<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="centre">॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥</p>

<p rend="nikaya">अङ्गुत्तरनिकाये</p>

<p rend="book">दुकनिपात-अट्ठकथा</p>

<p rend="title">१. पठमपण्णासकं</p>

<p rend="chapter">१. कम्मकारणवग्गो</p>

<p rend="subhead">१. वज्‍जसुत्तवण्णना</p>

<p rend="bodytext" n="1"><hi rend="paranum">१</hi><hi rend="dot">.</hi> दुकनिपातस्स <pb ed="V" n="2.0001"/> <pb ed="M" n="2.0001"/> <pb ed="P" n="2.0088"/> पठमे <hi rend="bold">वज्‍जानी</hi>ति दोसा अपराधा। <hi rend="bold">दिट्ठधम्मिक</hi>न्ति दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे उप्पन्‍नफलं। <hi rend="bold">सम्परायिक</hi>न्ति सम्पराये अनागते अत्तभावे उप्पन्‍नफलं। <hi rend="bold">आगुचारि</hi>न्ति पापकारिं अपराधकारकं। <hi rend="bold">राजानो गहेत्वा विविधा कम्मकारणा कारेन्ते</hi>ति चोरं गहेत्वा विविधा कम्मकारणा राजपुरिसा करोन्ति, राजानो पन ता कारेन्ति नाम। तं चोरं एवं <pb ed="V" n="2.0002"/> कम्मकारणा कारियमानं एस पस्सति। तेन वुत्तं – ‘‘पस्सति चोरं आगुचारिं राजानो गहेत्वा विविधा कम्मकारणा कारेन्ते’’ति। <hi rend="bold">अद्धदण्डकेही</hi>ति मुग्गरेहि, पहारसाधनत्थं वा चतुहत्थदण्डं द्वेधा छेत्वा गहितदण्डकेहि। <hi rend="bold">बिलङ्गथालिक</hi>न्ति कञ्‍जियउक्खलिककम्मकारणं। तं करोन्ता सीसकटाहं उप्पाटेत्वा तत्तं अयोगुळं सण्डासेन गहेत्वा तत्थ पक्खिपन्ति, तेन मत्थलुङ्गं पक्‍कुथित्वा <pb ed="M" n="2.0002"/> उत्तरति। <hi rend="bold">सङ्खमुण्डिक</hi>न्ति सङ्खमुण्डकम्मकारणं। तं करोन्ता उत्तरोट्ठउभतोकण्णचूळिकगलवाटकपरिच्छेदेन <pb ed="P" n="2.0089"/> चम्मं छिन्दित्वा सब्बकेसे एकतो गण्ठिं कत्वा दण्डकेन वेठेत्वा उप्पाटेन्ति, सह केसेहि चम्मं उट्ठहति। ततो सीसकटाहं थूलसक्खराहि घंसित्वा धोवन्ता सङ्खवण्णं करोन्ति। <hi rend="bold">राहुमुख</hi>न्ति राहुमुखकम्मकारणं। तं करोन्ता सङ्कुना मुखं विवरित्वा अन्तोमुखे दीपं जालेन्ति, कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खनन्ति, लोहितं पग्घरित्वा मुखं पूरेति।</p>

<p rend="bodytext"><hi rend="bold">जोतिमालिक</hi>न्ति सकलसरीरं तेलपिलोतिकाय वेठेत्वा आलिम्पेन्ति। <hi rend="bold">हत्थपज्‍जोतिक</hi>न्ति हत्थे तेलपिलोतिकाय वेठेत्वा दीपं विय पज्‍जालेन्ति। <hi rend="bold">एरकवत्तिक</hi>न्ति एरकवत्तकम्मकारणं। तं करोन्ता हेट्ठागीवतो पट्ठाय चम्मवट्टे कन्तित्वा गोप्फके ठपेन्ति, अथ नं योत्तेहि बन्धित्वा कड्ढन्ति। सो अत्तनो चम्मवट्टे अक्‍कमित्वा अक्‍कमित्वा पतति। <hi rend="bold">चीरकवासिक</hi>न्ति चीरकवासिककम्मकारणं। तं करोन्ता तथेव चम्मवट्टे कन्तित्वा कटियं ठपेन्ति, कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ति, उपरिमेहि हेट्ठिमसरीरं चीरकनिवासननिवत्थं विय होति। <hi rend="bold">एणेय्यक</hi>न्ति एणेय्यककम्मकारणं। तं करोन्ता उभोसु कप्परेसु च उभोसु जाणुकेसु च अयवलयानि दत्वा अयसूलानि कोट्टेन्ति। सो चतूहि अयसूलेहि भूमियं पतिट्ठहति। अथ नं परिवारेत्वा अग्गिं करोन्ति। ‘‘एणेय्यको जोतिपरिग्गहो यथा’’ति आगतट्ठानेपि इदमेव वुत्तं। तं कालेन कालं सूलानि अपनेत्वा चतूहि अट्ठिकोटीहियेव ठपेन्ति। एवरूपा कम्मकारणा नाम नत्थि।</p>

