<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">५. चूळवग्गो</p>

<p rend="subhead">१. सम्मुखीभावसुत्तवण्णना</p>

<p rend="bodytext" n="41"><hi rend="paranum">४१</hi><hi rend="dot">.</hi> पञ्‍चमस्स <pb ed="V" n="2.0130"/> पठमे <hi rend="bold">सम्मुखीभावा</hi>ति सम्मुखीभावेन, विज्‍जमानतायाति अत्थो। <hi rend="bold">पसवती</hi>ति पटिलभति। <hi rend="bold">सद्धाय सम्मुखीभावा</hi>ति यदि हि सद्धा न भवेय्य, देय्यधम्मो न भवेय्य, दक्खिणेय्यसङ्खाता पटिग्गाहकपुग्गला न भवेय्युं, कथं पुञ्‍ञकम्मं करेय्य। तेसं पन सम्मुखीभावेन सक्‍का कातुन्ति तस्मा ‘‘सद्धाय सम्मुखीभावा’’तिआदिमाह। एत्थ च द्वे <pb ed="M" n="2.0132"/> धम्मा सुलभा देय्यधम्मा चेव दक्खिणेय्या च, सद्धा पन दुल्‍लभा। पुथुज्‍जनस्स हि सद्धा अथावरा पदवारेन नाना होति, तेनेव महामोग्गल्‍लानसदिसोपि अग्गसावको पाटिभोगो भवितुं असक्‍कोन्तो आह – ‘‘द्विन्‍नं खो ते अहं, आवुसो, धम्मानं पाटिभोगो भोगानञ्‍च जीवितस्स च, सद्धाय पन त्वंयेव पाटिभोगो’’ति (उदा॰ १८)।</p>

<p rend="subhead">२. तिठानसुत्तवण्णना</p>

<p rend="bodytext" n="42"><hi rend="paranum">४२</hi><hi rend="dot">.</hi> दुतिये <hi rend="bold">विगतमलमच्छेरेना</hi>ति विगतमच्छरियमलेन। <hi rend="bold">मुत्तचागो</hi>ति विस्सट्ठचागो। <hi rend="bold">पयतपाणी</hi>ति धोतहत्थो। अस्सद्धो हि सतक्खत्तुं हत्थे धोवित्वापि मलिनहत्थोव होति, सद्धो पन दानाभिरतत्ता मलिनहत्थोपि धोतहत्थोव। <hi rend="bold">वोस्सग्गरतो</hi>ति <pb ed="P" n="2.0246"/> वोस्सग्गसङ्खाते दाने रतो। <hi rend="bold">याचयोगो</hi>ति याचितुं युत्तो, याचकेहि वा योगो अस्सातिपि याचयोगो। <hi rend="bold">दानसंविभागरतो</hi>ति दानं ददन्तो संविभागञ्‍च करोन्तो दानसंविभागरतो नाम होति।</p>

