप्पत्तकाले ता द्वेपि मङ्गलं कत्वा अत्तनो घरं आनेसि। अपरभागे अम्हाकं बोधिसत्तो तुसितपुरा चवित्वा महामायाय देविया कुच्छियं पटिसन्धिं गण्हि। महामाया तस्स जातदिवसतो सत्तमे दिवसे कालं कत्वा तुसितपुरे निब्बत्ति। सुद्धोदनमहाराजा महासत्तस्स मातुच्छं महापजापतिगोतमिं अग्गमहेसिट्ठाने ठपेसि। तस्मिं काले नन्दकुमारो जातो। अयं महापजापति नन्दकुमारं धातीनं दत्वा सयं बोधिसत्तं परिहरि।</p>

<p rend="bodytext">अपरेन समयेन बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा सब्बञ्‍ञुतं पत्वा लोकानुग्गहं करोन्तो अनुक्‍कमेन कपिलवत्थुं पत्वा नगरं पिण्डाय पाविसि। अथस्स पिता सुद्धोदनमहाराजा अन्तरवीथियंयेव <pb ed="P" n="1.0341"/> धम्मकथं सुत्वा सोतापन्‍नो अहोसि। अथ दुतियदिवसे नन्दो पब्बजि, सत्तमे दिवसे राहुलो। सत्था अपरेन समयेन वेसालिं उपनिस्साय कूटागारसालायं विहरति। तस्मिं समये सुद्धोदनमहाराजा सेतच्छत्तस्स हेट्ठा अरहत्तं सच्छिकत्वा परिनिब्बायि। तदा महापजापतिगोतमी पब्बज्‍जाय चित्तं उप्पादेसि। ततो रोहिणीनदीतीरे कलहविवादसुत्तपरियोसाने (सु॰ नि॰ ८६८ आदयो) निक्खमित्वा पब्बजितानं पञ्‍चन्‍नं कुमारसतानं पादपरिचारिका सब्बाव एकचित्ता हुत्वा ‘‘महापजापतिया सन्तिकं गन्त्वा सब्बाव सत्थु सन्तिके पब्बजिस्सामा’’ति महापजापतिं जेट्ठिकं कत्वा सत्थु सन्तिकं गन्त्वा पब्बजितुकामा अहेसुं। अयञ्‍च महापजापति पठममेव एकवारं सत्थारं पब्बज्‍जं याचमाना नालत्थ, तस्मा कप्पकं पक्‍कोसापेत्वा केसे छिन्‍नापेत्वा कासायानि अच्छादेत्वा सब्बा ता साकियानियो आदाय वेसालिं <pb ed="M" n="1.0264"/> गन्त्वा आनन्दत्थेरेन दसबलं याचापेत्वा अट्ठहि गरुधम्मेहि पब्बज्‍जञ्‍च उपसम्पदञ्‍च अलत्थ। इतरा पन सब्बापि एकतोव उपसम्पन्‍ना अहेसुं। अयमेत्थ सङ्खेपो, वित्थारतो पनेतं वत्थु पाळियं (चूळव॰ ४०२ आदयो) आगतमेव।</p>

<p rend="bodytext">एवं <pb ed="V" n="1.0256"/> उपसम्पन्‍ना पन महापजापति सत्थारं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं अट्ठासि, अथस्सा सत्था धम्मं देसेसि। सा सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरहत्तं पापुणि। सेसा पञ्‍चसता भिक्खुनियो नन्दकोवादसुत्तपरियोसाने (म॰ नि॰ ३.३९८ आदयो) अरहत्तं पापुणिंसु। एवमेतं <pb ed="P" n="1.0342"/> वत्थु समुट्ठितं। अपरभागे सत्था जेतवने निसिन्‍नो भिक्खुनियो ठानन्तरे ठपेन्तो महापजापतिं रत्तञ्‍ञूनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">खेमाथेरीवत्थु</p>

<p rend="bodytext" n="236"><hi rend="paranum">२३६</hi><hi rend="dot">.</hi> दुतिये <hi rend="bold">खेमा</hi>ति एवंनामिका भिक्खुनी। इतो पट्ठाय च पनस्सा पञ्हकम्मे अयमनुपुब्बिकथाति अवत्वा सब्बत्थ अभिनीहारं आदिं कत्वा वत्तब्बमेव वक्खाम।</p>

<p rend="bodytext">अतीते किर पदुमुत्तरबुद्धकाले हंसवतियं अयं परपरियापन्‍ना हुत्वा निब्बत्ति। अथेकदिवसं तस्स भगवतो अग्गसाविकं सुजातत्थेरिं नाम पिण्डाय चरन्तं दिस्वा तयो मोदके दत्वा तंदिवसमेव अत्तनो केसे विस्सज्‍जेत्वा थेरिया दानं दत्वा ‘‘अनागते बुद्धुप्पादे तुम्हे विय महापञ्‍ञा भवेय्य’’न्ति पत्थनं कत्वा यावजीवं कुसलकम्मेसु अप्पमत्ता हुत्वा कप्पसतसहस्सं देवमनुस्सेसु संसरन्ती कस्सपबुद्धकाले किकिस्स कासिरञ्‍ञो गेहे पटिसन्धिं गहेत्वा सत्तन्‍नं भगिनीनं अब्भन्तरा हुत्वा वीसतिवस्ससहस्सानि गेहेयेव कोमारिब्रह्मचरियं चरित्वा ताहि भगिनीहि सद्धिं दसबलस्स वसनपरिवेणं कारेत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे मद्दरट्ठे सागलनगरे राजकुले पटिसन्धिं गण्हि, खेमातिस्सा नामं अकंसु। तस्सा सरीरवण्णो सुवण्णरसपिञ्‍जरो विय अहोसि। सा वयप्पत्ता बिम्बिसाररञ्‍ञो गेहं अगमासि।</p>

<p rend="bodytext">सा <pb ed="M" n="1.0265"/> तथागते राजगहं उपनिस्साय वेळुवने विहरन्ते ‘‘सत्था किर रूपे दोसं दस्सेती’’ति रूपमदमत्ता <pb ed="P" n="1.0343"/> हुत्वा ‘‘मय्हम्पि रूपे दोसं दस्सेय्या’’ति भयेन दसबलं दस्सनाय न गच्छति। राजा चिन्तेसि – ‘‘अहं सत्थु अग्गुपट्ठाको, मादिसस्स च नाम अरियसावकस्स अग्गमहेसी दसबलं दस्सनाय न गच्छति, न मे एतं रुच्‍चती’’ति। सो कवीहि वेळुवनुय्यानस्स वण्णं बन्धापेत्वा ‘‘खेमाय देविया सवनूपचारे गायथा’’ति आह। सा उय्यानस्स वण्णं सुत्वा गन्तुकामा हुत्वा राजानं पटिपुच्छि। राजा ‘‘उय्यानं गच्छ, सत्थारं <pb ed="V" n="1.0257"/> पन अदिस्वा आगन्तुं न लभिस्ससी’’ति आह। सा रञ्‍ञो पटिवचनं अदत्वाव मग्गं पटिपज्‍जि। राजा ताय सद्धिं गच्छन्ते पुरिसे आह – ‘‘सचे देवी उय्यानतो निवत्तमाना दसबलं पस्सति, इच्‍चेतं कुसलं। सचे न पस्सति, राजाणाय नं दस्सेथा’’ति। अथ खो सा देवी दिवसभागं उय्याने चरित्वा निवत्तन्ती दसबलं अदिस्वाव गन्तुं आरद्धा। अथ नं राजपुरिसा अत्तनो अरुचियाव देविं सत्थु सन्तिकं नयिंसु।</p>

<p rend="bodytext">सत्था तं आगच्छन्तिं दिस्वा इद्धिया एकं देवच्छरं निम्मिनित्वा तालवण्टं गहेत्वा बीजमानं विय अकासि। खेमा देवी तं दिस्वा चिन्तेसि – ‘‘मानम्हि नट्ठा, एवरूपा नाम देवच्छरप्पटिभागा इत्थियो दसबलस्स अविदूरे तिट्ठन्ति, अहं एतासं परिचारिकापि नप्पहोमि, मानमदं हि निस्साय पापचित्तस्स वसेन नट्ठा’’ति तं निमित्तं गहेत्वा तमेव इत्थिं ओलोकयमाना अट्ठासि। अथस्सा पस्सन्तियाव तथागतस्स अधिट्ठानबलेन सा इत्थी पठमवयं अतिक्‍कम्म मज्झिमवये <pb ed="P" n="1.0344"/> ठिता विय मज्झिमवयं अतिक्‍कम्म पच्छिमवये ठिता विय च वलित्तचा पलितकेसा खण्डविरळदन्ता अहोसि। ततो तस्सा पस्सन्तियाव सद्धिं तालवण्टेन परिवत्तित्वा परिपति। ततो खेमा पुब्बहेतुसम्पन्‍नत्ता तस्मिं आरम्मणे आपाथगते एवं चिन्तेसि – ‘‘एवंविधम्पि नाम सरीरं एवरूपं विपत्तिं पापुणाति, मय्हम्पि सरीरं एवंगतिकमेव भविस्सती’’ति। अथस्सा एवं चिन्तितक्खणे सत्था इमं धम्मपदे गाथमाह –</p>

<p rend="gatha1">‘‘ये <pb ed="M" n="1.0266"/> रागरत्तानुपतन्ति सोतं,</p>

<p rend="gatha2">सयंकतं मक्‍कटकोव जालं।</p>

<p rend="gatha3">एतम्पि छेत्वान वजन्ति धीरा,</p>

<p rend="gathalast">अनपेक्खिनो सब्बदुक्खं पहाया’’ति॥</p>

<p rend="bodytext">सा गाथापरियोसाने ठितपदे ठितायेव सह पटिसम्भिदाहि अरहत्तं पापुणि। अगारमज्झे वसन्तेन नाम अरहत्तं पत्तेन तंदिवसमेव परिनिब्बायितब्बं वा पब्बजितब्बं वा होति, सा पन अत्तनो आयुसङ्खारानं पवत्तनभावं ञत्वा ‘‘अत्तनो पब्बज्‍जं अनुजानापेस्सामी’’ति सत्थारं वन्दित्वा राजनिवेसनं गन्त्वा राजानं अनभिवादेत्वाव अट्ठासि। राजा इङ्गितेनेव अञ्‍ञासि – ‘‘अरियधम्मं पत्ता भविस्सती’’ति। अथ नं आह – ‘‘देवि गता नु खो सत्थुदस्सनाया’’ति। महाराज, तुम्हेहि दिट्ठदस्सनं परित्तं, अहं पन दसबलं <pb ed="V" n="1.0258"/> सुदिट्ठमकासिं, पब्बज्‍जं मे अनुजानाथाति <pb ed="P" n="1.0345"/>। राजा ‘‘साधु, देवी’’ति सम्पटिच्छित्वा सुवण्णसिविकाय भिक्खुनिउपस्सयं उपनेत्वा पब्बाजेसि। अथस्सा ‘‘खेमाथेरी नाम गिहिभावे ठत्वा अरहत्तं पत्ता’’ति महापञ्‍ञभावो पाकटो अहोसि। इदमेत्थ वत्थु। अथ सत्था अपरभागे जेतवने निसिन्‍नो भिक्खुनियो पटिपाटिया ठानन्तरे ठपेन्तो खेमाथेरिं महापञ्‍ञानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">उप्पलवण्णाथेरीवत्थु</p>

<p rend="bodytext" n="237"><hi rend="paranum">२३७</hi><hi rend="dot">.</hi> ततिये <hi rend="bold">उप्पलवण्णा</hi>ति नीलुप्पलगब्भसदिसेनेव वण्णेन समन्‍नागतत्ता एवंलद्धनामा थेरी। सा किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे पटिसन्धिं गण्हित्वा अपरभागे महाजनेन सद्धिं सत्थु सन्तिकं गन्त्वा धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं इद्धिमन्तीनं अग्गट्ठाने ठपेन्तं दिस्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा तं ठानन्तरं पत्थेसि। सा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्ती कस्सपबुद्धकाले बाराणसिनगरे किकिस्स कासिरञ्‍ञो गेहे पटिसन्धिं गण्हित्वा सत्तन्‍नं भगिनीनं अब्भन्तरा हुत्वा वीसति वस्ससहस्सानि <pb ed="M" n="1.0267"/> ब्रह्मचरियं चरित्वा भिक्खुसङ्घस्स परिवेणं कत्वा देवलोके निब्बत्ता।</p>

<p rend="bodytext">ततो चवित्वा पुन मनुस्सलोकं आगच्छन्ती एकस्मिं गामे सहत्था कम्मं कत्वा जीवनकट्ठाने निब्बत्ता। सा एकदिवसं खेत्तकुटिं गच्छन्ती अन्तरामग्गे एकस्मिं सरे पातोव पुप्फितं पदुमपुप्फं दिस्वा तं सरं ओरुय्ह तञ्‍चेव पुप्फं लाजपक्खिपनत्थाय पदुमिनिया पत्तञ्‍च गहेत्वा केदारे <pb ed="P" n="1.0346"/> सालिसीसानि छिन्दित्वा कुटिकाय निसिन्‍ना लाजे भज्‍जित्वा पञ्‍च लाजसतानि गणेसि। तस्मिं खणे गन्धमादनपब्बते निरोधसमापत्तितो वुट्ठितो एको पच्‍चेकबुद्धो आगन्त्वा तस्सा अविदूरे अट्ठासि। सा पच्‍चेकबुद्धं दिस्वा लाजेहि सद्धिं पदुमपुप्फं गहेत्वा कुटितो ओरुय्ह लाजे पच्‍चेकबुद्धस्स पत्ते पक्खिपित्वा पदुमपुप्फेन पत्तं पिधाय अदासि। अथस्सा पच्‍चेकबुद्धे थोकं गते एतदहोसि – ‘‘पब्बजिता नाम पुप्फेन अनत्थिका, अहं पुप्फं गहेत्वा पिळन्धिस्सामी’’ति गन्त्वा पच्‍चेकबुद्धस्स हत्थतो पुप्फं गहेत्वा पुन चिन्तेसि – ‘‘सचे, अय्यो, पुप्फेन अनत्थिको अभविस्स, पत्तमत्थके ठपेतुं न अदस्स, अद्धा अय्यस्स अत्थो भविस्सती’’ति पुन गन्त्वा पत्तमत्थके ठपेत्वा पच्‍चेकबुद्धं खमापेत्वा, ‘‘भन्ते <pb ed="V" n="1.0259"/>, इमेसं मे लाजानं निस्सन्देन लाजगणनाय पुत्ता अस्सु, पदुमपुप्फस्स निस्सन्देन निब्बत्तनिब्बत्तट्ठाने मे पदे पदे पदुमपुप्फं उट्ठहतू’’ति पत्थनं अकासि। पच्‍चेकबुद्धो तस्सा पस्सन्तियाव आकासेन गन्धमादनपब्बतं गन्त्वा तं पदुमं नन्दमूलकपब्भारे पच्‍चेकबुद्धानं अक्‍कमनसोपानसमीपे पादपुञ्छनं कत्वा ठपेसि।</p>

<p rend="bodytext">सापि तस्स कम्मस्स निस्सन्देन देवलोके पटिसन्धिं गण्हि, निब्बत्तकालतो पट्ठाय चस्सा पदे पदे महापदुमपुप्फं उट्ठासि। सा ततो चवित्वा पब्बतपादे एकस्मिं पदुमस्सरे पदुमगब्भे निब्बत्ति। तं निस्साय एको तापसो वसति, सो पातोव मुखधोवनत्थाय सरं गन्त्वा तं पुप्फं दिस्वा चिन्तेसि – ‘‘इदं पुप्फं सेसेहि महन्ततरं, सेसानि च पुप्फितानि, इदं मकुळितमेव, भवितब्बमेत्थ कारणेना’’ति उदकं ओतरित्वा तं पुप्फं गण्हि। तं तेन गहितमत्तमेव पुप्फितं। तापसो अन्तोपदुमगब्भे निपन्‍नदारिकं <pb ed="P" n="1.0347"/> अद्दस। दिट्ठकालतो पट्ठाय च धीतुसिनेहं लभित्वा पदुमेनेव सद्धिं पण्णसालं नेत्वा मञ्‍चके निपज्‍जापेसि। अथस्सा <pb ed="M" n="1.0268"/> पुञ्‍ञानुभावेन अङ्गुट्ठके खीरं निब्बत्ति। सो तस्मिं पुप्फे मिलाते अञ्‍ञं नवपुप्फं आहरित्वा तं निपज्‍जापेसि। अथस्सा आधावनविधावनेन कीळितुं समत्थकालतो पट्ठाय पदवारे पदवारे पदुमपुप्फं उट्ठासि, कुङ्कुमरासिस्स वियस्सा सरीरवण्णो अहोसि। सा अप्पत्ता देववण्णं, अतिक्‍कन्ता मानुसवण्णं अहोसि। सा पितरि फलाफलत्थाय गते पण्णसालायं ओहीयति।</p>

<p rend="bodytext">अथेकदिवसं तस्सा वयप्पत्तकाले पितरि फलाफलत्थाय गते एको वनचरको तं दिस्वा चिन्तेसि – ‘‘मनुस्सानं नाम एवंविधं रूपं नत्थि, वीमंसिस्सामि न’’न्ति तापसस्स आगमनं उदिक्खन्तो निसीदि। सा पितरि आगच्छन्ते पटिपथं गन्त्वा तस्स हत्थतो काजकमण्डलुं अग्गहेसि, आगन्त्वा निसिन्‍नस्स चस्स अत्तना करणवत्तं दस्सेसि। तदा सो वनचरको मनुस्सभावं ञत्वा तापसं अभिवादेत्वा निसीदि। तापसो तं वनचरकं वनमूलफलाफलेहि च पानीयेन च निमन्तेत्वा, ‘‘भो पुरिस, इमस्मिंयेव ठाने वसिस्ससि, उदाहु गमिसस्सी’’ति पुच्छि। गमिस्सामि, भन्ते, इध किं करिस्सामीति। इदं तया दिट्ठकारणं एत्तो गन्त्वा अकथेतुं सक्खिस्ससीति। सचे, अय्यो, न इच्छति, किं कारणा कथेस्सामीति तापसं वन्दित्वा पुन आगमनकाले मग्गसञ्‍जाननत्थं <pb ed="P" n="1.0348"/> साखासञ्‍ञञ्‍च रुक्खसञ्‍ञञ्‍च करोन्तो पक्‍कामि।</p>

<p rend="bodytext">सो <pb ed="V" n="1.0260"/> बाराणसिं गन्त्वा राजानं अद्दस, राजा ‘‘कस्मा आगतोसी’’ति पुच्छि। ‘‘अहं, देव, तुम्हाकं वनचरको पब्बतपादे अच्छरियं इत्थिरतनं दिस्वा आगतोम्ही’’ति सब्बं पवत्तिं कथेसि। सो तस्स वचनं सुत्वा वेगेन पब्बतपादं गन्त्वा अविदूरे ठाने खन्धावारं निवेसेत्वा वनचरकेन चेव अञ्‍ञेहि च पुरिसेहि सद्धिं तापसस्स भत्तकिच्‍चं कत्वा निसिन्‍नवेलाय तत्थ गन्त्वा अभिवादेत्वा पटिसन्थारं कत्वा एकमन्तं निसीदि। राजा तापसस्स पब्बजितपरिक्खारभण्डं पादमूले ठपेत्वा, ‘‘भन्ते, इमस्मिं ठाने किं करोम, गच्छामा’’ति आह। गच्छ, महाराजाति। आम, गच्छामि, भन्ते। अय्यस्स पन समीपे विसभागपरिसा अत्थीति अस्सुम्ह, असारुप्पा एसा पब्बजितानं, मया सद्धिं गच्छतु, भन्तेति। मनुस्सानं चित्तं नाम दुत्तोसयं, कथं बहूनं मज्झे वसिस्सतीति <pb ed="M" n="1.0269"/>। अम्हाकं रुचितकालतो पट्ठाय सेसानं जेट्ठकट्ठाने ठपेत्वा पटिजग्गिस्सामि, भन्तेति।</p>

<p rend="bodytext">सो रञ्‍ञो कथं सुत्वा दहरकाले गहितनामवसेनेव, ‘‘अम्म, पदुमवती’’ति धीतरं पक्‍कोसि। सा एकवचनेनेव पण्णसालतो निक्खमित्वा पितरं अभिवादेत्वा अट्ठासि। अथ नं पिता आह – ‘‘त्वं, अम्म, वयप्पत्ता, इमस्मिं ठाने रञ्‍ञा दिट्ठकालतो पट्ठाय वसितुं अयुत्ता, रञ्‍ञा सद्धिं गच्छ, अम्मा’’ति। सा ‘‘साधु, ताता’’ति पितु वचनं सम्पटिच्छित्वा अभिवादेत्वा परोदमाना अट्ठासि। राजा ‘‘इमिस्सा <pb ed="P" n="1.0349"/> पितु चित्तं गण्हामी’’ति तस्मिंयेव ठाने कहापणरासिम्हि ठपेत्वा अभिसेकं अकासि। अथ नं गहेत्वा अत्तनो नगरं आनेत्वा आगतकालतो पट्ठाय सेसइत्थियो अनोलोकेत्वा ताय सद्धिंयेव रमति। ता इत्थियो इस्सापकता तं रञ्‍ञो अन्तरे परिभिन्दितुकामा एवमाहंसु – ‘‘नायं, महाराज, मनुस्सजातिका, कहं नाम तुम्हेहि मनुस्सानं विचरणट्ठाने पदुमानि उट्ठहन्तानि दिट्ठपुब्बानि, अद्धा अयं यक्खिनी, नीहरथ नं महाराजा’’ति। राजा तासं कथं सुत्वा तुण्ही अहोसि।</p>

<p rend="bodytext">अथस्स अपरेन समयेन पच्‍चन्तो कुपितो। सो ‘‘गरुगब्भा पदुमवती’’ति तं नगरे ठपेत्वा पच्‍चन्तं अगमासि। अथ ता इत्थियो तस्सा उपट्ठायिकाय लञ्‍जं दत्वा ‘‘इमिस्सा दारकं जातमत्तमेव अपनेत्वा एकं दारुघटिकं लोहितेन मक्खेत्वा सन्तिके ठपेही’’ति आहंसु। पदुमवतियापि नचिरस्सेव गब्भवुट्ठानं अहोसि। महापदुमकुमारो एककोव कुच्छियं पटिसन्धिं गण्हि। अवसेसा एकूनपञ्‍चसता दारका महापदुमकुमारस्स मातुकुच्छितो निक्खमित्वा निपन्‍नकाले संसेदजा हुत्वा निब्बत्तिंसु। अथस्स ‘‘न तावायं सतिं <pb ed="V" n="1.0261"/> पटिलभती’’ति ञत्वा उपट्ठायिका एकं दारुघटिकं लोहितेन मक्खेत्वा समीपे ठपेत्वा तासं इत्थीनं सञ्‍ञं अदासि। ता पञ्‍चसतापि इत्थियो एकेका एकेकं दारकं गहेत्वा चुन्दकारकानं सन्तिकं पेसेत्वा करण्डके आहरापेत्वा <pb ed="M" n="1.0270"/> अत्तना अत्तना गहितदारके तत्थ निपज्‍जापेत्वा बहि लञ्छनं कत्वा ठपयिंसु।</p>

<p rend="bodytext">पदुमवतीपि खो सञ्‍ञं लभित्वा <pb ed="P" n="1.0350"/> तं उपट्ठायिकं ‘‘किं विजातम्हि, अम्मा’’ति पुच्छि। सा तं सन्तज्‍जेत्वा ‘‘कुतो त्वं दारकं लभिस्ससी’’ति वत्वा ‘‘अयं ते कुच्छितो निक्खन्तदारको’’ति लोहितमक्खितं दारुघटिकं पुरतो ठपेसि। सा तं दिस्वा दोमनस्सप्पत्ता ‘‘सीघं नं फालेत्वा अपनेहि, सचे कोचि पस्सेय्य लज्‍जितब्बं भवेय्या’’ति आह। सा तस्सा कथं सुत्वा अत्थकामा विय दारुघटिकं फालेत्वा उद्धने पक्खिपि।</p>

<p rend="bodytext">राजापि पच्‍चन्ततो आगन्त्वा नक्खत्तं पटिमानेन्तो बहिनगरे खन्धावारं बन्धित्वा निसीदि। अथ ता पञ्‍चसता इत्थियो रञ्‍ञो पच्‍चुग्गमनं आगन्त्वा आहंसु – ‘‘त्वं, महाराज, न अम्हाकं सद्दहसि, अम्हेहि वुत्तं अकारणं विय होति। त्वं महेसिया उपट्ठायिकं पक्‍कोसापेत्वा पटिपुच्छ, दारुघटिकं ते देवी विजाता’’ति। राजा तं कारणं न उपपरिक्खित्वाव ‘‘अमनुस्सजातिका भविस्सती’’ति तं गेहतो निक्‍कड्ढि। तस्सा राजगेहतो सह निक्खमनेनेव पदुमपुप्फानि अन्तरधायिंसु, सरीरच्छविपि विवण्णा अहोसि। सा एकिकाव अन्तरवीथिया पायासि। अथ नं एका वयप्पत्ता महल्‍लिका इत्थी दिस्वा धीतुसिनेहं उप्पादेत्वा ‘‘कहं गच्छसि अम्मा’’ति आह। आगन्तुकम्हि, वसनट्ठानं ओलोकेन्ती विचरामीति। इधागच्छ, अम्माति वसनट्ठानं दत्वा भोजनं पटियादेसि।</p>

<p rend="bodytext">तस्सा इमिनाव नियामेन तत्थ वसमानाय ता पञ्‍चसता इत्थियो एकचित्ता हुत्वा राजानं आहंसु – ‘‘महाराज, तुम्हेसु युद्धं गतेसु अम्हेहि गङ्गादेवताय ‘अम्हाकं देवे विजितसङ्गामे आगते बलिकम्मं कत्वा उदककीळं करिस्सामा’ति पत्थितं अत्थि, एतमत्थं <pb ed="P" n="1.0351"/>, देव, जानापेमा’’ति। राजा तासं वचनेन तुट्ठो गङ्गायं उदककीळं कातुं अगमासि। तापि अत्तना अत्तना गहितं करण्डकं पटिच्छन्‍नं कत्वा आदाय नदिं गन्त्वा तेसं करण्डकानं पटिच्छादनत्थं पारुपित्वा पारुपित्वा उदके पतित्वा करण्डके विस्सज्‍जेसुं। तेपि खो करण्डका सब्बे सह गन्त्वा हेट्ठासोते पसारितजालम्हि लग्गिंसु। ततो उदककीळं कीळित्वा रञ्‍ञो <pb ed="V" n="1.0262"/> <pb ed="M" n="1.0271"/> उत्तिण्णकाले जालं उक्खिपन्ता ते करण्डके दिस्वा रञ्‍ञो सन्तिकं आनयिंसु। राजा करण्डके दिस्वा ‘‘किं, ताता, करण्डकेसू’’ति आह। न जानाम, देवाति। सो ते करण्डके विवरापेत्वा ओलोकेन्तो पठमं महापदुमकुमारस्स करण्डकं विवरापेसि। तेसं पन सब्बेसम्पि करण्डकेसु निपज्‍जापितदिवसेयेव पुञ्‍ञिद्धिया अङ्गुट्ठतो खीरं निब्बत्ति। सक्‍को देवराजा तस्स रञ्‍ञो निक्‍कङ्खभावत्थं अन्तोकरण्डके अक्खरानि लिखापेसि ‘‘इमे कुमारा पदुमवतिया कुच्छिम्हि निब्बत्ता बाराणसिरञ्‍ञो पुत्ता, अथ ने पदुमवतिया सपत्तियो पञ्‍चसता इत्थियो करण्डकेसु पक्खिपित्वा उदके खिपिंसु, राजा इमं कारणं जानातू’’ति। करण्डके विवरितमत्ते राजा अक्खरानि वाचेत्वा दारके दिस्वा महापदुमकुमारं उक्खिपित्वा ‘‘वेगेन रथे योजेथ, अस्से कप्पेथ, अहं अज्‍ज अन्तोनगरं पविसित्वा एकच्‍चानं मातुगामानं पियं करिस्सामी’’ति पासादं आरुय्ह हत्थिगीवाय सहस्सभण्डिकं ठपेत्वा भेरिं चरापेसि ‘‘यो पदुमवतिं पस्सति, सो इमं सहस्सं गण्हतू’’ति।</p>

<p rend="bodytext">तं कथं सुत्वा पदुमवती मातुया सञ्‍ञं अदासि – ‘‘हत्थिगीवतो सहस्सं गण्ह, अम्मा’’ति। अहं एवरूपं गण्हितुं न विसहामीति। सा दुतियम्पि ततियम्पि वुत्ते, ‘‘किं वत्वा गण्हामि अम्मा’’ति आह। ‘‘मम धीता, पदुमवतिं <pb ed="P" n="1.0352"/> देविं पस्सती’’ति वत्वा गण्हाहीति। सा ‘‘यं वा तं वा होतू’’ति गन्त्वा सहस्सचङ्कोटकं गण्हि। अथ नं मनुस्सा पुच्छिंसु – ‘‘पदुमवतिं देविं पस्ससि, अम्मा’’ति। ‘‘अहं न पस्सामि, धीता किर मे पस्सती’’ति आह। ते ‘‘कहं पन सा, अम्मा’’ति वत्वा ताय सद्धिं गन्त्वा पदुमवतिं सञ्‍जानित्वा पादेसु निपतिंसु। तस्मिं काले सा ‘‘पदुमवती देवी अय’’न्ति ञत्वा ‘‘भारियं वत इत्थिया कम्मं कतं, या एवंविधस्स रञ्‍ञो महेसी समाना एवरूपे ठाने निरारक्खा वसी’’ति आह। तेपि राजपुरिसा पदुमवतिया निवेसनं सेतसाणीहि परिक्खिपापेत्वा द्वारे आरक्खं ठपेत्वा रञ्‍ञो आरोचेसुं। राजा सुवण्णसिविकं पेसेसि। सा ‘‘अहं एवं न गमिस्सामि, मम वसनट्ठानतो पट्ठाय याव राजगेहं एत्थन्तरे वरपोत्थकचित्तत्थरणे अत्थरापेत्वा उपरि सुवण्णतारकविचित्तं चेलवितानं बन्धापेत्वा पसाधनत्थाय <pb ed="M" n="1.0272"/> सब्बालङ्कारेसु पहितेसु पदसाव गमिस्सामि, एवं मे नागरा सम्पत्तिं पस्सिस्सन्ती’’ति आह। राजा ‘‘पदुमवतिया यथारुचिं करोथा’’ति आह। ततो पदुमवती सब्बपसाधनं पसाधेत्वा ‘‘राजगेहं गमिस्सामी’’ति मग्गं पटिपज्‍जि। अथस्सा अक्‍कन्तअक्‍कन्तट्ठाने वरपोत्थकचित्तत्थरणानि भिन्दित्वा <pb ed="V" n="1.0263"/> पदुमपुप्फानि उट्ठहिंसु। सा महाजनस्स अत्तनो सम्पत्तिं दस्सेत्वा राजनिवेसनं आरुय्ह सब्बे चित्तत्थरणे तस्सा महल्‍लिकाय पोसावनिकमूलं कत्वा दापेसि।</p>

<p rend="bodytext">राजापि खो ता पञ्‍चसता इत्थियो पक्‍कोसापेत्वा ‘‘इमायो ते देवि दासियो कत्वा देमी’’ति आह। साधु, महाराज, एतासं मय्हं दिन्‍नभावं सकलनगरे जानापेहीति <pb ed="P" n="1.0353"/>। राजा नगरे भेरिं चरापेसि – ‘‘पदुमवतिया दूब्भिका पञ्‍चसता इत्थियो एतिस्सा एव दासियो कत्वा दिन्‍ना’’ति। सा ‘‘तासं सकलनगरेन दासिभावो सल्‍लक्खितो’’ति ञत्वा ‘‘अहं मम दासियो भुजिस्सा कातुं लभामि देवा’’ति राजानं पुच्छि। तव इच्छा देवीति। एवं सन्ते तमेव भेरिचारिकं पक्‍कोसापेत्वा ‘‘पदुमवतिदेविया अत्तनो दासियो कत्वा दिन्‍ना पञ्‍चसता इत्थियो सब्बाव भुजिस्सा कताति पुन भेरिं चरापेथा’’ति आह। सा तासं भुजिस्सभावे कते एकूनानि पञ्‍चसत्तपुत्तानि तासंयेव हत्थे पोसनत्थाय दत्वा सयं महापदुमकुमारंयेव गण्हि।</p>

<p rend="bodytext">अथ अपरभागे तेसं कुमारानं कीळनवये सम्पत्ते राजा उय्याने नानाविधं कीळनट्ठानं कारेसि। ते अत्तनो सोळसवस्सुद्देसिककाले सब्बेव एकतो हुत्वा उय्याने पदुमसञ्छन्‍नाय मङ्गलपोक्खरणिया कीळन्ता नवपदुमानि पुप्फितानि पुराणपदुमानि च वण्टतो पतन्तानि दिस्वा ‘‘इमस्स ताव अनुपादिन्‍नकस्स एवरूपा जरा पापुणाति, किमङ्गं पन अम्हाकं सरीरस्स। इदम्पि हि एवंगतिकमेव भविस्सती’’ति आरम्मणं गहेत्वा सब्बेव पच्‍चेकबोधिञाणं निब्बत्तेत्वा उट्ठायुट्ठाय पदुमकण्णिकासु पल्‍लङ्केन निसीदिंसु।</p>

<p rend="bodytext">अथ तेहि सद्धिं आगता राजपुरिसा बहुगतं दिवसं ञत्वा ‘‘अय्यपुत्ता तुम्हाकं वेलं जानाथा’’ति आहंसु। ते तुण्ही अहेसुं। ते <pb ed="M" n="1.0273"/> पुरिसा गन्त्वा रञ्‍ञो आरोचेसुं – ‘‘कुमारा देव, पदुमकण्णिकासु निसिन्‍ना, अम्हेसु कथेन्तेसुपि वचीभेदं न करोन्ती’’ति। यथारुचिया तेसं <pb ed="P" n="1.0354"/> निसीदितुं देथाति। ते सब्बरत्तिं गहितारक्खा पदुमकण्णिकासु निसिन्‍ननियामेनेव अरुणं उट्ठापेसुं। पुरिसा पुनदिवसे उपसङ्कमित्वा ‘‘देवा वेलं जानाथा’’ति आहंसु। न मयं देवा, पच्‍चेकबुद्धा नाम मयन्ति। अय्या, तुम्हे भारियं कथं कथेथ, पच्‍चेकबुद्धा नाम तुम्हादिसा न होन्ति, द्वङ्गुलकेसमस्सुधरा काये पटिमुक्‍कअट्ठपरिक्खारा होन्तीति। ते दक्खिणहत्थेन <pb ed="V" n="1.0264"/> सीसं परामसिंसु। तावदेव गिहिलिङ्गं अन्तरधायि, अट्ठ परिक्खारा काये पटिमुक्‍काव अहेसुं। ततो पस्सन्तस्सेव महाजनस्स आकासेन नन्दमूलकपब्भारं अगमंसु।</p>

<p rend="bodytext">सापि खो, पदुमवती देवी, ‘‘अहं बहुपुत्ता हुत्वा निपुत्ता जाता’’ति हदयसोकं पत्वा तेनेव सोकेन कालं कत्वा राजगहनगरद्वारगामके सहत्थेन कम्मं कत्वा जीवनकट्ठाने निब्बत्ति। अपरभागे कुलघरं गन्त्वा एकदिवसं सामिकस्स खेत्तं यागुं हरमाना तेसं अत्तनो पुत्तानं अन्तरे अट्ठ पच्‍चेकबुद्धे भिक्खाचारवेलाय आकासेन गच्छन्ते दिस्वा सीघं सीघं गन्त्वा सामिकस्स आरोचेसि – ‘‘पस्स, अय्य, पच्‍चेकबुद्धे, एते निमन्तेत्वा भोजेस्सामा’’ति। सो आह – ‘‘समणसकुणा नामेते अञ्‍ञत्थापि एवं चरन्ति, न एते पच्‍चेकबुद्धा’’ति। ते तेसं कथेन्तानंयेव अविदूरे ठाने ओतरिंसु। सा इत्थी तंदिवसं अत्तनो भत्तखज्‍जभोजनं तेसं दत्वा ‘‘स्वेपि अट्ठ <pb ed="P" n="1.0355"/> जना मय्हं भिक्खं गण्हथा’’ति आह। साधु, उपासिके, तव सक्‍कारो एत्तकोव होतु, आसनानि च अट्ठेव होन्तु, अञ्‍ञेपि बहू पच्‍चेकबुद्धे दिस्वा तव चित्तं पसादेय्यासीति। सा पुनदिवसे अट्ठ आसनानि पञ्‍ञापेत्वा अट्ठन्‍नं सक्‍कारसम्मानं पटियादेत्वा निसीदि।</p>

<p rend="bodytext">निमन्तितपच्‍चेकबुद्धा सेसानं सञ्‍ञं अदंसु – ‘‘मारिसा, अज्‍ज अञ्‍ञत्थ अगन्त्वा सब्बेव तुम्हाकं मातु सङ्गहं करोथा’’ति। ते तेसं वचनं सुत्वा सब्बेव एकतो आकासेन आगन्त्वा मातु-गेहद्वारे पातुरहेसुं। सापि पठमं लद्धसञ्‍ञताय बहूपि दिस्वा न कम्पित्थ, सब्बेपि ते <pb ed="M" n="1.0274"/> गेहं पवेसेत्वा आसनेसु निसीदापेसि। तेसु पटिपाटिया निसीदन्तेसु नवमो अञ्‍ञानि अट्ठ आसनानि मापेत्वा सयं धुरासने निसीदि। याव आसनानि वड्ढन्ति, ताव गेहं वड्ढति। एवं तेसु सब्बेसुपि निसिन्‍नेसु सा इत्थी अट्ठन्‍नं पच्‍चेकबुद्धानं पटियादितं सक्‍कारं पञ्‍चसतानम्पि यावदत्थं दत्वा अट्ठ नीलुप्पलहत्थके आहरित्वा निमन्तितपच्‍चेकबुद्धानंयेव पादमूले ठपेत्वा आह – ‘‘मय्हं, भन्ते, निब्बत्तनिब्बत्तट्ठाने सरीरवण्णो इमेसं नीलुप्पलानं अन्तोगब्भवण्णो विय होतू’’ति पत्थनं अकासि। पच्‍चेकबुद्धा मातु अनुमोदनं कत्वा गन्धमादनंयेव अगमंसु।</p>