<p rend="bodytext"><hi rend="bold">बळिसमंसिक</hi>न्ति <pb ed="P" n="2.0090"/> उभतोमुखेहि बळिसेहि पहरित्वा चम्ममंसन्हारूनि उप्पाटेन्ति। <hi rend="bold">कहापणिक</hi>न्ति सकलसरीरं तिण्हाहि वासीहि कोटितो पट्ठाय कहापणमत्तं, कहापणमत्तं पातेन्ता कोट्टेन्ति। <hi rend="bold">खारापतच्छिक</hi>न्ति सरीरं तत्थ तत्थ आवुधेहि पहरित्वा कोच्छेहि खारं घंसन्ति, चम्ममंसन्हारूनि पग्घरित्वा अट्ठिकसङ्खलिकाव तिट्ठति। <hi rend="bold">पलिघपरिवत्तिक</hi>न्ति एकेन पस्सेन निपज्‍जापेत्वा कण्णच्छिद्देन अयसूलं कोट्टेत्वा पथविया एकाबद्धं करोन्ति। अथ नं पादे <pb ed="V" n="2.0003"/> गहेत्वा आविञ्छन्ति। <hi rend="bold">पलालपीठक</hi>न्ति छेको <pb ed="M" n="2.0003"/> कारणिको छविचम्मं अच्छिन्दित्वा निसदपोतेहि अट्ठीनि भिन्दित्वा केसेसु गहेत्वा उक्खिपति, मंसरासियेव होति। अथ नं केसेहेव परियोनन्धित्वा गण्हन्ति, पलालवट्टिं विय कत्वा पुन वेठेन्ति। <hi rend="bold">सुनखेहिपी</hi>ति कतिपयानि दिवसानि आहारं अदत्वा छातकसुनखेहि खादापेन्ति। ते मुहुत्तेन अट्ठिकसङ्खलिकमेव करोन्ति। <hi rend="bold">सूले उत्तासेन्ते</hi>ति सूले आरोपेन्ते।</p>

<p rend="bodytext"><hi rend="bold">न परेसं पाभतं विलुम्पन्तो चरती</hi>ति परेसं सन्तकं भण्डं परम्मुखं आभतं अन्तमसो अन्तरवीथियं पतितं सहस्सभण्डिकम्पि दिस्वा ‘‘इमिना जीविस्सामी’’ति विलुम्पन्तो न विचरति, को इमिना अत्थोति पिट्ठिपादेन वा पवट्टेत्वा गच्छति।</p>