<p rend="bodytext"><hi rend="bold">दस्सनकामो सीलवत</hi>न्ति दसपि योजनानि वीसम्पि तिंसम्पि योजनसतम्पि गन्त्वा सीलसम्पन्‍ने दट्ठुकामो होति <hi rend="bold">पाटलिपुत्तकब्राह्मणो</hi> विय <hi rend="bold">सद्धातिस्समहाराजा</hi> विय च। पाटलिपुत्तस्स किर नगरद्वारे सालाय निसिन्‍ना द्वे ब्राह्मणा काळवल्‍लिमण्डपवासिमहानागत्थेरस्स गुणकथं सुत्वा ‘‘अम्हेहि तं भिक्खुं दट्ठुं वट्टती’’ति द्वेपि जना निक्खमिंसु। एको अन्तरामग्गे कालमकासि। एको समुद्दतीरं पत्वा नावाय महातित्थपट्टने ओरुय्ह अनुराधपुरं <pb ed="V" n="2.0131"/> आगन्त्वा ‘‘काळवल्‍लिमण्डपो कुहि’’न्ति पुच्छि। रोहणजनपदेति। सो अनुपुब्बेन थेरस्स वसनट्ठानं पत्वा चूळनगरगामे धुरघरे निवासं गहेत्वा थेरस्स आहारं सम्पादेत्वा पातोव वुट्ठाय थेरस्स वसनट्ठानं पुच्छित्वा गन्त्वा जनपरियन्ते ठितो थेरं दूरतोव आगच्छन्तं दिस्वा सकिं तत्थेव ठितो वन्दित्वा पुन उपसङ्कमित्वा गोप्फकेसु दळ्हं गहेत्वा वन्दन्तो ‘‘उच्‍चा, भन्ते, तुम्हे’’ति आह। थेरो च नातिउच्‍चो नातिरस्सो पमाणयुत्तोव, तेन नं पुन आह – ‘‘नातिउच्‍चा तुम्हे, तुम्हाकं <pb ed="M" n="2.0133"/> पन गुणा मेचकवण्णस्स समुद्दस्स मत्थकेन गन्त्वा सकलजम्बुदीपतलं अज्झोत्थरित्वा गता, अहम्पि पाटलिपुत्तनगरद्वारे निसिन्‍नो तुम्हाकं गुणकथं अस्सोसि’’न्ति। सो थेरस्स भिक्खाहारं दत्वा अत्तनो तिचीवरं पटियादेत्वा थेरस्स सन्तिके पब्बजित्वा तस्सोवादे पतिट्ठाय कतिपाहेनेव अरहत्तं पापुणि।</p>

<p rend="bodytext"><hi rend="bold">सद्धातिस्समहाराजा</hi>पि, ‘‘भन्ते, मय्हं वन्दितब्बयुत्तकं <pb ed="P" n="2.0247"/> एकं अय्यं आचिक्खथा’’ति पुच्छि। भिक्खू ‘‘मङ्गलवासी कुट्टतिस्सत्थेरो’’ति आहंसु। राजा महापरिवारेन पञ्‍चयोजनमग्गं अगमासि। थेरो ‘‘किं सद्दो एसो, आवुसो’’ति भिक्खुसङ्घं पुच्छि। ‘‘राजा, भन्ते, तुम्हाकं दस्सनत्थाय आगतो’’ति। थेरो चिन्तेसि – ‘‘किं मय्हं महल्‍लककाले राजगेहे कम्म’’न्ति दिवाट्ठाने मञ्‍चे निपज्‍जित्वा भूमियं लेखं लिखन्तो अच्छि। राजा ‘‘कहं थेरो’’ति पुच्छित्वा ‘‘दिवाट्ठाने’’ति सुत्वा तत्थ गच्छन्तो थेरं भूमियं लेखं लिखन्तं दिस्वा ‘‘खीणासवस्स नाम हत्थकुक्‍कुच्‍चं नत्थि, नायं खीणासवो’’ति अवन्दित्वाव निवत्ति। भिक्खुसङ्घो थेरं आह – ‘‘भन्ते, एवंविधस्स सद्धस्स पसन्‍नस्स रञ्‍ञो कस्मा विप्पटिसारं करित्था’’ति। ‘‘आवुसो, रञ्‍ञो पसादरक्खनं न तुम्हाकं भारो, महल्‍लकत्थेरस्स भारो’’ति वत्वा अपरभागे अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तो भिक्खुसङ्घं आह – ‘‘मय्हं कूटागारम्हि अञ्‍ञम्पि पल्‍लङ्कं अत्थरथा’’ति। तस्मिं अत्थते थेरो – ‘‘इदं कूटागारं अन्तरे अप्पतिट्ठहित्वा रञ्‍ञा दिट्ठकालेयेव भूमियं पतिट्ठातू’’ति अधिट्ठहित्वा परिनिब्बायि। कूटागारं पञ्‍चयोजनमग्गं आकासेन अगमासि। पञ्‍चयोजनमग्गे धजं धारेतुं समत्था रुक्खा धजपग्गहिताव अहेसुं। गच्छापि गुम्बापि सब्बे कूटागाराभिमुखा हुत्वा अट्ठंसु।</p>