<p rend="bodytext">सापि यावजीवं कुसलं कत्वा ततो चुता देवलोके निब्बत्तित्वा इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिकुले पटिसन्धिं गण्हि, नीलुप्पलगब्भसमानवण्णताय चस्सा उप्पलवण्णात्वेव नामं <pb ed="V" n="1.0265"/> अकंसु। अथस्सा वयप्पत्तकाले सकलजम्बुदीपराजानो च सेट्ठिनो च सेट्ठिस्स सन्तिकं पहिणिंसु – ‘‘धीतरं अम्हाकं देतू’’ति <pb ed="P" n="1.0356"/>। अपहिणन्तो नाम नाहोसि। ततो सेट्ठि चिन्तेसि – ‘‘अहं सब्बेसं मनं गहेतुं न सक्खिस्सामि, उपायं पनेकं करिस्सामी’’ति धीतरं पक्‍कोसापेत्वा ‘‘पब्बजितुं अम्म सक्खिस्ससी’’ति आह। तस्सा पच्छिमभविकत्ता पितुवचनं सीसे आसित्तसतपाकतेलं विय अहोसि, तस्मा पितरं ‘‘पब्बजिस्सामि, ताता’’ति आह। सो तस्सा सक्‍कारं कत्वा भिक्खुनिउपस्सयं नेत्वा पब्बाजेसि। तस्सा अचिरपब्बजिताय एव उपोसथागारे कालवारो पापुणि। सा दीपं जालेत्वा उपोसथागारं सम्मज्‍जित्वा दीपसिखाय निमित्तं गण्हित्वा पुनप्पुनं ओलोकयमाना तेजोकसिणारम्मणं झानं निब्बत्तेत्वा तदेव पादकं कत्वा अरहत्तं पापुणि। अरहत्तफलेन सद्धिंयेव च इद्धिविकुब्बने चिण्णवसी अहोसि। सा अपरभागे सत्थु यमकपाटिहारियकरणदिवसे ‘‘अहं, भन्ते, पाटिहारियं करिस्सामी’’ति सीहनादं नदि। सत्था इदं कारणं अट्ठुप्पत्तिं कत्वा जेतवनविहारे निसिन्‍नो पटिपाटिया भिक्खुनियो ठानन्तरे ठपेन्तो इमं थेरिं इद्धिमन्तीनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">पटाचाराथेरीवत्थु</p>

<p rend="bodytext" n="238"><hi rend="paranum">२३८</hi><hi rend="dot">.</hi> चतुत्थे <pb ed="M" n="1.0275"/> <hi rend="bold">विनयधरानं यदिदं पटाचारा</hi>ति पटाचारा थेरी विनयधरानं अग्गाति दस्सेति। सा किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे पटिसन्धिं गण्हित्वा अपरभागे सत्थु धम्मदेसनं सुणन्ती सत्थारं एकं भिक्खुनिं विनयधरानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा यावजीवं कुसलं कत्वा देवमनुस्सेसु <pb ed="P" n="1.0357"/> संसरित्वा कस्सपबुद्धकाले किकिस्स कासिरञ्‍ञो गेहे पटिसन्धिं गण्हित्वा सत्तन्‍नं भगिनीनं अब्भन्तरा हुत्वा वीसति वस्ससहस्सानि ब्रह्मचरियं चरित्वा भिक्खुसङ्घस्स परिवेणं कत्वा पुन देवलोके निब्बत्तित्वा एकं बुद्धन्तरं सम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिगेहे पटिसन्धिं गण्हि।</p>

<p rend="bodytext">सा अपरभागे वयप्पत्ता अत्तनो गेहे एकेन कम्मकारेन सद्धिं सन्थवं कत्वा अपरभागे अत्तनो समानजातिकं कुलं गच्छन्ती कतसन्थवस्स पुरिसस्स सञ्‍ञं अदासि – ‘‘न त्वं स्वे पट्ठाय मं पटिहारसतेनपि दट्ठुं लभिस्ससि, सचे ते कम्मं अत्थि, इदानि मं गण्हित्वा <pb ed="V" n="1.0266"/> गच्छाही’’ति। सो ‘‘एवं होतू’’ति अनुच्छविकं हत्थसारं गहेत्वा तं आदाय नगरतो तीणि चत्तारि योजनानि पटिक्‍कमित्वा एकस्मिं गामके वासं कप्पेसि।</p>

<p rend="bodytext">अथ अपरभागे तस्सा कुच्छियं गब्भो पतिट्ठासि। सा गब्भे परिपक्‍के ‘‘इदं अम्हाकं अनाथट्ठानं, कुलगेहं गच्छाम सामी’’ति आह। सो ‘‘अज्‍ज गच्छाम, स्वे गच्छामा’’ति गन्तुं असक्‍कोन्तो कालं वीतिनामेसि। सा तस्स कारणं ञत्वा ‘‘नायं बालो मं नेस्सती’’ति तस्मिं बहि गते ‘‘एकिकाव कुलगेहं गमिस्सामी’’ति मग्गं पटिपज्‍जि। सो आगन्त्वा तं गेहे अपस्सन्तो पटिविस्सके पुच्छित्वा ‘‘कुलगेहं गता’’ति सुत्वा ‘‘मं निस्साय कुलधीता अनाथा जाता’’ति पदानुपदिकं गन्त्वा सम्पापुणि। तस्सा अन्तरामग्गेव गब्भवुट्ठानं अहोसि। ततो ‘‘यस्सत्थाय मयं गच्छेय्याम, सो अत्थो अन्तरामग्गेव निप्फन्‍नो, इदानि गन्त्वा किं करिस्सामा’’ति पटिनिवत्तिंसु। पुन तस्सा कुच्छियं गब्भो पतिट्ठासीति पुरिमनयेनेव वित्थारेतब्बं।</p>

<p rend="bodytext">अन्तरामग्गे <pb ed="M" n="1.0276"/> पनस्सा गब्भवुट्ठाने जातमत्तेयेव चतूसु दिसासु महामेघो उट्ठहि। सा तं पुरिसं आह – ‘‘सामि, अवेलाय चतूसु दिसासु मेघो उट्ठितो, अत्तनो <pb ed="P" n="1.0358"/> वसनट्ठानं कातुं वायमाही’’ति। सो ‘‘एवं करिस्सामी’’ति दण्डकेहि कुटिकं कत्वा ‘‘छदनत्थाय तिणं आहरिस्सामी’’ति एकस्मिं महावम्मिकपादे तिणं छिन्दति। अथ नं वम्मिके निपन्‍नो कण्हसप्पो पादे डंसि, सो तस्मिंयेव ठाने पतितो। सापि ‘‘इदानि आगमिस्सति, इदानि आगमिस्सती’’ति सब्बरत्तिं खेपेत्वा ‘‘अद्धा मं सो ‘अनाथा एसा’ति मग्गे छड्डेत्वा गतो भविस्सती’’ति आलोके सञ्‍जाते पदानुसारेन ओलोकेन्ती वम्मिकपादे पतितं दिस्वा ‘‘मं निस्साय नट्ठो पुरिसो’’ति परिदेवित्वा दहरदारकं पस्सेनादाय महल्‍लकं अङ्गुलीहि गाहापेत्वा मग्गेन गच्छन्ती अन्तरामग्गे एकं उत्ताननदिं दिस्वा ‘‘द्वेपि दारके एकप्पहारेनेव आदाय गन्तुं न सक्खिस्सामी’’ति जेट्ठकं ओरिमतीरे ठपेत्वा दहरं परतीरं नेत्वा पिलोतिकचुम्बटके निपज्‍जापेत्वा पुन निवत्तित्वा ‘‘इतरं गहेत्वा गमिस्सामी’’ति नदिं ओतरि।</p>

<p rend="bodytext">अथस्सा नदीमज्झं पत्तकाले एको सेनो ‘‘मंसपिण्डो अय’’न्ति सञ्‍ञाय दारकं विज्झितुं आगच्छति। सा हत्थं पसारेत्वा सेनं पलापेसि। तस्सा तं हत्थविकारं दिस्वा महल्‍लकदारको ‘‘मं पक्‍कोसती’’ति सञ्‍ञाय नदिं ओतरित्वा सोते पतितो यथासोतं अगमासि <pb ed="V" n="1.0267"/>। सोपि सेनो तस्सा असम्पत्ताय एव तं दहरदारकं गण्हित्वा अगमासि। सा बलवसोकाभिभूता अन्तरामग्गे इमं विलापगीतं गायन्ती गच्छति –</p>

<p rend="gathalast">‘‘उभो पुत्ता कालङ्कता, पन्थे मय्हं पती मतो’’ति॥</p>

<p rend="bodytext">सा एवं विलपमानाव सावत्थिं पत्वा कुलसभागं गन्त्वापि <pb ed="P" n="1.0359"/> सोकवसेनेव अत्तनो गेहं ववत्थपेतुं असक्‍कोन्ती ‘‘इमस्मिं ठाने एवंविधं नाम कुलं अत्थि, कतरं तं गेह’’न्ति पटिपुच्छि। त्वं तं कुलं पटिपुच्छित्वा किं करिस्ससि? तेसं वसनगेहं वातप्पहारेन पतितं, तत्थेव ते सब्बेपि जीवितक्खयं पत्ता, अथ ने खुद्दकमहल्‍लके एकचितकस्मिंयेव झापेन्ति, पस्स एसा धूमवट्टि पञ्‍ञायतीति। सा तं कथं सुत्वाव किं <pb ed="M" n="1.0277"/> तुम्हे वदथा’’ति अत्तनो निवत्थसाटकं सन्धारेतुं असक्‍कोन्ती जातनियामेनेव बाहा पग्गय्ह कन्दमाना ञातीनं चितकट्ठानं गन्त्वा तं विलापगीतं परिपुण्णं कत्वा परिदेवमाना –</p>

<p rend="gatha1">‘‘उभो पुत्ता कालङ्कता, पन्थे मय्हं पती मतो।</p>

<p rend="gathalast">माता पिता च भाता च, एकचितकस्मिं डय्हरे’’ति॥ –</p>

<p rend="unindented">आह। अञ्‍ञेन जनेन साटकं दिन्‍नम्पि फालेत्वा फालेत्वा छड्डेति। अथ नं दिट्ठदिट्ठट्ठाने महाजनो परिवारेत्वा चरति। अथस्सा ‘‘अयं पटाचारं पटपरिहरणं विना चरती’’ति <hi rend="bold">पटाचारा</hi>तेव नामं अकंसु। यस्मा चस्सा सो नग्गभावेन अलज्‍जीआचारो पाकटो अहोसि, तस्मा पतितो आचारो अस्साति पटाचारात्वेव नामं अकंसु।</p>

<p rend="bodytext">सा एकदिवसं सत्थरि महाजनस्स धम्मं देसेन्ते विहारं पविसित्वा परिसपरियन्ते अट्ठासि। सत्था मेत्ताफरणेन फरित्वा ‘‘सतिं पटिलभ, भगिनि, सतिं पटिलभ, भगिनी’’ति आह। तस्सा सत्थु वचनं सुत्वा बलवहिरोत्तप्पं आगतं, सा तत्थेव भूमियं निसीदि। अविदूरे ठितो पुरिसो उत्तरिसाटकं खिपित्वा अदासि। सा तं <pb ed="P" n="1.0360"/> निवासेत्वा धम्मं अस्सोसि। सत्था तस्सा चरियवसेन इमा धम्मपदे गाथा आह –</p>

<p rend="gatha1">‘‘न <pb ed="V" n="1.0268"/> सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा।</p>

<p rend="gathalast">अन्तकेनाधिपन्‍नस्स, नत्थि ञातीसु ताणता॥</p>

<p rend="gatha1">‘‘एतमत्थवसं ञत्वा, पण्डितो सीलसंवुतो।</p>

<p rend="gathalast">निब्बानगमनं मग्गं, खिप्पमेव विसोधये’’ति॥ (ध॰ प॰ २८८-२८९)।</p>

<p rend="bodytext">सा गाथापरियोसाने यथाठिताव सोतापत्तिफले पतिट्ठाय सत्थारं उपसङ्कमित्वा वन्दित्वा पब्बज्‍जं याचि। सत्था ‘‘तस्सा भिक्खुनिउपस्सयं गन्त्वा पब्बजा’’ति पब्बज्‍जं सम्पटिच्छि। सा पब्बजित्वा नचिरस्सेव अरहत्तं पत्वा बुद्धवचनं गण्हन्ती विनयपिटके चिण्णवसी अहोसि। अपरभागे सत्था जेतवने निसिन्‍नो भिक्खुनियो पटिपाटिया ठानन्तरे ठपेन्तो पटाचारं विनयधरानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">धम्मदिन्‍नाथेरीवत्थु</p>

<p rend="bodytext" n="239"><hi rend="paranum">२३९</hi><hi rend="dot">.</hi> पञ्‍चमे <pb ed="M" n="1.0278"/> <hi rend="bold">धम्मकथिकान</hi>न्ति धम्मकथिकानं भिक्खुनीनं धम्मदिन्‍ना अग्गाति दस्सेति। सा किर पदुमुत्तरबुद्धकाले हंसवतियं परायत्तट्ठाने निब्बत्तित्वा पदुमुत्तरस्स भगवतो अग्गसावकस्स सुजातत्थेरस्स अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा यावजीवं कुसलं कत्वा सग्गे निब्बत्ति। सब्बं हेट्ठा खेमाथेरिया अभिनीहारवसेनेव वेदितब्बं। फुस्सबुद्धकाले पनेसा सत्थु वेमातिकानं तिण्णं भातिकानं दानाधिकारे ठपितकम्मिकस्स गेहे वसमाना ‘‘एकं देही’’ति वुत्ता द्वे अदासि। एवं सब्बं अपरिहापेन्ती दत्वा द्वेनवुतिकप्पे अतिक्‍कम्म कस्सपबुद्धकाले <pb ed="P" n="1.0361"/> किकिस्स कासिरञ्‍ञो गेहे पटिसन्धिं गण्हित्वा सत्तन्‍नं भगिनीनं अब्भन्तरा हुत्वा वीसति वस्ससहस्सानि ब्रह्मचरियं चरित्वा भिक्खुसङ्घस्स वसनपरिवेणं कारेत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे कुलगेहे पटिसन्धिं गण्हित्वा अपरभागे विसाखसेट्ठिनो गेहं गता। विसाखसेट्ठि नाम बिम्बिसारस्स सहायको रञ्‍ञा सद्धिं दसबलस्स पठमदस्सनं गन्त्वा धम्मं सुत्वा सोतापत्तिफले पतिट्ठितो, अपरभागे अनागामिफलं सच्छाकासि।</p>

<p rend="bodytext">सो तंदिवसं घरं गन्त्वा सोपानमत्थके ठिताय धम्मदिन्‍नाय हत्थे पसारिते हत्थं अनालम्बित्वाव <pb ed="V" n="1.0269"/> पासादं अभिरुहि। भुञ्‍जमानोपि ‘‘इमं देथ, इमं हरथा’’ति न ब्याहरि। धम्मदिन्‍ना कटच्छुं गहेत्वा परिविसमाना चिन्तेसि – ‘‘अयं मे हत्थालम्बकं देन्तियापि हत्थं न आलम्बि, भुञ्‍जमानोपि किञ्‍चि न कथेति, को नु खो मय्हं दोसो’’ति? अथ नं भुत्ताविं ‘‘को नु खो मे, अय्य, दोसो’’ति पुच्छि। धम्मदिन्‍ने तुय्हं दोसो नत्थि, अहं पन अज्‍ज पट्ठाय सन्थववसेन तुम्हाकं सन्तिके निसीदितुं वा ठातुं वा आहरापेत्वा खादितुं वा भुञ्‍जितुं वा अभब्बो। त्वं सचे इच्छसि, इमस्मिं गेहे वस। नो चे इच्छसि, यत्तकेन ते धनेन अत्थो, तं गण्हित्वा कुलघरं गच्छाहीति। अय्यपुत्त, एवं सन्ते अहं तुम्हेहि छड्डितखेळं वमितवमनं सीसेन उक्खिपित्वा न चरिस्सामि, मय्हं पब्बज्‍जं अनुजानाथाति। विसाखो ‘‘साधु, धम्मदिन्‍ने’’ति रञ्‍ञो आरोचेत्वा धम्मदिन्‍नं सुवण्णसिविकाय भिक्खुनिउपस्सयं पब्बज्‍जत्थाय पेसेसि।</p>

<p rend="bodytext">सा <pb ed="M" n="1.0279"/> पब्बजित्वा चिन्तेसि – ‘‘अयं ताव सेट्ठि घरमज्झे ठितोव दुक्खस्सन्तं अकासि, पब्बज्‍जं लद्धकालतो पट्ठाय पन मयापि दुक्खस्सन्तं कातुं <pb ed="P" n="1.0362"/> वट्टती’’ति आचरियुपज्झायानं सन्तिकं गन्त्वा, ‘‘अय्ये, मय्हं आकिण्णट्ठाने चित्तं न रमति, गामकावासं गच्छामी’’ति आह। थेरियो तस्सा महाकुला निक्खम्म पब्बजितभावेन चित्तं वारेतुं असक्‍कोन्तियो तं गहेत्वा गामकावासं अगमंसु। सा अतीते मद्दितसङ्खारताय नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि। अथस्सा एतदहोसि – ‘‘मय्हं किच्‍चं मत्थकं पत्तं, इध वसित्वा किं करिस्सामि, राजगहमेव गच्छामि, तत्र मं निस्साय बहु ञातिसङ्घो पुञ्‍ञानि करिस्सती’’ति थेरियो गहेत्वा नगरमेव पच्‍चागता।</p>

<p rend="bodytext">विसाखो तस्सा आगतभावं ञत्वा ‘‘सीघं आगता उक्‍कण्ठिता नु खो भविस्सती’’ति सायन्हसमये तस्सा सन्तिकं गन्त्वा अभिवादेत्वा एकमन्तं निसिन्‍नो ‘‘उक्‍कण्ठितभावं पुच्छितुं अयुत्त’’न्ति पञ्‍चक्खन्धादिवसेन पञ्हे पुच्छि, धम्मदिन्‍ना खग्गेन उप्पलनालं छिन्दन्ती विय पुच्छितं पुच्छितं विस्सज्‍जेसि। उपासको धम्मदिन्‍नाथेरिया ञाणस्स सूरभावं ञत्वा अत्तनो अधिगतट्ठाने पटिपाटिया तीसु मग्गेसु सब्बाकारेन पञ्हे पुच्छित्वा उग्गहवसेन अरहत्तमग्गेपि पुच्छि। धम्मदिन्‍नाथेरीपि उपासकस्स याव अनागामिफलाव विसयभावं ञत्वा ‘‘इदानि अत्तनो विसयं अतिक्‍कमित्वा धावती’’ति तं निवत्तेन्ती ‘‘अच्‍चसरा, आवुसो विसाख, पञ्हे, नासक्खि पञ्हानं परियन्तं गहेतुं, निब्बानोगधञ्हि <pb ed="V" n="1.0270"/>, आवुसो विसाख, ब्रह्मचरियं निब्बानपरायणं निब्बानपरियोसानं। आकङ्खमानो च त्वं, आवुसो विसाख, भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छेय्यासि। यथा च ते भगवा ब्याकरोति, तथा नं धारेय्यासी’’ति (म॰ नि॰ १.४६६) आह।</p>

<p rend="bodytext">विसाखो <pb ed="P" n="1.0363"/> सत्थु सन्तिकं गन्त्वा सब्बं पुच्छाविस्सज्‍जननयं कथेसि। सत्था तस्स वचनं सुत्वा ‘‘मम धीताय अतीतानागतपच्‍चुप्पन्‍नेसु खन्धेसु तण्हा नत्थी’’ति वत्वा धम्मपदे इमं गाथमाह –</p>

<p rend="gatha1">‘‘यस्स पुरे च पच्छा च, मज्झे च नत्थि किञ्‍चनं।</p>

<p rend="gathalast">अकिञ्‍चनं अनादानं, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ४२१)।</p>

<p rend="bodytext">ततो <pb ed="M" n="1.0280"/> धम्मदिन्‍नाय साधुकारं दत्वा विसाखं उपासकं एतदवोच – ‘‘पण्डिता, विसाख, धम्मदिन्‍ना भिक्खुनी, महापञ्‍ञा विसाख, धम्मदिन्‍ना भिक्खुनी। मं चेपि त्वं, विसाख, एतमत्थं पुच्छेय्यासि, अहम्पि तं एवमेव ब्याकरेय्यं, यथा तं धम्मदिन्‍नाय भिक्खुनिया ब्याकतं, एसो चेवेतस्स अत्थो, एवञ्‍च नं धारेही’’ति। एवमेतं वत्थु समुट्ठितं। अपरभागे सत्था जेतवने निसिन्‍नो पटिपाटिया भिक्खुनियो ठानन्तरे ठपेन्तो इदमेव चूळवेदल्‍लं अट्ठुप्पत्तिं कत्वा थेरिं इमस्मिं सासने धम्मकथिकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">नन्दाथेरीवत्थु</p>

<p rend="bodytext" n="240"><hi rend="paranum">२४०</hi><hi rend="dot">.</hi> छट्ठे <hi rend="bold">झायीनं यदिदं नन्दा</hi>ति झानाभिरतानं, नन्दा थेरी, अग्गाति दस्सेति। सा किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे पटिसन्धिं गहेत्वा अपरभागे सत्थु धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं झानाभिरतानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा ततो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव महापजापतिगोतमिया कुच्छिम्हि पटिसन्धिं गण्हि, नन्दातिस्सा <pb ed="P" n="1.0364"/> नामं अकंसु। रूपनन्दातिपि वुच्‍चति। सा अपरभागे उत्तमरूपभावेन जनपदकल्याणी नाम जाता।</p>

<p rend="bodytext">सा <pb ed="V" n="1.0271"/> अम्हाकं दसबले सब्बञ्‍ञुतं पत्वा अनुपुब्बेन कपिलवत्थुं आगन्त्वा नन्दञ्‍च राहुलञ्‍च पब्बाजेत्वा पक्‍कन्ते सुद्धोदनमहाराजस्स परिनिब्बुतकाले ‘‘महापजापतिगोतमी च राहुलमाता च निक्खमित्वा सत्थु सन्तिके पब्बजिता’’ति ञत्वा ‘‘इमासं पब्बजितकालतो पट्ठाय मय्हं इध किं कम्म’’न्ति महापजापतिया सन्तिकं गन्त्वा पब्बजि। पब्बजितदिवसतो पट्ठाय ‘‘सत्था रूपं गरहती’’ति सत्थु उपट्ठानं न गच्छति, ओवादवारे सम्पत्ते अञ्‍ञं पेसेत्वा ओवादं आहरापेति। सत्था तस्सा रूपमदमत्तभावं ञत्वा ‘‘अत्तनो ओवादं अत्तनाव आगन्त्वा गण्हन्तु, न भिक्खुनीहि अञ्‍ञा पेसेतब्बा’’ति आह। ततो रूपनन्दा अञ्‍ञं मग्गं अपस्सन्ती अकामा ओवादं अगमासि।</p>

<p rend="bodytext">सत्था तस्सा चरितवसेन इद्धिया एकं इत्थिरूपं निम्मिनित्वा तालवण्टं गहेत्वा बीजमानं विय अकासि। रूपनन्दा तं दिस्वा चिन्तेसि – ‘‘अहं अकारणेनेव पमत्ता हुत्वा नागच्छामि, एवरूपापि इत्थियो सत्थु सन्तिके <pb ed="M" n="1.0281"/> विस्सत्था चरन्ति। मम रूपं एतासं रूपस्स कलं नाग्घति सोळसिं, अजानित्वाव एत्तकं कालं न आगतम्ही’’ति तमेव इत्थिनिमित्तं गण्हित्वा ओलोकेन्ती अट्ठासि। सत्था तस्सा पुब्बहेतुसम्पन्‍नताय ‘‘अट्ठीनं नगरं कत’’न्ति (ध॰ प॰ १५०) धम्मपदे गाथं वत्वा –</p>

<p rend="gathalast">‘‘चरं वा यदि वा तिट्ठं, निसिन्‍नो उद वा सय’’न्ति॥ (सु॰ नि॰ १९५) –</p>

<p rend="unindented">सुत्तं अभासि। सा <pb ed="P" n="1.0365"/> तस्मिंयेव रूपे खयवयं पट्ठपेत्वा अरहत्तं पापुणि। इमस्मिं ठाने इदं वत्थु हेट्ठा खेमाथेरिया वत्थुना सदिसमेवाति न वित्थारितं। ततो पट्ठाय, रूपनन्दा, झानाभिरतानं अन्तरे धुरप्पत्ता अहोसि। सत्था अपरभागे जेतवने निसिन्‍नो पटिपाटिया भिक्खुनियो ठानन्तरे ठपेन्तो नन्दाथेरिं झायीनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">सोणाथेरीवत्थु</p>

<p rend="bodytext" n="241"><hi rend="paranum">२४१</hi><hi rend="dot">.</hi> सत्तमे <hi rend="bold">आरद्धवीरियान</hi>न्ति पग्गहितपरिपुण्णवीरियानं सोणा अग्गाति दस्सेति। अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे पटिसन्धिं गहेत्वा अपरभागे धम्मं सुणन्ती <pb ed="V" n="1.0272"/> सत्थारं एकं भिक्खुनिं आरद्धवीरियानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे पटिसन्धिं गहेत्वा अपरभागे घरावासे वुत्था बहू पुत्तधीतरो लभित्वा सब्बेपि विसुं विसुं घरावासे पतिट्ठापेसि। ते ततो पट्ठाय ‘‘अयं अम्हाकं किं करिस्सती’’ति तं अत्तनो सन्तिकं आगतं ‘‘माता’’ति सञ्‍ञम्पि न करिंसु। बहुपुत्तिकसोणा तेसं अत्तनि अगारवभावं ञत्वा ‘‘घरावासेन किं करिस्सामी’’ति निक्खमित्वा पब्बजि। अथ नं भिक्खुनियो ‘‘अयं वत्तं न जानाति, अयुत्तं करोती’’ति दण्डकम्मं करोन्ति। पुत्तधीतरो तं दण्डकम्मं आहरन्तिं दिस्वा ‘‘अयं यावज्‍जदिवसा सिक्खामत्तम्पि न जानाती’’ति दिट्ठदिट्ठट्ठाने उप्पण्डेसुं। सा तेसं वचनं सुत्वा उप्पन्‍नसंवेगा ‘‘अत्तनो गतिविसोधनं कातुं वट्टती’’ति निसिन्‍नट्ठानेपि ठितट्ठानेपि <pb ed="M" n="1.0282"/> द्वत्तिंसाकारं सज्झायति। सा यथेव <pb ed="P" n="1.0366"/> पुब्बे बहुपुत्तिकसोणत्थेरीति पञ्‍ञायित्थ, एवं पच्छा आरद्धवीरियसोणत्थेरीति पाकटा जाता।</p>

<p rend="bodytext">अथेकदिवसं भिक्खुनियो विहारं गच्छन्तियो ‘‘भिक्खुनिसङ्घस्स उदकं तापेय्यासि, सोणे’’ति वत्वा अगमंसु। सापि उदकतापनतो पुरेतरमेव अग्गिसालाय चङ्कमित्वा चङ्कमित्वा द्वत्तिंसाकारं सज्झायन्ती विपस्सनं वड्ढेसि। सत्था गन्धकुटियं निसिन्‍नोव इमं ओभासगाथं अभासि –</p>

<p rend="gatha1">‘‘यो च वस्ससतं जीवे, अपस्सं धम्ममुत्तमं।</p>

<p rend="gathalast">एकाहं जीवितं सेय्यो, पस्सतो धम्ममुत्तम’’न्ति॥ (ध॰ प॰ ११५)।</p>

<p rend="bodytext">सा गाथापरियोसाने अरहत्तं पत्वा चिन्तेसि – ‘‘अहं अरहत्तं पत्ता, आगन्तुकजनो च अनुपधारेत्वाव मयि अवञ्‍ञाय किञ्‍चि वत्वा बहुं अपुञ्‍ञम्पि पसवेय्य, तस्मा संलक्खणकारणं कातुं वट्टती’’ति। सा उदकभाजनं उद्धनं आरोपेत्वा हेट्ठा अग्गिं न अकासि। भिक्खुनियो आगन्त्वा उद्धनं ओलोकेन्तियो अग्गिं अदिस्वा ‘‘इमं महल्‍लिकं ‘भिक्खुनिसङ्घस्स उदकं तापेही’ति अवोचुम्ह, अज्‍जापि उद्धने अग्गिम्पि न करोती’’ति आहंसु। अय्ये, किं तुम्हाकं अग्गिना, उण्होदकेन न्हायितुकामा भाजनतो उदकं गहेत्वा न्हायथाति? तापि ‘‘भविस्सति एत्थ कारण’’न्ति गन्त्वा उदके हत्थं ओतारेत्वा उण्हभावं ञत्वा <pb ed="V" n="1.0273"/> एककुटं आहरित्वा उदकं गण्हन्ति, गहितगहितट्ठानं परिपूरति। तदा सब्बाव तस्सा अरहत्ते ठितभावं ञत्वा दहरतरा ताव पञ्‍चपतिट्ठितेन <pb ed="P" n="1.0367"/> पादेसु पतित्वा ‘‘मयं, अय्ये, एत्तकं कालं तुम्हे अनुपधारेत्वा विहेठेत्वा विहेठेत्वा कथयिम्ह, खमथ नो’’ति खमापेसुं। वुद्धतरापि उक्‍कुटिकं निसीदित्वा ‘‘खम, अय्ये’’ति खमापेसुं। ततो पट्ठाय ‘‘महल्‍लककाले पब्बजित्वापि आरद्धवीरियभावेन नचिरस्सेव अग्गफले पतिट्ठिता’’ति थेरिया गुणो पाकटो अहोसि। अपरभागे सत्था जेतवने निसीदित्वा भिक्खुनियो पटिपाटिया ठानन्तरे ठपेन्तो सोणत्थेरिं आरद्धवीरियानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">बकुलाथेरीवत्थु</p>

<p rend="bodytext" n="242"><hi rend="paranum">२४२</hi><hi rend="dot">.</hi> अट्ठमे <pb ed="M" n="1.0283"/> <hi rend="bold">दिब्बचक्खुकानं यदिदं बकुला</hi>ति दिब्बचक्खुकानं, बकुला थेरी, अग्गाति दस्सेति। अयं किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तित्वा सत्थु धम्मकथं सुणन्ती सत्थारं एकं भिक्खुनिं दिब्बचक्खुकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवेसु च मनुस्सेसु च संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तित्वा अपरभागे सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धा पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि। सा ततो पट्ठाय दिब्बचक्खुम्हि चिण्णवसी अहोसि। अपरभागे सत्था जेतवने निसिन्‍नो भिक्खुनियो पटिपाटिया ठानन्तरे ठपेन्तो इमं थेरिं दिब्बचक्खुकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">कुण्डलकेसाथेरीवत्थु</p>

<p rend="bodytext" n="243"><hi rend="paranum">२४३</hi><hi rend="dot">.</hi> नवमे <hi rend="bold">खिप्पाभिञ्‍ञान</hi>न्ति खिप्पाभिञ्‍ञानं भिक्खुनीनं, भद्दा कुण्डलकेसा, अग्गाति दस्सेति। अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे <pb ed="P" n="1.0368"/> निब्बत्ता सत्थु धम्मकथं सुत्वा सत्थारं एकं भिक्खुनिं खिप्पाभिञ्‍ञानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा कस्सपबुद्धकाले किकिस्स कासिरञ्‍ञो गेहे सत्तन्‍नं भगिनीनं अब्भन्तरा हुत्वा वीसति वस्ससहस्सानि दस सीलानि समादाय कोमारिकब्रह्मचरियं चरन्ती सङ्घस्स वसनपरिवेणं कारेत्वा एकं बुद्धन्तरं देवमनुस्सेसु <pb ed="V" n="1.0274"/> संसरित्वा इमस्मिं बुद्धुप्पादे राजगहनगरे सेट्ठिकुले पटिसन्धिं गण्हि, भद्दातिस्सा नामं अकंसु।</p>

<p rend="bodytext">तंदिवसंयेव च तस्मिं नगरे पुरोहितपुत्तो जातो। तस्स जातवेलाय राजनिवेसनं आदिं कत्वा सकलनगरे आवुधानि पज्‍जलिंसु। पुरोहितो पातोव राजकुलं गन्त्वा राजानं सुखसेय्यं पुच्छि। राजा ‘‘कुतो मे, आचरिय, सुखसेय्या, अज्‍ज सब्बरत्तिं राजनिवेसने आवुधानि पज्‍जलितानि दिस्वा भयप्पत्ता अहुम्हा’’ति आह। महाराज, तप्पच्‍चया मा चिन्तयित्थ, न तुम्हाकंयेव गेहे आवुधानि पज्‍जलिंसु, सकलनगरे एवं अहोसीति। किं कारणा, आचरियाति? अम्हाकं <pb ed="M" n="1.0284"/> गेहे चोरनक्खत्तेन दारको जातो, सो सकलनगरस्स सत्तु हुत्वा उप्पन्‍नो, तस्सेतं पुब्बनिमित्तं। तुम्हाकं उपद्दवो नत्थि, सचे पन इच्छथ, हारेम नन्ति। अम्हाकं पीळाय असतिया हारणकम्मं नत्थीति। पुरोहितो ‘‘मम पुत्तो अत्तनो नामं गहेत्वाव आगतो’’ति सत्तुकोतेवस्स नामं अकासि। सेट्ठिगेहेपि भद्दा वड्ढति, पुरोहितगेहेपि सत्तुको वड्ढति। सो अत्तनो आधावनविधावनेन कीळितुं समत्थकालतो पट्ठाय अत्तनो विचरणट्ठाने यं यं पस्सति, तं तं सब्बं आहरित्वा मातापितूनं गेहं पूरेति। पिता नं कारणसहस्सम्पि वत्वा वारेतुं नासक्खि।</p>

<p rend="bodytext">अपरभागे पनस्स वयप्पत्तस्स <pb ed="P" n="1.0369"/> सब्बाकारेनापि वारेतुं असक्‍कुणेय्यभावं ञत्वा द्वे नीलसाटके दत्वा सन्धिच्छेदनउपकरणञ्‍च सिङ्घाटकयन्तञ्‍च हत्थे दत्वा ‘‘त्वं इमिनाव कम्मेन जीवाही’’ति नं विस्सज्‍जेसि। सो तंदिवसतो पट्ठाय सिङ्घाटकयन्तं खिपित्वा कुलानं पासादे आरुय्ह सन्धिं छिन्दित्वा परकुलेसु निक्खित्तभण्डं अत्तना ठपितं विय गहेत्वा गच्छति। सकलनगरे तेन अविलुत्तगेहं नाम नाहोसि। एकदिवसं राजा रथेन नगरे विचरन्तो सारथिं पुच्छि – ‘‘किं नु खो इमस्मिं नगरे तस्मिं तस्मिं घरे छिद्दमेव पञ्‍ञायती’’ति। देव इमस्मिं नगरे सत्तुको नाम चोरो भित्तिं छिन्दित्वा कुलानं सन्तकं हरतीति। राजा नगरगुत्तिकं पक्‍कोसापेत्वा ‘‘इमस्मिं किर नगरे एवरूपो नाम चोरो अत्थि, कस्मा नं न गण्हसी’’ति आह। मयं, देव, तं चोरं सहोड्ढं पस्सितुं न सक्‍कोमाति। सचे अज्‍ज नं चोरं गण्हसि, जीवसि। सचे न गण्हसि, राजाणं ते करिस्सामीति। एवं देवाति नगरगुत्तिको सकलनगरे मनुस्से चारेत्वा तं भित्तिं छिन्दित्वा परभण्डं अवहरन्तं सहोड्ढमेव गहेत्वा रञ्‍ञो दस्सेसि। राजा ‘‘इमं चोरं दक्खिणद्वारेन नीहरित्वा <pb ed="V" n="1.0275"/> घातेथा’’ति आह। नगरगुत्तिको रञ्‍ञो पटिस्सुणित्वा तं चोरं चतुक्‍के चतुक्‍के पहारसहस्सेन ताळेन्तो गाहापेत्वा दक्खिणद्वारं गच्छति।</p>

<p rend="bodytext">तस्मिं <pb ed="M" n="1.0285"/> समये अयं भद्दा नाम सेट्ठिधीता महाजनस्स कोलाहलसद्देन सीहपञ्‍जरं उग्घाटेत्वा ओलोकेन्ती तं सत्तुकं चोरं तथा नीयमानं दिस्वा उभोहि हत्थेहि हदयं सन्धारेन्ती गन्त्वा सिरिसयने अधोमुखा निपज्‍जि <pb ed="P" n="1.0370"/>। सा च तस्स कुलस्स एकधीता, तेनस्सा ञातका अप्पमत्तकम्पि मुखविकारं सहितुं न सक्‍कोन्ति। अथ नं माता सयने निपन्‍नं दिस्वा ‘‘किं करोसि, अम्मा’’ति पुच्छि। एतं वज्झं कत्वा नीयमानं चोरं अद्दस, अम्माति? आम, अम्माति। एतं लभमाना जीविस्सामि, अलभमानाय मे मरणमेवाति। ते तं नानप्पकारेनपि सञ्‍ञापेतुं असक्‍कोन्ता ‘‘मरणा जीवितं सेय्यो’’ति सल्‍लक्खेसुं। अथस्सा पिता नगरगुत्तिकस्स सन्तिकं गन्त्वा सहस्सं लञ्‍जं दत्वा ‘‘मय्हं धीता चोरे पटिबद्धचित्ता, येन केनचि उपायेन इमं मुञ्‍चा’’ति आह। सो ‘‘साधू’’ति सेट्ठिस्स पटिस्सुणित्वा चोरं गहेत्वा याव सूरियस्स अत्थङ्गमना इतो चितो च पपञ्‍चापेत्वा सूरिये अत्थङ्गते चारकतो एकं मनुस्सं नीहरापेत्वा सत्तुकस्स बन्धनं मोचेत्वा सत्तुकं सेट्ठिगेहं पेसेत्वा तेन बन्धनेन इतरं बन्धित्वा दक्खिणद्वारेन नीहरित्वा घातेसि। सेट्ठिदासापि सत्तुकं गहेत्वा सेट्ठिनो निवेसनं आगमंसु। तं दिस्वा सेट्ठि ‘‘धीतु मनं पूरेस्सामी’’ति सत्तुकं गन्धोदकेन न्हापेत्वा सब्बालङ्कारपटिमण्डितं कारेत्वा पासादं पेसेसि। भद्दापि ‘‘परिपुण्णो मे सङ्कप्पो’’ति अनेकालङ्कारेन अलङ्करित्वा तं परिचरति।</p>