<p rend="bodytext"><hi rend="bold">पापको</hi>ति <pb ed="P" n="2.0091"/> लामको। <hi rend="bold">दुक्खो</hi>ति अनिट्ठो। <hi rend="bold">किञ्‍च त</hi>न्ति किं नाम तं कारणं भवेय्य। <hi rend="bold">याह</hi>न्ति येन अहं। <hi rend="bold">कायदुच्‍चरित</hi>न्ति पाणातिपातादि तिविधं अकुसलं कायकम्मं। <hi rend="bold">कायसुचरित</hi>न्ति तस्स पटिपक्खभूतं तिविधं कुसलकम्मं। <hi rend="bold">वचीदुच्‍चरित</hi>न्ति मुसावादादि चतुब्बिधं अकुसलं वचीकम्मं। <hi rend="bold">वचीसुचरित</hi>न्ति तस्स पटिपक्खभूतं चतुब्बिधं कुसलकम्मं। <hi rend="bold">मनोदुच्‍चरित</hi>न्ति अभिज्झादि तिविधं अकुसलकम्मं। <hi rend="bold">मनोसुचरित</hi>न्ति तस्स पटिपक्खभूतं तिविधं कुसलकम्मं। <hi rend="bold">सुद्धं अत्तानं परिहरती</hi>ति एत्थ दुविधा सुद्धि – परियायतो च निप्परियायतो च। सरणगमनेन हि परियायेन सुद्धं अत्तानं परिहरति नाम। तथा पञ्‍चहि सीलेहि, दसहि सीलेहि – चतुपारिसुद्धिसीलेन, पठमज्झानेन…पे॰… नेवसञ्‍ञानासञ्‍ञायतनेन, सोतापत्तिमग्गेन, सोतापत्तिफलेन…पे॰… अरहत्तमग्गेन परियायेन सुद्धं अत्तानं परिहरति नाम। अरहत्तफले पतिट्ठितो पन खीणासवो छिन्‍नमूलके पञ्‍चक्खन्धे न्हापेन्तोपि खादापेन्तोपि भुञ्‍जापेन्तोपि निसीदापेन्तोपि निपज्‍जापेन्तोपि निप्परियायेनेव सुद्धं निम्मलं अत्तानं परिहरति पटिजग्गतीति वेदितब्बो।</p>

<p rend="bodytext"><hi rend="bold">तस्मा</hi>ति यस्मा इमानि द्वे वज्‍जानेव, नो न वज्‍जानि, तस्मा। <hi rend="bold">वज्‍जभीरुनो</hi>ति वज्‍जभीरुका। <hi rend="bold">वज्‍जभयदस्साविनो</hi>ति वज्‍जानि भयतो दस्सनसीला। <hi rend="bold">एतं पाटिकङ्ख</hi>न्ति एतं इच्छितब्बं, एतं अवस्संभावीति अत्थो। <hi rend="bold">य</hi>न्ति निपातमत्तं, कारणवचनं वा येन कारणेन परिमुच्‍चिस्सति सब्बवज्‍जेहि <pb ed="M" n="2.0004"/>। केन पन कारणेन परिमुच्‍चिस्सतीति? चतुत्थमग्गेन चेव चतुत्थफलेन च। मग्गेन <pb ed="P" n="2.0092"/> हि परिमुच्‍चति नाम, फलं पत्तो परिमुत्तो नाम होतीति। किं पन <pb ed="V" n="2.0004"/> खीणासवस्स अकुसलं न विपच्‍चतीति? विपच्‍चति, तं पन खीणासवभावतो पुब्बे कतं। तञ्‍च खो इमस्मिंयेव अत्तभावे, सम्पराये पनस्स कम्मफलं नाम नत्थीति। पठमं।</p>

<p rend="subhead">२. पधानसुत्तवण्णना</p>

<p rend="bodytext" n="2"><hi rend="paranum">२</hi><hi rend="dot">.</hi> दुतिये <hi rend="bold">पधानानी</hi>ति वीरियानि। वीरियञ्हि पदहितब्बतो पधानभावकरणतो वा पधानन्ति वुच्‍चति। <hi rend="bold">दुरभिसम्भवानी</hi>ति दुस्सहानि दुप्पूरियानि, दुक्‍करानीति अत्थो। <hi rend="bold">अगारं अज्झावसत</hi>न्ति अगारे वसन्तानं। <hi rend="bold">चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानुप्पदानत्थं पधान</hi>न्ति एतेसं चीवरादीनं चतुन्‍नं पच्‍चयानं अनुप्पदानत्थाय पधानं नाम दुरभिसम्भवन्ति दस्सेति। चतुरतनिकम्पि हि पिलोतिकं, पसततण्डुलमत्तं वा भत्तं, चतुरतनिकं वा पण्णसालं, तेलसप्पिनवनीतादीसु वा अप्पमत्तकम्पि भेसज्‍जं परेसं देथाति वत्तुम्पि नीहरित्वा दातुम्पि दुक्‍करं उभतोब्यूळ्हसङ्गामप्पवेसनसदिसं। तेनाह भगवा –</p>

<p rend="gatha1">‘‘दानञ्‍च युद्धञ्‍च समानमाहु,</p>

<p rend="gatha2">अप्पापि सन्ता बहुके जिनन्ति।</p>

<p rend="gatha3">अप्पम्पि चे सद्दहानो ददाति,</p>

<p rend="gathalast">तेनेव सो होति सुखी परत्था’’ति॥ (जा॰ १.८.७२; सं॰ नि॰ १.३३)।</p>