<p rend="bodytext">रञ्‍ञोपि पण्णं पहिणिंसु ‘‘थेरो परिनिब्बुतो, कूटागारं आकासेन आगच्छती’’ति। राजा न सद्दहि। कूटागारं आकासेन गन्त्वा थूपारामं पदक्खिणं कत्वा सिलाचेतियट्ठानं अगमासि। चेतियं सह वत्थुना उप्पतित्वा कूटागारमत्थके अट्ठासि, साधुकारसहस्सानि पवत्तिंसु <pb ed="V" n="2.0132"/>। तस्मिं खणे महाब्यग्घत्थेरो नाम लोहपासादे सत्तमकूटागारे निसिन्‍नो भिक्खूनं विनयकम्मं करोन्तो तं सद्दं सुत्वा ‘‘किं सद्दो <pb ed="M" n="2.0134"/> एसो’’ति पटिपुच्छि। भन्ते, मङ्गलवासी कुट्टतिस्सत्थेरो परिनिब्बुतो, कूटागारं पञ्‍चयोजनमग्गं आकासेन आगतं, तत्थ सो साधुकारसद्दोति। आवुसो, पुञ्‍ञवन्ते निस्साय <pb ed="P" n="2.0248"/> सक्‍कारं लभिस्सामाति अन्तेवासिके खमापेत्वा आकासेनेव आगन्त्वा तं कूटागारं पविसित्वा दुतियमञ्‍चे निसीदित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि। राजा गन्धपुप्फचुण्णानि आदाय गन्त्वा आकासे ठितं कूटागारं दिस्वा कूटागारं पूजेसि। तस्मिं खणे कूटागारं ओतरित्वा पथवियं पतिट्ठितं। राजा महासक्‍कारेन सरीरकिच्‍चं कारेत्वा धातुयो गहेत्वा चेतियं अकासि। एवरूपा सीलवन्तानं दस्सनकामा नाम होन्ति।</p>

<p rend="bodytext"><hi rend="bold">सद्धम्मं सोतुमिच्छती</hi>ति तथागतप्पवेदितं सद्धम्मं सोतुकामो होति <hi rend="bold">पिण्डपातिकत्थेरादयो</hi> विय। गङ्गावनवालिअङ्गणम्हि किर तिंस भिक्खू वस्सं उपगता अन्वद्धमासं उपोसथदिवसे चतुपच्‍चयसन्तोसभावनाराममहाअरियवंसञ्‍च (अ॰ नि॰ ४.२८) कथेन्ति। एको पिण्डपातिकत्थेरो पच्छाभागेन आगन्त्वा पटिच्छन्‍नट्ठाने निसीदि। अथ नं एको गोनसो जङ्घपिण्डिमंसं सण्डासेन गण्हन्तो विय डंसि। थेरो ओलोकेन्तो गोनसं दिस्वा ‘‘अज्‍ज धम्मस्सवनन्तरायं न करिस्सामी’’ति गोनसं गहेत्वा थविकाय पक्खिपित्वा थविकामुखं बन्धित्वा अविदूरे ठाने ठपेत्वा धम्मं सुणन्तोव निसीदि। अरुणुग्गमनञ्‍च विसं विक्खम्भेत्वा थेरस्स तिण्णं फलानं पापुणनञ्‍च विसस्स दट्ठट्ठानेनेव ओतरित्वा पथविपविसनञ्‍च धम्मकथिकत्थेरस्स धम्मकथानिट्ठापनञ्‍च एकक्खणेयेव अहोसि। ततो थेरो आह – ‘‘आवुसो एको मे चोरो गहितो’’ति थविकं मुञ्‍चित्वा गोनसं विस्सज्‍जेसि। भिक्खू दिस्वा ‘‘काय वेलाय दट्ठत्थ, भन्ते’’ति पुच्छिंसु। हिय्यो सायन्हसमये, आवुसोति। कस्मा, भन्ते, एवं भारियं कम्मं करित्थाति। आवुसो, सचाहं दीघजातिकेन दट्ठोति वदेय्यं, नयिमं एत्तकं आनिसंसं <pb ed="P" n="2.0249"/> लभेय्यन्ति। इदं ताव पिण्डपातिकत्थेरस्स वत्थु।</p>