<p rend="bodytext">सत्तुको कतिपाहं वीतिनामेत्वा चिन्तेसि – ‘‘इमिस्सा पसाधनभण्डकं मय्हं <pb ed="P" n="1.0371"/> भविस्सति, केनचि उपायेन इमं आभरणं गहेतुं वट्टती’’ति समीपे सुखेन निसिन्‍नकाले भद्दं आह – ‘‘मय्हं एकं वचनं वत्तब्बं अत्थी’’ति। सेट्ठिधीता सहस्सलाभं लभित्वा विय तुट्ठमानसा ‘‘विस्सत्थं वदेहि, अय्या’’ति आह। त्वं चिन्तेसि – ‘‘मं निस्साय इमिना जीवितं लद्ध’’न्ति, अहं पन गहितमत्तोव चोरपपातपब्बते अधिवत्थाय देवताय ‘‘सचाहं जीवितं लभिस्सामि, बलिकम्मं ते दस्सामी’’ति आयाचिं। तं निस्साय मया जीवितं लद्धं <pb ed="M" n="1.0286"/>, सीघं बलिकम्मं सज्‍जापेहीति। भद्दा, ‘‘अहं तस्स मनं पूरेस्सामी’’ति बलिकम्मं सज्‍जापेत्वा सब्बं पसाधनं पसाधेत्वा एकयाने आरुय्ह सामिकेन सद्धिं चोरपपातपब्बतं गन्त्वा ‘‘पब्बतदेवताय बलिकम्मं करिस्सामी’’ति अभिरुहितुं आरद्धा। सत्तुको चिन्तेसि – ‘‘सब्बेसु <pb ed="V" n="1.0276"/> अभिरुहन्तेसु मम इमिस्सा आभरणं गहेतुं न ओकासो भविस्सती’’ति तमेव बलिभाजनं गाहापेत्वा पब्बतं अभिरुहि।</p>

<p rend="bodytext">सो भद्दाय सद्धिं कथेन्तो पियकथं न कथेति। सा इङ्गितेनेव तस्स अधिप्पायं अञ्‍ञासि। अथ नं सो आह – ‘‘भद्दे, तव उत्तरिसाटकं ओमुञ्‍चित्वा कायारुळ्हं ते पसाधनं एत्थ भण्डिकं करोही’’ति। सामि मय्हं को अपराधोति? किं पनाहं, बाले, बलिकम्मत्थं आगतोति सञ्‍ञं करोसि? अहञ्हि इमिस्सा देवताय यकनं उब्बट्ठेत्वा ददेय्यं, बलिकम्मापदेसेन पन तव आभरणं गण्हितुकामो हुत्वा आगतोम्हीति। कस्स पन, अय्य, पसाधनं, कस्स <pb ed="P" n="1.0372"/> अहन्ति? मयं एवरूपं न जानाम, अञ्‍ञं तव सन्तकं, अञ्‍ञं मम सन्तकन्ति। साधु, अय्य, एकं पन मे अधिप्पायं पूरेथ, अलङ्कतनियामेनेव मे पुरतो च पच्छतो च आलिङ्गितुं देथाति। सो ‘‘साधू’’ति सम्पटिच्छि। सा तेन सम्पटिच्छितभावं ञत्वा पुरतो आलिङ्गित्वा पच्छतो आलिङ्गन्ती विय हुत्वा पब्बतपपाते पातेसि। सो पतन्तो आकासेयेव चुण्णविचुण्णो अहोसि। ताय कतं विचित्रभावं दिस्वा पब्बते अधिवत्था देवता गुणकित्तनवसेन इमा गाथा आह –</p>

<p rend="gatha1">‘‘न सो सब्बेसु ठानेसु, पुरिसो होति पण्डितो।</p>

<p rend="gathalast">इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा॥</p>

<p rend="gatha1">‘‘न सो सब्बेसु ठानेसु, पुरिसो होति पण्डितो।</p>

<p rend="gathalast">इत्थीपि पण्डिता होति, मुहुत्तमपि चिन्तये’’ति॥ (अप॰ थेरी २.३.३१-३२)।</p>

<p rend="bodytext">ततो भद्दा चिन्तेसि – ‘‘न सक्‍का मया इमिना नियामेन पुन गेहं गन्तुं, इतोव गन्त्वा एकं पब्बज्‍जं पब्बजिस्सामी’’ति, निगण्ठारामं गन्त्वा निगण्ठे पब्बज्‍जं याचि। अथ नं ते आहंसु – ‘‘केन नियामेन पब्बज्‍जा होतू’’ति? यं तुम्हाकं पब्बज्‍जाय उत्तमं, तदेव करोथाति। ते ‘‘साधू’’ति तस्सा तालट्ठिना केसे लुञ्‍चित्वा पब्बाजेसुं। केसा पुन <pb ed="M" n="1.0287"/> वड्ढन्ता रासिरासिवसेन कुण्डलावत्ता हुत्वा वड्ढिंसु। सा तेनेव कारणेन कुण्डलकेसा नाम जाता। सा अत्तनो पब्बजितट्ठाने सब्बसिप्पं उग्गण्हित्वा ‘‘एतेसं इतो उत्तरि विसेसो नत्थी’’ति ञत्वा गामनिगमराजधानियो विचरन्ती यत्थ यत्थ पण्डिता अत्थि <pb ed="P" n="1.0373"/>, तत्थ तत्थ गन्त्वा <pb ed="V" n="1.0277"/> तेसं जाननसिप्पं सब्बमेव उग्गण्हाति। अथस्सा बहूसु ठानेसु सिक्खितभावेन पटिवादं दातुं समत्था न होन्ति। सा अत्तना सद्धिं कथेतुं समत्थं अदिस्वा यं गामं वा निगमं वा पविसति, तस्स द्वारे वालुकरासिं कत्वा तत्थ जम्बुसाखं ठपेति। ‘‘यो मम वादं आरोपेतुं सक्‍कोति, सो इमं साखं मद्दतू’’ति समीपे ठितानं दारकानं सञ्‍ञं देति। तं सत्ताहम्पि मद्दन्ता न होन्ति। अथ नं गहेत्वा पक्‍कमति।</p>

<p rend="bodytext">तस्मिं समये अम्हाकं भगवा लोके निब्बत्तित्वा सावत्थिं उपनिस्साय जेतवने विहरति। कुण्डलकेसापि खो अनुपुब्बेन सावत्थिं पत्वा अन्तोनगरं पविसमाना पोराणकनियामेनेव वालुकारासिम्हि साखं ठपेत्वा दारकानं सञ्‍ञं दत्वा पाविसि। तस्मिं समये धम्मसेनापति भिक्खुसङ्घे पविट्ठे एककोव नगरं पविसन्तो वालुकाथूपे जम्बुसाखं दिस्वा ‘‘कस्मा अयं ठपिता’’ति पुच्छि। दारका तं कारणं अपरिहापेत्वा कथेसुं। एवं सन्ते इमं गहेत्वा मद्दथ, दारकाति। तेसु थेरस्स वचनं सुत्वा एकच्‍चे मद्दितुं न विसहिंसु, एकच्‍चे तंखणेयेव मद्दित्वा चुण्णविचुण्णं अकंसु। कुण्डलकेसा भत्तकिच्‍चं कत्वा निक्खमन्ती तं साखं मद्दितं दिस्वा ‘‘कस्सेतं कम्म’’न्ति पुच्छि। अथस्सा धम्मसेनापतिना कारापितभावं कथयिंसु। सा ‘‘अत्तनो थामं अजानन्तो इमं साखं मद्दापेतुं नो विसहिस्सति, अद्धा महन्तो एसो भविस्सति <pb ed="P" n="1.0374"/>। अहम्पि पन खुद्दिका भवन्ती न सोभिस्सामि, अन्तोगाममेव पविसित्वा परिसाय सञ्‍ञं दातुं वट्टती’’ति चिन्तेत्वा तथा अकासि। असीतिकुलसहस्सनिवासे नगरे सभागसभागवसेन सब्बेव सञ्‍जानिंसूति वेदितब्बं।</p>

<p rend="bodytext">थेरोपि भत्तकिच्‍चं कत्वा अञ्‍ञतरस्मिं रुक्खमूले निसीदि। अथायं कुण्डलकेसा महाजनपरिवुता थेरस्स सन्तिकं गन्त्वा पटिसन्थारं कत्वा एकमन्तं ठत्वा, ‘‘भन्ते, तुम्हेहि साखा मद्दापिता’’ति पुच्छि। आम, मया मद्दापिताति। एवं सन्ते तुम्हेहि सद्धिं अम्हाकं वादो होतु, भन्तेति <pb ed="M" n="1.0288"/>। होतु, भद्देति। कस्स पुच्छा होतु, कस्स विस्सज्‍जनन्ति? पुच्छा नाम अम्हाकं पत्ता, त्वं पन तुय्हं जाननकं पुच्छाति। सा थेरेन दिन्‍नअनुमतिया सब्बमेव अत्तनो जाननकं वादं पुच्छि, थेरो सब्बं विस्सज्‍जेसि। सा सब्बं पुच्छित्वा तुण्ही अहोसि। अथ नं थेरो आह – ‘‘तया बहुं पुच्छितं, मयम्पि एकं पञ्हं पुच्छामा’’ति। पुच्छथ, भन्तेति। एकं नाम किन्ति? कुण्डलकेसा ‘‘न जानामि, भन्ते’’ति आह। त्वं एत्तकम्पि <pb ed="V" n="1.0278"/> न जानासि, अञ्‍ञं किं जानिस्ससीति? सा थेरस्स पादेसु पतित्वा ‘‘तुम्हाकं सरणं गच्छामि, भन्ते’’ति आह। मम सरणगमनकम्मं नत्थि, सदेवके लोके अग्गपुग्गलो धुरविहारे वसति, तं सरणं गच्छाहीति। सा ‘‘एवं करिस्सामि, भन्ते’’ति सायन्हसमये सत्थु धम्मदेसनावेलाय सत्थु सन्तिकं गन्त्वा पञ्‍चपतिट्ठितेन वन्दित्वा एकमन्तं अट्ठासि। सत्था तस्सा मद्दितसङ्खाराय <pb ed="P" n="1.0375"/> चरियावसेन धम्मपदे इमं गाथमाह –</p>

<p rend="gatha1">‘‘सहस्समपि चे गाथा, अनत्थपदसंहिता।</p>

<p rend="gathalast">एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मती’’ति॥ (ध॰ प॰ १०१)।</p>

<p rend="bodytext">सा गाथापरियोसाने यथाठिताव सह पटिसम्भिदाहि अरहत्तं पत्वा पब्बज्‍जं याचि। सत्था तस्सा पब्बज्‍जं सम्पटिच्छि। सा भिक्खुनुपस्सयं गन्त्वा पब्बजि। अपरभागे चतुपरिसमज्झे कथा उदपादि – ‘‘महन्ता वतायं भद्दा कुण्डलकेसा, या चतुप्पदिकगाथावसाने अरहत्तं पत्ता’’ति। सत्था तं कारणं अट्ठुप्पत्तिं कत्वा थेरिं खिप्पाभिञ्‍ञानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">भद्दाकापिलानीथेरीवत्थु</p>

<p rend="bodytext" n="244"><hi rend="paranum">२४४</hi><hi rend="dot">.</hi> दसमे <hi rend="bold">पुब्बेनिवास</hi>न्ति पुब्बे निवुत्थक्खन्धसन्तानं अनुस्सरन्तीनं भद्दा कापिलानी अग्गाति दस्सेति। सा किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तित्वा सत्थु धम्मदेसनं सुणन्ती सत्थारं एकं भिक्खुनिं पुब्बेनिवासं अनुस्सरन्तीनं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा अनुप्पन्‍ने बुद्धे बाराणसियं कुलगेहे पटिसन्धिं गण्हित्वा अत्तनो सामिभगिनिया सद्धिं कलहं करोन्ती ताय पच्‍चेकबुद्धस्स पिण्डपाते <pb ed="M" n="1.0289"/> दिन्‍ने, ‘‘अयं इमस्स पिण्डपातं दत्वा अत्तनो वसं वत्तेती’’ति पच्‍चेकबुद्धस्स हत्थतो पत्तं गण्हित्वा भत्तं छड्डेत्वा कललस्स पूरेत्वा अदासि। महाजनो ‘‘बाला अय’’न्ति गरहित्वा, ‘‘याय ते सद्धिं कलहो कतो, तस्सा किञ्‍चि न करोसि, पच्‍चेकबुद्धो <pb ed="P" n="1.0376"/> ते किं अपरज्झती’’ति आह। सा तेसं वचनेन लज्‍जायमाना पुन पत्तं गहेत्वा कललं हारेत्वा धोवित्वा गन्धचुण्णेन उब्बट्टेत्वा चतुमधुरस्स पूरेत्वा उपरि आसित्तेन पदुमगब्भवण्णेन सप्पिना विज्‍जोतमानं पच्‍चेकबुद्धस्स हत्थे ठपेत्वा ‘‘यथा अयं पिण्डपातो <pb ed="V" n="1.0279"/> ओभासजातो, एवं ओभासजातं मे सरीरं होतू’’ति पत्थनं पट्ठपेसीति सब्बं महाकस्सपत्थेरस्स वत्थुम्हि वुत्तनयेनेव वेदितब्बं।</p>

<p rend="bodytext">महाकस्सपत्थेरो पन दक्खिणमग्गं गहेत्वा दसबलस्स सन्तिकं बहुपुत्तकनिग्रोधमूलं गतो, अयं भद्दा कापिलानी वाममग्गं गण्हित्वा मातुगामस्स पब्बज्‍जाय अननुञ्‍ञातभावेन परिब्बाजिकारामं अगमासि। यदा पन महापजापतिगोतमी पब्बज्‍जञ्‍च उपसम्पदञ्‍च लभि, तदा सा थेरी थेरिया सन्तिके पब्बज्‍जञ्‍च उपसम्पदञ्‍च लभित्वा अपरभागे विपस्सनाय कम्मं करोन्ती अरहत्तं पत्वा पुब्बेनिवासञाणे चिण्णवसी अहोसि। अथ सत्था जेतवने निसीदित्वा भिक्खुनियो पटिपाटिया ठानन्तरेसु ठपेन्तो इमं थेरिं पुब्बेनिवासं अनुस्सरन्तीनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">भद्दाकच्‍चानाथेरीवत्थु</p>

<p rend="bodytext" n="245"><hi rend="paranum">२४५</hi><hi rend="dot">.</hi> एकादसमे <hi rend="bold">महाभिञ्‍ञाप्पत्तान</hi>न्ति महतियो अभिञ्‍ञायो पत्तानं, भद्दा कच्‍चाना, नाम अग्गाति दस्सेति। एकस्स हि बुद्धस्स चत्तारोव जना महाभिञ्‍ञा होन्ति, न अवसेससावका। अवसेससावका हि कप्पसतसहस्समेव अनुस्सरितुं सक्‍कोन्ति, न ततो परं। महाभिञ्‍ञाप्पत्ता पन कप्पसतसहस्साधिकं असङ्ख्येय्यं अनुस्सरन्ति। अम्हाकम्पि <pb ed="P" n="1.0377"/> सत्थु सासने द्वे अग्गसावका बाकुलत्थेरो भद्दा कच्‍चानाति इमे चत्तारो एत्तकं अनुस्सरितुं सक्खिंसु। तस्मा अयं थेरी महाभिञ्‍ञाप्पत्तानं अग्गा नाम जाता। भद्दा कच्‍चानाति तस्सा नामं। भद्दकञ्‍चनस्स हि उत्तमसुवण्णस्स विय तस्सा <pb ed="M" n="1.0290"/> सरीरवण्णो अहोसि, सा तस्मा भद्दकञ्‍चनाति नामं लभि, सा पच्छा कच्‍चानात्वेव सङ्खं गता। राहुलमातायेतं अधिवचनं।</p>

<p rend="bodytext">सा हि पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे पटिसन्धिं गहेत्वा अपरभागे सत्थु धम्मकथं सुणन्ती सत्थारं एकं भिक्खुनिं महाभिञ्‍ञाप्पत्तानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे सुप्पबुद्धसक्‍कस्स गेहे पटिसन्धिं गण्हि, भद्दा कच्‍चानातिस्सा नामं अकंसु।</p>

<p rend="bodytext">सा <pb ed="V" n="1.0280"/> वयप्पत्ता बोधिसत्तस्स गेहं अगमासि। सा अपरभागे राहुलकुमारं नाम पुत्तं विजायि। तस्स जातदिवसेव बोधिसत्तो निक्खमित्वा बोधिमण्डे सब्बञ्‍ञुतं पत्वा लोकानुग्गहं करोन्तो अनुपुब्बेन कपिलवत्थुं आगम्म ञातीनं सङ्गहं अकासि। अपरभागे परिनिब्बुते सुद्धोदनमहाराजे महापजापतिगोतमी पञ्‍चहि मातुगामसतेहि सद्धिं सत्थु सन्तिके पब्बजि। राहुलमातापि जनपदकल्याणीपि थेरिया सन्तिकं गन्त्वा पब्बजि। सा पब्बजितकालतो पट्ठाय भद्दकच्‍चानत्थेरीत्वेव पाकटा अहोसि। सा अपरभागे विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अभिञ्‍ञासु चिण्णवसी अहोसि, एकपल्‍लङ्केन निसिन्‍ना एकावज्‍जनेन कप्पसतसहस्साधिकं असङ्ख्येय्यं अनुस्सरति। तस्सा तस्मिं गुणे पाकटे जाते सत्था जेतवने निसिन्‍नो भिक्खुनियो पटिपाटिया ठानन्तरे ठपेन्तो इमं थेरिं महाभिञ्‍ञाप्पत्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">किसागोतमीथेरीवत्थु</p>

<p rend="bodytext" n="246"><hi rend="paranum">२४६</hi><hi rend="dot">.</hi> द्वादसमे <pb ed="P" n="1.0378"/> <hi rend="bold">लूखचीवरधरान</hi>न्ति तीहि लूखेहि समन्‍नागतं पंसुकूलं धारेन्तीनं, किसागोतमी, अग्गाति दस्सेति। गोतमीति तस्सा नामं, थोकं किसधातुकत्ता पन <hi rend="bold">किसागोतमी</hi>ति वुच्‍चति। अयम्पि पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तित्वा सत्थु धम्मदेसनं सुणन्ती सत्थारं एकं भिक्खुनिं लूखचीवरधरानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु <pb ed="M" n="1.0291"/> संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थियं दुग्गतकुले निब्बत्तित्वा वयप्पत्तकाले एकं कुलं अगमासि। तत्थ नं ‘‘दुग्गतकुलस्स धीता’’ति परिभविंसु।</p>

<p rend="bodytext">सा अपरभागे पुत्तं विजायि, अथस्सा सम्मानमकंसु। सो पनस्सा दारको आधावित्वा परिधावित्वा कीळनवये ठितो कालमकासि, तस्सा सोको उदपादि। सा ‘‘अहं इमस्मिंयेव गेहे हतलाभसक्‍कारा हुत्वा पुत्तस्स जातकालतो पट्ठाय सक्‍कारं पापुणिं, इमे मय्हं पुत्तं बहि छड्डेतुम्पि वायमेय्यु’’न्ति पुत्तं अङ्केनादाय ‘‘पुत्तस्स मे भेसज्‍जं देथा’’ति गेहद्वारपटिपाटिया विचरति। दिट्ठदिट्ठट्ठाने मनुस्सा ‘‘कत्थ ते मतकस्स भेसज्‍जं दिट्ठपुब्ब’’न्ति पाणिं पहरित्वा परिहासं करोन्ति। सा तेसं कथाय नेव सञ्‍ञत्तिं गच्छति। अथ नं एको पण्डितपुरिसो दिस्वा, ‘‘अयं पुत्तसोकेन चित्तविक्खेपं पत्ता भविस्सति, एतिस्सा <pb ed="V" n="1.0281"/> पन भेसज्‍जं न अञ्‍ञो जानिस्सति, दसबलोव जानिस्सती’’ति चिन्तेत्वा एवमाह – ‘‘अम्म, तव पुत्तस्स भेसज्‍जं <pb ed="P" n="1.0379"/> अञ्‍ञो जानन्तो नाम नत्थि, सदेवके पन लोके अग्गपुग्गलो दसबलो धुरविहारे वसति, तस्स सन्तिकं गन्त्वा पुच्छाही’’ति। सा ‘‘सच्‍चं पुरिसो कथेती’’ति पुत्तमादाय तथागतस्स बुद्धासने निसिन्‍नवेलाय परिसपरियन्ते ठत्वा ‘‘पुत्तस्स मे भेसज्‍जं देथ भगवा’’ति आह।</p>

<p rend="bodytext">सत्था तस्सा उपनिस्सयं दिस्वा ‘‘भद्दकं ते गोतमि कतं भेसज्‍जत्थाय इधागच्छन्तिया, गच्छ नगरं पविसित्वा कोटितो पट्ठाय सकलनगरं चरित्वा यस्मिं गेहे कोचि मतपुब्बो नत्थि, ततो सिद्धत्थकं आहरा’’ति आह। सा ‘‘साधु, भन्ते’’ति तुट्ठमानसा अन्तोनगरं पविसित्वा पठमगेहेयेव ‘‘दसबलो मम पुत्तस्स भेसज्‍जत्थाय सिद्धत्थकं आहरापेति, सिद्धत्थकं मे देथा’’ति आह। ‘‘हन्द गोतमी’’ति नीहरित्वा अदंसु। अहं एवं गहेतुं न सक्‍कोमि, इमस्मिं गेहे कोचि मतपुब्बो नाम नत्थीति? किं वदेसि गोतमि, को इध मतके गणेतुं सक्‍कोतीति? ‘‘तेन हि अलं नाहं गण्हिस्सामि, दसबलो मं यत्थ मतपुब्बो नत्थि, ततो नं गण्हापेती’’ति आह। सा इमिनाव नियामेन ततियघरं <pb ed="M" n="1.0292"/> गन्त्वा चिन्तेसि – ‘‘सकलनगरे अयमेव नियामो भविस्सति, इदं हितानुकम्पकेन बुद्धेन दिट्ठं भविस्सती’’ति संवेगं लभित्वा ततोव बहि निक्खमित्वा आमकसुसानं गन्त्वा पुत्तं हत्थेन गहेत्वा, ‘‘पुत्तक, अहं इमं मरणं तवेव उप्पन्‍नन्ति चिन्तेसिं, न पनेतं तवेव, महाजनसाधारणो <pb ed="P" n="1.0380"/> एस धम्मो’’ति वत्वा पुत्तं आमकसुसाने छड्डेत्वा इमं गाथमाह –</p>

<p rend="gatha1">‘‘न गामधम्मो नो निगमस्स धम्मो,</p>

<p rend="gatha2">न चापियं एककुलस्स धम्मो।</p>

<p rend="gatha3">सब्बस्स लोकस्स सदेवकस्स,</p>

<p rend="gathalast">एसेव धम्मो यदिदं अनिच्‍चता’’ति॥ (अप॰ थेरी २.३.८२)।</p>

<p rend="bodytext">एवञ्‍च पन वत्वा सत्थु सन्तिकं अगमासि। अथ नं सत्था ‘‘लद्धो ते, गोतमि, सिद्धत्थको’’ति आह। निट्ठितं, भन्ते, सिद्धत्थकेन कम्मं, पतिट्ठं पन मे देथाति आह। अथस्सा सत्था धम्मपदे इमं गाथमाह –</p>

<p rend="gatha1">‘‘तं <pb ed="V" n="1.0282"/> पुत्तपसुसम्मत्तं, ब्यासत्तमनसं नरं।</p>

<p rend="gathalast">सुत्तं गामं महोघोव, मच्‍चु आदाय गच्छती’’ति॥ (ध॰ प॰ २८७)।</p>

<p rend="bodytext">सा गाथापरियोसाने यथाठिताव सोतापत्तिफले पतिट्ठाय पब्बज्‍जं याचि, सत्था पब्बज्‍जं अनुजानि। सा तिक्खत्तुं सत्थारं पदक्खिणं कत्वा वन्दित्वा भिक्खुनिउपस्सयं गन्त्वा पब्बज्‍जञ्‍च उपसम्पदञ्‍च लभित्वा नचिरस्सेव योनिसोमनसिकारे कम्मं करोन्ती विपस्सनं वड्ढेसि। अथस्सा सत्था इमं ओभासगाथमाह –</p>

<p rend="gatha1">‘‘यो च वस्ससतं जीवे, अपस्सं अमतं पदं।</p>

<p rend="gathalast">एकाहं जीवितं सेय्यो, पस्सतो अमतं पद’’न्ति॥ (ध॰ प॰ ११४)।</p>

<p rend="bodytext">सा गाथापरियोसाने अरहत्तं पत्ता परिक्खारवलञ्‍जे परमुक्‍कट्ठा हुत्वा तीहि लूखेहि समन्‍नागतं चीवरं पारुपित्वा विचरि। अपरभागे सत्था जेतवने निसिन्‍नो भिक्खुनियो पटिपाटिया ठानन्तरे ठपेन्तो इमं थेरिं लूखचीवरधरानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">सिङ्गालकमाताथेरीवत्थु</p>

<p rend="bodytext" n="247"><hi rend="paranum">२४७</hi><hi rend="dot">.</hi> तेरसमे <pb ed="M" n="1.0293"/> <pb ed="P" n="1.0381"/> <hi rend="bold">सद्धाधिमुत्तान</hi>न्ति सद्धालक्खणे अभिनिविट्ठानं, सिङ्गालकमाता, अग्गाति दस्सेति। अयं किर पदुमुत्तरबुद्धकाले हंसवतियं कुलघरे निब्बत्ता सत्थु धम्मकथं सुणन्ती सत्थारं एकं भिक्खुनिं सद्धाधिमुत्तानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे राजगहनगरे सेट्ठिकुले निब्बत्ता समानजातिकं कुलं गन्त्वा एकं पुत्तं विजायि, तस्स सिङ्गालककुमारोति नामं अकंसु। सापि तेनेव कारणेन सिङ्गालकमाता नाम जाता। सा एकदिवसं सत्थु धम्मकथं सुत्वा पटिलद्धसद्धा सत्थु सन्तिकं गन्त्वा पब्बजि। पब्बजितकालतो पट्ठाय सद्धिन्द्रियं अधिमत्तं पटिलभि। सा धम्मस्सवनत्थाय विहारं गन्त्वा दसबलस्स सरीरसम्पत्तिं ओलोकयमानाव तिट्ठति। सत्था तस्सा सद्धालक्खणे अभिनिविट्ठभावं ञत्वा सप्पायं कत्वा पसादनीयमेव धम्मं देसेसि। सापि थेरी सद्धालक्खणमेव <pb ed="V" n="1.0283"/> धुरं कत्वा अरहत्तं पापुणि। अथ नं सत्था अपरभागे जेतवने निसीदित्वा भिक्खुनियो पटिपाटिया ठानन्तरे ठपेन्तो इमं थेरिं सद्धाधिमुत्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="centre">पञ्‍चमवग्गवण्णना।</p>

<p rend="centre">तेरससुत्तपटिमण्डिताय थेरिपाळिया वण्णना निट्ठिता।</p>

<p rend="title">१४. एतदग्गवग्गो</p>

<p rend="subhead">(१४) ६. छट्ठएतदग्गवग्गो</p>

<p rend="subhead">तपुस्सभल्‍लिकवत्थु</p>

<p rend="bodytext" n="248"><hi rend="paranum">२४८</hi><hi rend="dot">.</hi> उपासकपाळिया <pb ed="V" n="1.0284"/> <pb ed="P" n="1.0382"/> पठमे <hi rend="bold">पठमं सरणं गच्छन्तान</hi>न्ति सब्बपठमं सरणं गच्छन्तानं तपुस्सो च भल्‍लिको चाति इमे द्वे वाणिजा अग्गाति दस्सेति। इमे किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे पटिसन्धिं गहेत्वा अपरभागे सत्थु धम्मदेसनं सुणन्ता सत्थारं द्वे उपासके पठमं सरणं गच्छन्तानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थयिंसु। ते कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा अम्हाकं <pb ed="M" n="1.0294"/> बोधिसत्तस्स सब्बञ्‍ञुतञ्‍ञाणपत्तितो पुरेतरमेव असितञ्‍जननगरे कुटुम्बियगेहे निब्बत्तिंसु। जेट्ठभातिको तपुस्सो नाम अहोसि, कनिट्ठो भल्‍लिको नाम।</p>

<p rend="bodytext">ते अपरेन समयेन घरावासं वसन्ता कालेन कालं पञ्‍च सकटसतानि योजापेत्वा वाणिजकम्मं करोन्ता चरन्ति। तस्मिं समये अम्हाकं बोधिसत्तो सब्बञ्‍ञुतं पत्वा सत्तसत्ताहं बोधिमण्डे विहरित्वा अट्ठमे सत्ताहे राजायतनमूले निसीदि। तस्मिं समये ते वाणिजा पञ्‍चमत्तेहि सकटसतेहि तं ठानं अनुप्पत्ता अहेसुं। तेसं अनन्तरे अत्तभावे माता तस्मिं पदेसे देवता हुत्वा निब्बत्ति। सा चिन्तेसि – ‘‘इदानि बुद्धानं आहारो लद्धुं वट्टति। न हि सक्‍का इतो परं निराहारेहि यापेतुं। इमे च मे पुत्ता इमिना मग्गेन गच्छन्ति, तेहि अज्‍ज बुद्धानं पिण्डपातं <pb ed="P" n="1.0383"/> दापेतुं वट्टती’’ति पञ्‍चसु सकटसतेसु युत्तगोणानं गमनुपच्छेदं अकासि। ते ‘‘किं नामेत’’न्ति नानाविधानि निमित्तानि ओलोकेन्ति। अथ तेसं किलमनभावं ञत्वा एकस्स पुरिसस्स सरीरे अधिमुच्‍चित्वा ‘‘किं कारणा किलमथ? तुम्हाकं अञ्‍ञो यक्खावट्टो वा भूतावट्टो वा नागावट्टो वा नत्थि, अहं पन वो अतीतत्तभावे माता इमस्मिं ठाने भुम्मदेवता हुत्वा निब्बत्ता। एस दसबलो राजायतनमूले निसिन्‍नो, तस्स पठमं पिण्डपातं देथा’’ति।</p>

<p rend="bodytext">ते <pb ed="V" n="1.0285"/> तस्सा कथं सुत्वा तुट्ठमानसा हुत्वा मन्थञ्‍च मधुपिण्डिकञ्‍च सुवण्णथालकेन आदाय सत्थु सन्तिकं गन्त्वा ‘‘इमं भोजनं पटिग्गण्हथ, भन्ते’’ति आहंसु। सत्था अतीतबुद्धानं आचिण्णं ओलोकेसि, अथस्स चत्तारो महाराजानो सेलमये पत्ते उपनामेसुं। सत्था ‘‘तेसं महप्फलं होतू’’ति चत्तारोपि पत्ते ‘‘एकोव पत्तो होतू’’ति अधिट्ठासि। तस्मिं खणे ते वाणिजा तथागतस्स पत्ते मन्थञ्‍च मधुपिण्डिकञ्‍च पतिट्ठपेत्वा परिभुत्तकाले उदकं दत्वा भत्तकिच्‍चपरियोसाने सत्थारं अभिवादेत्वा एकमन्तं निसीदिंसु। अथ नेसं सत्था धम्मं देसेसि, देसनापरियोसाने द्वेपि जना द्वेवाचिके सरणे पतिट्ठाय सत्थारं अभिवादेत्वा अत्तनो नगरं गन्तुकामा <pb ed="M" n="1.0295"/>, ‘‘भन्ते, अम्हाकं परिचरणचेतियं देथा’’ति वदिंसु। सत्था दक्खिणेन हत्थेन सीसं परामसित्वा द्विन्‍नम्पि जनानं अट्ठ केसधातुयो अदासि। ते उभोपि जना केसधातुयो सुवण्णसमुग्गेसु ठपेत्वा अत्तनो नगरं नेत्वा असितञ्‍जननगरद्वारे जीवकेसधातुया चेतियं पतिट्ठापेसुं। उपोसथदिवसे चेतियतो नीलस्मियो <pb ed="P" n="1.0384"/> निग्गच्छन्ति। एवमेतं वत्थु समुट्ठितं। सत्था पन अपरभागे जेतवने निसीदित्वा उपासके पटिपाटिया ठानन्तरेसु ठपेन्तो इमे द्वे जने पठमं सरणं गच्छन्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">अनाथपिण्डिकसेट्ठिवत्थु</p>

<p rend="bodytext" n="249"><hi rend="paranum">२४९</hi><hi rend="dot">.</hi> दुतिये <hi rend="bold">दायकान</hi>न्ति दानाभिरतानं सुदत्तो, गहपति, अनाथपिण्डिको अग्गोति दस्सेति। सो किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तो सत्थु धम्मकथं सुणन्तो सत्थारं एकं उपासकं दायकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थियं सुमनसेट्ठिस्स गेहे निब्बत्ति, सुदत्तोतिस्स नामं अकंसु।</p>

<p rend="bodytext">सो अपरभागे घरावासे पतिट्ठितो दायको दानपति हुत्वा तेनेव गुणेन पत्थटनामधेय्यो अनाथपिण्डिको नाम अहोसि। सो पञ्‍चहि सकटसतेहि भण्डं आदाय राजगहे अत्तनो पियसहायकस्स सेट्ठिनो गेहं गन्त्वा तत्थ बुद्धस्स भगवतो उप्पन्‍नभावं सुत्वा बलवपच्‍चूसकाले देवतानुभावेन विवटेन द्वारेन सत्थारं उपसङ्कमित्वा धम्मं सुत्वा सोतापत्तिफले पतिट्ठाय दुतियदिवसे च बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सावत्थिं आगमनत्थाय सत्थु पटिञ्‍ञं गहेत्वा अन्तरामग्गे पञ्‍चचत्तालीसयोजनमग्गे सतसहस्सं सतसहस्सं <pb ed="V" n="1.0286"/> दत्वा योजनिकविहारे कारेत्वा जेतवनं कोटिसन्थारेन <pb ed="P" n="1.0385"/> सन्थरित्वा अट्ठारसहि कोटीहि किणित्वा अट्ठारसहि कोटीहि विहारं कारेत्वा विहारे निट्ठिते चतुन्‍नं परिसानं पुरेभत्तपच्छाभत्तेसु यदिच्छकं दानं ददन्तो अट्ठारसहि कोटीहि विहारमहं निट्ठापेसि। विहारमहो नवहि मासेहि निट्ठानं अगमासि <pb ed="M" n="1.0296"/>, ‘‘पञ्‍चही’’ति अपरे। तेमासे पन सब्बाचरियानं विवादो नत्थि।</p>

<p rend="bodytext">एवं चतुपण्णासकोटिधनं विस्सज्‍जेत्वा निच्‍चकालं गेहे एवरूपं दानं पवत्तेसि। देवसिकं पञ्‍च सलाकभत्तसतानि होन्ति, पञ्‍च पक्खिकभत्तसतानि, पञ्‍च सलाकयागुसतानि, पञ्‍च पक्खिकयागुसतानि, पञ्‍च धुरभत्तसतानि, पञ्‍च आगन्तुकभत्तसतानि, पञ्‍च गमिकभत्तसतानि, पञ्‍च गिलानभत्तसतानि, पञ्‍च गिलानुपट्ठाकभत्तसतानि, पञ्‍च आसनसतानि गेहे निच्‍चपञ्‍ञत्तानेव होन्तीति। अथ नं अपरभागे सत्था जेतवने निसिन्‍नो उपासके पटिपाटिया ठानन्तरेसु ठपेन्तो दायकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">चित्तगहपतिवत्थु</p>

<p rend="bodytext" n="250"><hi rend="paranum">२५०</hi><hi rend="dot">.</hi> ततिये <hi rend="bold">धम्मकथिकान</hi>न्ति धम्मकथिकानं उपासकानं चित्तो, गहपति, अग्गोति दस्सेति। सो किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तो अपरभागे धम्मकथं सुणन्तो सत्थारं एकं उपासकं धम्मकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा कस्सपबुद्धकाले मिगलुद्दकगेहे निब्बत्तो अपरभागे अरञ्‍ञे कम्मं कातुं समत्थकाले एकदिवसं देवे वस्सन्ते मिगमारणत्थाय सत्तिं आदाय अरञ्‍ञं गन्त्वा मिगरूपानि ओलोकेन्तो एकस्मिं अकतपब्भारे ससीसं पंसुकूलं पारुपित्वा पासाणफलके निसिन्‍नं एकं भिक्खुं दिस्वा ‘‘एको अय्यो समणधम्मं करोन्तो निसिन्‍नो भविस्सती’’ति <pb ed="P" n="1.0386"/> सञ्‍ञं उप्पादेत्वा वेगेन घरं गन्त्वा एकस्मिं उद्धने हिय्यो आभतमंसं, एकस्मिं भत्तं पचापेत्वा पिण्डाचारिके द्वे भिक्खू दिस्वा तेसं पत्तं आदाय पञ्‍ञत्तासने निसीदापेत्वा भिक्खं समादापेत्वा, ‘‘अय्ये, परिविसथा’’ति अञ्‍ञे आणापेत्वा तं भत्तं कुटे पक्खिपित्वा पण्णेन मुखं बन्धित्वा कुटं आदाय गच्छन्तो अन्तरामग्गे नानाविधानि पुप्फानि ओचिनित्वा पत्तपुटकेन गहेत्वा थेरस्स निसिन्‍नट्ठानं गन्त्वा कुटं ओतारेत्वा एकमन्ते ठपेत्वा ‘‘मय्हं <pb ed="M" n="1.0297"/>, भन्ते, सङ्गहं करोथा’’ति वत्वा थेरस्स पत्तं आदाय <pb ed="V" n="1.0287"/> भत्तस्स पूरेत्वा थेरस्स हत्थे पतिट्ठपेत्वा तेहि मिस्सकपुप्फेहि थेरं पूजेत्वा एकमन्ते ठितो ‘‘यथायं रसपिण्डपातेन सद्धिं पुप्फपूजा चित्तं परितोसेति, एवं निब्बत्तनिब्बत्तट्ठाने मे पण्णाकारसहस्सानि चेव आगच्छन्तु पञ्‍चवण्णकुसुमवस्सञ्‍च वस्सतू’’ति आह।</p>