<p rend="bodytext"><hi rend="bold">अगारस्मा अनगारियं पब्बजितान</hi>न्ति गेहतो निक्खमित्वा अगारस्स घरावासस्स हितावहेहि कसिगोरक्खादीहि विरहितं अनगारियं पब्बज्‍जं उपगतानं। <hi rend="bold">सब्बूपधिपटिनिस्सग्गत्थाय पधान</hi>न्ति सब्बेसं खन्धूपधिकिलेसूपधिअभिसङ्खारूपधिसङ्खातानं उपधीनं पटिनिस्सग्गसङ्खातस्स निब्बानस्स अत्थाय विपस्सनाय चेव मग्गेन च सहजातवीरियं। <hi rend="bold">तस्मा</hi>ति <pb ed="P" n="2.0093"/> यस्मा इमानि द्वे पधानानि दुरभिसम्भवानि, तस्मा। दुतियं।</p>

<p rend="subhead">३. तपनीयसुत्तवण्णना</p>

<p rend="bodytext" n="3"><hi rend="paranum">३</hi><hi rend="dot">.</hi> ततिये <pb ed="M" n="2.0005"/> <hi rend="bold">तपनीया</hi>ति इध चेव सम्पराये च तपन्तीति तपनीया। <hi rend="bold">तप्पती</hi>ति चित्तसन्तापेन <pb ed="V" n="2.0005"/> तप्पति अनुसोचति कायदुच्‍चरितं कत्वा नन्दयक्खो विय नन्दमाणवो विय नन्दगोघातको विय देवदत्तो विय द्वेभातिका विय च। ते किर गावं वधित्वा मंसं द्वे कोट्ठासे अकंसु। ततो कनिट्ठो जेट्ठकं आह – ‘‘मय्हं दारका बहू, इमानि मे अन्तानि देही’’ति। अथ नं सो ‘‘सब्बं मंसं द्वेधा विभत्तं, पुन किं मग्गसी’’ति पहरित्वा जीवितक्खयं पापेसि। निवत्तित्वा च नं ओलोकेन्तो मतं दिस्वा ‘‘भारियं मे कम्मं कत’’न्ति चित्तं उप्पादेसि। अथस्स बलवसोको उप्पज्‍जि। सो ठितट्ठानेपि निसिन्‍नट्ठानेपि तदेव कम्मं आवज्‍जेति, चित्तस्सादं न लभति। असितपीतखायितसायितम्पिस्स सरीरे ओजं न फरति, अट्ठिचम्ममत्तमेव अहोसि। अथ नं एको थेरो दिस्वा – ‘‘उपासक, त्वं पहूतअन्‍नपानो, अट्ठिचम्ममत्तमेव ते अवसिट्ठं, अत्थि नु खो ते किञ्‍चि तपनीयकम्म’’न्ति? सो ‘‘आम, भन्ते’’ति सब्बं आरोचेसि। अथ नं थेरो ‘‘भारियं ते उपासक कम्मं कतं, अनपराधट्ठाने अपरद्ध’’न्ति आह। सो तेनेव कम्मेन कालं कत्वा निरये निब्बत्तो। वचीदुच्‍चरितेन सुप्पबुद्धसक्‍ककोकालिकचिञ्‍चमाणविकादयो विय तप्पति। सेसमेत्थ चतुत्थे च उत्तानत्थमेव। ततियं।</p>