<p rend="bodytext">दीघवापियम्पि ‘‘महाजातकभाणकत्थेरो गाथासहस्सं महावेस्सन्तरं कथेस्सती’’ति तिस्समहागामे तिस्समहाविहारवासी एको <pb ed="M" n="2.0135"/> दहरो सुत्वा ततो निक्खमित्वा एकाहेनेव नवयोजनमग्गं आगतो। तस्मिंयेव खणे थेरो धम्मकथं आरभि। दहरो दूरमग्गागमनेन सञ्‍जातकायदरथत्ता पट्ठानगाथाय सद्धिं अवसानगाथंयेव ववत्थपेसि। ततो थेरस्स ‘‘इदमवोचा’’ति <pb ed="V" n="2.0133"/> वत्वा उट्ठाय गमनकाले ‘‘मय्हं आगमनकम्मं मोघं जात’’न्ति रोदमानो अट्ठासि। एको मनुस्सो तं कथं सुत्वा गन्त्वा थेरस्स आरोचेसि, ‘‘भन्ते, ‘तुम्हाकं धम्मकथं सोस्सामी’ति एको दहरभिक्खु तिस्समहाविहारा आगतो, सो ‘कायदरथभावेन मे आगमनं मोघं जात’न्ति रोदमानो ठितो’’ति। गच्छथ सञ्‍ञापेथ नं ‘‘पुन स्वे कथेस्सामा’’ति। सो पुनदिवसे थेरस्स धम्मकथं सुत्वा सोतापत्तिफलं पापुणि।</p>

<p rend="bodytext">अपरापि <hi rend="bold">उल्‍लकोलिकण्णिवासिका</hi> एका इत्थी पुत्तकं पायमाना ‘‘दीघभाणकमहाअभयत्थेरो नाम अरियवंसपटिपदं कथेती’’ति सुत्वा पञ्‍चयोजनमग्गं गन्त्वा दिवाकथिकत्थेरस्स निसिन्‍नकालेयेव विहारं पविसित्वा भूमियं पुत्तं निपज्‍जापेत्वा दिवाकथिकत्थेरस्स ठितकाव धम्मं अस्सोसि। सरभाणके थेरे उट्ठिते दीघभाणकमहाअभयत्थेरो चतुपच्‍चयसन्तोसभावनाराममहाअरियवंसं आरभि। सा ठितकाव पग्गण्हाति। थेरो तयो एव पच्‍चये कथेत्वा उट्ठानाकारं अकासि। सा उपासिका आह – ‘‘अय्यो, ‘अरियवंसं कथेस्सामी’ति सिनिद्धभोजनं भुञ्‍जित्वा मधुरपानकं पिवित्वा यट्ठिमधुकतेलादीहि भेसज्‍जं कत्वा कथेतुं <pb ed="P" n="2.0250"/> युत्तट्ठानेयेव उट्ठहती’’ति। थेरो ‘‘साधु, भगिनी’’ति वत्वा उपरि भावनारामं पट्ठपेसि। अरुणुग्गमनञ्‍च थेरस्स ‘‘इदमवोचा’’ति वचनञ्‍च उपासिकाय सोतापत्तिफलुप्पत्ति च एकक्खणेयेव अहोसि।</p>