<p rend="bodytext">थेरो तस्स उपनिस्सयं दिस्वा द्वत्तिंसाकारकम्मट्ठानं आचिक्खित्वा अदासि। सो यावजीवं कुसलं कत्वा देवलोके निब्बत्ति, निब्बत्तट्ठाने जण्णुमत्तेन ओधिना दिब्बपुप्फवस्सं वस्सि, सयञ्‍च अञ्‍ञाहि देवताहि अधिकतरेन रूपेन समन्‍नागतो अहोसि। सो एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे मगधरट्ठे मच्छिकासण्डनगरे सेट्ठिकुले निब्बत्ति, जातकालेवस्स सकलनगरे जण्णुमत्तेन ओधिना पञ्‍चवण्णकुसुमवस्सं वस्सि। अथस्स मातापितरो ‘‘अम्हाकं पुत्तो अत्तनाव अत्तनो नामं गहेत्वा आगतो, जातदिवसेवस्स सकलनगरं पञ्‍चवण्णेहि पुप्फेहि विचित्तं जात’’न्ति <hi rend="bold">चित्तकुमारो</hi>ति नामं अकंसु।</p>

<p rend="bodytext">सो अपरभागे घरावासे पतिट्ठितो <pb ed="P" n="1.0387"/> पितु अच्‍चयेन तस्मिं नगरे सेट्ठिट्ठानं पापुणि। तस्मिं समये पञ्‍चवग्गियत्थेरानं अब्भन्तरो महानामत्थेरो नाम मच्छिकासण्डनगरं अगमासि। चित्तो गहपति तस्स इरियापथे पसीदित्वा पत्तं आदाय गेहं आनेत्वा पिण्डपातेन पतिमानेत्वा कतभत्तकिच्‍चं अम्बाटकारामं नाम उय्यानं नेत्वा तत्थस्स वसनट्ठानं कारेत्वा निबद्धं अत्तनो गेहे पिण्डपातं गहेत्वा वसनत्थाय पटिञ्‍ञं गण्हि। थेरोपि तस्स उपनिस्सयं दिस्वा धम्मं देसेन्तो सळायतनविभत्तिमेव देसेसि। चित्तो गहपति पुरिमभवे मद्दितसङ्खारताय नचिरस्सेव अनागामिफलं सम्पापुणि। अथेकदिवसं इसिदत्तत्थेरो तत्थ गन्त्वा विहरन्तो सेट्ठिस्स निवेसने भत्तकिच्‍चपरियोसाने आयस्मता थेरेन पञ्हं विस्सज्‍जेतुं असक्‍कोन्तेन अज्झिट्ठो उपासकस्स पञ्हं विस्सज्‍जेत्वा तेन पुब्बे गिहिसहायकभावे ञाते ‘‘न इदानि इध वत्थब्ब’’न्ति यथासुखं पक्‍कामि। पुनेकदिवसं, सेट्ठि गहपति, महानामत्थेरं इद्धिपाटिहारियकरणत्थं याचि <pb ed="M" n="1.0298"/>। सोपि तस्स तेजोसमापत्तिपाटिहारियं दस्सेत्वा ‘‘इदानि इध वसितुं न युत्त’’न्ति यथासुखं पक्‍कामि।</p>

<p rend="bodytext">अथेकदिवसं द्वे अग्गसावका भिक्खुसहस्सपरिवारा अम्बाटकारामं अगमंसु। सेट्ठि गहपति, तेसं महासक्‍कारं सज्‍जेसि। सुधम्मत्थेरो तं असहमानो सेट्ठिं तिलसङ्गुलिकावादेन खुंसेत्वा <pb ed="V" n="1.0288"/> तेन पणामितो सत्थु सन्तिकं गन्त्वा ओवादं लभित्वा दसबलस्स ओवादे ठितो चित्तं गहपतिं खमापेत्वा तत्थेव अम्बाटकारामे विहरन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तदा उपासको चिन्तेसि – ‘‘अहं दसबलं अदिस्वाव चिरं वीतिनामेसिं, सत्थु सन्तिकं गच्छन्तेन पन <pb ed="P" n="1.0388"/> अयुत्तं तुच्छहत्थेन गन्तु’’न्ति पञ्‍चहि सकटसतेहि तेलमधुफाणितादीनि आदाय ‘‘ये दसबलं पस्सितुकामा, ते मया सद्धिं आगच्छन्तू’’ति नगरे भेरिं चरापेत्वा द्वीहि पुरिससहस्सेहि परिवुतो सत्थारं पस्सितुं पक्‍कामि। तिंसयोजने मग्गे देवता पण्णाकारं उपट्ठपेसुं। सो सत्थु सन्तिकं गन्त्वा पञ्‍चपतिट्ठितेन सत्थारं वन्दि, तस्मिं खणे आकासा पञ्‍चवण्णानं पुप्फानं वस्सं वस्सि।</p>

<p rend="bodytext">सत्था तस्स अज्झासयवसेन सळायतनविभत्तिमेव कथेसि। तस्स अड्ढमासमत्तं दसबलस्स दानं देन्तस्सापि सकनिवेसनतो नीतानि तण्डुलतेलमधुफाणितादीनि न खीयिंसु। राजगहवासिकेहि पहितपण्णाकारोव अलं अहोसि। सो सत्थारं पस्सित्वा अत्तनो नगरं गच्छन्तो सकटेहि आभतं सब्बं भिक्खुसङ्घस्स अदासि। सकटेसु तुच्छेसु जातमत्तेस्वेव देवता सत्त रतनानि पूरयिंसु। महाजनन्तरे कथा उदपादि ‘‘याव सक्‍कारसम्मानप्पत्तो वतायं चित्तो गहपती’’ति। तं सुत्वा सत्था धम्मपदे इमं गाथमाह –</p>

<p rend="gatha1">‘‘सद्धो सीलेन सम्पन्‍नो, यसो भोगसमप्पितो।</p>

<p rend="gathalast">यं यं पदेसं भजति, तत्थ तत्थेव पूजितो’’ति॥ (ध॰ प॰ ३०३)।</p>

<p rend="bodytext">सो ततो पट्ठाय अरियसावकानंयेव उपासकानं पञ्‍चहि सतेहि परिवुतो विचरति। अथ नं सत्था अपरभागे उपासके पटिपाटिया <pb ed="M" n="1.0299"/> ठानन्तरे ठपेन्तो चित्तसंयुत्तं अट्ठुप्पत्तिं कत्वा धम्मकथिकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">हत्थकआळवकवत्थु</p>

<p rend="bodytext" n="251"><hi rend="paranum">२५१</hi><hi rend="dot">.</hi> चतुत्थे <hi rend="bold">चतूहि सङ्गहवत्थूही</hi>ति चतुब्बिधेन सङ्गहवत्थुना परिसं सङ्गण्हन्तानं हत्थको आळवको अग्गोति दस्सेति। अयं <pb ed="P" n="1.0389"/> किर पदुमुत्तरबुद्धकाले हंसवतियं कुलघरे निब्बत्तो अपरभागे सत्थु धम्मकथं सुणन्तो सत्थारं चतूहि सङ्गहवत्थूहि समन्‍नागतं एकं उपासकं <pb ed="V" n="1.0289"/> ठानन्तरे ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे आळविरट्ठे आळविनगरे आळवकस्स रञ्‍ञो गेहे पटिसन्धिं गण्हि, स्वे भत्तचाटिया सद्धिं आळवकस्स पेसेतब्बो अहोसि।</p>

<p rend="bodytext">तत्रायं अनुपुब्बिकथा – एकदिवसं किर आळवको राजा मिगवत्थाय अरञ्‍ञं गन्त्वा एकं मिगं अनुबन्धित्वा घातेत्वा छिन्दित्वा धनुकोटियं लगेत्वा निवत्तेत्वा आगच्छन्तो वातातपेन किलन्तकायो एकं सन्दच्छायं निग्रोधरुक्खमूलं पविसित्वा निसीदि। अथ नं मुहुत्तं दरथं विनोदेत्वा निक्खमन्तं रुक्खे अधिवत्था देवता ‘‘तिट्ठ तिट्ठ, भक्खोसि मे’’ति हत्थे गण्हि। सो दळ्हं गहितत्ता अञ्‍ञं उपायं अपस्सन्तो ‘‘देवसिकं ते एकेकपुरिसेन सद्धिं चाटिभत्तं पेसेस्सामी’’ति वत्वा नगरं गतो। ततो पट्ठाय बन्धनागारतो एकेकमनुस्सेन सद्धिं चाटिभत्तं पेसेसि। एतेनेव नियामेन बन्धनागारे मनुस्सेसु खीणेसु ‘‘महल्‍लकमनुस्सेसु गय्हमानेसु रट्ठखोभो होती’’ति ते अग्गहेत्वा दहरकुमारे गण्हितुं आरभिंसु। ततो पट्ठाय नगरे दारकमातरो च गब्भिनियो च अञ्‍ञं रट्ठं गच्छन्ति।</p>

<p rend="bodytext">तस्मिं समये सत्था पच्‍चूससमयन्ते लोकं वोलोकेन्तो आळवककुमारस्स तिण्णं मग्गफलानं उपनिस्सयं दिस्वा ‘‘अयं कुमारो कप्पसतसहस्सं <pb ed="M" n="1.0300"/> पत्थितपत्थनो <pb ed="P" n="1.0390"/> देवलोका चवित्वा आळवकरञ्‍ञो गेहे निब्बत्तो, अञ्‍ञं कुमारं अलभन्ता स्वे कुमारं चाटिभत्तेन सद्धिं गहेत्वा गच्छिस्सन्ती’’ति चिन्तेत्वा सायन्हसमये अञ्‍ञातकवेसेन आळवकस्स यक्खस्स भवनद्वारं गन्त्वा तस्स दोवारिकं गद्रभं नाम यक्खं भवनं पविसनत्थाय याचि। सो आह – ‘‘भगवा तुम्हे पविसथ, मय्हं पन आळवकस्स अनारोचनं नाम अयुत्त’’न्ति। सो हिमवन्ते यक्खसमागमं गतस्स आळवकस्स सन्तिकं अगमासि। सत्थापि तं भवनं पविसित्वा आळवकस्स निसीदनपल्‍लङ्के निसीदि।</p>

<p rend="bodytext">तस्मिं समये सातागिरहेमवता आळवकस्स भवनमत्थकेन यक्खसमागमं गच्छन्ता अत्तनो गमने असम्पज्‍जमाने ‘‘किं नु खो कारण’’न्ति आवज्‍जेन्ता सत्थारं आळवकस्स भवने निसिन्‍नं दिस्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा यक्खसमागमं गन्त्वा आळवकस्स तुट्ठिं पवेदयिंसु – ‘‘लाभा ते, आवुसो आळवक, यस्स ते सदेवके लोके अग्गपुग्गलो भवने निसिन्‍नो <pb ed="V" n="1.0290"/>, गन्त्वा सत्थु सन्तिके धम्मं सुणाही’’ति। सो तेसं कथं सुत्वा चिन्तेसि – ‘‘इमे एकस्स मुण्डकसमणस्स मम पल्‍लङ्के निसिन्‍नभावं कथेन्ती’’ति अनत्तमनो कोधाभिभूतो हुत्वा ‘‘अज्‍ज मय्हं एतेन समणेन सद्धिं सङ्गामो भविस्सति, तत्थ मे सहाया नाम होथा’’ति दक्खिणपादं उक्खिपित्वा सट्ठियोजनमत्तं पब्बतकूटं अक्‍कमि, तं भिज्‍जित्वा द्विधा अहोसि। इतो पट्ठाय आळवकयुद्धं वित्थारेतब्बं। आळवको पन सब्बरत्तिं तथागतेन सद्धिं नानप्पकारेन युज्झन्तोपि किञ्‍चि कातुं असक्‍कोन्तो सत्थारं उपसङ्कमित्वा अट्ठ पञ्हे पुच्छि, सत्था विस्सज्‍जेसि <pb ed="P" n="1.0391"/>। देसनापरियोसाने सोतापत्तिफले पतिट्ठासि। वित्थारेत्वा कथेतुकामेन आळवकसुत्तवण्णना (सं॰ नि॰ अट्ठ॰ १.१.२४६) ओलोकेतब्बा।</p>

<p rend="bodytext">पुनदिवसे उट्ठिते अरुणे चाटिभत्ताहरणवेलाय सकलनगरे गहेतब्बयुत्तं दारकं अदिस्वा रञ्‍ञो आरोचेसुं। राजा आह – ‘‘गण्हितुं अयुत्तट्ठाने पन अत्थि, ताता’’ति। आम, देव, अज्‍ज राजकुले पुत्तो जातोति। गच्छथ, ताता, मयं जीवन्ता पुत्तं लभिस्साम, चाटिभत्तेन नं <pb ed="M" n="1.0301"/> पेसेथाति। ते देविया विक्‍कन्दमानाय दारकं गहेत्वा चाटिभत्तेन सद्धिं आळवकस्स भवनद्वारं गन्त्वा ‘‘हन्द, अय्य, तव भागं पटिच्छाही’’ति आहंसु। आळवको तेसं कथं सुत्वा अरियसावकत्ता लज्‍जमानो अधोमुखो निसीदि। अथ नं सत्था आह – ‘‘इदानि ते, आळवक, लज्‍जनकिच्‍चं नत्थि, दारकं गहेत्वा मम हत्थे ठपेही’’ति। ते राजपुरिसा आळवककुमारं आळवकस्स हत्थे ठपेसुं, आळवको तं आदाय दसबलस्स हत्थे ठपेसि, सत्था पटिग्गण्हित्वा पुन आळवकस्स हत्थे ठपेसि, आळवको तं गहेत्वा राजपुरिसानं हत्थे ठपेसि। इतिस्स हत्थतो हत्थं गतत्ता ‘‘हत्थको आळवको’’त्वेव नामं अकंसु।</p>

<p rend="bodytext">अथ नं ते राजपुरिसा तुट्ठमानसा आदाय रञ्‍ञो सन्तिकं अगमंसु। राजा तं दिस्वा ‘‘अज्‍ज चाटिभत्तं न सम्पटिच्छती’’ति सञ्‍ञं कत्वा ‘‘कस्मा, ताता, एवमेव आगतत्था’’ति आह। देव, राजकुलस्स तुट्ठि च वड्ढि च, सत्था आळवकस्स भवने निसीदित्वा आळवकं दमेत्वा उपासकत्ते पतिट्ठापेत्वा कुमारं अम्हाकं दापेसीति। सत्थापि <pb ed="P" n="1.0392"/> आळवकं पत्तचीवरं गाहापेत्वा आळविनगराभिमुखो पायासि। सो नगरं उपसङ्कमन्तो लज्‍जित्वाव ओसक्‍कति। सत्था नं ओलोकेत्वा ‘‘लज्‍जसि, आळवका’’ति पुच्छि। आम, भन्ते, नगरवासिनो मं निस्साय मातिमरणं पितिमरणं पुत्तदारमरणञ्‍च पापुणिंसु। ते मं पस्सित्वा <pb ed="V" n="1.0291"/> दण्डेहिपि लेड्डूहिपि पहरिस्सन्ति। तस्मा ओसक्‍कामि, भन्तेति। ‘‘आळवक, नत्थि ते मया सद्धिं गच्छन्तस्स भयं, विस्सत्थो एही’’ति वत्वा नगरस्स अविदूरे ठाने वनसण्डे अट्ठासि। आळवकराजापि नागरे गहेत्वा सत्थु पच्‍चुग्गमनं गतो। सत्था सम्पत्तपरिसाय धम्मं देसेसि, देसनावसाने चतुरासीति पाणसहस्सानि अमतपानं पिविंसु। ते आळवकस्स तत्थेव वसनट्ठानं कत्वा अनुसंवच्छरं बलिकम्मं पट्ठपेसुं।</p>

<p rend="bodytext">आळवकोपि नागरे धम्मिकाय रक्खाय सङ्गण्हि। सोपि आळवककुमारो वुड्ढिप्पत्तो सत्थु धम्मदेसनं सुत्वा तीणि मग्गफलानि पटिविज्झि। सो सब्बकालं अरियसावकउपासकानं पञ्‍चहि सतेहि परिवुतो चरति। अथेकदिवसं तेहि उपासकेहि सद्धिं सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदि। सत्था सुविनीतं परिसं दिस्वा ‘‘महती <pb ed="M" n="1.0302"/> ते, आळवक, परिसा, कथं तं सङ्गण्हासी’’ति आह। भगवा दानेन तुस्सन्तं दानेन सङ्गण्हामि, पियवचनेन तुस्सन्तं पियवचनेन सङ्गण्हामि, उप्पन्‍नेसु किच्‍चेसु तेसं नित्थरणेन तुस्सन्तं उप्पन्‍नकिच्‍चनित्थरणेन सङ्गण्हामि, समानत्तट्ठानेन तुस्सन्तं समानत्तताय सङ्गण्हामीति। एवमेतं वत्थु समुट्ठितं। अथ <pb ed="P" n="1.0393"/> सत्था अपरभागे जेतवने निसीदित्वा उपासके ठानन्तरेसु ठपेन्तो हत्थकं आळवकं चतूहि सङ्गहवत्थूहि परिसं सङ्गण्हन्तानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">महानामसक्‍कवत्थु</p>

<p rend="bodytext" n="252"><hi rend="paranum">२५२</hi><hi rend="dot">.</hi> पञ्‍चमे <hi rend="bold">पणीतदायकान</hi>न्ति पणीतरसदायकानं महानामो सक्‍को अग्गोति दस्सेति। सो किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तो सत्थु धम्मकथं सुणन्तो सत्थारं एकं उपासकं पणीतरसदायकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुपुरे सक्यराजकुले निब्बत्तित्वा वयप्पत्तो दसबलस्स पठमदस्सनेयेव सोतापत्तिफले पतिट्ठासि।</p>

<p rend="bodytext">अथेकस्मिं समये सत्था वेरञ्‍जायं वस्सावासं वसित्वा अनुपुब्बेन कपिलवत्थुपुरं गन्त्वा निग्रोधारामे पटिवसति। महानामो ‘‘सत्था आगतो’’ति सुत्वा सत्थु सन्तिकं गन्त्वा अभिवादेत्वा एकमन्तं निसिन्‍नो सत्थारं एवमाह – ‘‘भगवा सुतमेतं ‘भिक्खुसङ्घो किर वेरञ्‍जायं भिक्खाचारेन किलमती’ति, मम चतुमासं भिक्खुसङ्घस्स पटिजग्गने पटिञ्‍ञं देथ, अहं <pb ed="V" n="1.0292"/> भिक्खुसङ्घस्स सरीरे ओजं पवेसेस्सामी’’ति। सत्था अधिवासेसि। सो सत्थु अधिवासनं विदित्वा पुनदिवसतो पट्ठाय बुद्धप्पमुखं भिक्खुसङ्घं पणीतरसभोजनचतुमधुरादीहि पटिजग्गित्वा पुन चतुमासं पटिञ्‍ञं गहेत्वा अट्ठ मासे पूरेत्वा पुन चतुमासं पटिञ्‍ञं गहेत्वा सकलसंवच्छरं पटिजग्गि। सत्था ततो परं पटिञ्‍ञं नादासि। महानामो पन ततो पट्ठाय <pb ed="P" n="1.0394"/> अपरापरं सम्पत्तभिक्खुसङ्घस्स तेनेव नियामेन सक्‍कारं करोति। तस्स सो गुणो सकलजम्बुदीपे पाकटो जातो। एवमेतं वत्थु समुट्ठितं। सत्था <pb ed="M" n="1.0303"/> पन अपरभागे जेतवने निसीदित्वा महानामं सक्‍कं पणीतदायकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">उग्गगहपतिवत्थु</p>

<p rend="bodytext" n="253"><hi rend="paranum">२५३</hi><hi rend="dot">.</hi> छट्ठे <hi rend="bold">मनापदायकान</hi>न्ति मनापं चित्तरुचितभोजनं दायकानं उग्गो गहपति, वेसालिको अग्गोति दस्सेति। सो किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तो अपरभागे सत्थु धम्मकथं सुणन्तो सत्थारं एकं उपासकं मनापदायकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे वेसालियं सेट्ठिकुले निब्बत्ति। तस्स जातकाले नामं अनियामितं। अपरभागे पनस्स अत्तभावोपि उग्गतो अहोसि समिद्धो, अलङ्कततोरणं विय उस्सितचित्तपटो विय च अतिविरोचित्थ। गुणापिस्स उग्गता अहेसुं। सो इमेसं द्विन्‍नम्पि उग्गतत्ता <hi rend="bold">उग्गसेट्ठि</hi>त्वेव सङ्खं गतो। सो पनायं दसबलस्स पठमदस्सनेयेव सोतापत्तिफले पतिट्ठाय अपरभागे तीणिपि मग्गफलानि सच्छाकासि। सो अत्तनो महल्‍लककाले रहोगतो निसीदित्वा चिन्तेसि – ‘‘यं यं मय्हं पियं मनापं, तं तदेव दसबलस्स दस्सामि, इदं मे सत्थु सम्मुखापि सुतं ‘मनापदायी लभते मनाप’’’न्ति। अथस्स एतदहोसि – ‘‘अपि नु खो मे चित्तं जानित्वा सत्थापि निवेसनद्वारं आगच्छेय्या’’ति।</p>

<p rend="bodytext">सत्थापि खो तस्स चित्तं ञत्वा भिक्खुसङ्घपरिवुतो निवेसनद्वारेयेव पातुरहोसि। सो ‘‘सत्था आगतो’’ति सुत्वा अतिविय उस्साहजातो दसबलस्स सन्तिकं गन्त्वा पञ्‍चपतिट्ठितेन <pb ed="P" n="1.0395"/> वन्दित्वा सत्थु पत्तं पटिग्गहेत्वा घरं पवेसेत्वा पञ्‍ञत्तवरबुद्धासने सत्थारं, अवसेसआसनेसु भिक्खुसङ्घं निसीदापेत्वा बुद्धप्पमुखं भिक्खुसङ्घं नानग्गरसेहि परिविसित्वा भत्तकिच्‍चपरियोसाने एकमन्तं निसीदित्वा एवमाह – ‘‘सम्मुखा मेतं, भन्ते, भगवतो सुतं सम्मुखा <pb ed="V" n="1.0293"/> पटिग्गहितं ‘मनापदायी लभते मनाप’’’न्ति। यं यं, भन्ते, मय्हं मनापं, तं तं मया बुद्धप्पमुखस्स भिक्खुसङ्घस्स दिन्‍नमेवा’’ति सत्थारं जानापेत्वा ततो पट्ठाय यं यं तस्स मनापं, तं तं बुद्धप्पमुखस्स भिक्खुसङ्घस्स देति। तं पन सब्बं पञ्‍चकनिपाते <pb ed="M" n="1.0304"/> उग्गसुत्ते वित्थारतो आगमिस्सति। एवमेतं वत्थु समुट्ठितं। सत्था अपरभागे जेतवने विहरन्तो तं उपासकं मनापदायकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">उग्गतगहपतिवत्थु</p>

<p rend="bodytext" n="254"><hi rend="paranum">२५४</hi><hi rend="dot">.</hi> सत्तमे <hi rend="bold">सङ्घुपट्ठाकान</hi>न्ति भिक्खुसङ्घस्स उपट्ठाकानं हत्थिगामको उग्गतो गहपति, अग्गोति दस्सेति। सोपि पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तो अपरभागे सत्थु धम्मदेसनं सुत्वा सत्थारं एकं उपासकं सङ्घुपट्ठाकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे हत्थिगामे सेट्ठिकुले निब्बत्ति, तस्स उग्गतकुमारोति नामं अकंसु।</p>

<p rend="bodytext">सो अपरभागे घरावासे पतिट्ठितो पितु अच्‍चयेन सेट्ठिट्ठानं पापुणि। तेन समयेन सत्था भिक्खुसङ्घपरिवुतो चारिकं चरन्तो <pb ed="P" n="1.0396"/> हत्थिगामं पत्वा नागवनुय्याने विहरति। तदा अयं उग्गतसेट्ठि सत्ताहं पानमदमत्तो हुत्वा नाटकेहि परिवुतो नागवनुय्यानं गन्त्वा परिचारयमानो दसबलं दिस्वा बलवहिरोत्तप्पं पच्‍चुपट्ठापेसि। अथस्स सत्थारं उपसङ्कमन्तस्स सब्बो सुरामदो अब्भत्थं अगमासि। सो सत्थारं वन्दित्वा एकमन्तं निसीदि। अथस्स सत्था धम्मं देसेसि। देसनापरियोसाने तीणि मग्गफलानि पटिविज्झि। ततो पट्ठाय नाटकानि ‘‘तुम्हे यथासुखं गच्छथा’’ति विस्सज्‍जेत्वा दानाभिरतो हुत्वा भिक्खुसङ्घस्स दानमेव देति। देवता रत्तिभागसमनन्तरे आगन्त्वा सेट्ठिस्स आरोचेन्ति – ‘‘गहपति, असुको भिक्खु तेविज्‍जो, असुको भिक्खु छळभिञ्‍ञो, असुको सीलवा, असुको दुस्सीलो’’ति। सो तासं वचनं सुत्वापि गुणं ताव यथाभूततो जानाति, देय्यधम्मं पन समचित्तेनेव देति। सत्थु सन्तिके निसीदित्वापि तमेव गुणं कथेति। अपरभागे सत्था जेतवने निसीदित्वा तं गहपतिं सङ्घुपट्ठाकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">सूरम्बट्ठवत्थु</p>

<p rend="bodytext" n="255"><hi rend="paranum">२५५</hi><hi rend="dot">.</hi> अट्ठमे <pb ed="V" n="1.0294"/> <pb ed="M" n="1.0305"/> <hi rend="bold">अवेच्‍चप्पसन्‍नान</hi>न्ति अविगच्छनसभावेन अचलेन पसादेन समन्‍नागतानं सूरम्बट्ठो अग्गोति दस्सेति। अयं किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तो सत्थु धम्मकथं सुत्वा सत्थारं एकं उपासकं अवेच्‍चप्पसन्‍नानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे <pb ed="P" n="1.0397"/> सावत्थियं सेट्ठिकुले निब्बत्ति, सूरम्बट्ठोतिस्स नामं अकंसु।</p>

<p rend="bodytext">सो अपरभागे वयप्पत्तो घरावासे पतिट्ठाय अञ्‍ञतित्थियानं उपट्ठाको हुत्वा चरति। अथ सत्था पच्‍चूससमये लोकं वोलोकेन्तो तस्स सोतापत्तिमग्गहेतुं दिस्वा भिक्खाचारवेलाय निवेसनद्वारं अगमासि। सो दसबलं दिस्वा चिन्तेसि – ‘‘समणो गोतमो महाकुले चेव जातो, लोके च अभिञ्‍ञातो, तेनस्स सन्तिकं अगमनं नाम न युत्त’’न्ति सत्थु सन्तिकं गन्त्वा पादेसु वन्दित्वा पत्तं गहेत्वा घरं पवेसेत्वा महारहे पल्‍लङ्के निसीदापेत्वा भिक्खं दत्वा भत्तकिच्‍चपरियोसाने एकमन्तं निसीदि। सत्था तस्स चरितवसेन धम्मं देसेसि। देसनापरियोसाने सोतापत्तिफले पतिट्ठहि। सत्थापि तं दमेत्वा विहारमेव गतो।</p>

<p rend="bodytext">ततो मारो चिन्तेसि – ‘‘अयं सूरम्बट्ठो नाम अम्हाकं सन्तको, सत्था पनस्स अज्‍ज गेहं गतो, किं नु खो सत्थु धम्मं सुत्वा मग्गपातुभावं अकरित्थाति यावस्स मम विसया अतिक्‍कन्तभावं वा अनतिक्‍कन्तभावं वा जानामी’’ति अत्तनो कामरूपिताय दसबलस्स सरिक्खकं रूपं मापेत्वा चीवरग्गहणम्पि पत्तग्गहणम्पि बुद्धाकप्पेनेव कत्वा द्वत्तिंसलक्खणधरो हुत्वा सूरम्बट्ठस्स गेहद्वारे अट्ठासि। सूरम्बट्ठोपि ‘‘पुन दसबलो आगतो’’ति सुत्वा ‘‘बुद्धानं अनिय्यानिकगमनं नाम नत्थि, केन नु खो कारणेन आगतो’’ति वेगेन ‘‘दसबलो’’ति सञ्‍ञाय तस्स सन्तिकं गन्त्वा अभिवादेत्वा एकमन्तं ठितो, ‘‘भन्ते, तुम्हे इदानेव इमस्मिं गेहे भत्तकिच्‍चं कत्वा गता, किं नु खो कारणं पटिच्‍च पुन <pb ed="P" n="1.0398"/> आगतत्था’’ति आह। ‘‘सूरम्बट्ठ मया धम्मं कथेन्तेन एकं अनुपधारेत्वा <pb ed="M" n="1.0306"/> कथितं। मया हि पञ्‍चक्खन्धा ‘सब्बेव अनिच्‍चा दुक्खा अनत्ता’ति कथिता, न पनेते सब्बेव एवरूपा। एकच्‍चे हि खन्धा निच्‍चा धुवा सस्सता अत्थी’’ति आह।</p>

<p rend="bodytext">ततो <pb ed="V" n="1.0295"/> सूरम्बट्ठो चिन्तेसि – ‘‘अयं कथा अतिविय भारिया। बुद्धानञ्हि अनुपधारेत्वा कथनं नाम नत्थि, दसबलस्स मारो किर पटिपक्खो, अद्धा अयं मारो भविस्सती’’ति चिन्तेत्वा – ‘‘मारोसि त्व’’न्ति आह। अरियसावकेन कथितकथा तस्स फरसुप्पहारो विय अहोसि, तस्मा सकभावेन ठातुं असक्‍कोन्तो ‘‘आम, सूरम्बट्ठ, अहं मारो’’ति आह। ‘‘तादिसानं मारानं सतम्पि सहस्सम्पि आगन्त्वा मम सद्धं चालेतुं न सक्‍कोति, महागोतमो दसबलो मय्हं धम्मं देसेन्तो ‘सब्बे सङ्खारा अनिच्‍चा’ति बोधेत्वा देसेसि, मा मे घरद्वारे तिट्ठा’’ति अच्छरं पहरि। मारो तस्स वचनं सुत्वा पटिप्फरित्वा कथेतुं असक्‍कोन्तो तत्थेव अन्तरधायि। सूरम्बट्ठोपि सायन्हसमये सत्थु सन्तिकं गन्त्वा मारेन कतकिरियं कथेत्वा, ‘‘भन्ते, एवं मारो मम सद्धं चालेतुं वायमित्था’’ति आह। सत्था एतदेव कारणं अट्ठुपत्तिं कत्वा इमस्मिं सासने सूरम्बट्ठं अवेच्‍चप्पसन्‍नानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">जीवकवत्थु</p>

<p rend="bodytext" n="256"><hi rend="paranum">२५६</hi><hi rend="dot">.</hi> नवमे <hi rend="bold">पुग्गलप्पसन्‍नान</hi>न्ति पुग्गलियप्पसादेन समन्‍नागतानं उपासकानं जीवको कोमारभच्‍चो अग्गोति दस्सेति। सो हि पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तो <pb ed="P" n="1.0399"/>। सत्थु धम्मकथं सुणन्तो सत्थारं एकं उपासकं पुग्गलप्पसन्‍नानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे राजगहनगरे अभयराजकुमारं पटिच्‍च सालवतिया नाम रूपूपजीविनिया कुच्छिम्हि निब्बत्तो। रूपूपजीविनियो च नाम विजातकाले सचे पुत्तो होति, छड्डेन्ति। सचे धीता, पटिजग्गन्ति। इति सा तं दारकं कत्तरसुप्पकेन सङ्कारकूटे छड्डापेसि। अथ नं अभयो राजकुमारो राजुपट्ठानं गच्छन्तो तं दिस्वा ‘‘किं, भणे, एतं काकेहि सम्परिकिण्ण’’न्ति मनुस्से पेसेत्वा ‘‘दारको <pb ed="M" n="1.0307"/> देवा’’ति। जीवति, भणेति, ‘‘जीवति, देवा’’ति सुत्वा अत्तनो अन्तेपुरे पोसापेसि। तस्स जीवतीति कथितत्ता जीवकोति नामं अकंसु, कुमारेन पोसापितोति कोमारभच्‍चोति नामं अकंसु।</p>

<p rend="bodytext">सो अत्तनो सोळसवस्सुद्देसिककाले तक्‍कसिलं गन्त्वा वेज्‍जसिप्पं उग्गण्हित्वा बिम्बिसाररञ्‍ञो सन्तिका सक्‍कारं लभित्वा चण्डपज्‍जोतस्स रञ्‍ञो रोगं फासुकं अकासि। सो <pb ed="V" n="1.0296"/> तस्स पञ्‍च तण्डुलसकटसतानि सोळस कहापणसहस्सानि दुस्ससहस्सपरिवारं अनग्घं सिवेय्यकं दुस्सयुगञ्‍च पेसेसि। तस्मिं समये सत्था राजगहं उपनिस्साय गिज्झकूटे पब्बते विहरति। जीवको सत्थु उस्सन्‍नधातुके काये विरेचनं दत्वा भेसज्‍जं करोन्तो ‘‘चत्तारो पच्‍चया मम सन्तकाव होन्तू’’ति सत्थारं अत्तनो विहारे वसापेत्वा सत्थु भेसज्‍जं कत्वा तं दुस्सयुगं उपनेत्वा ‘‘इदं, भन्ते, तुम्हेयेव परिभोगं करोथा’’ति वत्वा तेन सद्धिं लद्धं दुस्ससहस्सं भिक्खुसङ्घस्स अदासि। अयमेत्थ सङ्खेपो, वित्थारेन पन जीवकवत्थु खन्धके (महाव॰ ३२६ आदयो) आगतमेव। सत्था अपरभागे जेतवने विहरन्तो जीवकं कोमारभच्‍चं पुग्गलप्पसन्‍नानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">नकुलपितुगहपतिवत्थु</p>

<p rend="bodytext" n="257"><hi rend="paranum">२५७</hi><hi rend="dot">.</hi> दसमे <pb ed="P" n="1.0400"/> <hi rend="bold">विस्सासकान</hi>न्ति विस्सासिककथं कथेन्तानं उपासकानं अन्तरे, नकुलपिता गहपति, अग्गोति दस्सेति। सो किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं उपासकं विस्सासकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे भग्गरट्ठे सुसुमारगिरिनगरे सेट्ठिकुले निब्बत्ति। सत्थापि भिक्खुसङ्घपरिवुतो चारिकं चरमानो तं नगरं पत्वा भेसकळावने विहरति। अथायं, नकुलपिता गहपति, सुसुमारगिरिवासीहि सद्धिं सत्थु सन्तिकं गन्त्वा पठमदस्सनेनेव सो च भरिया चस्स दसबलं ‘‘अयं अम्हाकं पुत्तो’’ति सञ्‍ञं पट्ठपेत्वा उभोपि <pb ed="M" n="1.0308"/> सत्थु पादेसु निपतित्वा, ‘‘तात, त्वं एत्तकं कालं अम्हे छड्डेत्वा कहं विचरसी’’ति आहंसु। अयं किर, नकुलपिता गहपति, पुब्बे पञ्‍च जातिसतानि दसबलस्स पिता अहोसि, पञ्‍च जातिसतानि चूळपिता, पञ्‍च जातिसतानि महापिता, पञ्‍च जातिसतानि मातुलो, नकुलमातापि पञ्‍च जातिसतानि माता अहोसि, पञ्‍च जातिसतानि चूळमाता, पञ्‍च जातिसतानि महामाता, पञ्‍च जातिसतानि पितुच्छा। इति दीघरत्तं अनुगतसिनेहत्ता दसबलं दिस्वाव ‘‘पुत्तो’’ति सञ्‍ञं कत्वा सण्ठातुं नासक्खिंसु। सत्था याव तेसं चित्तं सञ्‍ञत्तिं न गच्छति, ताव ‘‘अपेथा’’ति नावोच। अथ नेसं यथामनेनेव सतिं पटिलभित्वा मज्झत्तभूतानं आसयं ञत्वा धम्मं देसेसि। देसनापरियोसाने उभोपि सोतापत्तिफले पतिट्ठहिंसु।</p>

<p rend="bodytext">सत्था <pb ed="V" n="1.0297"/> <pb ed="P" n="1.0401"/> अपरभागे तेसं महल्‍लककाले पुन तं नगरं अगमासि। ते ‘‘सत्था आगतो’’ति सुत्वा सत्थु सन्तिकं गन्त्वा पञ्‍चपतिट्ठितेन वन्दित्वा स्वातनाय निमन्तेत्वा पुनदिवसे अत्तनो निवेसने बुद्धप्पमुखं भिक्खुसङ्घं नानग्गरसेहि परिविसित्वा सत्थारं कतभत्तकिच्‍चं उपसङ्कमित्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍नो खो नकुलपिता गहपति, भगवन्तं एतदवोच – ‘‘यतो मे, भन्ते, नकुलमाता गहपतानी, दहरस्सेव दहरा आनीता, नाभिजानामि नकुलमातरं गहपतानिं मनसापि अतिचरिता, कुतो पन कायेन। इच्छेय्याम मयं, भन्ते, दिट्ठे चेव धम्मे अञ्‍ञमञ्‍ञं पस्सितुं अभिसम्परायञ्‍च अञ्‍ञमञ्‍ञं पस्सितु’’न्ति। नकुलमातापि खो, गहपतानी, भगवन्तं एतदवोच – ‘‘यतो अहं, भन्ते, नकुलपितुनो गहपतिस्स दहरस्सेव दहरा आनीता, नाभिजानामि नकुलपितरं गहपतिं मनसापि अतिचरिता, कुतो पन कायेन। इच्छेय्याम मयं, भन्ते, दिट्ठे चेव धम्मे अञ्‍ञमञ्‍ञं पस्सितुं अभिसम्परायञ्‍च अञ्‍ञमञ्‍ञं पस्सितु’’न्ति। अथ अपरभागे सत्था जेतवने निसीदित्वा उपासके पटिपाटिया ठानन्तरेसु ठपेन्तो इमं इमेसं द्विन्‍नम्पि कथं अट्ठुप्पत्तिं कत्वा नकुलपितरं गहपतिं विस्सासकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="centre">छट्ठवग्गवण्णना।</p>