<p rend="subhead">५. उपञ्‍ञातसुत्तवण्णना</p>

<p rend="bodytext" n="5"><hi rend="paranum">५</hi><hi rend="dot">.</hi> पञ्‍चमे <hi rend="bold">द्विन्‍नाह</hi>न्ति द्विन्‍नं अहं। <hi rend="bold">उपञ्‍ञासि</hi>न्ति उपगन्त्वा गुणं अञ्‍ञासिं, जानिं पटिविज्झिन्ति अत्थो। इदानि ते धम्मे दस्सेन्तो <hi rend="bold">या च असन्तुट्ठिता</hi>तिआदिमाह। इमञ्हि <pb ed="P" n="2.0094"/> धम्मद्वयं निस्साय सत्था सब्बञ्‍ञुतं पत्तो, तस्मा तस्सानुभावं दस्सेन्तो एवमाह। तत्थ <hi rend="bold">असन्तुट्ठिता कुसलेसु धम्मेसू</hi>ति इमिना इमं दीपेति – ‘‘अहं झानमत्तकेन वा ओभासनिमित्तमत्तकेन वा असन्तुट्ठो हुत्वा अरहत्तमग्गमेव उप्पादेसिं। याव सो न उप्पज्‍जि, न तावाहं सन्तुट्ठो अहोसिं। पधानस्मिं च अनुक्‍कण्ठितो हुत्वा अनोसक्‍कनाय ठत्वायेव पधानकिरियं अकासि’’न्ति इममत्थं दस्सेन्तो <hi rend="bold">या च अप्पटिवानिता</hi>तिआदिमाह। तत्थ <hi rend="bold">अप्पटिवानिता</hi>ति अप्पटिक्‍कमना अनोसक्‍कना। <hi rend="bold">अप्पटिवानी सुदाहं</hi> <pb ed="M" n="2.0006"/>, <hi rend="bold">भिक्खवे, पदहामी</hi>ति एत्थ <hi rend="bold">सुद</hi>न्ति निपातमत्तं। अहं, भिक्खवे, अनोसक्‍कनायं ठितो बोधिसत्तकाले सब्बञ्‍ञुतं पत्थेन्तो पधानमकासिन्ति अयमेत्थ अत्थो।</p>

<p rend="bodytext">इदानि यथा तेन तं पधानं कतं, तं दस्सेन्तो <hi rend="bold">कामं तचो चा</hi>तिआदिमाह। तत्थ <hi rend="bold">पत्तब्ब</hi>न्ति <pb ed="V" n="2.0006"/> इमिना पत्तब्बं गुणजातं दस्सेति। <hi rend="bold">पुरिसथामेना</hi>तिआदिना पुरिसस्स ञाणथामो ञाणवीरियं ञाणपरक्‍कमो च कथितो। <hi rend="bold">सण्ठान</hi>न्ति ठपना अप्पवत्तना ओसक्‍कना, पटिप्पस्सद्धीति अत्थो। एत्तावता तेन चतुरङ्गसमन्‍नागतं वीरियाधिट्ठानं नाम कथितं। एत्थ हि कामं तचो चाति एकं अङ्गं, न्हारु चाति एकं, अट्ठि चाति एकं, मंसलोहितन्ति एकं, इमानि चत्तारि अङ्गानि। <hi rend="bold">पुरिसथामेना</hi>तिआदीनि अधिमत्तवीरियाधिवचनानि। इति पुरिमेहि चतूहि अङ्गेहि समन्‍नागतेन हुत्वा एवं अधिट्ठितं वीरियं चतुरङ्गसमन्‍नागतं वीरियाधिट्ठानं नामाति वेदितब्बं। एत्तावता <pb ed="P" n="2.0095"/> तेन बोधिपल्‍लङ्के अत्तनो आगमनीयपटिपदा कथिता।</p>

<p rend="bodytext">इदानि ताय पटिपदाय पटिलद्धगुणं कथेतुं <hi rend="bold">तस्स मय्हं, भिक्खवे</hi>तिआदिमाह। तत्थ <hi rend="bold">अप्पमादाधिगता</hi>ति सतिअविप्पवाससङ्खातेन अप्पमादेन अधिगता, न सुत्तप्पमत्तेन लद्धा। <hi rend="bold">सम्बोधी</hi>ति चतुमग्गञाणञ्‍चेव सब्बञ्‍ञुतञ्‍ञाणञ्‍च। न हि सक्‍का एतं सुत्तप्पमत्तेन अधिगन्तुन्ति। तेनाह – ‘‘अप्पमादाधिगता सम्बोधी’’ति। <hi rend="bold">अनुत्तरो योगक्खेमो</hi>ति न केवलं बोधियेव, अरहत्तफलनिब्बानसङ्खातो अनुत्तरो योगक्खेमोपि अप्पमादाधिगतोव।</p>