<p rend="bodytext">अपरापि <hi rend="bold">कळम्परवासिका</hi> इत्थी अङ्केन पुत्तं आदाय ‘‘धम्मं सोस्सामी’’ति चित्तलपब्बतं गन्त्वा एकं रुक्खं निस्साय दारकं निपज्‍जापेत्वा सयं ठितकाव धम्मं सुणाति। रत्तिभागसमनन्तरे एको दीघजातिको तस्सा <pb ed="M" n="2.0136"/> पस्सन्तियायेव समीपे निपन्‍नदारकं चतूहि दाठाहि डंसित्वा अगमासि। सा चिन्तेसि – ‘‘सचाहं ‘पुत्तो मे सप्पेन दट्ठो’ति वक्खामि, धम्मस्स अन्तरायो भविस्सति। अनेकक्खत्तुं खो पन मे अयं संसारवट्टे वट्टन्तिया पुत्तो अहोसि, धम्ममेव चरिस्सामी’’ति तियामरत्तिं ठितकाव धम्मं पग्गण्हित्वा सोतापत्तिफले पतिट्ठाय अरुणे उग्गते सच्‍चकिरियाय पुत्तस्स विसं निम्मथेत्वा पुत्तं गहेत्वा गता। एवरूपा पुग्गला धम्मं सोतुकामा नाम होन्ति।</p>

<p rend="subhead">३. अत्थवससुत्तवण्णना</p>

<p rend="bodytext" n="43"><hi rend="paranum">४३</hi><hi rend="dot">.</hi> ततिये <pb ed="V" n="2.0134"/> <hi rend="bold">तयो, भिक्खवे, अत्थवसे सम्पस्समानेना</hi>ति तयो अत्थे तीणि कारणानि पस्सन्तेन। <hi rend="bold">अलमेवा</hi>ति युत्तमेव। <hi rend="bold">यो धम्मं देसेती</hi>ति यो पुग्गलो चतुसच्‍चधम्मं पकासेति। <hi rend="bold">अत्थप्पटिसंवेदी</hi>ति अट्ठकथं ञाणेन पटिसंवेदी। <hi rend="bold">धम्मप्पटिसंवेदी</hi>ति पाळिधम्मं पटिसंवेदी।</p>

<p rend="subhead">४. कथापवत्तिसुत्तवण्णना</p>

<p rend="bodytext" n="44"><hi rend="paranum">४४</hi><hi rend="dot">.</hi> चतुत्थे <hi rend="bold">ठानेही</hi>ति कारणेहि। <hi rend="bold">पवत्तिनी</hi>ति अप्पटिहता निय्यानिका।</p>

<p rend="subhead">५. पण्डितसुत्तवण्णना</p>

<p rend="bodytext" n="45"><hi rend="paranum">४५</hi><hi rend="dot">.</hi> पञ्‍चमे <hi rend="bold">पण्डितपञ्‍ञत्तानी</hi>ति पण्डितेहि पञ्‍ञत्तानि कथितानि पसत्थानि। <hi rend="bold">सप्पुरिसपञ्‍ञत्तानी</hi>ति सप्पुरिसेहि महापुरिसेहि पञ्‍ञत्तानि कथितानि पसत्थानि। <hi rend="bold">अहिंसा</hi>ति करुणा चेव करुणापुब्बभागो च। <hi rend="bold">संयमो</hi>ति सीलसंयमो। <hi rend="bold">दमो</hi>ति <pb ed="P" n="2.0251"/> इन्द्रियसंवरो, उपोसथवसेन वा अत्तदमनं, पुण्णोवादे (म॰ नि॰ ३.३९५ आदयो; सं॰ नि॰ ४.८८ आदयो) दमोति वुत्ता खन्तिपि आळवके (सं॰ नि॰ १.२४६; सु॰ नि॰ १८३ आदयो) वुत्ता पञ्‍ञापि इमस्मिं सुत्ते वट्टतियेव। <hi rend="bold">मातापितु उपट्ठान</hi>न्ति मातापितूनं रक्खनं गोपनं पटिजग्गनं। <hi rend="bold">सन्तान</hi>न्ति अञ्‍ञत्थ बुद्धपच्‍चेकबुद्धअरियसावका सन्तो नाम, इध पन मातापितुउपट्ठाका अधिप्पेता। तस्मा उत्तमट्ठेन सन्तानं <pb ed="M" n="2.0137"/>, सेट्ठचरियट्ठेन <hi rend="bold">ब्रह्मचारीनं</hi>। इदं मातापितुउपट्ठानं सब्भि उपञ्‍ञातन्ति एवमेत्थ अत्थो दट्ठब्बो। <hi rend="bold">सतं एतानि ठानानी</hi>ति सन्तानं उत्तमपुरिसानं एतानि ठानानि कारणानि। <hi rend="bold">अरियो दस्सनसम्पन्‍नो</hi>ति इध इमेसंयेव तिण्णं ठानानं कारणेन अरियो चेव दस्सनसम्पन्‍नो च वेदितब्बो, न बुद्धादयो न सोतापन्‍ना। अथ वा <hi rend="bold">सतं एतानि ठानानी</hi>ति मातुपट्ठानं पितुपट्ठानन्ति एतानि ठानानि सन्तानं उत्तमपुरिसानं कारणानीति एवं मातापितुउपट्ठाकवसेन इमिस्सा गाथाय अत्थो वेदितब्बो। मातापितुउपट्ठाकोयेव हि इध ‘‘अरियो दस्सनसम्पन्‍नो’’ति वुत्तो। <hi rend="bold">स लोकं भजते सिव</hi>न्ति सो खेमं देवलोकं गच्छतीति।</p>