<p rend="centre">दससुत्तपटिमण्डिताय उपासकपाळिया वण्णना निट्ठिता।</p>

<p rend="title">१४. एतदग्गवग्गो</p>

<p rend="subhead">(१४) ७. सत्तमएतदग्गवग्गो</p>

<p rend="subhead">सुजातावत्थु</p>

<p rend="bodytext" n="258"><hi rend="paranum">२५८</hi><hi rend="dot">.</hi> उपासिकापाळिया <pb ed="V" n="1.0298"/> <pb ed="M" n="1.0309"/> पठमे <hi rend="bold">पठमं सरणं गच्छन्तीन</hi>न्ति सब्बपठमं सरणेसु पतिट्ठितानं उपासिकानं, सुजाता नाम, सेनियधीता अग्गाति दस्सेति। सापि <pb ed="P" n="1.0402"/> पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्ता अपरभागे सत्थु धम्मकथं सुणन्ती सत्थारं एकं उपासिकं पठमं सरणं गच्छन्तीनं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव उरुवेलायं सेनानिगमे सेनियकुटुम्बिकस्स गेहे निब्बत्तित्वा वयप्पत्ता एकस्मिं निग्रोधमूले पत्थनं अकासि – ‘‘सचे समजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, अनुसंवच्छरं बलिकम्मं करिस्सामी’’ति। तस्सा सा पत्थना समिज्झि।</p>

<p rend="bodytext">सा महासत्तस्स दुक्‍करकारिकं करोन्तस्स छट्ठे वस्से परिपुण्णे विसाखपुण्णमदिवसे ‘‘पातोव बलिकम्मं करिस्सामी’’ति रत्तिया पच्‍चूससमयं पच्‍चुट्ठाय धेनुयो दुहापेसि। वच्छका धेनूनं थनमूलं न आगमंसु, थनमूले नवभाजनम्हि उपनीतमत्ते अत्तनोव धम्मताय खीरधारा पतिंसु। तं अच्छरियं दिस्वा, सुजाता, सहत्थेनेव खीरं गण्हित्वा नवभाजने पक्खिपित्वा सहत्थेनेव अग्गिं कत्वा पचितुं आरभि। तस्मिं पायासे पच्‍चमाने महन्तमहन्ता बुब्बुळा उट्ठहित्वा दक्खिणावत्ता हुत्वा सञ्‍चरन्ति, एकफुसितम्पि बहि न निग्गच्छति। महाब्रह्मा छत्तं धारेसि, चत्तारो लोकपाला खग्गहत्था आरक्खं गण्हिंसु, सक्‍को अलातानि समानेन्तो अग्गिं जालेसि। देवता चतूसु दीपेसु ओजं संहरित्वा तत्थ पक्खिपिंसु। सुजाता, एकदिवसेयेव इमानि अच्छरियानि दिस्वा पुण्णादासिं आमन्तेसि – ‘‘अम्म, पुण्णे अज्‍ज अम्हाकं देवता अतिविय पसन्‍ना, मया एत्तकं कालं एवरूपं अच्छरियं <pb ed="P" n="1.0403"/> नाम न दिट्ठपुब्बं <pb ed="V" n="1.0299"/>, वेगेन गन्त्वा देवट्ठानं पटिजग्गाही’’ति। सा ‘‘साधु, अय्ये’’ति तस्सा वचनं सम्पटिच्छित्वा तुरिततुरिता रुक्खमूलं अगमासि।</p>

<p rend="bodytext">बोधिसत्तोपि <pb ed="M" n="1.0310"/> खो भिक्खाचारकालं आगमयमानो पातोव गन्त्वा रुक्खमूले निसीदि। रुक्खमूलं सोधनत्थाय गता पुण्णा आगन्त्वा सुजाताय आरोचेसि – ‘‘देवता रुक्खमूले निसिन्‍ना’’ति। सुजाता, ‘‘सचे जे सच्‍चं भणसि, अदासिं करोमी’’ति वत्वा सब्बपसाधनं पसाधेत्वा सतसहस्सग्घनके सुवण्णथाले पायासं वड्ढेत्वा अपराय सुवण्णपातिया पिदहित्वा सेतवत्थेन सम्पलिवेठेत्वा समन्ता गन्धदाममालादामानि ओसारेत्वा उक्खिपित्वा गन्त्वा महापुरिसं दिस्वा बलवपीतिं उप्पादेत्वा दिट्ठट्ठानतो पट्ठाय ओणतोणता गन्त्वा सीसतो थालं ओतारेत्वा विवरित्वा सहेव पातिया पायासं महापुरिसस्स हत्थे ठपेत्वा वन्दित्वा ‘‘यथा मय्हं मनोरथो निप्फन्‍नो, एवं तुम्हाकम्पि निप्फज्‍जतू’’ति वत्वा पक्‍कामि। बोधिसत्तो नेरञ्‍जराय नदिया तीरं गन्त्वा सुवण्णथालं तीरे ठपेत्वा न्हत्वा पच्‍चुत्तरित्वा एकूनपण्णास पिण्डे करोन्तो पायासं परिभुञ्‍जित्वा सुवण्णपातिं नदिया सम्पवाहेत्वा अनुक्‍कमेन बोधिमण्डं आरुय्ह सब्बञ्‍ञुतं पत्वा सत्तसत्ताहं बोधिमण्डे अतिक्‍कमित्वा इसिपतने मिगदाये पवत्तितवरधम्मचक्‍को सुजाताय पुत्तस्स यसदारकस्स उपनिस्सयं दिस्वा गन्त्वा अञ्‍ञतरस्मिं रुक्खमूले निसीदि।</p>

<p rend="bodytext">यसोपि कुलपुत्तो रत्तिभागसमनन्तरे विवटं इत्थागारं दिस्वा सञ्‍जातसंवेगो ‘‘उपद्दुतं वत, भो, उपसट्ठं वत, भो’’ति वत्वा निवेसनतो निक्खमित्वाव बहिनगरे सत्थु सन्तिकं गन्त्वा धम्मदेसनं सुत्वा तीणि मग्गफलानि पटिविज्झि। अथस्स पिता पदानुपदिकं <pb ed="P" n="1.0404"/> गन्त्वा भगवन्तं उपसङ्कमित्वा यसस्स पवत्तिं पुच्छि। सत्था यसं कुलपुत्तं पटिच्छादेत्वा धम्मं देसेसि। देसनापरियोसाने सो सेट्ठिगहपति सोतापत्तिफले पतिट्ठासि, यसो अरहत्तफलं पापुणि। तं भगवा ‘‘एहि भिक्खू’’ति आह, तावदेवस्स गिहिलिङ्गं अन्तरधायि, इद्धिमयपत्तचीवरधरो अहोसि। पितापिस्स सत्थारं निमन्तेसि। सत्था यसं कुलपुत्तं पच्छासमणं कत्वा तस्स घरं गन्त्वा कतभत्तकिच्‍चो धम्मं देसेसि, देसनापरियोसाने यसस्स माता, सुजाता, पुराणदुतियिका च सोतापत्तिफले पतिट्ठहिंसु। तंदिवसं अयं, सुजाता, तेवाचिकसरणे पतिट्ठासि सद्धिं सुणिसाय। अयमेत्थ सङ्खेपो <pb ed="M" n="1.0311"/>, वित्थारतो पनेतं वत्थु खन्धके (महाव॰ २५-२८) आगतमेव <pb ed="V" n="1.0300"/>। सत्था अपरभागे पटिपाटिया उपासिकायो ठानन्तरेसु ठपेन्तो इमं उपासिकं पठमं सरणं गच्छन्तीनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">विसाखावत्थु</p>

<p rend="bodytext" n="259"><hi rend="paranum">२५९</hi><hi rend="dot">.</hi> दुतिये <hi rend="bold">दायिकान</hi>न्ति दानाभिरतानं उपासिकानं, विसाखा मिगारमाता, अग्गाति दस्सेति। सा किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्ता अपरभागे सत्थु धम्मदेसनं सुणन्ती सत्थारं एकं उपासिकं दायिकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा कस्सपबुद्धकाले किकिस्स कासिरञ्‍ञो गेहे सत्तन्‍नं भगिनीनं सब्बकनिट्ठा हुत्वा निब्बत्ति। तदा किर –</p>

<p rend="gatha1">‘‘समणी <pb ed="P" n="1.0405"/> समणगुत्ता च, भिक्खुनी भिक्खुदायिका।</p>

<p rend="gathalast">धम्मा चेव सुधम्मा च, सङ्घदासी च सत्तमा’’ति॥</p>

<p rend="bodytext">इमा सत्त भगिनियो अहेसुं। ता एतरहि –</p>

<p rend="gatha1">‘‘खेमा उप्पलवण्णा च, पटाचारा च गोतमी।</p>

<p rend="gathalast">धम्मदिन्‍ना महामाया, विसाखा चेव सत्तमी’’ति॥ –</p>

<p rend="unindented">एवंनामा हुत्वा निब्बत्ता। तत्रायं सङ्घदासी एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे अङ्गरट्ठे भद्दियनगरे मेण्डकसेट्ठिपुत्तस्स धनञ्‍चयसेट्ठिनो अग्गमहेसिया सुमनदेविया नाम कुच्छिस्मिं निब्बत्ति, <hi rend="bold">विसाखा</hi>तिस्सा नामं अकंसु। तस्सा सत्तवस्सिककाले दसबलो सेलब्राह्मणस्स च अञ्‍ञेसञ्‍च बोधनेय्यबन्धवानं उपनिस्सयसम्पत्तिं दिस्वा महाभिक्खुसङ्घपरिवारो चारिकं चरमानो तस्मिं रट्ठे तं नगरं पापुणि।</p>

<p rend="bodytext">तस्मिञ्‍च समये मेण्डको गहपति तस्मिं नगरे पञ्‍चन्‍नं महापुञ्‍ञानं जेट्ठको हुत्वा सेट्ठिट्ठानं कारेसि। <hi rend="bold">पञ्‍च महापुञ्‍ञा</hi> नाम मेण्डको सेट्ठि, चन्दपदुमा नाम तस्सेव अग्गमहेसी, तस्स च पुत्तो धनञ्‍चयो नाम, तस्स भरिया सुमनदेवी नाम, मेण्डकसेट्ठिस्स दासो <pb ed="V" n="1.0301"/> <pb ed="M" n="1.0312"/> पुण्णो नामाति। न केवलञ्‍च मेण्डकसेट्ठियेव, बिम्बिसारमहाराजस्स पन आणापवत्तिट्ठाने <hi rend="bold">पञ्‍च अमितभोगा</hi> नाम अहेसुं जोतिको जटिलो मेण्डको पुण्णो काकवलियोति। तेसु अयं मेण्डकसेट्ठि दसबलस्स अत्तनो नगरं सम्पत्तभावं सुत्वा पुत्तस्स धनञ्‍चयसेट्ठिनो धीतरं विसाखादारिकं पक्‍कोसित्वा एवमाह – ‘‘अम्म, तुय्हम्पि मङ्गलं अम्हाकम्पि मङ्गलं, तव परिचारिकाहि पञ्‍चदारिकासतेहि <pb ed="P" n="1.0406"/> सद्धिं पञ्‍च रथसतानि आरुय्ह पञ्‍चहि दासिसतेहि परिवुता दसबलस्स पच्‍चुग्गमनं करोही’’ति। सा पितामहस्स वचनं सुत्वा तथा अकासि। कारणाकारणेसु पन कुसलत्ता यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्‍चोरोहित्वा पत्तिकाव सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठासि। अथस्सा चरितवसेन सत्था धम्मं देसेसि। देसनापरियोसाने पञ्‍चहि दारिकासतेहि सद्धिं सोतापत्तिफले पतिट्ठासि। मेण्डकसेट्ठिपि खो सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठासि। अथ सत्था तस्सपि चरितवसेन धम्मं देसेसि। सो देसनापरियोसाने सोतापत्तिफले पतिट्ठाय सत्थारं स्वातनाय निमन्तेत्वा पुनदिवसे अत्तनो निवेसने पणीतेन खादनीयेन भोजनीयेन बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा एतेनुपायेन अड्ढमासं महादानं अदासि। सत्था भद्दियनगरे यथाभिरन्तं विहरित्वा पक्‍कामि।</p>

<p rend="bodytext">इतो परं अञ्‍ञं कथामग्गं विस्सज्‍जेत्वा विसाखाय उप्पत्तिकथाव कथेतब्बा। सावत्थियञ्हि कोसलराजा बिम्बिसारस्स सन्तिकं पेसेसि – ‘‘मम आणापवत्तिट्ठाने अमितभोगविन्दनकुलं नाम नत्थि, अम्हाकं अमितभोगविन्दनकुलं पेसेतू’’ति। राजा अमच्‍चेहि सद्धिं मन्तेसि। अमच्‍चा ‘‘महाकुलं पेसेतुं न सक्‍का, एकं पन सेट्ठिपुत्तं पेसेस्सामा’’ति मेण्डकसेट्ठिनो पुत्तं धनञ्‍चयसेट्ठिं आयाचिंसु। राजा तेसं वचनं सुत्वा तं पेसेसि। अथ नं कोसलराजा सावत्थितो सत्तयोजनमत्थके साकेतनगरे सेट्ठिट्ठानं दत्वा वासेसि।</p>

<p rend="bodytext">सावत्थियञ्‍च मिगारसेट्ठिनो पुत्तो पुण्णवड्ढनकुमारो नाम वयप्पत्तो अहोसि। अथस्स <pb ed="P" n="1.0407"/> पिता ‘‘पुत्तो मे वयप्पत्तो, घरावासेनस्स आबन्धनसमयो’’ति <pb ed="M" n="1.0313"/> ञत्वा ‘‘अम्हाकं समानजातिके कुले दारिकं परियेसथा’’ति कारणाकारणकुसले पुरिसे पेसेसि। ते सावत्थियं अत्तनो रुचितं दारिकं अदिस्वा साकेतं अगमंसु। तंदिवसञ्‍च, विसाखा, अत्तनो समानवयेहि पञ्‍चहि कुमारिकासतेहि परिवारिता नक्खत्तकीळनत्थाय एकं महागामं अगमासि <pb ed="V" n="1.0302"/>। तेपि पुरिसा अन्तोनगरे चरित्वा अत्तनो रुचितं दारिकं अदिस्वा बहिनगरद्वारे अट्ठंसु। तस्मिं समये देवो वस्सितुं आरभि। अथ ता विसाखाय सद्धिं निक्खन्ता दारिका तेमनभयेन वेगेन सालं पविसिंसु। ते पुरिसा तासम्पि अन्तरे यथारुचितं दारिकं न पस्सिंसु। तासं पन सब्बपच्छतो, विसाखा, देवं वस्सन्तम्पि अगणेत्वा अतुरितगमनेन तेमयमानाव सालं पाविसि। ते पुरिसा तं दिस्वा चिन्तयिंसु – ‘‘रूपवती ताव कञ्‍ञा एतपरमा भवेय्य, रूपं पनेतं एकच्‍चाय कारितपत्तं विय होति, कथं समुट्ठापेत्वा कथेन्ता जानिस्साम मधुरवचना वा नो वा’’ति। ततो नं आहंसु – ‘‘अतिविय परिणतवया इत्थी विय यासि, अम्मा’’ति। किं दिस्वा कथेथ, ताताति? अञ्‍ञा तया सद्धिं कीळनकुमारियो तेमनभयेन वेगेन आगन्त्वा सालं पविट्ठा, त्वं पन महल्‍लिका विय पदवारं अतिक्‍कम्म नागच्छसि, साटकस्स तेमनभावम्पि न गणेसि। सचे तं हत्थी वा अस्सो वा अनुबन्धेय्य, किं एवमेवं करेय्यासीति? ताता, साटका नाम न दुल्‍लभा, सुलभा मय्हं कुले साटका। वयप्पत्ता <pb ed="P" n="1.0408"/> मातुगामा पन पणियभण्डसदिसा, हत्थे वा पादे वा भग्गे अङ्गविकलं मातुगामं जिगुच्छन्ता निट्ठुभित्वा गच्छन्ति, तस्मा सणिकं आगताम्हीति।</p>

<p rend="bodytext">ते चिन्तयिंसु – ‘‘इमाय सदिसा इमस्मिं जम्बुदीपे इत्थी नाम नत्थि, यादिसा रूपेन, कथायपि तादिसाव। कारणाकारणं ञत्वा कथेती’’ति तस्सा उपरि मालागुळं खिपिंसु। अथ, विसाखा, चिन्तेसि – ‘‘अहं पुब्बे अपरिग्गहिता, इदानि पन परिग्गहिताम्ही’’ति विनीतेनाकारेन भूमियं निसीदि। अथ नं तत्थेव साणिया परिक्खिपिंसु। सा पटिच्छन्‍नभावं ञत्वा दासिगणपरिवुता गेहं अगमासि। तेपि मिगारसेट्ठिनो पुरिसा ताय सद्धिंयेव धनञ्‍चयसेट्ठिस्स सन्तिकं अगमंसु। ‘‘कतरगामवासिनो <pb ed="M" n="1.0314"/>, ताता, तुम्हे’’ति पुच्छिता ‘‘सावत्थिनगरे मिगारसेट्ठिनो पुरिसम्हा’’ति वत्वा ‘‘मयं अम्हाकं सेट्ठिना तुम्हाकं गेहे वयप्पत्ता दारिका अत्थीति सुत्वा पेसिता’’ति। साधु, ताता, तुम्हाकं सेट्ठि किञ्‍चापि भोगेन अम्हेहि असदिसो, जातिया पन सदिसो। सब्बाकारसम्पन्‍नो नाम दुल्‍लभो गच्छथ तुम्हे सेट्ठिस्स अम्हेहि सम्पटिच्छितभावं आरोचेथाति।</p>

<p rend="bodytext">ते तस्स वचनं सुत्वा सावत्थिं गन्त्वा मिगारसेट्ठिस्स तुट्ठिं वड्ढिं च पवेदेत्वा ‘‘लद्धा नो सामि साकेते धनञ्‍चयसेट्ठिस्स गेहे दारिका’’ति आहंसु। तं सुत्वा मिगारसेट्ठि ‘‘महाकुलगेहे किर नो दारिका लद्धा’’ति तुट्ठमानसो हुत्वा तावदेव धनञ्‍चयसेट्ठिस्स सासनं पहिणि <pb ed="V" n="1.0303"/> ‘‘इदानेव दारिकं आनयिस्साम, कत्तब्बकिच्‍चं करोन्तू’’ति। सोपिस्स पटिसासनं पेसेसि – ‘‘नयिदं अम्हाकं भारियं, सेट्ठि पन अत्तनो कत्तब्बकिच्‍चं करोतू’’ति। सो कोसलरञ्‍ञो सन्तिकं गन्त्वा आरोचेसि – ‘‘देव, एका मे मङ्गलकिरिया अत्थि, दासस्स ते पुण्णवड्ढनस्स धनञ्‍चयसेट्ठिनो धीतरं विसाखं नाम दारिकं आनेस्सामि, साकेतगमनं मे अनुजानाथा’’ति। साधु, महासेट्ठि, किं पन अम्हेहिपि <pb ed="P" n="1.0409"/> आगन्तब्बन्ति? देव तुम्हादिसानं गमनं लद्धुं सक्‍काति? राजा महाकुलस्स सङ्गहं कातुकामो ‘‘होतु सेट्ठि, आगमिस्सामी’’ति सम्पटिच्छित्वा मिगारसेट्ठिना सद्धिं साकेतनगरं अगमासि। धनञ्‍चयसेट्ठि ‘‘मिगारसेट्ठि किर कोसलराजानं गहेत्वा आगतो’’ति सुत्वा पच्‍चुग्गमनं कत्वा राजानं गहेत्वा अत्तनो निवेसनं अगमासि। तावदेव रञ्‍ञो च राजबलस्स च मिगारसेट्ठिनो च वसनट्ठानं चेव मालागन्धभत्तादीनि च सब्बानि पटियादेसि। ‘‘इदं इमस्स लद्धुं वट्टति, इदं इमस्सा’’ति सब्बं अत्तनाव जानाति। ते ते जना चिन्तयिंसु – ‘‘सेट्ठि अम्हाकमेव सक्‍कारं करोती’’ति।</p>

<p rend="bodytext">अथेकदिवसं राजा धनञ्‍चयसेट्ठिस्स सासनं पहिणि ‘‘न सक्‍का सेट्ठिना चिरकालं अम्हाकं भरणपोसनं कातुं, दारिकाय गमनकालं जानातू’’ति। सोपि रञ्‍ञो सासनं पेसेसि – ‘‘इदानि वस्सकालो आगतो, न सक्‍का चतुमासं विचरितुं, तुम्हाकं बलकायस्स यं यं लद्धुं <pb ed="M" n="1.0315"/> वट्टति, सब्बं तं मम भारो। केवलं देवो मया पेसितकाले गच्छतू’’ति। ततो पट्ठाय साकेतनगरं निच्‍चनक्खत्तगामो विय अहोसि। एवं तयो मासा अतिक्‍कन्ता। धनञ्‍चयसेट्ठिनो पन धीताय महालतापसाधनं न ताव निट्ठं गच्छति। अथस्स कम्मन्ताधिट्ठायका आगन्त्वा आरोचयिंसु – ‘‘सेसं असन्तं नाम नत्थि, बलकायस्स पन भत्तपचनदारूनि नप्पहोन्ती’’ति। ‘‘गच्छथ, ताता, हत्थिसाला अस्ससाला वियोजेत्वा भत्तं पचथा’’ति। एवं पचन्तानम्पि अड्ढमासो अतिक्‍कन्तो। ततो पुन आरोचयिंसु – ‘‘दारूनि सामि नप्पहोन्ती’’ति। ‘‘ताता, इमस्मिं काले दारूनि लद्धुं न सक्‍का, दुस्सकोट्ठागारं पन विवरित्वा थूलसाटके गहेत्वा वट्टियो कत्वा तेलचाटियं तेमेत्वा भत्तं पचथा’’ति। इमिना नियामेन पचन्तानं चत्तारो मासा पूरयिंसु।</p>

<p rend="bodytext">ततो <pb ed="P" n="1.0410"/> धनञ्‍चयसेट्ठि धीतुया महालतापसाधनस्स निट्ठितभावं ञत्वा ‘‘स्वे दारिकं पेसेस्सामी’’ति धीतरं समीपे निसीदापेत्वा ‘‘अम्म पतिकुले वसन्तिया नाम इमञ्‍चिमञ्‍च आचारं <pb ed="V" n="1.0304"/> सिक्खितुं वट्टती’’ति ओवादं अदासि। अयं मिगारसेट्ठि अनन्तरगब्भे निसिन्‍नो धनञ्‍चयसेट्ठिनो ओवादं अस्सोसि। सोपि सेट्ठि धीतरं एवं ओवदि –</p>

<p rend="indent">‘‘अम्म ससुरकुले वसन्तिया नाम अन्तोअग्गि बहि न नीहरितब्बो, बहिअग्गि अन्तो न पवेसेतब्बो, ददन्तस्सेव दातब्बं, अददन्तस्स न दातब्बं, ददन्तस्सपि अददन्तस्सपि दातब्बं, सुखं निसीदितब्बं, सुखं परिभुञ्‍जितब्बं, सुखं निपज्‍जितब्बं, अग्गि परिचरितब्बो, अन्तोदेवता नमस्सितब्बा’’ति।</p>

<p rend="bodytext">इमं दसविधं ओवादं दत्वा पुनदिवसे सब्बा सेनियो सन्‍निपातेत्वा राजसेनाय मज्झे अट्ठ कुटुम्बिके पाटिभोगे गहेत्वा ‘‘सचे मे धीतु गतट्ठाने दोसो उप्पज्‍जति, तुम्हेहि सोधेतब्बो’’ति वत्वा नवकोटिअग्घनकेन महालतापसाधनेन धीतरं पसाधेत्वा न्हानचुण्णमूलं चतुपण्णाससकटसतं धनं दत्वा धीताय सद्धिं निबद्धं गमनचारिनियो पञ्‍चसता दासियो पञ्‍च आजञ्‍ञरथसतानि सब्बूपकारञ्‍च <pb ed="M" n="1.0316"/> सतं सतं दत्वा कोसलराजानञ्‍च मिगारसेट्ठिञ्‍च, विस्सज्‍जेत्वा धीतु गमनवेलायं वजाधिट्ठायके पुरिसे पक्‍कोसापेत्वा, ‘‘ताता, मम धीताय गतट्ठाने खीरपानत्थं धेनूहि, यानयोजनत्थं उसभेहि च अत्थो होति, तस्मा मम धीतु गमनमग्गे वजद्वारं विवरित्वा पुथुलतो अट्ठ उसभानि गोगणेन पूरेत्वा तिगावुतमत्थके असुका नाम कन्दरा अत्थि, अग्गगोयूथे तं ठानं पत्ते भेरिसञ्‍ञाय वजद्वारं पिदहेय्याथा’’ति। ते ‘‘साधू’’ति सेट्ठिस्स वचनं सम्पटिच्छित्वा तथा अकंसु <pb ed="P" n="1.0411"/>। वजद्वारे विवटे उळारुळारायेव गावियो निक्खमिंसु। द्वारे पिदहिते पन विसाखाय पुञ्‍ञबलेन बलवगावो च दम्मगावो च बहि लङ्घित्वा मग्गं पटिपज्‍जिंसु। अथ, विसाखा, सावत्थिनगरद्वारं पत्तकाले चिन्तेसि – ‘‘पटिच्छन्‍नयानस्मिं नु खो निसीदित्वा पविसामि, उदाहु रथे ठत्वा’’ति। अथस्सा एतदहोसि – ‘‘पटिच्छन्‍नयानेन मे पविसन्तिया महालतापसाधनस्स विसेसो न पञ्‍ञायिस्सती’’ति। सा सकलनगरस्स अत्तानं दस्सेन्ती रथे ठत्वा नगरं पाविसि। सावत्थिवासिनो विसाखाय सम्पत्तिं दिस्वा ‘‘एसा किर, विसाखा, नाम एवरूपा, अयञ्‍च सम्पत्ति एतिस्साव अनुच्छविका’’ति आहंसु। इति सा महासम्पत्तिया मिगारसेट्ठिनो गेहं पाविसि। आगतदिवसे चस्सा सकलनगरवासिनो ‘‘अम्हाकं, धनञ्‍चयसेट्ठि, अत्तनो नगरं सम्पत्तानं महासक्‍कारं अकासी’’ति यथाबलं पण्णाकारं पहिणिंसु। विसाखा, पहितपहितं पण्णाकारं तस्मिंयेव नगरे अञ्‍ञमञ्‍ञेसु कुलेसु <pb ed="V" n="1.0305"/> सब्बत्थकमेव दापेसि। अथस्सा रत्तिभागसमनन्तरे एकिस्सा आजञ्‍ञवळवाय गब्भवुट्ठानं अहोसि। सा दासीहि दण्डदीपिका गाहापेत्वा तत्थ गन्त्वा वळवं उण्होदकेन न्हापेत्वा तेलेन मक्खापेत्वा अत्तनो वसनट्ठानमेव अगमासि।</p>

<p rend="bodytext">मिगारसेट्ठिपि सत्ताहं पुत्तस्स आवाहसक्‍कारं करोन्तो धुरविहारे वसन्तम्पि तथागतं अमनसिकत्वा सत्तमे दिवसे सकलनिवेसनं पूरेन्तो नग्गसमणके निसीदापेत्वा ‘‘आगच्छतु मे धीता, अरहन्ते वन्दतू’’ति विसाखाय सासनं पहिणि। सा ‘‘अरहन्ता’’ति वचनं सुत्वा सोतापन्‍ना अरियसाविका हट्ठतुट्ठा हुत्वा तेसं निसिन्‍नट्ठानं <pb ed="M" n="1.0317"/> गन्त्वा ते ओलोकेत्वा ‘‘न एवरूपा नाम अरहन्ता होन्ति, हिरोत्तप्पविवज्‍जितानं <pb ed="P" n="1.0412"/> नाम सन्तिकं कस्मा मं ससुरो पक्‍कोसापेती’’ति ‘‘धी, धी’’ति गरहित्वा अत्तनो वसनट्ठानमेव गता। नग्गसमणा तं दिस्वा सब्बे एकप्पहारेनेव सेट्ठिं गरहिंसु – ‘‘किं त्वं, गहपति, अञ्‍ञं नालत्थ, समणस्स गोतमस्स साविकं महाकाळकण्णिं कस्मा इमं गेहं पवेसेसि, वेगेन नं इमस्मा गेहा नीहराही’’ति। ततो सेट्ठि ‘‘न सक्‍का मया इमेसं वचनेन इमं गेहा नीहरितुं, महाकुलस्स धीता अय’’न्ति चिन्तेत्वा – ‘‘आचरिया दहरा नाम जानित्वा वा अजानित्वा वा करेय्युं, तुम्हे तुण्ही होथा’’ति नग्गे उय्योजेत्वा महापल्‍लङ्के निसीदापेत्वा सुवण्णकटच्छुं गहेत्वा विसाखाय परिविसियमानो सुवण्णपातियं अप्पोदकमधुपायासं परिभुञ्‍जि।</p>

<p rend="bodytext">तस्मिं समये एको पिण्डचारिको थेरो पिण्डाय चरन्तो सेट्ठिस्स घरद्वारं पापुणि। विसाखा, तं दिस्वा ‘‘ससुरस्स आचिक्खितुं न युत्त’’न्ति यथा सो थेरं पस्सति, एवं अपगन्त्वा अट्ठासि। सो पन बालो थेरं दिस्वापि अपस्सन्तो विय हुत्वा अधोमुखो पायासमेव भुञ्‍जति। विसाखा, ‘‘थेरं दिस्वापि मे ससुरो सञ्‍ञं न करोती’’ति ञत्वा थेरं उपसङ्कमित्वा ‘‘अतिच्छथ, भन्ते, मय्हं ससुरो पुराणं खादती’’ति आह। सो निगण्ठेहि ताव कथितकाले अधिवासेसि, ‘‘पुराणं खादती’’ति वुत्तक्खणेयेव पन हत्थं अपनेत्वा ‘‘इमं पायासं इतो हरथ, एतञ्‍च इमस्मा गेहा नीहरथ। अयञ्हि मं एवरूपे मङ्गलगेहे असुचिखादकं नाम करोती’’ति आह। तस्मिं खो पन निवेसने सब्बेपि दासकम्मकरा विसाखाय सन्तकाव, को नं हत्थे वा <pb ed="P" n="1.0413"/> पादे वा गण्हिस्सति, मुखेन कथेतुं समत्थोपि नाम नत्थि। ततो, विसाखा, ससुरस्स कथं सुत्वा आह – ‘‘तात, न एत्तकेन वचनेन मयं निक्खमाम, नाहं तुम्हेहि उदकतित्थतो कुम्भदासिका विय आनीता। धरमानकमातापितूनं धीतरो <pb ed="V" n="1.0306"/> नाम न एत्तकेनेव निक्खमन्ति, एतेनेव मे कारणेन पिता इधागमनदिवसे अट्ठ कुटुम्बिके पक्‍कोसापेत्वा ‘सचे मे धीतरं उपादाय दोसो उप्पज्‍जति, सोधेय्याथा’ति <pb ed="M" n="1.0318"/> वत्वा तेसं हत्थे ठपेसि। ते पक्‍कोसापेत्वा मय्हं दोसादोसं सोधापेथा’’ति।</p>

<p rend="bodytext">ततो सेट्ठि ‘‘कल्याणं एसा कथेती’’ति अट्ठ कुटुम्बिके पक्‍कोसापेत्वा ‘‘अयं दारिका सत्तमे दिवसे अपरिपुण्णेयेव मङ्गलगेहे निसिन्‍नं मं ‘असुचिखादको’ति वदती’’ति आह। एवं किर, अम्माति? ‘‘ताता, मय्हं ससुरो असुचिं खादितुकामो भविस्सति, अहं पन एवं कत्वा न कथेमि। एकस्मिं पन पिण्डपातिकत्थेरे घरद्वारे ठिते अयं अप्पोदकमधुपायासं भुञ्‍जन्तो न तं मनसि करोति, अहं इमिना कारणेन ‘अतिच्छथ, भन्ते, मय्हं ससुरो इमस्मिं अत्तभावे पुञ्‍ञं न करोति, पुराणपुञ्‍ञं खादती’ति एत्तकं कथयिन्ति आह। अय्य, इध दोसो नत्थि, अम्हाकं धीता कारणं कथेति, त्वं कस्मा कुज्झसीति? अय्या, एस ताव दोसो मा होतु, अयं पन दारिका आगतदिवसेयेव मम पुत्ते सञ्‍ञं अकत्वा अत्तनो इच्छितट्ठानं अगमासीति। एवं किर, अम्माति? ताता, नाहं इच्छितट्ठानं गच्छामि, इमस्मिं पन गेहे आजानीयवळवाय विजाताय सञ्‍ञम्पि अकत्वा निसीदनं नाम अयुत्तन्ति दण्डदीपिका <pb ed="P" n="1.0414"/> गाहापेत्वा दासीहि परिवुता तत्थ गन्त्वा वळवाय विजातपरिहारं कारापेसिन्ति। अय्य, अम्हाकं धीता तव गेहे दासीहिपि अकत्तब्बकम्मं अकासि, त्वं एत्थ किं दोसं पस्ससीति?</p>

<p rend="bodytext">अय्या, एस ताव गुणो होतु, इमिस्सा पन पिता इधागमनदिवसे ओवादं देन्तो <hi rend="bold">‘‘अन्तोअग्गि बहि न नीहरितब्बो’’</hi>ति आह, किं पन सक्‍का अम्हेहि उभतो पटिविस्सकगेहानं अग्गिं अदत्वा वसितुन्ति? एवं किर, अम्माति? ताता, न मय्हं पिता एतं अग्गिं उपादाय कथेसि, या पन अन्तोनिवेसने सस्सुआदीनं रहस्सकथा उप्पज्‍जति, सा दासिदासानं न कथेतब्बा। एवरूपा हि कथा वड्ढमाना कलहाय संवत्तति, इदं सन्धाय मय्हं पिता कथेसि, ताताति।</p>

<p rend="bodytext">अय्या, एतं ताव एवं होतु, इमिस्सा पिता <hi rend="bold">‘‘बाहिरतो अग्गि न अन्तो पवेसेतब्बो’’</hi>ति आह, किं सक्‍का अम्हेहि अन्तोअग्गिम्हि निब्बुते बाहिरतो अग्गिं अनाहरितुन्ति <pb ed="V" n="1.0307"/>? एवं किर, अम्माति? ताता, मय्हं पिता एतं अग्गिं सन्धाय न कथेसि, यं पन दोसं दासकम्मकारेहि कथितं होति, तं अन्तोमानुसकानं न कथेतब्बं…पे॰…।</p>

<p rend="bodytext">यम्पि <pb ed="M" n="1.0319"/> तेन <hi rend="bold">‘‘ये ददन्ति, तेसंयेव दातब्ब’’</hi>न्ति वुत्तं, तं ‘‘याचितकं उपकरणं गहेत्वा ये पटिददन्ति, तेसंयेव दातब्ब’’न्ति सन्धाय वुत्तं।</p>

<p rend="bodytext"><hi rend="bold">‘‘ये न ददन्ती’’</hi>ति इदम्पि याचितकं उपकरणं गहेत्वा ये न पटिददन्ति, तेसं न दातब्बन्ति सन्धाय वुत्तं।</p>

<p rend="bodytext"><hi rend="bold">‘‘ददन्तस्सपि अददन्तस्सपि दातब्ब’’</hi>न्ति <pb ed="P" n="1.0415"/>, इदं पन दुग्गतेसु ञातिमित्तेसु सम्पत्तेसु पटिदातुं सक्‍कोन्तु वा मा वा, दातुमेव वट्टतीति सन्धाय वुत्तं।</p>

<p rend="bodytext"><hi rend="bold">‘‘सुखं निसीदितब्ब’’</hi>न्ति इदम्पि सस्सुससुरे दिस्वा उट्ठातब्बट्ठाने निसीदितुं न वट्टतीति सन्धाय वुत्तं।</p>

<p rend="bodytext"><hi rend="bold">‘‘सुखं भुञ्‍जितब्ब’’</hi>न्ति इदं पन सस्सुससुरसामिकेहि पुरेतरं अभुञ्‍जित्वा ते परिविसित्वा सब्बेहि लद्धालद्धं ञत्वा पच्छा सयं भुञ्‍जितुं वट्टतीति सन्धाय वुत्तं।</p>

<p rend="bodytext"><hi rend="bold">‘‘सुखं निपज्‍जितब्ब’’</hi>न्ति इदम्पि सस्सुससुरसामिकेहि पुरेतरमेव सयनं आरुय्ह न निपज्‍जितब्बं, तेसं कत्तब्बयुत्तकं वत्तपटिवत्तं कत्वा पच्छा सयं निपज्‍जितुं युत्तन्ति इदं सन्धाय वुत्तं।</p>

<p rend="bodytext"><hi rend="bold">‘‘अग्गि परिचरितब्बो’’</hi>ति इदं पन सस्सुम्पि ससुरम्पि सामिकम्पि अग्गिक्खन्धं विय उरगराजानं विय च कत्वा पस्सितुं वट्टतीति इदं सन्धाय वुत्तन्ति।</p>

<p rend="bodytext">एते ताव एत्तका गुणा होन्तु, इमिस्सा पन पिता <hi rend="bold">अन्तोदेवता नमस्सापेति,</hi> इमस्स को अत्थोति? एवं किर, अम्माति? आम, ताता, एतम्पि हि मे पितरा इदं सन्धाय वुत्तं – ‘‘आवेणिकघरावासं वसनकालतो पट्ठाय अत्तनो घरद्वारं सम्पत्तपब्बजितं दिस्वा यं घरे <pb ed="V" n="1.0308"/> खादनीयं भोजनीयं अत्थि, ततो पब्बजितानं दत्वाव खादितुं वट्टती’’ति। अथ नं ते आहंसु – ‘‘तुय्हं पन महासेट्ठि पब्बजिते दिस्वा अदानमेव रुच्‍चति मञ्‍ञेति। सो अञ्‍ञं पटिवचनं अपस्सन्तो अधोमुखो निसीदि’’।</p>