<p rend="bodytext">इदानि अत्तना पटिलद्धगुणेसु भिक्खुसङ्घं समादपेन्तो <hi rend="bold">तुम्हे चेपि भिक्खवे</hi>तिआदिमाह। तत्थ <hi rend="bold">यस्सत्थाया</hi>ति यस्स अत्थाय, यं उपसम्पज्‍ज विहरितुकामा हुत्वाति अत्थो। <hi rend="bold">तदनुत्तर</hi>न्ति तं अनुत्तरं। <hi rend="bold">ब्रह्मचरियपरियोसान</hi>न्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरियफलं। <hi rend="bold">अभिञ्‍ञा सच्छिकत्वा</hi>ति अभिञ्‍ञाय उत्तमपञ्‍ञाय पच्‍चक्खं कत्वा। <hi rend="bold">उपसम्पज्‍ज विहरिस्सथा</hi>ति पटिलभित्वा पापुणित्वा विहरिस्सथ। <hi rend="bold">तस्मा</hi>ति यस्मा अप्पटिवानपधानं नामेतं बहूपकारं उत्तमत्थसाधकं, तस्मा। पञ्‍चमं।</p>

<p rend="subhead">६. संयोजनसुत्तवण्णना</p>

<p rend="bodytext" n="6"><hi rend="paranum">६</hi><hi rend="dot">.</hi> छट्ठे <pb ed="M" n="2.0007"/> <hi rend="bold">संयोजनियेसु धम्मेसू</hi>ति दसन्‍नं संयोजनानं पच्‍चयभूतेसु तेभूमकधम्मेसु। <hi rend="bold">अस्सादानुपस्सिता</hi>ति अस्सादतो पस्सिता पस्सनभावोति अत्थो। <hi rend="bold">निब्बिदानुपस्सिता</hi>ति निब्बिदावसेन उक्‍कण्ठनवसेन पस्सनभावो। <hi rend="bold">जातिया</hi>ति खन्धनिब्बत्तितो। <hi rend="bold">जराया</hi>ति खन्धपरिपाकतो। <hi rend="bold">मरणेना</hi>ति खन्धभेदतो। <hi rend="bold">सोकेही</hi>ति अन्तोनिज्झायनलक्खणेहि सोकेहि। <hi rend="bold">परिदेवेही</hi>ति <pb ed="V" n="2.0007"/> <pb ed="P" n="2.0096"/> तन्‍निस्सितलालप्पितलक्खणेहि परिदेवेहि। <hi rend="bold">दुक्खेही</hi>ति कायपटिपीळनदुक्खेहि। <hi rend="bold">दोमनस्सेही</hi>ति मनोविघातदोमनस्सेहि। <hi rend="bold">उपायासेही</hi>ति अधिमत्तायासलक्खणउपायासेहि। <hi rend="bold">दुक्खस्मा</hi>ति सकलवट्टदुक्खतो। <hi rend="bold">पजहती</hi>ति मग्गेन पजहति। <hi rend="bold">पहाया</hi>ति एत्थ पन फलक्खणो कथितो। इमस्मिं सुत्ते वट्टविवट्टं कथितं। छट्ठं।</p>

<p rend="subhead">७. कण्हसुत्तवण्णना</p>

<p rend="bodytext" n="7"><hi rend="paranum">७</hi><hi rend="dot">.</hi> सत्तमे <hi rend="bold">कण्हा</hi>ति न काळवण्णताय कण्हा, कण्हताय पन उपनेन्तीति निप्फत्तिकाळताय कण्हा। सरसेनापि वा सब्बाकुसलधम्मा कण्हा एव। न हि तेसं उप्पत्तिया चित्तं पभस्सरं होति। <hi rend="bold">अहिरिक</hi>न्ति अहिरिकभावो। <hi rend="bold">अनोत्तप्प</hi>न्ति अनोत्तापिभावो। सत्तमं।</p>

<p rend="subhead">८. सुक्‍कसुत्तवण्णना</p>

<p rend="bodytext" n="8"><hi rend="paranum">८</hi><hi rend="dot">.</hi> अट्ठमे <hi rend="bold">सुक्‍का</hi>ति न वण्णसुक्‍कताय सुक्‍का, सुक्‍कताय पन उपनेन्तीति निप्फत्तिसुक्‍कताय सुक्‍का। सरसेनापि वा सब्बकुसलधम्मा सुक्‍का एव। तेसं हि उप्पत्तिया चित्तं पभस्सरं होति। <hi rend="bold">हिरी च ओत्तप्पञ्‍चा</hi>ति एत्थ पापतो जिगुच्छनलक्खणा हिरी, भायनलक्खणं ओत्तप्पं। यं पनेत्थ वित्थारतो वत्तब्बं सिया, तं विसुद्धिमग्गे वुत्तमेव। अट्ठमं।</p>