<p rend="subhead">६. सीलवन्तसुत्तवण्णना</p>

<p rend="bodytext" n="46"><hi rend="paranum">४६</hi><hi rend="dot">.</hi> छट्ठे <pb ed="V" n="2.0135"/> <hi rend="bold">तीहि ठानेही</hi>ति तीहि कारणेहि। <hi rend="bold">कायेना</hi>तिआदीसु भिक्खू आगच्छन्ते दिस्वा पच्‍चुग्गमनं करोन्ता गच्छन्ते अनुगच्छन्ता आसनसालाय सम्मज्‍जनउपलेपनादीनि करोन्ता आसनानि पञ्‍ञापेन्ता पानीयं पच्‍चुपट्ठापेन्ता कायेन पुञ्‍ञं पसवन्ति नाम। भिक्खुसङ्घं पिण्डाय चरन्तं दिस्वा ‘‘यागुं देथ, भत्तं देथ, सप्पिनवनीतादीनि देथ, गन्धपुप्फादीहि पूजेथ, उपोसथं उपवसथ, धम्मं सुणाथ, चेतियं वन्दथा’’तिआदीनि वदन्ता वाचाय पुञ्‍ञं पसवन्ति नाम। भिक्खू पिण्डाय चरन्ते दिस्वा ‘‘लभन्तू’’ति चिन्तेन्ता मनसा पुञ्‍ञं पसवन्ति नाम। <hi rend="bold">पसवन्ती</hi>ति पटिलभन्ति। पुञ्‍ञं <pb ed="P" n="2.0252"/> पनेत्थ लोकियलोकुत्तरमिस्सकं कथितं।</p>

<p rend="subhead">७. सङ्खतलक्खणसुत्तवण्णना</p>

<p rend="bodytext" n="47"><hi rend="paranum">४७</hi><hi rend="dot">.</hi> सत्तमे <hi rend="bold">सङ्खतस्सा</hi>ति पच्‍चयेहि समागन्त्वा कतस्स। <hi rend="bold">सङ्खतलक्खणानी</hi>ति सङ्खतं एतन्ति सञ्‍जाननकारणानि निमित्तानि। <hi rend="bold">उप्पादो</hi>ति जाति। <hi rend="bold">वयो</hi>ति भेदो। <hi rend="bold">ठितस्स अञ्‍ञथत्तं</hi> नाम जरा। तत्थ <hi rend="bold">सङ्खत</hi>न्ति तेभूमका धम्मा। मग्गफलानि पन असम्मसनूपगत्ता इध न कथीयन्ति। उप्पादादयो <hi rend="bold">सङ्खतलक्खणा</hi> नाम। तेसु उप्पादक्खणे उप्पादो, ठानक्खणे जरा, भेदक्खणे वयो। लक्खणं न सङ्खतं, सङ्खतं न लक्खणं <pb ed="M" n="2.0138"/>, लक्खणेन पन सङ्खतं परिच्छिन्‍नं। यथा हत्थिअस्सगोमहिंसादीनं सत्तिसूलादीनि सञ्‍जाननलक्खणानि न हत्थिआदयो, नपि हत्थिआदयो लक्खणानेव, लक्खणेहि पन ते ‘‘असुकस्स हत्थी, असुकस्स अस्सो, असुकहत्थी, असुकअस्सो’’ति वा पञ्‍ञायन्ति, एवंसम्पदमिदं वेदितब्बं।</p>