<p rend="bodytext">अथ नं कुटुम्बिका ‘‘किं सेट्ठि अञ्‍ञोपि अम्हाकं धीतु दोसो अत्थी’’ति पुच्छिंसु। नत्थि <pb ed="P" n="1.0416"/>, अय्याति। कस्मा पन नं निद्दोसं अकारणा गेहतो <pb ed="M" n="1.0320"/> नीहरापेसीति? तस्मिं खणे, विसाखा, आह – ‘‘पठमं ताव मय्हं मम ससुरस्स वचनेन गमनं न युत्तं, मय्हं पन आगमनदिवसे मम दोसादोसं सोधनत्थाय मम पिता तुम्हाकं हत्थे ठपेत्वा अदासि, इदानि मय्हं गन्तुं सुख’’न्ति दासिदासे ‘‘यानादीनि सज्‍जानि करोथा’’ति आणापेसि। अथ नं सेट्ठि ते कुटुम्बिके गहेत्वा, ‘‘अम्म, मया अजानित्वा कथितं, खमाहि मय्ह’’न्ति आह। ‘‘ताता, तुम्हाकं खमितब्बं ताव खमामि, अहं पन बुद्धसासने अवेच्‍चप्पसन्‍नस्स कुलस्स धीता, न मयं विना भिक्खुसङ्घेन वत्ताम। सचे मम रुचिया भिक्खुसङ्घं पटिजग्गितुं लभामि, वसिस्सामी’’ति। ‘‘अम्म, त्वं यथारुचिया तव समणे पटिजग्गाही’’ति।</p>

<p rend="bodytext">ततो, विसाखा, दसबलं निमन्तापेत्वा पुनदिवसे निवेसनं पूरेन्ती बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेसि। नग्गपरिसापि सत्थु मिगारसेट्ठिनो गेहं गतभावं सुत्वा तत्थ गन्त्वा गेहं परिवारेत्वा निसीदिंसु। विसाखा, दक्खिणोदकं दत्वा ‘‘सब्बो सक्‍कारो पटियादितो, ससुरो मे आगन्त्वा दसबलं परिविसतू’’ति सासनं पेसेसि। सो निगण्ठानं वचनं सुत्वा ‘‘मम धीता सम्मासम्बुद्धं परिविसतू’’ति आह। विसाखा, नानग्गरसेहि दसबलं परिविसित्वा निट्ठिते भत्तकिच्‍चे पुन सासनं पहिणि – ‘‘ससुरो मे आगन्त्वा दसबलस्स धम्मकथं सुणातू’’ति। अथ नं ‘‘इदानि अगमनं नाम अतिविय अकारण’’न्ति धम्मकथं सोतुकम्यताय गच्छन्तं नग्गसमणा आहंसु – ‘‘समणस्स गोतमस्स धम्मं सुणन्तो बहिसाणियं निसीदित्वा सुणाही’’ति। पुरेतरमेव च गन्त्वा साणिया परिक्खिपिंसु। मिगारसेट्ठि गन्त्वा बहिसाणियं <pb ed="P" n="1.0417"/> निसीदि। तथागतो ‘‘त्वं बहिसाणियं वा निसीद, परकुट्टे वा परसेले वा परचक्‍कवाळे वा निसीद। अहं बुद्धो नाम सक्‍कोमि तं मम सद्दं सावेतु’’न्ति सुवण्णवण्णफलं अम्बरुक्खं खन्धे गहेत्वा चालेन्तो विय धम्मकथं कथेसि, देसनापरियोसाने सेट्ठि सोतापत्तिफले पतिट्ठाय साणिं उक्खिपित्वा सत्थु पादे पञ्‍चपतिट्ठितेन वन्दित्वा सत्थु सन्तिकेयेव च ‘‘त्वं, अम्म, अज्‍ज आदिं कत्वा मम माता’’ति <pb ed="V" n="1.0309"/> विसाखं अत्तनो मातुट्ठाने ठपेसि। ततो पट्ठाय, विसाखा <hi rend="bold">मिगारमाता,</hi> नाम जाता।</p>

<p rend="bodytext">सा एकदिवसं नक्खत्तसमये वत्तन्ते ‘‘अन्तोनगरे गुणो नत्थी’’ति दासीहि परिवुता सत्थु धम्मकथं सोतुं गच्छन्ती ‘‘बुद्धानं सन्तिकं उद्धतवेसेन <pb ed="M" n="1.0321"/> गन्तुं अयुत्त’’न्ति महालतापसाधनं ओमुञ्‍चित्वा दासिया हत्थे दत्वा सत्थारं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं निसीदि, सत्था धम्मकथं कथेसि। सा धम्मदेसनापरियोसाने दसबलं वन्दित्वा नगराभिमुखा पायासि। सापि दासी अत्तना गहितपसाधनस्स ठपितट्ठानं असल्‍लक्खेत्वा गच्छन्ती पसाधनत्थाय पटिनिवत्ति। अथ नं, विसाखा, ‘‘कहं पन ते तं ठपित’’न्ति पटिपुच्छि। गन्धकुटिपरिवेणे, अय्येति। होतु जे गन्त्वा आहर, गन्धकुटिपरिवेणे ठपितकालतो पट्ठाय आहरापनं नाम अम्हाकं अयुत्तं। तस्मा तं विस्सज्‍जेत्वा दण्डकम्मं करिस्साम। तत्थ पन ठपिते अय्यानं पलिबोधो होतीति।</p>

<p rend="bodytext">पुनदिवसे सत्था भिक्खुसङ्घपरिवारो विसाखाय निवेसनद्वारं सम्पापुणि। निवेसने च निबद्धपञ्‍ञत्तानि आसनानि <pb ed="P" n="1.0418"/>। विसाखा, सत्थु पत्तं गण्हित्वा सत्थारं गेहं पवेसेत्वा पञ्‍ञत्तासनेसुयेव निसीदापेत्वा कतभत्तकिच्‍चे सत्थरि तं पसाधनं आहरित्वा सत्थु पादमूले निक्खिपित्वा ‘‘इदं, भन्ते, तुम्हाकं दम्मी’’ति आह। सत्था ‘‘अलङ्कारो नाम पब्बजितानं न वट्टती’’ति पटिक्खिपि। जानामि, भन्ते, अहं पन इमं अग्घापेत्वा धनं गहेत्वा तुम्हाकं वसनगन्धकुटिं कारेस्सामीति। तदा सत्था अधिवासेसि। सापि तं अग्घापेत्वा नवकोटिधनं गहेत्वा गब्भसहस्सपटिमण्डिते पुब्बारामविहारे तथागतस्स वसनगन्धकुटिं कारेसि। विसाखाय पन निवेसनं पुब्बण्हसमये कासावपज्‍जोतं इसिवातपटिवातमेव होति अनाथपिण्डिकस्स गेहं विय। तस्सापि गेहे सब्बभत्तानि पटियत्तानेव अहेसुं। सा पुब्बण्हसमये भिक्खुसङ्घस्स आमिससङ्गहं कत्वा पच्छाभत्ते भेसज्‍जानि चेव अट्ठविधपानानि च गण्हापेत्वा विहारं गन्त्वा भिक्खुसङ्घस्स दत्वा पच्छा सत्थु धम्मदेसनं सुत्वा आगच्छति। सत्था अपरभागे उपासिकायो पटिपाटिया ठानन्तरेसु ठपेन्तो विसाखं मिगारमातरं दायिकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">खुज्‍जुत्तरा-सामावतीवत्थु</p>

<p rend="bodytext" n="260-261"><hi rend="paranum">२६०-२६१</hi><hi rend="dot">.</hi> ततियचतुत्थेसु <pb ed="V" n="1.0310"/> <hi rend="bold">बहुस्सुतानं यदिदं, खुज्‍जुत्तरा, मेत्ताविहारीनं यदिदं, सामावती</hi>ति बहुस्सुतानं उपासिकानं खुज्‍जुत्तरा, मेत्ताविहारीनं <pb ed="M" n="1.0322"/> सामावती अग्गाति दस्सेति। ता किर द्वेपि पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे <pb ed="P" n="1.0419"/> पटिसन्धिं गण्हित्वा अपरभागे ‘‘सत्थु धम्मकथं सोस्सामा’’ति विहारं अगमंसु। तत्थ, खुज्‍जुत्तरा, सत्थारं एकं उपासिकं बहुस्सुतानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सामावतीपि एकं उपासिकं मेत्ताविहारीनं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। तासं द्विन्‍नम्पि यावजीवं कुसलं कत्वा देवलोके निब्बत्तित्वा देवमनुस्सेसु संसरन्तीनंयेव कप्पसतसहस्सं अतिक्‍कन्तं।</p>

<p rend="bodytext">अथ अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव अल्‍लकप्परट्ठे अहिवातकरोगो नाम उदपादि। एकेकस्मिं गेहे एकप्पहारेनेव दसपि वीसम्पि तिंसम्पि जना मरन्ति, तिरोरट्ठं गता पन जीवितं लभन्ति। तं ञत्वा एको पुरिसो अत्तनो पुत्तदारं आदाय ‘‘अञ्‍ञं रट्ठं गमिस्सामी’’ति ततो निक्खमि। अथस्स घरे गहितपाथेय्यं अन्तरामग्गे कन्तारे अनुत्तिण्णेयेव परिक्खयं अगमासि। तेसं सरीरबलं परिहायि, सकिं माता पुत्तं उक्खिपति, सकिं पिता। अथस्स पिता चिन्तेसि – ‘‘अम्हाकं सरीरबलं परिहीनं, पुत्तं उक्खिपित्वा गच्छन्ता कन्तारं नित्थरितुं न सक्खिस्सामा’’ति। सो तस्स मातरं अजानापेत्वाव उदककिच्‍चेन ओहीनो विय पुत्तं मग्गे निसीदापेत्वा एककोव मग्गं पटिपज्‍जि। ‘‘अथस्स भरिया आगमनं ओलोकयमाना ठिता हत्थे पुत्तं अदिस्वा विरवमाना गन्त्वा कहं मे सामि पुत्तो’’ति आह। को ते पुत्तेन अत्थो? जीवमाना पुत्तं लभिस्सामाति। सा ‘‘अतिसाहसिको वतायं पुरिसो’’ति वत्वा ‘‘गच्छ त्वं, नाहं तादिसेन सद्धिं गमिस्सामी’’ति आह। सो ‘‘अनुपधारेत्वा मे भद्दे कतं, खमेतं मय्ह’’न्ति वत्वा पुत्तं आदायागतो।</p>

<p rend="bodytext">ते तं कन्तारं समतिक्‍कमित्वा सायं एकं गोपालककुलं सम्पापुणिंसु। तं दिवसञ्‍च गोपालककुलवासिनो <pb ed="P" n="1.0420"/> निरुदकपायासं पचिंसु। ते ते दिस्वा ‘‘इमे अतिविय छातका’’ति पायासस्स महाभाजनं पूरेत्वा उळुङ्कपूरं सप्पिं आसिञ्‍चित्वा अदंसु। तेसु तं पायासं भुञ्‍जन्तेसु <pb ed="V" n="1.0311"/> सा इत्थी पमाणेनेव भुञ्‍जि, पुरिसो पन पमाणातिक्‍कन्तं भुञ्‍जित्वा <pb ed="M" n="1.0323"/> जीरापेतुं असक्‍कोन्तो रत्तिभागसमनन्तरे कालमकासि। सो कालं करोन्तो तेसु सालयभावेन गोपालकानं गेहे सुनखिया कुच्छिस्मिं पटिसन्धिं गण्हि। सुनखी नचिरस्सेव विजाता। गोपालको तं कुक्‍कुरं सस्सिरिकं दिस्वा पिण्डेन पलोभेत्वा अत्तनि उप्पन्‍नसिनेहं गहेत्वा सद्धिमेव चरति।</p>

<p rend="bodytext">अथेकदिवसं एको पच्‍चेकबुद्धो भिक्खाचारवेलाय गोपालकस्स घरद्वारं सम्पत्तो। सोपि तं दिस्वा भिक्खं दत्वा अत्तानं निस्साय वसनत्थाय पटिञ्‍ञं गण्हि। पच्‍चेकबुद्धो गोपालककुलस्स अविदूरे ठाने एकस्मिं वनसण्डे वासं उपगतो। गोपालको तस्स सन्तिकं गच्छन्तो तं कुक्‍कुरं गहेत्वाव गच्छति, अन्तरामग्गे च वाळमिगट्ठाने वाळमिगानं पलायनत्थं रुक्खे वा पासाणे वा पहारं देति, सोपि कुक्‍कुरो तस्स करणविधानं ववत्थपेति। अथेकदिवसं सो गोपालको पच्‍चेकबुद्धस्स सन्तिके निसीदित्वा, ‘‘भन्ते, अम्हाकं सब्बकालं आगमनं नाम न होति। अयं पन कुक्‍कुरो छेको, इमस्स आगतसञ्‍ञाय अम्हाकं गेहद्वारं आगच्छेय्याथा’’ति आह। सो एकदिवसं ‘‘पच्‍चेकबुद्धं गण्हित्वा एही’’ति कुक्‍कुरं पेसेसि। कुक्‍कुरो तस्स वचनं सुत्वा भिक्खाचारवेलाय गन्त्वा पच्‍चेकबुद्धस्स पादमूले उरेन निपज्‍जि। पच्‍चेकबुद्धो ‘‘अयं मम सन्तिकं आगतो’’ति ञत्वा पत्तचीवरं आदाय मग्गं पटिपज्‍जि। सो तस्स वीमंसनत्थाय उक्‍कमित्वा अञ्‍ञं मग्गं गण्हि, कुक्‍कुरो पुरतो ठत्वा गोपालकमग्गं पटिपन्‍नकाले <pb ed="P" n="1.0421"/> अपसक्‍कि। यस्मिं च यस्मिं च ठाने वाळमिगानं पलायनत्थं गोपालको रुक्खं वा पासाणं वा पहरि, तं तं ठानं पत्वा कुक्‍कुरो महाविरवं विरवि। तस्स सद्देन वाळमिगा पलायन्ति। पच्‍चेकबुद्धोपि भत्तकिच्‍चवेलाय महन्तं सिनिद्धपिण्डं तस्स देति। सोपि पिण्डलाभेन पच्‍चेकबुद्धे उत्तरितरं सिनेहं करोति।</p>

<p rend="bodytext">गोपालको तेमासं वुत्थस्स पच्‍चेकबुद्धस्स तिचीवरप्पहोनकं साटकं दत्वा, ‘‘भन्ते, सचे वो रुच्‍चति, इधेव वसथ। नो चे रुच्‍चति, यथासुखं गच्छथा’’ति आह। पच्‍चेकबुद्धो गमनाकारं दस्सेति। सो गोपालको पच्‍चेकबुद्धं अनुगन्त्वा निवत्तति। कुक्‍कुरो पच्‍चेकबुद्धस्स अञ्‍ञत्थ गमनभावं ञत्वा अतिसिनेहेन उप्पन्‍नबलवसोको हदयफालनं पत्वा कालं कत्वा तावतिंसपुरे निब्बत्ति। अथस्स पच्‍चेकबुद्धेन <pb ed="M" n="1.0324"/> सद्धिं गमनकाले उच्‍चासद्दं कत्वा वाळमिगानं पलापितभावेन देवताहि सद्धिं कथेन्तस्स सद्दो सकलदेवपुरं छादेत्वा अट्ठासि। सो <pb ed="V" n="1.0312"/> तेनेव नामधेय्यं लभित्वा <hi rend="bold">घोसकदेवपुत्तो</hi> नाम जातो। अथस्स तस्मिं सम्पत्तिं अनुभवन्तस्स मनुस्सपथे कोसम्बिनगरे उदेनो नाम राजा रज्‍जं पटिपज्‍जि। तस्स वत्थु मज्झिमपण्णासके बोधिराजकुमारसुत्तवण्णनायं (म॰ नि॰ अट्ठ॰ २.३२४ आदयो) वुत्तनयेनेव वेदितब्बं।</p>

<p rend="bodytext">तस्मिं पन रज्‍जं कारयमाने घोसकदेवपुत्तो चवित्वा कोसम्बियं एकिस्सा रूपूपजीविनिया कुच्छिम्हि पटिसन्धिं गण्हि। सा दसमासच्‍चयेन विजायित्वा पुत्तभावं ञत्वा सङ्कारकूटे छड्डापेसि। तस्मिं खणे कोसम्बिसेट्ठिनो <pb ed="P" n="1.0422"/> कम्मन्तिको पातोव सेट्ठिघरं गच्छन्तो ‘‘किं नु खो इमं काकेहि सम्परिकिण्ण’’न्ति गन्त्वा दारकं दिस्वा ‘‘महापुञ्‍ञवा एस दारको भविस्सती’’ति एकस्स पुरिसस्स हत्थे गेहं पेसेत्वा सेट्ठिघरं अगमासि। सेट्ठिपि राजूपट्ठानवेलाय राजकुलं गच्छन्तो अन्तरामग्गे पुरोहितं दिस्वा ‘‘अज्‍ज किं नक्खत्त’’न्ति पुच्छि। सो तत्थेव ठितो गणेत्वा ‘‘असुकं नाम नक्खत्तं, अज्‍ज इमिना नक्खत्तेन जातदारको इमस्मिं नगरे सेट्ठिट्ठानं लभिस्सती’’ति आह। सो तस्स कथं सुत्वा वेगेन घरं पेसेसि – ‘‘इमस्स पुरोहितस्स द्वे कथा नाम नत्थि, घरणी च मे गरुगब्भा, जानाथ ताव नं विजाता वा नो वा’’ति। ते गन्त्वा जानित्वा, ‘‘अय्य, न ताव विजाता’’ति आहंसु। तेन हि गच्छथ, इमस्मिं नगरे अज्‍ज जातदारकं परियेसथाति। ते परियेसन्ता तस्स सेट्ठिनो कम्मन्तिकस्स गेहे तं दारकं दिस्वा सेट्ठिनो आरोचयिंसु। तेन हि गच्छथ भणे, तं कम्मन्तिकं पक्‍कोसथाति। ते तं पक्‍कोसिंसु। अथ नं सेट्ठि ‘‘गेहे किर ते दारको अत्थी’’ति पुच्छि। ‘‘आम, अय्या’’ति। ‘‘तं दारकं अम्हाकं देही’’ति। ‘‘न देमि, अय्या’’ति। ‘‘हन्द सहस्सं गण्हित्वा देही’’ति। सो ‘‘अयं जीवेय्य वा मरेय्य वा, दुज्‍जानमिद’’न्ति सहस्सं गण्हित्वा अदासि।</p>

<p rend="bodytext">ततो सेट्ठि चिन्तेसि – ‘‘सचे मे भरिया धीतरं विजायिस्सति, इममेव पुत्तं करिस्सामि। सचे पुत्तं विजायिस्सति, मारेस्सामी’’ति। चिन्तेत्वा गेहे पोसेसि। अथस्स भरिया कतिपाहच्‍चयेन पुत्तं विजायि। ततो सेट्ठि ‘‘एवं तं गावो मद्दित्वा मारेस्सन्ती’’ति चिन्तेत्वा ‘‘इमं <pb ed="M" n="1.0325"/> दारकं वजद्वारे निपज्‍जापेथा’’ति आह। तं तत्थ निपज्‍जापेसुं। अथ नं यूथपति उसभो पठमं निक्खमन्तो दिस्वा ‘‘एवं तं अञ्‍ञे न मद्दिस्सन्ती’’ति चतुन्‍नं पादानं अन्तरे कत्वा अट्ठासि। अथ नं गोपालका दिस्वा <pb ed="P" n="1.0423"/> ‘‘महापुञ्‍ञो एस दारको भविस्सति <pb ed="V" n="1.0313"/>, यस्स तिरच्छानगतापि गुणं जानन्ति, पटिजग्गिस्साम न’’न्ति अत्तनो गेहं नयिंसु।</p>

<p rend="bodytext">सोपि सेट्ठि तस्स मतभावं अनुविज्‍जन्तो ‘‘गोपालकेहि नीतो’’ति सुत्वा पुन सहस्सं दत्वा आणापेत्वा आमकसुसाने छड्डापेसि। तस्मिं च काले सेट्ठिस्स घरे अजपालको सुसानं निस्साय अजिका चारेति। अथेका धेनु अजिका दारकस्स पुञ्‍ञेन मग्गा ओक्‍कम्म गन्त्वा दारकस्स खीरं दत्वा गता। ततो निवत्तमानापि तथेव गन्त्वा खीरमदासि। अजपालको चिन्तेसि – ‘‘अयं अजिका पातोपि इमस्मा ठाना ओक्‍कमित्वा गता, किं नु खो एत’’न्ति गन्त्वा ओलोकेन्तो तं दारकं दिस्वा ‘‘महापुञ्‍ञो एस दारको, तिरच्छानगतापिस्स गुणं जानन्ति, पटिजग्गिस्सामि न’’न्ति गहेत्वा गेहं गतो।</p>

<p rend="bodytext">पुनदिवसे सेट्ठि ‘‘मतो नु खो दारको, न मतो’’ति ओलोकापेन्तो अजपालकेन गहितभावं ञत्वा सहस्सं दत्वा आणापेत्वा ‘‘स्वे इमं नगरं एको सत्थवाहपुत्तो पविसिस्सति, इमं दारकं नेत्वा चक्‍कमग्गे ठपेथ, एवं तं सकटचक्‍कं छिन्दन्तं गमिस्सती’’ति आह। तं तत्थ निक्खित्तं सत्थवाहपुत्तस्स पुरिमसकटे गोणा दिस्वा चत्तारो पादे थम्भे विय ओतारेत्वा अट्ठंसु। सत्थवाहो ‘‘किं नु खो एत’’न्ति तेसं ठितकारणं ओलोकेन्तो दारकं दिस्वा ‘‘महापुञ्‍ञो दारको, पतिजग्गितुं वट्टती’’ति गण्हित्वा अगमासि।</p>

<p rend="bodytext">सेट्ठिपि तस्स चक्‍कपथे मतभावं वा अमतभावं वा ओलोकापेन्तो सत्थवाहेन गहितभावं ञत्वा तस्सपि सहस्सं दत्वा आणापेत्वा नगरतो अविदूरे ठाने पपाते पातापेसि। सो तत्थ पपतन्तो नळकारानं कम्मकरणट्ठाने एकसालाय पतितो। सा तस्स पुञ्‍ञानुभावेन सतविहतकप्पासपिचुसम्फस्ससदिसा <pb ed="P" n="1.0424"/> अहोसि। अथ नं नळकारजेट्ठको ‘‘पुञ्‍ञवा एस दारको, पटिजग्गितुं वट्टती’’ति <pb ed="M" n="1.0326"/> गण्हित्वा गेहं गतो। सेट्ठि दारकस्स पपाततो पतितट्ठाने मतभावं वा अमतभावं वा परियेसापेन्तो नळकारजेट्ठकेन गहितभावं ञत्वा तस्सपि सहस्सं दत्वा आणापेसि।</p>

<p rend="bodytext">अपरभागे सेट्ठिस्स सकपुत्तोपि सोपि उभो वयप्पत्ता अहेसुं। सेट्ठि पुन घोसकदारकस्स <pb ed="V" n="1.0314"/> मारणुपायं चिन्तेन्तो अत्तनो कुम्भकारस्स गेहं गन्त्वा ‘‘अम्भो मय्हं गेहे एवरूपो एको अवजातदारको अत्थि, तं दारकं यंकिञ्‍चि कत्वा मारेतुं वट्टति रहस्सेना’’ति आह। सो उभोपि कण्णे पिदहित्वा ‘‘एवरूपं नाम भारियं कथं कथेतुं न वट्टती’’ति आह। ततो सेट्ठि ‘‘अयं मुधा न करिस्सती’’ति चिन्तेत्वा – ‘‘हन्द, भो, सहस्सं गण्हित्वा एतं कम्मं निप्फादेही’’ति आह। लञ्‍जं नाम अभिन्‍नं भिन्दति, तस्मा सो सहस्सं लभित्वा सम्पटिच्छित्वा ‘‘अहं, अय्य, असुकदिवसे नाम आवापं आलिम्पेस्सामि, तदा तं दारकं असुकवेलाय नाम पेसेही’’ति आह। सेट्ठिपि खो तस्स वचनं सम्पटिच्छित्वा ततो पट्ठाय दिवसे गणेन्तो कुम्भकारेन वुत्तदिवसस्स सम्पत्तभावं ञत्वा घोसककुमारं पक्‍कोसापेत्वा ‘‘अम्हाकं, तात, असुकदिवसे नाम बहूहि भाजनेहि अत्थो, त्वं अम्हाकं कुम्भकारस्स सन्तिकं गन्त्वा ‘पितरा किर मे तुम्हाकं एकं कथितं अत्थि, तं अज्‍ज निप्फादेही’ति वदेही’’ति आह। सो ‘‘साधू’’ति तस्स वचनं सम्पटिच्छित्वा निक्खमि।</p>

<p rend="bodytext">अथ नं अन्तरामग्गे सेट्ठिस्स सकपुत्तो <pb ed="P" n="1.0425"/> गुळकीळं कीळन्तो दिस्वा वेगेन गन्त्वा ‘‘अहं भातिक दारकेहि सद्धिं कीळन्तो एत्तकं नाम जितो, तं मे पटिजिनित्वा देही’’ति आह। सो ‘‘मय्हं इदानि ओकासो नत्थि, पिता मं अच्‍चायिककम्मेन कुम्भकारस्स सन्तिकं पहिणी’’ति आह। इतरो ‘‘अहं भातिक तत्थ गमिस्सामि, त्वं इमेहि सद्धिं कीळित्वा मय्हं लक्खं पच्‍चाहरित्वा देही’’ति आह। ‘‘तेन हि गच्छा’’ति अत्तनो कथितसासनं तस्स कथेत्वा दारकेहि सद्धिं कीळि। सोपि कुमारो कुम्भकारस्स सन्तिकं गन्त्वा तं सासनं आरोचेसि। सो ‘‘साधु, तात, निप्फादेस्सामी’’ति तं कुमारं गब्भं पवेसेत्वा तिखिणाय वासिया खण्डाखण्डिकं छिन्दित्वा चाटियं पक्खिपित्वा चाटिमुखं पिदहित्वा <pb ed="M" n="1.0327"/> भाजनन्तरे ठपेत्वा आवापं आलिम्पेसि। घोसककुमारो बहू जिनित्वा कनिट्ठस्स आगमनं ओलोकेन्तो निसीदि। सो तं चिरायमानं ञत्वा ‘‘किं नु खो चिरायती’’ति कुम्भकारगेहसभागं गन्त्वा कत्थचि अदिस्वा ‘‘गेहं गतो भविस्सती’’ति निवत्तित्वा गेहं अगमासि।</p>

<p rend="bodytext">सेट्ठि नं दूरतोव आगच्छन्तं दिस्वा ‘‘किं नु खो कारणं भविस्सति, मया एस मारणत्थाय कुम्भकारस्स सन्तिकं पहितो, सो दानि पुन इधेवागच्छती’’ति आगच्छन्तंयेव नं <pb ed="V" n="1.0315"/> ‘‘किं, तात, कुम्भकारस्स सन्तिकं न गतोसी’’ति आह। ‘‘आम, तात, न गतोम्ही’’ति। ‘‘कस्मा, ताता’’ति? सो अत्तनो निवत्तकारणञ्‍च कनिट्ठभातिकस्स तत्थ गतकारणञ्‍च आरोचेसि। सेट्ठि तस्स वचनस्स सुतकालतो पट्ठाय महापथविया अज्झोत्थटो विय हुत्वा ‘‘किं <pb ed="P" n="1.0426"/> नामेतं त्वं वदसी’’ति विप्फन्दचित्तो वेगेन कुम्भकारस्स सन्तिकं गन्त्वा अञ्‍ञेसं सन्तिके अकथनीयभावेन ‘‘पेक्ख, भो, पेक्ख, भो’’ति आह। ‘‘किं पेक्खापेसि त्वं’’? निट्ठितं एतं कम्मन्ति। सो ततोव निवत्तित्वा गेहं अगमासि। ततो पट्ठाय चस्स चेतसिकरोगो उप्पज्‍जि।</p>

<p rend="bodytext">सो तस्मिं काले तेन सद्धिं अभुञ्‍जित्वा आसं भिन्दित्वा ‘‘येन केनचि उपायेन मम पुत्तस्स सत्तुनो अन्तरमेव पस्सितुं वट्टती’’ति एकं पण्णं लिखित्वा घोसककुमारं पक्‍कोसित्वा ‘‘त्वं इमं पण्णं आदाय असुकगामे नाम अम्हाकं कम्मन्तिको अत्थि, तस्स सन्तिकं गन्त्वा इमं पण्णं दत्वा ‘इमस्मिं किर पण्णे सासनं सीघं करोही’ति वद। अन्तरामग्गे अम्हाकं सहायको गामकसेट्ठि नाम एको सेट्ठि अत्थि, तस्स घरं गन्त्वा भत्तं भुञ्‍जित्वा गच्छेय्यासी’’ति च मुखसासनं अदासि। सो सेट्ठिं वन्दित्वा पण्णं गहेत्वा निक्खन्तो अन्तरामग्गे गामकसेट्ठिस्स वसनट्ठानं गन्त्वा तस्स गेहं पुच्छित्वा तं बहिद्वारकोट्ठके निसीदित्वा मस्सुपरिकम्मं करोन्तं वन्दित्वा अट्ठासि। ‘‘कुतो आगच्छसि, ताता’’ति च वुत्ते ‘‘कोसम्बिसेट्ठिनो पुत्तोम्हि, ताता’’ति आह। सो ‘‘अम्हाकं सहायसेट्ठिनो पुत्तो’’ति हट्ठतुट्ठो अहोसि।</p>

<p rend="bodytext">तस्मिं <pb ed="M" n="1.0328"/> च खणे तस्स सेट्ठिनो धीताय एका दासी सेट्ठिधीतु पुप्फानि आहरितुं गच्छति। अथ नं सेट्ठि आह – ‘‘त्वं, अम्म, एतं कम्मं ठपेत्वा घोसककुमारस्स पादे धोवित्वा सयनं <pb ed="P" n="1.0427"/> अत्थरित्वा देही’’ति। सा तथा कत्वा आपणं गन्त्वा सेट्ठिधीतु पुप्फानि आहरि। सेट्ठिधीता तं दिस्वा ‘‘त्वं अज्‍ज चिरं बहि पपञ्‍चेसी’’ति तस्सा कुज्झित्वा ‘‘किं ते एत्तकं कालं एत्थ कत’’न्ति आह। ‘‘मा कथेसि, अय्ये, मया एवरूपो नदिट्ठपुब्बो, तुय्हं किर पितु सहायकसेट्ठिनो पुत्तो एको, न सक्‍का तस्स रूपसम्पत्तिं कथेतुं। सेट्ठि मं पुप्फानं अत्थाय गच्छन्तिं ‘तस्स कुमारस्स पादे धोवित्वा सयनं अत्थरित्वा देही’ति आह, तेनाहं बहि चिरं पपञ्‍चेसि’’न्ति। सापि खो सेट्ठिधीता तस्स कुमारस्स चतुत्थे अत्तभावे घरसामिनी अहोसि, तस्मा तस्सा वचनस्स सुतकालतो पट्ठाय नेव अत्तनो ठितभावं <pb ed="V" n="1.0316"/>, न निसिन्‍नभावं अञ्‍ञासि। सा तमेव दासिं गहेत्वा तस्स निपन्‍नट्ठानं गन्त्वा तं निद्दायमानं ओलोकेत्वा दुस्सन्ते पण्णं दिस्वा ‘‘किं नु खो एतं पण्ण’’न्ति कुमारं अनुट्ठापेत्वाव पण्णं गहेत्वा वाचेत्वा ‘‘अयं अत्तनो मरणपण्णं सयमेव गहेत्वा आगच्छती’’ति तं पण्णं फालेत्वा तस्मिं अप्पबुद्धेयेव ‘‘मया तव सन्तिकं पुत्तो पेसितो, सहायकस्स मे गामकसेट्ठिस्स वयप्पत्ता दारिका अत्थि, त्वं सीघं अम्हाकं आणापवत्तिट्ठाने उप्पादं धनं गण्हित्वा सब्बसतेन मम पुत्तस्स गामकसेट्ठिनो धीतरं गहेत्वा मङ्गलं करोहि। मङ्गले च निट्ठिते ‘इमिना मे विधानेन कत’न्ति मय्हं सासनं पेसेहि। अहं तव इध कत्तब्बं जानिस्सामी’’ति पण्णं लिखित्वा तमेव लञ्छनं दत्वा पठमं बद्धनियामेनेव दुस्सन्ते बन्धि।</p>

<p rend="bodytext">सोपि खो कुमारो तंदिवसं तत्थ वसित्वा पुनदिवसे सेट्ठिं आपुच्छित्वा कम्मन्तिकस्स गामं गन्त्वा पण्णं अदासि <pb ed="P" n="1.0428"/>। कम्मन्तिको पण्णं वाचेत्वा गामिके सन्‍निपातेत्वा ‘‘तुम्हेव मं न गणेथ, मम सामी अत्तनो जेट्ठपुत्तस्स सब्बसतेन दारिकं आनेतुं मय्हं सन्तिकं पेसेसि, वेगेन इमस्मिं ठाने उप्पादं सम्पिण्डेथा’’ति सब्बं मङ्गलसक्‍कारं सज्‍जेत्वा गामकसेट्ठिस्स सासनं पेसेत्वा सम्पटिच्छापेत्वा सब्बसतेन मङ्गलकिरियं निट्ठापेत्वा कोसम्बिसेट्ठिस्स पण्णं पहिणि ‘‘मया तुम्हेहि पहितपण्णे सासनं सुत्वा इदञ्‍चिदञ्‍च कत’’न्ति।</p>

<p rend="bodytext">सेट्ठि <pb ed="M" n="1.0329"/> तं सासनं सुत्वा अग्गिदड्ढो विय ‘‘इदानि नट्ठोम्ही’’ति चिन्तनवसेन लोहितपक्खन्दिकरोगं पत्वा ‘‘येन केनचि तं उपायेन पक्‍कोसित्वा मम सन्तकस्स अस्सामिकं करिस्सामी’’ति ‘‘मङ्गलस्स निट्ठितकालतो पट्ठाय कस्मा मय्हं पुत्तो बहि होति, सीघं आगच्छतू’’ति सासनं पेसेसि। सासनं सुत्वा कुमारे गन्तुं आरद्धे सेट्ठिधीता चिन्तेसि – ‘‘अयं बालो मं निस्साय इमं सम्पत्तिं अलत्थन्ति न जानाति, यंकिञ्‍चि कत्वा इमस्स गमनपटिबाहनुपायो कातुं वट्टती’’ति। ततो नं आह – ‘‘कुमार, मा अतिवेगेन गच्छाहि, कुलगामं गच्छन्तेन नाम अत्तनो परिवच्छं कत्वा गन्तुं वट्टती’’ति।</p>

<p rend="bodytext">कोसम्बकसेट्ठिपि तस्स चिरायनभावं ञत्वा पुन सासनं पहिणि ‘‘कस्मा मे पुत्तो चिरायति, अहं लोहितपक्खन्दिकरोगं पत्तो, जीवन्तमेव मं आगन्त्वा दट्ठुं वट्टती’’ति। तस्मिं काले सेट्ठिधीता तस्स आरोचेसि – ‘‘न एसो तव पिता, त्वं पन ‘पिता’ति सञ्‍ञं करोसि <pb ed="V" n="1.0317"/>। एस तव मारणत्थाय कम्मन्तिकस्स पण्णं पहिणि, अहं तं पण्णं अपनेत्वा अञ्‍ञं सासनं लिखित्वा तव एतं सम्पत्तिं <pb ed="P" n="1.0429"/> उप्पादयिं। एस तं ‘अपुत्तं करिस्सामी’ति पक्‍कोसति, एतस्स कालकिरियं आगमेही’’ति। अथस्स धरमानकस्सेव कालकतभावं सुत्वा कोसम्बिनगरं अगमासि। सेट्ठिधीतापि तस्स बहियेव सञ्‍ञं अदासि ‘‘त्वं पविसन्तो सकलगेहे तव आरक्खं ठपेन्तोव पविसाही’’ति। सयम्पि सेट्ठिपुत्तेन सद्धिमेव पविसित्वा उभो हत्थे उक्खिपित्वा रोदन्ती विय हुत्वा अन्धकारट्ठाने निपन्‍नकस्स सेट्ठिस्स सन्तिकं गन्त्वा सीसेनेव हदयं पहरि। सो दुब्बलताय तेनेव पहारेन कालमकासि।</p>

<p rend="bodytext">कुमारोपि पितु सरीरकिच्‍चं कत्वा ‘‘तुम्हे महासेट्ठिस्स मं सकपुत्तोति वदथा’’ति पादमूलिकानं लञ्‍जं अदासि। ततो सत्तमे दिवसे राजा ‘‘सेट्ठिट्ठानारहं एकं लद्धुं वट्टती’’ति ‘‘सेट्ठिस्स सपुत्तकनिपुत्तकभावं जानाथा’’ति पेसेसि। सेट्ठिपादमूलिका रञ्‍ञो सेट्ठिस्स सपुत्तभावं कथयिंसु। राजा ‘‘साधू’’ति सम्पटिच्छित्वा तस्स <pb ed="M" n="1.0330"/> सेट्ठिट्ठानं अदासि। सो घोसकसेट्ठि नाम जातो। अथ नं भरिया आह – ‘‘अय्यपुत्त, त्वम्पि अवजातो, अहम्पि दुग्गतकुले निब्बत्ता। पुब्बे कतकुसलवसेन पन एवरूपं सम्पत्तिं अलभिम्ह, अधुनापि कुसलं करिस्सामा’’ति। सो ‘‘साधु भद्दे’’ति सम्पटिच्छित्वा देवसिकं सहस्सं विस्सज्‍जेत्वा दानं पट्ठपेसि।</p>