<p rend="subhead">९. चरियसुत्तवण्णना</p>

<p rend="bodytext" n="9"><hi rend="paranum">९</hi><hi rend="dot">.</hi> नवमे <hi rend="bold">लोकं पालेन्ती</hi>ति लोकं सन्धारेन्ति ठपेन्ति रक्खन्ति। <hi rend="bold">नयिध पञ्‍ञायेथ माता</hi>ति इमस्मिं लोके जनिका माता ‘‘अयं मे माता’’ति <pb ed="M" n="2.0008"/> गरुचित्तीकारवसेन न पञ्‍ञायेथ। सेसपदेसुपि एसेव नयो। <hi rend="bold">सम्भेद</hi>न्ति सङ्करं मरियादभेदं वा। <hi rend="bold">यथा अजेळका</hi>तिआदीसु एते हि सत्ता ‘‘अयं मे माता’’ति वा ‘‘मातुच्छा’’ति वा गरुचित्तीकारवसेन न जानन्ति। यं वत्थुं <pb ed="P" n="2.0097"/> निस्साय उप्पन्‍ना, तत्थेव विप्पटिपज्‍जन्ति। तस्मा उपमं आहरन्तो ‘‘यथा अजेळका’’तिआदिमाह। नवमं।</p>

<p rend="subhead">१०. वस्सूपनायिकसुत्तवण्णना</p>

<p rend="bodytext" n="10"><hi rend="paranum">१०</hi><hi rend="dot">.</hi> दसमं <pb ed="V" n="2.0008"/> अट्ठुप्पत्तियं वुत्तं। कतरअट्ठुप्पत्तियं? मनुस्सानं उज्झायने। भगवता हि पठमबोधियं वीसति वस्सानि वस्सूपनायिका अप्पञ्‍ञत्ता अहोसि। भिक्खू अनिबद्धवासा वस्सेपि उतुवस्सेपि यथासुखं विचरिंसु। ते दिस्वा मनुस्सा ‘‘कथञ्हि नाम समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरिस्सन्ति हरितानि तिणानि सम्मद्दन्ता एकिन्द्रियं जीवं विहेठेन्ता बहू खुद्दके पाणे सङ्घातं आपादेन्ता। इमे हि नाम अञ्‍ञतित्थिया दुरक्खातधम्मा वस्सावासं अल्‍लीयिस्सन्ति संकसायिस्सन्ति, इमे नाम सकुणा रुक्खग्गेसु कुलावकानि कत्वा वस्सावासं अल्‍लीयिस्सन्ति संकसायिस्सन्ती’’तिआदीनि वत्वा उज्झायिंसु। तमत्थं भिक्खू भगवतो आरोचेसुं। भगवा तं अट्ठुप्पत्तिं कत्वा इमं सुत्तं देसेन्तो पठमं ताव ‘‘अनुजानामि, भिक्खवे, वस्सं उपगन्तु’’न्ति (महाव॰ १८४) एत्तकमेवाह। अथ भिक्खूनं ‘‘कदा नु खो वस्सं उपगन्तब्ब’’न्ति उप्पन्‍नं वितक्‍कं सुत्वा ‘‘अनुजानामि, भिक्खवे, वस्साने वस्सं उपगन्तु’’न्ति आह। अथ खो भिक्खूनं एतदहोसि – ‘‘कति नु खो वस्सूपनायिका’’ति। भगवतो एतमत्थं आरोचेसुं। तं सुत्वा सकलम्पि इदं सुत्तं देसेन्तो <hi rend="bold">द्वेमा, भिक्खवे</hi>तिआदिमाह। तत्थ <hi rend="bold">वस्सूपनायिका</hi>ति वस्सूपगमनानि। <hi rend="bold">पुरिमिका</hi>ति अपरज्‍जुगताय आसाळ्हिया उपगन्तब्बा पुरिमकत्तिकपुण्णमिपरियोसाना पठमा तेमासी। <hi rend="bold">पच्छिमिका</hi>ति मासगताय आसाळ्हिया उपगन्तब्बा पच्छिमकत्तिकपरियोसाना पच्छिमा तेमासीति। दसमं।</p>

<p rend="centre">कम्मकारणवग्गो पठमो।</p>

</body>
<back></back>
</text>
</TEI.2>