<p rend="subhead">८. असङ्खतलक्खणसुत्तवण्णना</p>

<p rend="bodytext" n="48"><hi rend="paranum">४८</hi><hi rend="dot">.</hi> अट्ठमे <hi rend="bold">असङ्खतस्सा</hi>ति पच्‍चयेहि समागन्त्वा अकतस्स। <hi rend="bold">असङ्खतलक्खणानी</hi>ति असङ्खतं एतन्ति सञ्‍जाननकारणानि निमित्तानि। <hi rend="bold">न उप्पादो पञ्‍ञायती</hi>तिआदीहि उप्पादजराभङ्गानं अभावो वुत्तो। उप्पादादीनञ्हि अभावेन असङ्खतन्ति पञ्‍ञायति।</p>

<p rend="subhead">९. पब्बतराजसुत्तवण्णना</p>

<p rend="bodytext" n="49"><hi rend="paranum">४९</hi><hi rend="dot">.</hi> नवमे <pb ed="V" n="2.0136"/> <hi rend="bold">महासाला</hi>ति महारुक्खा। <hi rend="bold">कुलपति</hi>न्ति कुलजेट्ठकं। <hi rend="bold">सेलो</hi>ति सिलामयो। <hi rend="bold">अरञ्‍ञस्मि</hi>न्ति अगामकट्ठाने। <hi rend="bold">ब्रह्मा</hi>ति महन्तो। <hi rend="bold">वने</hi>ति अटवियं। <hi rend="bold">वनप्पती</hi>ति वनजेट्ठका। <hi rend="bold">इध धम्मं चरित्वान, मग्गं सुगतिगामिन</hi>न्ति सुगतिगामिकमग्गसङ्खातं धम्मं चरित्वा।</p>

<p rend="subhead">१०. आतप्पकरणीयसुत्तवण्णना</p>

<p rend="bodytext" n="50"><hi rend="paranum">५०</hi><hi rend="dot">.</hi> दसमे <pb ed="P" n="2.0253"/> <hi rend="bold">आतप्पं करणीय</hi>न्ति वीरियं कातुं युत्तं। <hi rend="bold">अनुप्पादाया</hi>ति अनुप्पादत्थाय, अनुप्पादं साधेस्सामीति इमिना कारणेन कत्तब्बन्ति अत्थो। परतोपि एसेव नयो। <hi rend="bold">सारीरिकान</hi>न्ति सरीरसम्भवानं। <hi rend="bold">दुक्खान</hi>न्ति दुक्खमानं। <hi rend="bold">तिब्बान</hi>न्ति बहलानं, तापनवसेन वा तिब्बानं। <hi rend="bold">खरान</hi>न्ति फरुसानं। <hi rend="bold">कटुकान</hi>न्ति तिखिणानं। <hi rend="bold">असातान</hi>न्ति अमधुरानं। <hi rend="bold">अमनापान</hi>न्ति मनं वड्ढेतुं असमत्थानं। <hi rend="bold">पाणहरान</hi>न्ति जीवितहरानं। <hi rend="bold">अधिवासनाया</hi>ति अधिवासनत्थाय सहनत्थाय खमनत्थाय।</p>