<p rend="bodytext">तस्मिं समये तासं द्विन्‍नं जनानं खुज्‍जुत्तरा देवलोकतो चवित्वा घोसकसेट्ठिस्स गेहे धातिया कुच्छिस्मिं पटिसन्धिं गण्हि। सा जातकाले खुज्‍जा अहोसीति खुज्‍जुत्तरातेवस्सा नामं अकंसु। सामावतीपि देवलोकतो चवित्वा भद्दवतियरट्ठे <pb ed="P" n="1.0430"/> भद्दियनगरे भद्दवतियसेट्ठिस्स गेहे पटिसन्धिं गण्हि, सामातिस्सा नामं अकंसु। अपरभागे तस्मिं नगरे छातकभयं उप्पज्‍जि, मनुस्सा छातकभयभीता येन वा तेन वा गच्छन्ति। तदा अयं भद्दवतियसेट्ठि भरियाय सद्धिं मन्तेसि – ‘‘भद्दे इमस्मिं छातकभयस्स अन्तो न पञ्‍ञायति, कोसम्बिनगरे अम्हाकं सहायकस्स घोसकसेट्ठिस्स सन्तिकं गच्छाम, न सो अम्हे दिस्वा पमज्‍जिस्सती’’ति। तस्स किर सो सेट्ठि अदिट्ठसहायको अहोसि, तस्मा एवमाह। सो सेसजनं निवत्तापेत्वा भरियञ्‍च धीतरञ्‍च गण्हित्वा कोसम्बिनगरस्स मग्गं पटिपज्‍जि। ते तयोपि अन्तरामग्गे महादुक्खं अनुभवन्ता अनुपुब्बेन कोसम्बिं पत्वा एकाय सालाय निवासं अकंसु।</p>

<p rend="bodytext">घोसकसेट्ठिपि <pb ed="V" n="1.0318"/> खो अत्तनो घरद्वारे कपणद्धिकवनिब्बकयाचकानं महादानं दापेसि। अथायं भद्दवतियसेट्ठि चिन्तेसि – ‘‘न सक्‍का अम्हेहि इमिनाव कपणवेसेन सहायकस्स अत्तानं दस्सेतुं, सरीरे पाकतिके जाते सुनिवत्था सुपारुता सेट्ठिं पस्सिस्सामा’’ति। ते उभोपि धीतरं घोसकसेट्ठिस्स दानग्गं पहिणिंसु। सा अत्तनो भत्तं आहरणत्थाय भाजनं गहेत्वा दानग्गं गन्त्वा एकस्मिं ओकासे लज्‍जमानरूपा अट्ठासि। तं दिस्वा दानकम्मिको चिन्तेसि – ‘‘सेसजना सम्मुखसम्मुखट्ठाने केवट्टा मच्छविलोपे विय महासद्दं कत्वा गण्हित्वा गच्छन्ति, अयं पन दारिका कुलधीता भविस्सति, उपधिसम्पदापिस्सा अत्थी’’ति।</p>

<p rend="bodytext">ततो <pb ed="M" n="1.0331"/> नं आह – ‘‘त्वं, अम्म, कस्मा <pb ed="P" n="1.0431"/> सेसजनो विय गण्हित्वा न गच्छसी’’ति? तात, एवरूपं सम्बाधट्ठानं किन्ति कत्वा पविसामीति। अम्म, कति पन जना तुम्हेति? तयो जना, ताताति। सो तयो भत्तपिण्डे अदासि। सा तं भत्तं मातापितूनं अदासि, पिता दीघरत्तं छातकत्ता अतिरेकं भुञ्‍जित्वा कालमकासि। सा पुनदिवसे गन्त्वा द्वेयेव भत्तपिण्डे गण्हि। तंदिवसं सेट्ठिभरिया भत्तेन च किलन्तताय सेट्ठिनो च मरणसोकेन रत्तिभागसमनन्तरे कालमकासि। सा पुनदिवसे सेट्ठिधीता एकमेव भत्तपिण्डं गण्हि। दानकम्मिको तस्सा किरियं उपधारेत्वा, ‘‘अम्म, तया पठमदिवसे तयो पिण्डा गहिता, पुनदिवसे द्वे, अज्‍ज एकमेव गण्हसि। किं नु खो कारण’’न्ति पुच्छि। सा तं कारणं कथेसि। कतरगामवासिनो पन, अम्म, तुम्हेति। सा तम्पि कारणं निप्पदेसतो कथेसि। ‘‘अम्म, एवं सन्ते त्वं अम्हाकं सेट्ठिधीता नाम अहोसि, मय्हञ्‍च अञ्‍ञा दारिका नत्थि, त्वं इतो पट्ठाय मम धीता, अम्मा’’ति तं धीतरं कत्वा गण्हि।</p>

<p rend="bodytext">सा उट्ठाय समुट्ठाय दानग्गे महासद्दं सुत्वा ‘‘कस्मा अयं, तात, उच्‍चासद्दमहासद्दो’’ति आह। अम्म, महाजनस्स अन्तरे नाम अप्पसद्दं कातुं न सक्‍काति। अहमेत्थ उपायं जानामि, ताताति। किं कातुं वट्टति, अम्माति? समन्ता वतिं कत्वा द्वे द्वारानि योजेत्वा अन्तो भाजनानि ठपापेत्वा एकेन द्वारेन पविसित्वा भत्तं गण्हित्वा एकेन द्वारेन निक्खमनं करोथ, ताताति। साधु, अम्माति पुनदिवसतो पट्ठाय तथा कारेसि। ततो पट्ठाय दानग्गं पदुमस्सरं विय सन्‍निसिन्‍नसद्दं अहोसि।</p>

<p rend="bodytext">ततो घोसकसेट्ठि पुब्बे दानग्गस्मिं उच्‍चासद्दमहासद्दं सुत्वा तदा तं असुणन्तो दानकम्मिकं <pb ed="V" n="1.0319"/> पक्‍कोसापेत्वा पुच्छि – ‘‘त्वं अज्‍ज दानं न दापेसी’’ति। दिन्‍नं <pb ed="P" n="1.0432"/>, अय्याति। अथ कस्मा पुब्बे विय दानग्गे सद्दो न सुय्यतीति? आम, अय्य, एका मे धीता अत्थि, अहं ताय कथितउपाये ठत्वा दानग्गं निस्सद्दमकासिन्ति। तव धीता नाम नत्थि, कुतो ते धीता लद्धाति? सो वञ्‍चेतुं असक्‍कुणेय्यभावेन सेट्ठिस्स सब्बं धीतु आगमनविधानं कथेसि। कस्मा पन भो त्वं एवरूपं भारियं कम्ममकासि? त्वं एत्तकं अद्धानं मम धीतरं अत्तनो सन्तिके वसमानं नारोचेसि <pb ed="M" n="1.0332"/>, वेगेन तं अम्हाकं गेहं आणापेहीति। सो तस्स वचनं सुत्वा अकामको आणापेसि। ततो पट्ठाय सेट्ठि तं धीतुट्ठाने ठपेत्वा ‘‘धीतु सक्‍कारं करोमी’’ति अत्तनो समानजातिकेहि कुलेहि धीतु समानवयानि पञ्‍च कुमारिकसतानि तस्सा परिवारमकासि।</p>

<p rend="bodytext">अथेकदिवसं उदेनो राजा नगरे अनुसञ्‍चरन्तो तं सामावतिं ताहि कुमारीहि परिवारितं कीळमानं दिस्वा ‘‘कस्सायं दारिका’’ति पुच्छित्वा ‘‘घोसकसेट्ठिस्स धीता’’ति सुत्वा सस्सामिकअस्सामिकभावं पुच्छि। ततो अस्सामिकभावे कथिते ‘‘गच्छथ सेट्ठिनो कथेथ ‘तुम्हाकं धीतरं राजा इच्छती’’’ति। तं सुत्वा सेट्ठि ‘‘अम्हाकं अञ्‍ञा दारिका नत्थि, एकधीतिकं सपत्तिवासे दातुं न सक्‍कोमा’’ति। राजा तं कथं सुत्वा सेट्ठिं च सेट्ठिभरियञ्‍च बहि कत्वा सकलगेहं लञ्छापेसि। सामावती बहि कीळित्वा आगच्छन्ती मातापितरो बहि निसिन्‍नके दिस्वा ‘‘अम्मताता, कस्मा इध निसिन्‍नत्था’’ति? ते तं कारणं कथयिंसु। अम्मताता, कस्मा तुम्हे इमं पटिवचनं न जानाथ ‘‘मम धीता सपत्तिवासे वसन्ती एकिका वसितुं न सक्खिस्सति, सचस्सा परिवारा पञ्‍चसता <pb ed="P" n="1.0433"/> कुमारियो वसापेथ, एवं वसिस्सती’’ति। इदानि एवं कथापेथ, ताताति। ‘‘साधु, अम्म, मयं तव चित्तं न जानिम्हा’’ति वत्वा ते तथा कथयिंसु। राजा उत्तरितरं पसीदित्वा ‘‘सहस्सम्पि होतु, सब्बा आनेथा’’ति आह। अथ नं भद्दकेन नक्खत्तमुहुत्तकेन पञ्‍चमातुगामसतपरिवारं राजगेहं नयिंसु। राजा ता पञ्‍चसतापि तस्सायेव परिवारं कत्वा अभिसेकं कत्वा विसुं एकस्मिं पासादे वसापेसि।</p>

<p rend="bodytext">तेन च समयेन कोसम्बियं घोसकसेट्ठि कुक्‍कुटसेट्ठि पवारिकसेट्ठीति तयो जना अञ्‍ञमञ्‍ञं सहायका होन्ति। ते तयोपि जना पञ्‍चसते तापसे पटिजग्गन्ति। तापसापि चत्तारो मासे तेसं सन्तिके वसित्वा अट्ठ मासे हिमवन्ते वसन्ति। अथेकदिवसं ते तापसा हिमवन्ततो <pb ed="V" n="1.0320"/> आगच्छन्ता महाकन्तारे तसिता किलन्ता एकं महन्तं वटरुक्खं पत्वा तत्थ अधिवत्थाय देवताय सन्तिका सङ्गहं पच्‍चासीसन्ता निसीदिंसु। देवता सब्बालङ्कारविभूसितं हत्थं पसारेत्वा <pb ed="M" n="1.0333"/> तेसं पानीयपानकादीनि दत्वा किलमथं पटिविनोदेसि। ते देवताय आनुभावेन विम्हिता पुच्छिंसु – ‘‘किं नु खो देवते कम्मं कत्वा तया अयं सम्पत्ति लद्धा’’ति? देवता आह – लोके बुद्धो नाम भगवा उप्पन्‍नो, सो एतरहि सावत्थियं विहरति। अनाथपिण्डिको गहपति तं उपट्ठाति। सो उपोसथदिवसेसु अत्तनो भतकानं पकतिभत्तवेतनमेव दत्वा उपोसथं कारापेसि। अथाहं एकदिवसं मज्झन्हिके पातरासत्थाय आगतो कञ्‍चि भतकं कम्मं करोन्तं अदिस्वा ‘‘अज्‍ज मनुस्सा कस्मा <pb ed="P" n="1.0434"/> कम्मं न करोन्ती’’ति पुच्छिं। तस्स मे एतमत्थं आरोचेसुं। अथाहं एतदवोचं – ‘‘इदानि उपड्ढदिवसो गतो, सक्‍का नु खो उपड्ढउपोसथं कातु’’न्ति। ततो सेट्ठिस्स पटिवेदेत्वा ‘‘सक्‍का कातु’’न्ति आह। स्वाहं उपड्ढदिवसं उपोसथं समादियित्वा तदहेव कालं कत्वा इमं सम्पत्तिं पटिलभिन्ति।</p>

<p rend="bodytext">अथ ते तापसा ‘‘बुद्धो किर उप्पन्‍नो’’ति सञ्‍जातपीतिपामोज्‍जा ततो सावत्थिं गन्तुकामा हुत्वापि ‘‘बहूपकारा नो उपट्ठाकसेट्ठिनो, तेसम्पि इममत्थं आरोचेस्सामा’’ति कोसम्बिं गन्त्वा सेट्ठीहि कतसक्‍कारबहुमाना ‘‘तदहेव मयं गच्छामा’’ति आहंसु। ‘‘किं, भन्ते, तुरितत्थ, ननु तुम्हे पुब्बे चत्तारो पञ्‍च मासे वसित्वा गच्छथा’’ति वुत्ता तं पवत्तिं आरोचेसुं। ‘‘तेन हि, भन्ते, सहेव गच्छामा’’ति च वुत्ते – ‘‘गच्छाम मयं, तुम्हे सणिकं आगच्छथा’’ति सावत्थिं गन्त्वा भगवतो सन्तिके पब्बजित्वा अरहत्तं पापुणिंसु।</p>

<p rend="bodytext">तेपि सेट्ठिनो पच्छा पञ्‍चसतपञ्‍चसतसकटपरिवारा सावत्थिं गन्त्वा जेतवनतो अविदूरे ठाने खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा पञ्‍चपतिट्ठितेन वन्दित्वा एकमन्तं निसीदिंसु। सत्था तेसं चरियावसेन धम्मं देसेसि। देसनापरियोसाने तयोपि सोतापत्तिफले पतिट्ठाय स्वातनाय निमन्तेत्वा पुनदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा तेनेव नियामेन अज्‍जतनाय स्वातनायाति निमन्तेत्वा अद्धमासं खन्धावारभत्तं नाम दत्वा सत्थारं अत्तनो नगरं आगमनत्थाय याचिंसु। सत्था ‘‘सुञ्‍ञागारे तथागता अभिरमन्ती’’ति कथेसि। ते ‘‘अञ्‍ञातं, भन्ते’’ति वत्वा ‘‘तुम्हे अम्हेहि पहितसासनेन आगच्छेय्याथा’’ति वत्वा <pb ed="M" n="1.0334"/> सत्थारं वन्दित्वा तिक्खत्तुं पदक्खिणं <pb ed="P" n="1.0435"/> कत्वा अत्तनो नगरमेव आगन्त्वा तयोपि जना सके सके <pb ed="V" n="1.0321"/> उय्याने विहारे कारापेसुं। घोसकसेट्ठिना कारितो घोसितारामो नाम जातो, कुक्‍कुटसेट्ठिना कारितो कुक्‍कुटारामो नाम जातो, पावारिकसेट्ठिना कारितं पावारिकम्बवनं नाम जातं। ते विहारे कारापेत्वा सत्थु दूतं पहिणिंसु – ‘‘सत्था अम्हाकं सङ्गहं कातुं इमं नगरं आगच्छतू’’ति। सत्था ‘‘कोसम्बिं गमिस्सामी’’ति महाभिक्खुसङ्घपरिवारो चारिकं निक्खमन्तो अन्तरामग्गे मागण्डियब्राह्मणस्स अरहत्तूपनिस्सयं दिस्वा गमनं विच्छिन्दित्वा कुरुरट्ठे कम्मासदम्मं नाम निगमं अगमासि।</p>

<p rend="bodytext">तस्मिं समये मागण्डियो सब्बरत्तिं बहिगामे अग्गिं जुहित्वा पातोव अन्तोगामं पविसति। सत्थापि पुनदिवसे अन्तोगामं पिण्डाय पविसन्तो पटिपथे मागण्डियब्राह्मणस्स अत्तानं दस्सेसि। सो दसबलं दिस्वा चिन्तेसि – ‘‘अहं एत्तकं कालं मम धीतु रूपसम्पत्तिया सदिसं दारकं परियेसन्तो चरामि, रूपसम्पत्तिया च सतिपि एवरूपं गहितपब्बज्‍जमेव पत्थेसिं। अयं खो पन पब्बजितो अभिरूपो दस्सनीयो मम धीतुयेव अनुच्छविको’’ति वेगेन गेहं अगमासि। तस्स किर ब्राह्मणस्स पुब्बे एको पब्बजितवंसो अत्थि, तेनस्स पब्बजितमेव दिस्वा चित्तं नमति। सो ब्राह्मणिं आमन्तेसि – ‘‘भद्दे मया एवरूपो पब्बजितो नाम नदिट्ठपुब्बो सुवण्णवण्णो ब्रह्मवण्णो मम धीतुयेव अनुच्छविको, सीघं मे धीतरं अलङ्करोही’’ति। ब्राह्मणिया धीतरं अलङ्करोन्तियाव सत्था अत्तनो ठितट्ठाने पदचेतियानि दस्सेत्वा अन्तोनगरं पाविसि।</p>

<p rend="bodytext">अथ ब्राह्मणो ब्राह्मणिया सद्धिं धीतरं गहेत्वा तं ठानं <pb ed="P" n="1.0436"/> आगच्छन्तो अन्तोगामं पविट्ठकाले आगतत्ता इतो चितो च ओलोकेन्तो दसबलं अदिस्वा ब्राह्मणिं परिभासति – ‘‘तव कारणं भद्दकं नाम नत्थि, तयि पपञ्‍चं करोन्तियाव सो पब्बजितो निक्खमित्वा गतो’’ति। ब्राह्मण, गतो ताव होतु, कतरदिसाभागेन गतोति? इमिना दिसाभागेनाति सत्थु गतट्ठानं ओलोकेन्तोव पदचेतियानि दिस्वा ‘‘भद्दे इमानि तस्स पुरिसस्स पदानि, इतो गतो भविस्सती’’ति आह। अथ, ब्राह्मणी, सत्थु पदचेतियं दिस्वा चिन्तेसि <pb ed="M" n="1.0335"/> – ‘‘बालो वतायं ब्राह्मणो अत्तनो गन्थमत्तस्सापि अत्थं न जानाती’’ति तेन सद्धिं परिहासं करोन्ती आह – ‘‘याव बालो चासि, ब्राह्मण, एवरूपस्स नाम पुरिसस्स धीतरं दस्सामीति वदसि। रागेन हि रत्तस्स दोसेन दुट्ठस्स मोहेन मूळ्हस्स पुरिसस्स पदं नाम एवरूपं न होति। लोके पन विवटच्छदस्स सब्बञ्‍ञुबुद्धस्स एतं पदं’’ पस्स, ब्राह्मण –</p>

<p rend="gatha1">‘‘रत्तस्स <pb ed="V" n="1.0322"/> हि उक्‍कुटिकं पदं भवे,</p>

<p rend="gatha2">दुट्ठस्स होति अवकड्ढितं पदं।</p>

<p rend="gatha3">मूळ्हस्स होति सहसानुपीळितं,</p>

<p rend="gathalast">विवटच्छदस्स इदमीदिसं पद’’न्ति॥</p>

<p rend="bodytext">सो ब्राह्मणिया एत्तकं कथेन्तियापि असुत्वा ‘‘त्वं नाम चण्डा मुखरा’’ति आह। तेसं द्विन्‍नम्पि अञ्‍ञमञ्‍ञं विवादं करोन्तानंयेव सत्था पिण्डाय चरित्वा सद्धिं भिक्खुसङ्घेन कतभत्तकिच्‍चो ब्राह्मणस्स दस्सनूपचारेनेव निक्खमि। ब्राह्मणो सत्थारं दूरतोव आगच्छन्तं दिस्वा ब्राह्मणिं अपसादेत्वा ‘‘अयं <pb ed="P" n="1.0437"/> सो पुरिसो’’ति हट्ठपहट्ठो दसबलस्स पुरतो ठत्वा ‘‘भो पब्बजित, अहं पातोव पट्ठाय तं परियेसन्तो चरामि, इमस्मिं जम्बुदीपे मम धीताय समानरूपा इत्थी नाम नत्थि, पुरिसोपि तया सद्धिं समानरूपो नाम नत्थि, मम धीतरं तुय्हं पोसनत्थाय दम्मि, गण्हाहि न’’न्ति आह। अथ नं सत्था ‘‘अहं, ब्राह्मण, कामग्गवासिनियो उत्तमरूपधरा नानावण्णं कथं कथेन्तियो मम पलोभनत्थमेव आगन्त्वा सन्तिके ठिता देवधीतापि न इच्छिं, किमङ्गं पन इमं गण्हिस्सामी’’ति वत्वा इमं गाथमाह –</p>

<p rend="gatha1">‘‘दिस्वान तण्हं अरतिं रगञ्‍च,</p>

<p rend="gatha2">नाहोसि छन्दो अपि मेथुनस्मिं।</p>

<p rend="gatha3">किंमेविदं मुत्तकरीसपुण्णं,</p>

<p rend="gathalast">पादापि नं सम्फुसितुं न इच्छे’’ति॥ (सु॰ नि॰ ८४१)।</p>

<p rend="bodytext">मागण्डिया चिन्तेसि – ‘‘अनत्थिकेन नाम ‘अल’न्ति वत्तुमेव वट्टति। अयं पन मम सरीरं मुत्तकरीसपुण्णं नाम कत्वा ‘पादापि नं सम्फुसितुं न इच्छे’ति <pb ed="M" n="1.0336"/> अवोच, एकं इस्सरियट्ठानं लभन्ती अन्तरमेवस्स पस्सिस्सामी’’ति आघातं बन्धि। सत्था तं अमनसिकत्वा चरियवसेन ब्राह्मणस्स धम्मदेसनं आरभि। देसनापरियोसाने उभोपि जायम्पतिका अनागामिफले पतिट्ठाय ‘‘इदानि अम्हाकं घरावासेन अत्थो नत्थी’’ति धीतरं मागण्डियं चूळपितरं सम्पटिच्छापेत्वा उभोपि पब्बजित्वा अरहत्तं पापुणिंसु। अथ राजा उदेनो चूळमागण्डियेन <pb ed="V" n="1.0323"/> सद्धिं वोहारं कत्वा <pb ed="P" n="1.0438"/> मागण्डियदारिकं राजानुभावेन गेहं आनेत्वा अभिसेकं कत्वा तस्सा पञ्‍चमातुगामसतपरिवाराय वसनट्ठानं विसुं पासादं अदासि।</p>

<p rend="bodytext">सत्थापि खो अनुपुब्बेन चारिकं चरमानो कोसम्बिनगरं सम्पापुणि। सेट्ठिनो सत्थु आगमनं सुत्वा पच्‍चुग्गमनं कत्वा पञ्‍चपतिट्ठितेन वन्दित्वा एकमन्तं निसिन्‍ना भगवन्तं एतदवोचुं – ‘‘इमे, भन्ते, तयो विहारा तुम्हे उद्दिस्स कता, पटिग्गण्हथ, भन्ते, विहारे चातुद्दिसस्स सङ्घस्स सङ्गहत्थाया’’ति। पटिग्गहेसि भगवा विहारे। तेपि सेट्ठिनो सत्थारं स्वातनाय निमन्तेत्वा अभिवादेत्वा घरं अगमंसु।</p>

<p rend="bodytext">मागण्डियापि खो सत्थु आगतभावं सुत्वा छिन्‍नभिन्‍नके धुत्ते पक्‍कोसापेत्वा तेसं लञ्‍जं दत्वा ‘‘तुम्हे समणं गोतमं इमिना इमिना च नियामेन अक्‍कोसथा’’ति वत्वा उय्योजेसि। ते सत्थु अन्तोगामं पविसनवेलाय सपरिवारं सत्थारं नानाविधेहि अक्‍कोसेहि अक्‍कोसिंसु। आयस्मा आनन्दो सत्थारं आह – ‘‘भन्ते, एवरूपे अक्‍कोसनट्ठाने न वसिस्साम, अञ्‍ञं नगरं गच्छामा’’ति। सत्था, ‘‘आनन्द, तथागता नाम अट्ठहि लोकधम्मेहि न कम्पन्ति, अयम्पि सद्दो सत्ताहं नातिक्‍कमिस्सति, अक्‍कोसकानंयेव उपरि पतिस्सति, त्वं मा वितक्‍कयित्था’’ति। तेपि तयो नगरसेट्ठिनो महासक्‍कारेन भगवन्तं पवेसेत्वा महादानं अदंसु। तेसं अपरापरं दानं ददन्तानंयेव मासो अतिक्‍कमि, अथ नेसं एतदहोसि – ‘‘बुद्धा नाम सब्बलोकं अनुकम्पमाना उप्पज्‍जन्ति, अञ्‍ञेसम्पि ओकासं दस्सामा’’ति। ततो ते कोसम्बिनगरवासिनोपि जनस्स ओकासं अकंसु। ततो पट्ठाय नागरापि वीथिसभागेन गणसभागेन महादानं देन्ति।</p>

<p rend="bodytext">अथेकदिवसं <pb ed="M" n="1.0337"/> सत्था भिक्खुसङ्घपरिवुतो मालाकारकजेट्ठकस्स गेहे निसीदि। तस्मिं <pb ed="P" n="1.0439"/> खणे सामावतिया उपट्ठायिका खुज्‍जुत्तरा अट्ठ कहापणे आदाय मालत्थाय तं गेहं अगमासि। मालाकारजेट्ठको तं दिस्वा, ‘‘अम्म उत्तरे, अज्‍ज तुय्हं पुप्फानि दातुं खणो नत्थि, अहं बुद्धप्पमुखं भिक्खुसङ्घं परिविसामि। त्वम्पि परिवेसनाय सहायिका होहि, एवं इतो परेसं वेय्यावच्‍चकरणतो मुच्‍चिस्सती’’ति आह। ततो खुज्‍जुत्तरा अत्तना लद्धं भोजनं भुञ्‍जित्वा बुद्धानं भत्तग्गे वेय्यावच्‍चं अकासि। सा सत्थारा उपनिसिन्‍नकथावसेन कथितं धम्मं सब्बमेव उग्गण्हि। अनुमोदनं पन सुत्वा सोतापत्तिफले पतिट्ठासि।</p>

<p rend="bodytext">सा <pb ed="V" n="1.0324"/> अञ्‍ञेसु दिवसेसु चत्तारोव कहापणे दत्वा पुप्फानि गहेत्वा गच्छति, तस्मिं पन दिवसे दिट्ठसच्‍चभावेन परसन्तके चित्तं अनुप्पादेत्वा सब्बेव अट्ठ कहापणे दत्वा पच्छिं पूरेत्वा पुप्फानि आदाय सामावतिया सन्तिकं अगमासि। अथ नं सा पुच्छि – ‘‘अम्म उत्तरे, त्वं अञ्‍ञेसु दिवसेसु न बहूनि पुप्फानि आहरसि, अज्‍ज पन बहुकानि, किं नो राजा उत्तरितरं पसन्‍नो’’ति? सा मुसावादे अभब्बताय अतीते अत्तना कतं अनिगुहित्वा सब्बं कथेसि। ‘‘अथ कस्मा अज्‍ज बहूनि पुप्फानि आहरसी’’ति वुत्ता च एवमाह – ‘‘अहं अज्‍ज दसबलस्स धम्मं सुत्वा अमतं सच्छाकासिं, तस्मा तुम्हे न वञ्‍चेमी’’ति। तं सुत्वा, ‘‘अम्म उत्तरे, तया लद्धं अमतधम्मं अम्हाकम्पि देही’’ति सब्बाव हत्थं पसारयिंसु। अय्ये, एवं दातुं न सक्‍का, अहं पन सत्थारा कथितनियामेन तुम्हाकं धम्मं देसेस्सामि, तुम्हे अत्तनो हेतुम्हि सति तं धम्मं लभिस्सथाति। तेन हि, अम्म उत्तरे, कथेहीति। ‘‘एवं कथेतुं न सक्‍का, मय्हं उच्‍चं आसनं पञ्‍ञापेत्वा तुम्हे नीचासनेसु निसीदथा’’ति आह। ता <pb ed="P" n="1.0440"/> पञ्‍चसतापि इत्थियो खुज्‍जुत्तराय उच्‍चासनं दत्वा सयं नीचासनानि गहेत्वा निसीदिंसु। खुज्‍जुत्तरापि सेक्खपटिसम्भिदासु ठत्वा तासं धम्मं देसेसि। देसनापरियोसाने सामावतिं जेट्ठिकं कत्वा सब्बाव सोतापत्तिफले पतिट्ठहिंसु। ततो पट्ठाय खुज्‍जुत्तरं वेय्यावच्‍चकरणतो अपनेत्वा ‘‘त्वं सत्थु धम्मकथं सुत्वा आहरित्वा अम्हे सावेही’’ति आहंसु। खुज्‍जुत्तरापि ततो पट्ठाय तथा अकासि।</p>

<p rend="bodytext">कस्मा <pb ed="M" n="1.0338"/> पनेसा दासी हुत्वा निब्बत्ताति? सा किर कस्सपदसबलस्स सासने एकाय सामणेरिया अत्तनो वेय्यावच्‍चं कारेसि। तेन कम्मेन पञ्‍च जातिसतानि परेसं दासीयेव हुत्वा निब्बत्ति। कस्मा पन खुज्‍जा अहोसीति? अनुप्पन्‍ने किर बुद्धे अयं बाराणसिरञ्‍ञो गेहे वसन्ती एकं राजकुलूपकं पच्‍चेकबुद्धं खुज्‍जधातुकं दिस्वा अत्तना सहवासीनं मातुगामानं पुरतो परिहासं करोन्ती खुज्‍जाकारेन विचरि। तस्मा खुज्‍जा हुत्वा निब्बत्ति। किं पन कत्वा सा पञ्‍ञवन्ती जाताति? अनुप्पन्‍ने बुद्धे अयं बाराणसिरञ्‍ञो गेहे वसन्ती अट्ठ पच्‍चेकबुद्धे राजगेहतो उण्हपायासस्स पूरिते पत्ते गहेत्वा गच्छन्ते दिस्वा ‘‘एत्थ ठपेत्वा गच्छथ, भन्ते’’ति अट्ठ सुवण्णकटके ओमुञ्‍चित्वा अदासि। तस्स कम्मस्स निस्सन्देन पञ्‍ञवन्ती हुत्वा निब्बत्ति।</p>

<p rend="bodytext">अथ खो ता सामावतिया परिवारा पञ्‍चसता इत्थियो पटिविद्धसच्‍चापि समाना रञ्‍ञो <pb ed="V" n="1.0325"/> अस्सद्धभावेन कालेन कालं सत्थु सन्तिकं गन्त्वा बुद्धदस्सनं न लभन्ति। तस्मा दसबले अन्तरवीथिं पटिपन्‍ने वातपानेसु नप्पहोन्तेसु अत्तनो अत्तनो गब्भेसु छिद्दं कत्वा तेहि ओलोकेन्ति <pb ed="P" n="1.0441"/>। अथेकदिवसं मागण्डिया अत्तनो पासादतलतो निक्खमित्वा चङ्कममाना तासं वसनट्ठानं गन्त्वा गब्भच्छिद्दं दिस्वा ‘‘किमिद’’न्ति पुच्छि। ताहि तस्सा सत्थरि बद्धाघाततं अजानन्तीहि – ‘‘सत्था इमं नगरं आगतो, मयं एत्थ ठत्वा सत्थारं पस्साम चेव पूजेम चा’’ति वुत्ते ‘‘इदानिस्स कत्तब्बं जानिस्सामि, इमापि तस्स उपट्ठायिका, इमासम्पि कत्तब्बं जानिस्सामी’’ति चिन्तेत्वा गन्त्वा रञ्‍ञा सद्धिं रहोगतकाले, ‘‘महाराज, सामावतिमिस्सकानं बहिद्धा पत्थना अत्थि, कतिपाहेनेव ते जीवितं मारेस्सन्ति, सामावती, सपरिवारा तुम्हेसु सिनेहं वा पेमं वा न करोति, समणं पन गोतमं अन्तरवीथिया गच्छन्तं दिस्वा वातपानेसु अप्पहोन्तेसु तानि खण्डित्वापि ओकासं कत्वा ओलोकेन्ती’’ति आह। राजा ‘‘न ता एवरूपं करिस्सन्ती’’ति न सद्दहति। पुन वुत्तेपि न सद्दहतियेव। अथ नं तिक्खत्तुं वुत्तेपि अस्सद्दहन्तं ‘‘सचे मे वचनं न सद्दहसि, तासं वसनट्ठानं गन्त्वा उपधारेहि, महाराजा’’ति आह। राजा गन्त्वा गब्भेसु छिद्दं दिस्वा ‘‘इदं कि’’न्ति पुच्छित्वा तस्मिं अत्थे आरोचिते तासं अक्‍कुज्झित्वा किञ्‍चि <pb ed="M" n="1.0339"/> अवत्वा छिद्दानि पिदहापेसि। राजा ततो पट्ठाय तासं पासादे उद्धच्छिद्दकजालवातपानानि कारेसि।</p>

<p rend="bodytext">सा तेन कारणेन राजानं कोपेतुं असक्‍कोन्ती, ‘‘देव, एतासं तुम्हेसु पेमं अत्थि वा नत्थि वाति जानिस्साम, अट्ठ कुक्‍कुटे पेसेत्वा तुम्हाकं अत्थाय पचापेथा’’ति आह। राजा तस्सा वचनं सुत्वा ‘‘इमे पचित्वा पेसेतू’’ति सामावतिया अट्ठ कुक्‍कुटे पहिणि। सोतापन्‍ना अरियसाविका जीवमाने कुक्‍कुटे किं पचिस्सति, अलन्ति वत्वा पन हत्थेनपि फुसितुं न इच्छि। मागण्डिया ‘‘होतु, महाराज, एतेयेव च कुक्‍कुटे समणस्स गोतमस्स पचनत्थाय पेसेही’’ति। राजा तथा अकासि। मागण्डिया अन्तरामग्गेयेव कुक्‍कुटे मारापेत्वा ‘‘इमे कुक्‍कुटे पचापेत्वा समणस्स गोतमस्स देतू’’ति पहिणि। सा तेसं मतभावेन दसबलञ्‍च उद्दिस्स पहितभावेन पचित्वा दसबलस्स <pb ed="P" n="1.0442"/> पेसेसि। मागण्डिया ‘‘पस्स, महाराजा’’ति वत्वा एत्तकेनपि राजानं कोपेतुं नासक्खि।</p>

<p rend="bodytext">अयं पन उदेनो तासु एकेकिस्सा वसनट्ठाने सत्त सत्त दिवसानि वसि। अथायं मागण्डिया एकं कण्हसप्पपोतकं वेळुपब्बे पक्खिपापेत्वा अत्तनो वसनट्ठाने ठपेसि। रञ्‍ञो च <pb ed="V" n="1.0326"/> यत्थ कत्थचि गच्छन्तस्स हत्थिकन्तवीणं आदाययेव गमनं आचिण्णं, मागण्डिया रञ्‍ञो अत्तनो सन्तिकं आगमनकाले तं सप्पपोतकं अन्तोवीणाय पक्खिपित्वा छिद्दं पिदहापेसि। अथ नं सामावतिया सन्तिकं गमनकाले, ‘‘महाराज, सामावती नाम समणस्स गोतमस्स पक्खा, तुम्हे न गणेति। यं किञ्‍चि कत्वा तुम्हाकं दोसमेव चिन्तेति, अप्पमत्ता होथा’’ति आह। राजा सामावतिया वसनट्ठाने सत्ताहं वीतिनामेत्वा पुन सत्ताहे मागण्डियाय निवेसनं अगमासि। सा तस्मिं आगच्छन्तेयेव ‘‘कच्‍चि ते, महाराज, सामावती ओतारं न गवेसती’’ति कथेन्ती विय रञ्‍ञो हत्थतो वीणं गहेत्वा चालेत्वा ‘‘किं नु खो, महाराज, एत्थ अब्भन्तरे विचरती’’ति वत्वा सप्पस्स निक्खमनोकासं कत्वा ‘‘अब्भुम्मे अन्तो सप्पो’’ति वीणं छड्डेत्वा पलायि। तस्मिं काले राजा पदित्तं वेणुवनं विय पक्खित्तलोणं उद्धनं विय च दोसेन तटतटायन्तो ‘‘वेगेन <pb ed="M" n="1.0340"/> सपरिवारं सामावतिं पक्‍कोसथा’’ति आह। राजपुरिसा गन्त्वा पक्‍कोसिंसु।</p>

<p rend="bodytext">सा रञ्‍ञो कुद्धभावं ञत्वा सेसमातुगामानं सञ्‍ञमदासि। ‘‘राजा तुम्हे घातेतुकामो पक्‍कोसति, अज्‍ज दिवसं ओदिस्सकेन मेत्ताफरणेन राजानं फरथा’’ति <pb ed="P" n="1.0443"/> आह। राजा ता इत्थियो पक्‍कोसापेत्वा सब्बाव पटिपाटिया ठपेत्वा महाधनुं आदाय विसपीतकण्डं सन्‍नय्हित्वा धनुं पूरेत्वा अट्ठासि। तस्मिं खणे सब्बाव ता सामावतिप्पमुखा इत्थियो ओधिसो मेत्तं फरिंसु। राजा कण्डं नेव खिपितुं न अपनेतुं सक्‍कोति, गत्तेहि सेदा मुच्‍चन्ति, सरीरं वेधति, मुखतो खेळो पतति, गहेतब्बगहणं न पस्सति। अथ नं सामावती ‘‘किं, महाराज, किलमसी’’ति आह। आम, देवि, किलमामि, अवस्सयो मे होहीति। साधु, महाराज, कण्डं महापथविमुखं करोहीति। राजा तथा अकासि। सा ‘‘रञ्‍ञो हत्थतो कण्डं मुच्‍चतू’’ति अधिट्ठासि। तस्मिं खणे कण्डं मुच्‍चि। राजा तंखणंयेव उदके निमुज्‍जित्वा आगम्म अल्‍लकेसो अल्‍लवत्थो सामावतिया पादेसु पतित्वा ‘‘खम, देवि, मय्हं, भेदकानं मे वचनेन अनुपधारेत्वा एतं कत’’न्ति आह। खमामि, देवाति। ‘‘साधु, देवि, एवं तया मय्हं खमितं नाम होति। इतो पट्ठाय तुम्हाकं यथारुचिया दसबलस्स दानं देथ, पच्छाभत्तं विहारं गन्त्वा धम्मकथं सुणाथ, अज्‍ज वो पट्ठाय परिहारं दम्मीति। तेन हि, देव, अज्‍ज पट्ठाय एकं भिक्खुं याचित्वा आनेथ, यो नो धम्मं वाचेस्सतीति। राजा सत्थु सन्तिकं गन्त्वा याचन्तो आनन्दत्थेरं लभि। ततो पट्ठाय ता पञ्‍चसता इत्थियो थेरं पक्‍कोसापेत्वा सक्‍कारसम्मानं कत्वा कतभत्तकिच्‍चस्स थेरस्स सन्तिके धम्मं परियापुणन्ति।</p>

<p rend="bodytext">ता <pb ed="V" n="1.0327"/> एकदिवसं थेरस्स अनुमोदनाय पसन्‍ना थेरस्स पञ्‍च <pb ed="P" n="1.0444"/> उत्तरासङ्गसतानि अदंसु। थेरो किर पुब्बे तुन्‍नवायकाले एकस्स पच्‍चेकबुद्धस्स एकाय सूचिया सद्धिं हत्थतलमत्तं चोळखण्डं अदासि। सो सूचिया फलेन इमस्मिं अत्तभावे महापञ्‍ञो अहोसि, चोळखण्डस्स फलेन इमिनाव नियामेन पञ्‍चसतक्खत्तुं दुस्सानि पटिलभि।</p>