<p rend="bodytext">एत्तके <pb ed="M" n="2.0139"/> ठाने सत्था आणापेत्वा आणत्तिं पवत्तेत्वा इदानि समादपेन्तो <hi rend="bold">यतो खो, भिक्खवे</hi>तिआदिमाह। तत्थ <hi rend="bold">यतो</hi>ति यदा। <hi rend="bold">आतापी</hi>ति वीरियवा। <hi rend="bold">निपको</hi>ति सप्पञ्‍ञो। <hi rend="bold">सतो</hi>ति सतिया समन्‍नागतो। <hi rend="bold">दुक्खस्स अन्तकिरियाया</hi>ति वट्टदुक्खस्स परिच्छेदपरिवटुमकिरियाय। इमे च पन आतापादयो तयोपि लोकियलोकुत्तरमिस्सका कथिता।</p>

<p rend="subhead">११. महाचोरसुत्तवण्णना</p>

<p rend="bodytext" n="51"><hi rend="paranum">५१</hi><hi rend="dot">.</hi> एकादसमे <hi rend="bold">महाचोरो</hi>ति महन्तो बलवचोरो। <hi rend="bold">सन्धि</hi>न्ति घरसन्धिं। <hi rend="bold">निल्‍लोप</hi>न्ति महाविलोपं। <hi rend="bold">एकागारिक</hi>न्ति एकमेव गेहं परिवारेत्वा विलुम्पनं। <hi rend="bold">परिपन्थेपि तिट्ठती</hi>ति पन्थदूहनकम्मं करोति। <hi rend="bold">नदीविदुग्ग</hi>न्ति नदीनं दुग्गमट्ठानं अन्तरदीपकं, यत्थ सक्‍का होति द्वीहिपि तीहिपि जङ्घसहस्सेहि सद्धिं निलीयितुं। <hi rend="bold">पब्बतविसम</hi>न्ति <pb ed="P" n="2.0254"/> पब्बतानं विसमट्ठानं पब्बतन्तरं, यत्थ सक्‍का होति सत्तहि वा अट्ठहि वा जङ्घसहस्सेहि सद्धिं निलीयितुं। <hi rend="bold">तिणगहन</hi>न्ति तिणेन वड्ढित्वा सञ्छन्‍नं द्वत्तियोजनट्ठानं। <hi rend="bold">रोध</hi>न्ति घनं अञ्‍ञमञ्‍ञं संसट्ठसाखं एकाबद्धं <pb ed="V" n="2.0137"/> महावनसण्डं। <hi rend="bold">परियोधाय अत्थं भणिस्सन्ती</hi>ति परियोदहित्वा तं तं कारणं पक्खिपित्वा अत्थं कथयिस्सन्ति। <hi rend="bold">त्यास्सा</hi>ति ते अस्स। <hi rend="bold">परियोधाय अत्थं भणन्ती</hi>ति किस्मिञ्‍चि किञ्‍चि वत्तुं आरद्धेयेव ‘‘मा एवं अवचुत्थ, मयं एतं कुलपरम्पराय जानाम, न एस एवरूपं करिस्सती’’ति तं तं कारणं पक्खिपित्वा महन्तम्पि दोसं हरन्ता अत्थं भणन्ति। अथ वा <hi rend="bold">परियोधाया</hi>ति पटिच्छादेत्वातिपि अत्थो। ते हि तस्सपि दोसं पटिच्छादेत्वा अत्थं भणन्ति। <hi rend="bold">खतं उपहत</hi>न्ति गुणखननेन खतं, गुणुपघातेन उपहतं। <hi rend="bold">विसमेन कायकम्मेना</hi>ति सम्पक्खलनट्ठेन विसमेन कायद्वारिककम्मेन। वचीमनोकम्मेसुपि एसेव नयो। <hi rend="bold">अन्तग्गाहिकाया</hi>ति दसवत्थुकाय अन्तं गहेत्वा ठितदिट्ठिया। सेसं सब्बत्थ उत्तानत्थमेवाति।</p>

<p rend="centre">चूळवग्गो पञ्‍चमो।</p>

<p rend="centre">पठमपण्णासकं निट्ठितं।</p>

<p rend="title">२. दुतियपण्णासकं</p>

</body>
<back></back>
</text>
</TEI.2>