<p rend="bodytext">ततो <pb ed="M" n="1.0341"/> मागण्डिया अञ्‍ञं कातब्बं अपस्सन्ती ‘‘उय्यानं गच्छाम, महाराजा’’ति आह। साधु, देवीति। सा रञ्‍ञो सम्पटिच्छितभावं ञत्वा चूळपितरं पक्‍कोसापेत्वा आह – ‘‘अम्हाकं उय्यानं गतकाले सामावतिया वसनट्ठानं गन्त्वा सामावतिं सपरिवारं अन्तोकरित्वा ‘रञ्‍ञो आणा’ति वत्वा द्वारं पिदहित्वा पलालेन पलिवेठेत्वा गेहे अग्गिं देथा’’ति। मागण्डियो तस्सा वचनं सुत्वा तथा अकासि। तस्मिं दिवसे सब्बापि ता इत्थियो पुब्बे कतस्स उपपीळककम्मस्सानुभावेन समापत्तिं अप्पेतुं नासक्खिंसु, एकप्पहारेनेव भुसमुट्ठि विय झायिंसु। तासं आरक्खपुरिसा रञ्‍ञो सन्तिकं गन्त्वा, ‘‘देव, इदं नाम करिंसू’’ति आचिक्खिंसु।</p>

<p rend="bodytext">राजा ‘‘केन कत’’न्ति परियेसन्तो मागण्डियाय कारितभावं ञत्वा तं पक्‍कोसापेत्वा ‘‘भद्दे, भद्दकं तया कम्मं कतं मया कातब्बं करोन्तिया, ‘‘उट्ठाय समुट्ठाय मय्हं वधाय परिसक्‍कमाना घातिता, पसन्‍नोस्मि, तुय्हं सम्पत्तिं दस्सामीति तव ञातके पक्‍कोसापेही’’ति आह। सा रञ्‍ञो कथं सुत्वा अञ्‍ञातकेपि ञातके कत्वा पक्‍कोसापेसि। राजा सब्बेसं सन्‍निपतितभावं ञत्वा राजङ्गणे गलप्पमाणेसु आवाटेसु निखनित्वा उपरि ठितानि सीसानि भिन्दापेन्तो महन्तेहि अयनङ्गलेहि कसापेसि। मागण्डियम्पि खण्डाखण्डिकं <pb ed="P" n="1.0445"/> छिन्दापेत्वा पूवपचनकटाहे पचापेसि।</p>

<p rend="bodytext">किं पन सामावतिया सपरिवाराय अग्गिना झापनकम्मन्ति? सा किर अनुप्पन्‍ने बुद्धे तेहेव पञ्‍चहि मातुगामसतेहि सद्धिं गङ्गायं कीळित्वा बहितित्थे ठिता सीते जाते अविदूरट्ठाने पच्‍चेकबुद्धस्स पण्णसालं दिस्वा अन्तो असोधेत्वाव बहि अग्गिं दत्वा विसिब्बेसुं। अन्तोपण्णसालाय पच्‍चेकबुद्धो निरोधसमापत्तिं समापज्‍जित्वा निसिन्‍नो। ता जालासु पच्छिन्‍नासु पच्‍चेकबुद्धं दिस्वा ‘‘किं अम्हेहि कतं, अयं पच्‍चेकबुद्धो रञ्‍ञो कुलूपको, इमं दिस्वा राजा अम्हाकं कुज्झिस्सति, इदानि नं सुज्झापितं कातुं वट्टती’’ति अञ्‍ञानिपि <pb ed="V" n="1.0328"/> दारूनि पक्खिपित्वा अग्गिं अदंसु। पुन जालाय पच्छिन्‍नाय पच्‍चेकबुद्धो समापत्तितो वुट्ठाय तासं पस्सन्तीनंयेव चीवरानि पप्फोटेत्वा वेहासं उप्पतित्वा गतो। तेन कम्मेन <pb ed="M" n="1.0342"/> निरये पच्‍चित्वा पक्‍कावसेसेन इमं ब्यसनं पापुणिंसु। चतुपरिसमज्झे पन कथा उदपादि – ‘‘बहुस्सुता वत खुज्‍जुत्तरा, मातुगामअत्तभावे ठत्वा पञ्‍चन्‍नं मातुगामसतानं धम्मं कथेत्वा सोतापत्तिफले पतिट्ठापेसि। सामावतीपि रञ्‍ञा अत्तनो अप्पितं कण्डं मेत्ताफरणेन फरित्वा पटिबाही’’ति तस्सापि महाजनो गुणं कथेसि। एवमेतं वत्थु समुट्ठितं। अथ सत्था अपरभागे जेतवने निसिन्‍नो तदेव कारणं अट्ठुप्पत्तिं कत्वा खुज्‍जुत्तरं बहुस्सुतानं, सामावतिं मेत्ताविहारीनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">उत्तरानन्दमातावत्थु</p>

<p rend="bodytext" n="262"><hi rend="paranum">२६२</hi><hi rend="dot">.</hi> पञ्‍चमे <pb ed="P" n="1.0446"/> <hi rend="bold">झायीन</hi>न्ति झानाभिरतानं उपासिकानं, उत्तरा नन्दमाता, अग्गाति दस्सेति। सा किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्ता सत्थु धम्मकथं सुणन्ती सत्थारं एकं उपासिकं झानाभिरतानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे राजगहनगरे सुमनसेट्ठिं निस्साय वसन्तस्स पुण्णसीहस्स नाम भरियाय कुच्छिस्मिं पटिसन्धिं गण्हि, उत्तरातिस्सा नामं अकंसु।</p>

<p rend="bodytext">अथेकस्मिं नक्खत्तमहदिवसे राजगहसेट्ठि पुण्णं पक्‍कोसापेत्वा आह – ‘‘तात पुण्ण, नक्खत्तं वा उपोसथो वा दुग्गतस्स किं करिस्सति, एवं सन्तेपि वदेहि ‘किं नक्खत्तपरिब्बयं गहेत्वा नक्खत्तं कीळिस्ससि, बलवगोणे च फालञ्‍च नङ्गलञ्‍च गहेत्वा कसिस्ससी’’’ति। ‘‘मम भरियाय सद्धिं मन्तेत्वा जानिस्सामि, अय्या’’ति तं कथं भरियाय आरोचेसि। ‘‘सेट्ठि नाम अय्यो इस्सरो, तस्स तया सद्धिं कथेन्तस्स कथा सोभति, त्वं पन अत्तनो कसिकम्मं मा विस्सज्‍जेसी’’ति आह। सो तस्सा वचनं सुत्वा कसिभण्डं आदाय कसितुं गतो।</p>

<p rend="bodytext">तंदिवसञ्‍च सारिपुत्तत्थेरो निरोधसमापत्तितो वुट्ठाय ‘‘कस्स अज्‍ज मया सङ्गहं कातुं वट्टती’’ति आवज्‍जेन्तो इमस्स पुण्णस्स उपनिस्सयं दिस्वा भिक्खाचारवेलाय पत्तचीवरमादाय <pb ed="V" n="1.0329"/> पुण्णस्स कसनट्ठानं गच्छन्तो अविदूरे अत्तानं दस्सेसि। पुण्णो थेरं दिस्वा कसिं ठपेत्वा <pb ed="M" n="1.0343"/> थेरस्स सन्तिकं गन्त्वा पञ्‍चपतिट्ठितेन <pb ed="P" n="1.0447"/> वन्दि। थेरो तं ओलोकेत्वा उदकसभागं पुच्छि। तस्स एतदहोसि – ‘‘अय्यो मुखं धोवितुकामो भविस्सती’’ति। ततो वेगेन गन्त्वा दन्तकट्ठं आहरित्वा कप्पियं कत्वा थेरस्स अदासि। थेरे दन्तकट्ठं खादन्ते पत्तेन सद्धिं धम्मकरणं नीहरित्वा उदकस्स पूरेत्वा आहरि। थेरो मुखं धोवित्वा भिक्खाचारमग्गं पटिपज्‍जि। पुण्णो चिन्तेसि – ‘‘थेरो अञ्‍ञेसु दिवसेसु इमं मग्गं न पटिपज्‍जति, अज्‍ज पन मय्हं सङ्गहत्थाय पटिपन्‍नो भविस्सति। अहो वत मे भरिया ममत्थाय आहरणकं आहारं थेरस्स पत्ते पतिट्ठपेय्या’’ति।</p>

<p rend="bodytext">अथस्स भरिया ‘‘अज्‍ज नक्खत्तदिवसो’’ति पातोव अत्तनो लभनकनियामेन खादनीयभोजनीयं संविधाय गहेत्वा सामिकस्स कसनट्ठानं आगच्छन्ती अन्तरामग्गे थेरं दिस्वा चिन्तेसि – ‘‘अञ्‍ञेसु दिवसेसु मय्हं थेरं दिस्वा देय्यधम्मो न होति, देय्यधम्मे सन्तेपि मम अय्यं न पस्सामि, अज्‍ज पन द्विन्‍नम्पि सम्मुखीभावो जातो। मम सामिकस्स पुन सम्पादेत्वा आहरिस्सामि, इमं ताव आहारं थेरस्स दस्सामी’’ति तीहि चेतनाहि सम्पयुत्तं कत्वा तं भोजनं सारिपुत्तत्थेरस्स पत्ते पतिट्ठपेत्वा ‘‘एवंविधा दुग्गतजीविता मुच्‍चामी’’ति आह। थेरोपि ‘‘तव अज्झासयो पूरतू’’ति तस्सानुमोदनं कत्वा ततो निवत्तित्वा विहारं अगमासि।</p>

<p rend="bodytext">सापि पुन अत्तनो गेहं गन्त्वा सामिकस्स आहारं सम्पादेत्वा आदाय कसनट्ठानं गन्त्वा सामिकस्स कुज्झनभावतो भीता ‘‘सामि, अज्‍ज एकदिवसं तव मनं सन्धारेही’’ति आह। किं कारणाति? अहं अज्‍ज ताव आहारं आहरन्ती अन्तरामग्गे थेरं दिस्वा तव भागभत्तं थेरस्स पत्ते पतिट्ठपेत्वा पुन गेहं गन्त्वा आहारं पचित्वा आदाय आगताम्हीति। मनापं ते, भद्दे, कतं, मयापि पातोव थेरस्स दन्तकट्ठञ्‍च <pb ed="P" n="1.0448"/> मुखोदकञ्‍च दिन्‍नं। अज्‍ज अम्हाकं सुप्पभातं, सब्बम्पि थेरस्स अम्हाकं सन्तकमेव जातन्ति द्विन्‍नम्पि जनानं एकसदिसमेव चित्तं अहोसि। अथ पुण्णो आहारकिच्‍चं कत्वा भरियाय ऊरुम्हि सीसं कत्वा मुहुत्तं निपज्‍जि। अथस्स निद्दा ओक्‍कमि। सो थोकं निद्दायित्वा पबुद्धो कसितट्ठानं <pb ed="M" n="1.0344"/> ओलोकेसि, ओलोकितोलोकितट्ठानं महाकोसातकिपुप्फेहि सम्परिकिण्णं विय अहोसि। सो भरियं आह – ‘‘भद्दे, किन्‍नामेतं अज्‍ज इदं कसितट्ठानं सुवण्णवण्णं हुत्वा खायती’’ति। अय्य <pb ed="V" n="1.0330"/>, अज्‍ज ते सकलदिवसं किलन्तताय अक्खीनि मञ्‍ञे भमन्तीति। भद्दे, मय्हं अस्सद्दहन्ती सयं ओलोकेहीति। तस्मिं काले सा ओलोकेत्वा सभावं अय्य, कथेसि, एवमेतं भविस्सतीति।</p>

<p rend="bodytext">पुण्णो उट्ठाय एकं कट्ठिं गहेत्वा नङ्गलसीसे पहरि, गुळपिण्डो विय नङ्गलसीसे अल्‍लीयित्वा अट्ठासि। सो भरियं पक्‍कोसित्वा आह – ‘‘भद्दे, अञ्‍ञेसं वपितबीजं नाम तीहि वा चतूहि वा मासेहि फलं देति, अम्हाकं पन अय्यस्स सारिपुत्तत्थेरस्स अन्तरे रोपितेन सद्धाबीजेन अज्‍जेव अवस्सं फलं दिन्‍नं। इमस्मिं करीसमत्ते पदेसे आमलकमत्तोपि पंसुपिण्डो असुवण्णो नाम नत्थी’’ति। इदानि किं करिस्साम, अय्याति? ‘‘भद्दे, इमं एत्तकं सुवण्णं थेनेत्वा खादितुं नाम न सक्‍का’’ति भरियं तस्मिं ठाने ठपेत्वा भत्तस्स पूरेत्वा आभतं पातिं सुवण्णस्स पूरेत्वा गन्त्वा रञ्‍ञो आरोचापेसि – ‘‘एको मनुस्सो सुवण्णपातिं गहेत्वा <pb ed="P" n="1.0449"/> ठितो’’ति। राजा तं पक्‍कोसापेत्वा ‘‘कहं ते, तात, लद्ध’’न्ति पुच्छि। ‘‘देव, मय्हं एकं कसितट्ठानं सब्बं सुवण्णमेव जातं, पहिणित्वा आहरापेथा’’ति आह। त्वं किन्‍नामोसीति? पुण्णो नाम अहं, देवाति। गच्छथ, भणे, सकटानि योजेत्वा पुण्णस्स कसितट्ठानतो सुवण्णमाहरथाति।</p>

<p rend="bodytext">सकटेहि सद्धिं गतराजपुरिसा ‘‘रञ्‍ञो पुञ्‍ञ’’न्ति वत्वा सुवण्णपिण्डे गण्हन्ति, गहितगहितम्पि कसितलेड्डुयेव होति। ते गन्त्वा रञ्‍ञो आरोचेसुं। तेन हि भणे गन्त्वा ‘‘पुण्णस्स पुञ्‍ञ’’न्ति वत्वा गण्हथाति। गहितगहितं सुवण्णमेव होति। ते सब्बम्पि तं सुवण्णं आहरित्वा राजङ्गणे रासिं अकंसु। रासि उब्बेधेन तालप्पमाणो अहोसि। राजा वाणिजे पक्‍कोसापेत्वा ‘‘कस्स गेहे एत्तकं सुवण्णं अत्थी’’ति पुच्छि। नत्थि, देव, कस्सचीति। एत्तकस्स पन धनस्स सामिनो किं कातुं वट्टतीति? धनसेट्ठिं नाम नं कातुं वट्टति, देवाति? तेन हि पुण्णं इमस्मिं नगरे धनसेट्ठिं नाम करोथाति सब्बं तं सुवण्णं तस्सेव दत्वा तंदिवसंयेवस्स सेट्ठिट्ठानं अदासि। सो सेट्ठि मङ्गलं <pb ed="M" n="1.0345"/> करोन्तो सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि। सत्तमे दिवसे दसबलस्स भत्तानुमोदनाय पुण्णसेट्ठिपि भरियापि धीतापि सब्बे सोतापत्तिफले पतिट्ठहिंसु।</p>

<p rend="bodytext">अपरभागे राजगहसेट्ठि ‘‘पुण्णसेट्ठिनो वयप्पत्ता दारिका अत्थी’’ति सुत्वा अत्तनो पुत्तस्स <pb ed="V" n="1.0331"/> कारणा तस्स गेहं पेसेसि। सो तस्स सासनं सुत्वा ‘‘नाहं धीतरं दस्सामी’’ति पटिसासनं पेसेसि। सुमनसेट्ठिपि पुन पेसेसि – ‘‘त्वं मम गेहं निस्साय वसित्वा इदानि एकप्पहारेनेव इस्सरो हुत्वा मय्हं दारिकं न देसी’’ति। ततो पुण्णसेट्ठि आह – ‘‘इमं ताव तुम्हाकं सेट्ठि सभावमेव कथेसि <pb ed="P" n="1.0450"/>, पुरिसो नाम सब्बकाले एवंविधोयेवाति न सल्‍लक्खेतब्बो। अहञ्हि इदानि तादिसे पुरिसे दासे कत्वा गहेतुं सक्‍कोमि, तुय्हं पन जातिं वा गोत्तं वा न कोपेमि। अपिच खो मम धीता सोतापन्‍ना अरियसाविका देवसिकं कहापणग्घनकेहि पुप्फेहि पूजं करोति, तमहं तुम्हादिसस्स मिच्छादिट्ठिकस्स गेहं न पेसेस्सामी’’ति। एवं पुण्णसेट्ठिस्स पटिबाहकभावं ञत्वा राजगहसेट्ठि पुन सासनं पेसेसि – ‘‘पोराणकं विस्सासं मा भिन्दतु, अहं मय्हं सुणिसाय देवसिकं द्विन्‍नं कहापणानं अन्धनकानि पुप्फानि सज्‍जापेस्सामी’’ति। सो ‘‘साधू’’ति सम्पटिच्छित्वा धीतरं तस्स घरं पेसेसि।</p>

<p rend="bodytext">अथेकदिवसं सा पुण्णसेट्ठिनो धीता उत्तरा अत्तनो सामिकं एवमाह – ‘‘अहं अत्तनो कुलगेहे मासस्स अट्ठ दिवसानि निबद्धं उपोसथकम्मं करोमि, इदानिपि तुम्हेसु सम्पटिच्छन्तेसु उपोसथङ्गानि अधिट्ठहेय्य’’न्ति। सो ‘‘न सक्‍का’’ति तं न सम्पटिच्छि। सा तं सञ्‍ञापेतुं असक्‍कोन्ती तुण्ही अहोसि। पुन अन्तोवस्से ‘‘उपोसथिका भविस्सामी’’ति तदापि ओकासं कारेन्ती नेव अलत्थ। सा अन्तोवस्से अड्ढतियेसु मासेसु अतिक्‍कन्तेसु अड्ढमासे अवसिट्ठे मातापितूनं सासनं पेसेसि – ‘‘अहं तुम्हेहि चारके पक्खित्ता एत्तके अद्धाने एकदिवसम्पि उपोसथङ्गानि अधिट्ठातुं न लभामि, पञ्‍चदस मे कहापणसहस्सानि पेसेथा’’ति। ते धीतु सासनं सुत्वा <pb ed="M" n="1.0346"/> ‘‘किंकारणा’’ति अपुच्छित्वाव पहिणिंसु। उत्तरा ते कहापणे गण्हित्वा तस्मिं नगरे सिरिमा नाम गणिका अत्थि, तं पक्‍कोसापेत्वा ‘‘अम्म सिरिमे, अहं इमं अड्ढमासं उपोसथङ्गानि अधिट्ठहिस्सामि, त्वं इमानि पञ्‍चदस कहापणसहस्सानि गहेत्वा इमं अड्ढमासं सेट्ठिपुत्तं परिचराही’’ति। सा ‘‘साधु, अय्ये’’ति सम्पटिच्छि। ततो <pb ed="P" n="1.0451"/> पट्ठाय सेट्ठिपुत्तो ‘‘अहं सिरिमाय सद्धिं मोदिस्सामी’’ति उत्तराय अड्ढमासं उपोसथकम्मं सम्पटिच्छि।</p>

<p rend="bodytext">सा तेन सम्पटिच्छितभावं ञत्वा दिवसे दिवसे पातोव दासिगणपरिवुता सत्थु सहत्था खादनीयभोजनीयं संविदहित्वा सत्थरि भत्तकिच्‍चं कत्वा विहारं गते उपोसथङ्गानि अधिट्ठाय पासादवरं <pb ed="V" n="1.0332"/> आरुय्ह अत्तनो सीलानि आवज्‍जमाना निसीदति। एवं अड्ढमासं वीतिनामेत्वा उपोसथं विस्सज्‍जनदिवसे पातोव यागुखज्‍जकादीनि संविदहन्ती विचरति। तस्मिं समये सेट्ठिपुत्तो सिरिमाय सद्धिं उपरिपासादवरगतो जालवातपानं विवरित्वा अन्तरवत्थुं ओलोकेन्तो अट्ठासि। उत्तरा, वातपानच्छिद्देन उद्धं ओलोकेसि। सेट्ठिपुत्तो उत्तरं ओलोकेत्वा ‘‘नेरयिकजातिका वतायं एवंविधं नाम सम्पत्तिं पहाय उक्खलिकमसिमक्खिता हुत्वा निक्‍कारणा दासीनं अन्तरे विचरती’’ति सितं अकासि। उत्तरा, तस्स पमादभावं ञत्वा ‘‘अयं बालो नाम अत्तनो सम्पत्ति सब्बकालं थावराति सञ्‍ञी भविस्सती’’ति सयम्पि सितं अकासि। ततो सिरिमा ‘‘अयं चेटिका मयि ठिताय एवं मम सामिकेन सद्धिं सितं करोती’’ति कुपिता वेगेन ओतरि। उत्तरा, तस्सा आगमनाकप्पेनेव ‘‘अयं बाला अड्ढमासमत्तं इमस्मिं गेहे वसित्वा मय्हमेवेतं गेहन्तिसञ्‍ञी जाता’’ति ञत्वा तङ्खणञ्‍ञेव मेत्ताझानं समापज्‍जित्वा अट्ठासि। सिरिमापि दासीनं अन्तरेन आगन्त्वा उळुङ्कं गहेत्वा पूवपचनट्ठाने पक्‍कुथिततेलस्स पूरेत्वा उत्तराय मत्थके आसिञ्‍चि, मेत्ताझानस्स विप्फारेन उत्तराय मत्थके आसित्तं पक्‍कुथिततेलं पदुमपत्ते आसित्तउदकं <pb ed="P" n="1.0452"/> विय विनिवत्तित्वा गतं।</p>

<p rend="bodytext">तस्मिं खणे सिरिमाय समीपे ठिता दासियो तं ओलोकेत्वा, ‘‘भो जे, त्वं अम्हाकं अय्याय हत्थतो मूलं गहेत्वा आगता इमस्मिं <pb ed="M" n="1.0347"/> गेहे वसमाना अम्हाकं अय्याय सदिसा भवितुं वायमसी’’ति सम्मुखट्ठाने तं परिभासिंसु। तस्मिं खणे सिरिमा अत्तनो आगन्तुकभावं अञ्‍ञासि। सा ततोव गन्त्वा उत्तराय पादेसु पतित्वा, ‘‘अय्ये, अनुपधारेत्वा मे कतं, खमथ मय्ह’’न्ति आह। अम्म सिरिमे, नाहं तव इमस्मिं ठाने खमिस्सामि, अहं सपितिका धीता, दसबले खमन्तेयेव खमिस्सामीति।</p>

<p rend="bodytext">सत्थापि खो भिक्खुसङ्घपरिवारो आगन्त्वा उत्तराय निवेसने पञ्‍ञत्तासने निसीदि। सिरिमा गन्त्वा सत्थु पादेसु पतित्वा, ‘‘भन्ते, मया अय्याय उत्तराय अन्तरे एको दोसो कतो, तुम्हेसु खमन्तेसु खमिस्सामीति वदति, खमथ मय्हं भगवा’’ति। खमामि ते सिरिमेति। सा तस्मिं काले गन्त्वा उत्तरं खमापेसि। तंदिवसञ्‍च सिरिमा दसबलस्स भत्तानुमोदनं सुत्वा –</p>

<p rend="gatha1">‘‘अक्‍कोधेन <pb ed="V" n="1.0333"/> जिने कोधं, असाधुं साधुना जिने।</p>

<p rend="gathalast">जिने कदरियं दानेन, सच्‍चेनालिकवादिन’’न्ति॥ (ध॰ प॰ २२३) –</p>

<p rend="unindented">गाथापरियोसाने सोतापत्तिफले पतिट्ठिता दसबलं निमन्तेत्वा पुनदिवसे महादानं अदासि। एवमेतं वत्थु समुट्ठितं। अपरभागे पन सत्था जेतवने निसीदित्वा उपासिकायो ठानन्तरेसु ठपेन्तो उत्तरं नन्दमातरं झायीनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">सुप्पवासावत्थु</p>

<p rend="bodytext" n="263"><hi rend="paranum">२६३</hi><hi rend="dot">.</hi> छट्ठे <hi rend="bold">पणीतदायिकान</hi>न्ति पणीतरसदायिकानं उपासिकानं, सुप्पवासा कोलियधीता, अग्गाति दस्सेति। सा किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्ता <pb ed="P" n="1.0453"/> सत्थु धम्मदेसनं सुणन्ती सत्थारं एकं उपासिकं पणीतदायिकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कोलियनगरे खत्तियकुले निब्बत्ति, सुप्पवासातिस्सा नामं अकंसु। सा वयप्पत्ता एकस्स सक्यकुमारस्स गेहं गता, पठमदस्सनेयेव सत्थु धम्मकथं सुत्वा सोतापत्तिफले <pb ed="M" n="1.0348"/> पतिट्ठासि। सा अपरभागे सीवलिं नाम दारकं विजायि। तस्स वत्थु हेट्ठा वित्थारितमेव।</p>

<p rend="bodytext">सा एकस्मिं समये बुद्धप्पमुखस्स भिक्खुसङ्घस्स नानग्गरसपणीतभोजनं अदासि। सत्था कतभत्तकिच्‍चो अनुमोदनं करोन्तो सुप्पवासाय इमं धम्मं देसेसि ‘‘भोजनं सुप्पवासे देन्ती अरियसाविका पटिग्गाहकानं पञ्‍च ठानानि देति। आयुं देति, वण्णं देति, सुखं देति, बलं देति, पटिभानं देति। आयुं खो पन दत्वा आयुस्स भागिनी होति दिब्बस्स वा मानुसस्स वा…पे॰… पटिभानं दत्वा पटिभानस्स भागिनी होति दिब्बस्स वा मानुसस्स वा’’ति। एवमेतं वत्थु समुट्ठितं। अथ अपरभागे सत्था जेतवने निसीदित्वा उपासिकायो ठानन्तरेसु ठपेन्तो सुप्पवासं कोलियधीतरं पणीतदायिकानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">सुप्पियावत्थु</p>

<p rend="bodytext" n="264"><hi rend="paranum">२६४</hi><hi rend="dot">.</hi> सत्तमे <pb ed="V" n="1.0334"/> <hi rend="bold">गिलानुपट्ठाकीन</hi>न्ति गिलानुपट्ठाकीनं उपासिकानं, सुप्पिया उपासिका, अग्गाति दस्सेति। अयं किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्ता अपरभागे सत्थु धम्मदेसनं सुणन्ती सत्थारं एकं उपासिकं गिलानुपट्ठाकीनं अग्गट्ठाने ठपेन्तं <pb ed="P" n="1.0454"/> दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे बाराणसियं कुलगेहे निब्बत्ति, सुप्पियातिस्सा नामं अकंसु। अपरभागे सत्था भिक्खुसङ्घपरिवारो बाराणसिं अगमासि। सा तथागतस्स पठमदस्सनेयेव धम्मं सुत्वा सोतापत्तिफले पतिट्ठासि।</p>

<p rend="bodytext">अथेकदिवसं धम्मस्सवनत्थाय विहारं गता। विहारचारिकं चरमाना एकं भिक्खुं गिलानं दिस्वा अभिवादेत्वा पटिसन्थारं कत्वा ‘‘अय्यस्स किं लद्धुं वट्टती’’ति पुच्छि। रसं लद्धुं वट्टति, उपासिकेति। ‘‘होतु, भन्ते, अहं पहिणिस्सामी’’ति थेरं अभिवादेत्वा अन्तोनगरं गन्त्वा पुनदिवसे पवत्तमंसत्थाय दासिं अन्तरापणं पेसेसि। सा सकलनगरे पवत्तमंसं अलभित्वा अलद्धभावं कथेसि। उपासिका चिन्तेसि – ‘‘अहं अय्यस्स रसं पहिणिस्सामीति वत्वा सचे न पेसेस्सामि <pb ed="M" n="1.0349"/>, अय्यो अञ्‍ञतोपि अलभन्तो किलमिस्सति, यंकिञ्‍चि कत्वा पेसेतुं वट्टती’’ति गब्भं पविसित्वा ऊरुमंसं छिन्दित्वा दासिया अदासि ‘‘इदं मंसं गहेत्वा सम्भारेहि योजेत्वा रसं कत्वा विहारं नेत्वा अय्यस्स देहि। सो चे मं पुच्छति, गिलानाति वदेही’’ति। सा तथा अकासि।</p>

<p rend="bodytext">सत्था तं कारणं ञत्वा पुनदिवसे भिक्खाचारवेलाय भिक्खुसङ्घपरिवुतो उपासिकाय गेहं अगमासि। सा तथागतस्स आगतभावं सुत्वा सामिकं आमन्तेसि – ‘‘अय्यपुत्त, अहं सत्थु सन्तिकं गन्तुं न सक्‍कोमि, गच्छ त्वं सत्थारं अन्तोगेहं पवेसेत्वा निसीदापेही’’ति। सो तथा अकासि। सत्था ‘‘कहं सुप्पिया’’ति पुच्छि। गिलाना, भन्तेति। पक्‍कोसथ, नन्ति। अथ ते गन्त्वा ‘‘सत्था तं पक्‍कोसती’’ति आहंसु। सा चिन्तेसि – ‘‘सब्बलोकस्स हितानुकम्पको सत्था न इमं कारणं अदिस्वा पक्‍कोसापेस्सती’’ति सहसा मञ्‍चम्हा वुट्ठासि। अथस्सा बुद्धानुभावेन <pb ed="P" n="1.0455"/> तंखणंयेव वणो रुहित्वा सुच्छवि अहोसि सेसट्ठानतो अतिरेकतरं विप्पसन्‍नवण्णो। तस्मिं खणे उपासिका सितं कत्वा दसबलं पञ्‍चपतिट्ठितेन वन्दित्वा <pb ed="V" n="1.0335"/> एकमन्तं निसीदि। सत्था ‘‘इमिस्सा उपासिकाय किं अफासुक’’न्ति पुच्छि। सा अत्तना कतकारणं सब्बं कथेसि। सत्था कतभत्तकिच्‍चो विहारं गन्त्वा भिक्खुसङ्घं सन्‍निपातापेत्वा तं भिक्खुं अनेकपरियायेन विगरहित्वा सिक्खापदं (महाव॰ २८०) पञ्‍ञपेसि। एवमेतं वत्थु समुट्ठितं। अपरभागे सत्था जेतवने निसिन्‍नो उपासिकायो ठानन्तरेसु ठपेन्तो सुप्पियं उपासिकं गिलानुपट्ठाकीनं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">कातियानीवत्थु</p>

<p rend="bodytext" n="265"><hi rend="paranum">२६५</hi><hi rend="dot">.</hi> अट्ठमे <hi rend="bold">अवेच्‍चप्पसन्‍नान</hi>न्ति अधिगतेन अचलप्पसादेन समन्‍नागतानं उपासिकानं, कातियानी, अग्गाति दस्सेति। सा किर पदुमुत्तरबुद्धकाले हंसवतियं कुलगेहे निब्बत्ता सत्थारं एकं उपासिकं अवेच्‍चप्पसन्‍नानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा <pb ed="M" n="1.0350"/> इमस्मिं बुद्धुप्पादे कुररघरनगरे निब्बत्ति, कातियानीतिस्सा नामं अकंसु।</p>

<p rend="bodytext">सा अपरभागे वयप्पत्ता कुररघरिकाय, काळिया सहायिका, दळ्हमित्ता अहोसि। यदा पन कुटिकण्णसोणत्थेरो ‘‘दसबलस्स कथितनियामेन मय्हम्पि धम्मं कथेही’’ति मातरा याचितो रत्तिभागे अन्तोनगरे अलङ्कतधम्मासने निसीदित्वा मातरं कायसक्खिं कत्वा धम्मदेसनं आरभि, तदा अयं कातियानी उपासिका काळिया सद्धिं गन्त्वा परिसपरियन्ते धम्मं सुणन्ती अट्ठासि। तस्मिं समये पञ्‍चमत्तानि चोरसतानि अन्तोनगरे दिवा कतसञ्‍ञाय कोटितो पट्ठाय उम्मङ्गं खनित्वा <pb ed="P" n="1.0456"/> इमिस्सा कातियानिया घरं सम्पापुणिंसु। तेसं चोरजेट्ठको तेहि सद्धिं अपविसित्वा ‘‘किं नु खो अयं परिसा सन्‍निपतिता’’ति वीमंसनत्थाय सोणत्थेरस्स धम्मकथनट्ठानं गन्त्वा परिसपरियन्ते तिट्ठमानो इमिस्सा कातियानिया पिट्ठिपस्से अट्ठासि।</p>

<p rend="bodytext">तस्मिं समये, कातियानी, दासिं आमन्तेसि – ‘‘गच्छ जे, गेहं पविसित्वा दीपतेलं आहर, मयं दीपे जालेत्वा धम्मं सोस्सामा’’ति। सा घरं गन्त्वा उम्मङ्गे चोरे दिस्वा दीपतेलं अगण्हित्वाव आगन्त्वा अत्तनो अय्याय आरोचेसि – ‘‘अय्ये, गेहे चोरा उम्मङ्गं खनन्ती’’ति। तं सुत्वा चोरजेट्ठको चिन्तेसि – ‘‘सचायं इमिस्सा कथं गण्हित्वा गेहं गमिस्सति <pb ed="V" n="1.0336"/>, एत्थेव नं असिना द्वेधा छिन्दिस्सामि। सचे पन गहितनिमित्तेनेव धम्मं सुणिस्सति, चोरेहि गहितभण्डकम्पि पुन दापेस्सामी’’ति। कातियानीपि खो दासिया कथं सुत्वा, ‘‘अम्म, मा सद्दं करि, चोरा नाम हरन्ता अत्तना दिट्ठमेव हरिस्सन्ति, अहं पन अज्‍ज दुल्‍लभस्सवनं सुणामि, मा धम्मस्स अन्तरायं करोही’’ति आह। चोरजेट्ठको तस्सा वचनं सुत्वा चिन्तेसि – ‘‘इमिना अज्झासयेन ठिताय नाम गेहे भण्डं हरन्तेहि अम्हेहि महापथवी पविसितब्बा भवेय्या’’ति। सो तावदेव गन्त्वा चोरेहि गहितभण्डं छड्डापेत्वा चोरेहि सद्धिं आगन्त्वा धम्मं सुणन्तो परिसपरियन्ते <pb ed="M" n="1.0351"/> अट्ठासि। कातियानीपि उपासिका थेरस्स देसनापरियोसाने सोतापत्तिफले पतिट्ठासि।</p>

<p rend="bodytext">अथ अरुणे उग्गते चोरजेट्ठको गन्त्वा उपासिकाय पादेसु पतित्वा, ‘‘अय्ये, सब्बेसंयेव <pb ed="P" n="1.0457"/> नो खमाही’’ति आह। किं पन तुम्हेहि मय्हं कतन्ति? सो सब्बं अत्तना कतदोसं आरोचेसि। तेन हि, ताता, खमामि तुम्हाकन्ति। अय्ये, अम्हाकं एवं खमितं नाम न होति, तुम्हाकं पन पुत्तत्थेरस्स सन्तिके सब्बेसंयेव नो पब्बज्‍जं दापेहीति। सा सब्बेपि ते गहेत्वा कुटिकण्णसोणत्थेरस्स सन्तिके पब्बाजेसि। तेपि खो चोरा थेरस्स सन्तिके पब्बजिता सब्बेव अरहत्तं पापुणिंसु। एवमेतं वत्थु समुट्ठितं। अपरभागे सत्था जेतवने विहरन्तो उपासिकायो ठानन्तरेसु ठपेन्तो कातियानिं उपासिकं अवेच्‍चप्पसन्‍नानं अग्गट्ठाने ठपेसीति।</p>

<p rend="subhead">नकुलमातावत्थु</p>

<p rend="bodytext" n="266"><hi rend="paranum">२६६</hi><hi rend="dot">.</hi> नवमे <hi rend="bold">विस्सासिकान</hi>न्ति विस्सासकथं कथेन्तीनं उपासिकानं, नकुलमाता गहपतानी, अग्गाति दस्सेति। यं पनेत्थ वत्तब्बं, तं सब्बं हेट्ठा उपासकपाळियं वुत्तमेव। केवलं इध नकुलमातरं धुरं कत्वा वेदितब्बन्ति।</p>

<p rend="subhead">काळीकुररघरिकावत्थु</p>

<p rend="bodytext" n="267"><hi rend="paranum">२६७</hi><hi rend="dot">.</hi> दसमे <hi rend="bold">अनुस्सवप्पसन्‍नान</hi>न्ति अनुस्सवेनेव उप्पन्‍नेन पसादेन समन्‍नागतानं उपासिकानं अन्तरे, काळी उपासिका, कुररघरिका अग्गाति दस्सेति। सा किर पदुमुत्तरबुद्धकाले <pb ed="V" n="1.0337"/> हंसवतियं कुररघरनगरे निब्बत्ता सत्थु धम्मकथं सुणन्ती सत्थारं एकं उपासिकं अनुस्सवप्पसन्‍नानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे राजगहनगरे <pb ed="P" n="1.0458"/> कुलगेहे निब्बत्ति, काळीतिस्सा नामं अकंसु।</p>

<p rend="bodytext">सा <pb ed="M" n="1.0352"/> वयप्पत्ता कुररघरनगरे कुलगेहं गता। अथस्सा संवासेन गब्भो पतिट्ठहि। सा परिपुण्णगब्भा ‘‘परेसं गेहे गब्भवुट्ठानं नाम अप्पतिरूप’’न्ति अत्तनो कुलनगरमेव आगन्त्वा रत्तिभागसमनन्तरे अत्तनो पासादस्स उपरि आकासे ठितानं सातागिरहेमवतानं रतनत्तयस्स वण्णं कथेन्तानं कथं सुत्वा अनुस्सविकप्पसादं उप्पादेत्वा सत्थु अदस्सनेनेव सोतापत्तिफले पतिट्ठासि, अपरभागे पनस्सा गब्भवुट्ठानं अहोसीति सब्बं वत्थु हेट्ठा वित्थारितमेव। अपरभागे पन सत्था जेतवने भिक्खुसङ्घमज्झे निसीदित्वा उपासिकायो ठानन्तरेसु ठपेन्तो इमं उपासिकं अनुस्सवप्पसन्‍नानं अग्गट्ठाने ठपेसीति।</p>

<p rend="centre">दससुत्तपरिमाणाय उपासिकापाळिया वण्णना निट्ठिता।</p>

<p rend="centre">एत्तावता च मनोरथपूरणिया</p>

<p rend="bodytext">अङ्गुत्तरनिकाय-अट्ठकथाय</p>

<p rend="centre">सब्बापि एतदग्गपाळिवण्णना निट्ठिता।</p>

</body>
<back></back>
</text>
</TEI.2>
