<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">७. तिरोकुट्टसुत्तवण्णना</p>

<p rend="subhead">निक्खेपप्पयोजनं</p>

<p rend="bodytext">इदानि <pb ed="V" n="0.0159"/> <hi rend="bold">‘‘तिरोकुट्टेसु तिट्ठन्ती’’</hi>तिआदिना रतनसुत्तानन्तरं निक्खित्तस्स तिरोकुट्टसुत्तस्स अत्थवण्णनाक्‍कमो अनुप्पत्तो, तस्स इध निक्खेपप्पयोजनं वत्वा अत्थवण्णनं करिस्साम।</p>

<p rend="bodytext">तत्थ इदञ्हि तिरोकुट्टं इमिना अनुक्‍कमेन भगवता अवुत्तम्पि यायं इतो पुब्बे नानप्पकारेन कुसलकम्मपटिपत्ति दस्सिता, तत्थ पमादं आपज्‍जमानो निरयतिरच्छानयोनीहि विसिट्ठतरेपि ठाने उप्पज्‍जमानो यस्मा एवरूपेसु पेतेसु उप्पज्‍जति, तस्मा न एत्थ पमादो करणीयोति दस्सनत्थं, येहि च भूतेहि उपद्दुताय वेसालिया उपद्दववूपसमनत्थं रतनसुत्तं वुत्तं, तेसु एकच्‍चानि एवरूपानीति दस्सनत्थं वा वुत्तन्ति।</p>

<p rend="bodytext">इदमस्स इध निक्खेपप्पयोजनं वेदितब्बं।</p>

<p rend="subhead">अनुमोदनाकथा</p>

<p rend="bodytext">यस्मा <pb ed="M" n="0.0169"/> पनस्स अत्थवण्णना –</p>

<p rend="gatha1">‘‘येन यत्थ यदा यस्मा, तिरोकुट्टं पकासितं।</p>

<p rend="gatha2">पकासेत्वान तं सब्बं, कयिरमाना यथाक्‍कमं।</p>

<p rend="gathalast">सुकता होति तस्माहं, करिस्सामि तथेव तं’’॥</p>

<p rend="bodytext">केन पनेतं पकासितं, कत्थ कदा कस्मा चाति? वुच्‍चते – भगवता पकासितं, तं खो पन राजगहे दुतियदिवसे <pb ed="P" n="0.0202"/> रञ्‍ञो मागधस्स अनुमोदनत्थं। इमस्स चत्थस्स विभावनत्थं अयमेत्थ वित्थारकथा कथेतब्बा –</p>

<p rend="bodytext">इतो <pb ed="V" n="0.0160"/> द्वानवुतिकप्पे कासि नाम नगरं अहोसि। तत्थ जयसेनो नाम राजा। तस्स सिरिमा नाम देवी, तस्सा कुच्छियं फुस्सो नाम बोधिसत्तो निब्बत्तित्वा अनुपुब्बेन सम्मासम्बोधिं अभिसम्बुज्झि। जयसेनो राजा ‘‘मम पुत्तो अभिनिक्खमित्वा बुद्धो जातो, मय्हमेव बुद्धो, मय्हं धम्मो, मय्हं सङ्घो’’ति ममत्तं उप्पादेत्वा सब्बकालं सयमेव उपट्ठहति, न अञ्‍ञेसं ओकासं देति।</p>

<p rend="bodytext">भगवतो कनिट्ठभातरो वेमातिका तयो भातरो चिन्तेसुं – ‘‘बुद्धा नाम सब्बलोकहिताय उप्पज्‍जन्ति, न चेकस्सेवत्थाय, अम्हाकञ्‍च पिता अञ्‍ञेसं ओकासं न देति, कथं नु मयं लभेय्याम भगवन्तं उपट्ठातु’’न्ति। तेसं एतदहोसि – ‘‘हन्द मयं किञ्‍चि उपायं करोमा’’ति। ते पच्‍चन्तं कुपितं विय कारापेसुं। ततो राजा ‘‘पच्‍चन्तो कुपितो’’ति सुत्वा तयोपि पुत्ते पच्‍चन्तवूपसमनत्थं पेसेसि। ते वूपसमेत्वा आगता, राजा तुट्ठो वरं अदासि ‘‘यं इच्छथ, तं गण्हथा’’ति। ते ‘‘मयं भगवन्तं उपट्ठातुं इच्छामा’’ति आहंसु। राजा ‘‘एतं ठपेत्वा अञ्‍ञं गण्हथा’’ति आह। ते ‘‘मयं अञ्‍ञेन अनत्थिका’’ति आहंसु। तेन हि परिच्छेदं कत्वा गण्हथाति। ते सत्त वस्सानि याचिंसु, राजा न अदासि। एवं छ, पञ्‍च, चत्तारि, तीणि, द्वे, एकं, सत्त मासानि, छ, पञ्‍च, चत्तारीति याव तेमासं याचिंसु। राजा ‘‘गण्हथा’’ति अदासि।</p>

<p rend="bodytext">ते वरं लभित्वा परमतुट्ठा भगवन्तं उपसङ्कमित्वा वन्दित्वा आहंसु – ‘‘इच्छाम मयं, भन्ते, भगवन्तं तेमासं उपट्ठातुं, अधिवासेतु नो, भन्ते <pb ed="M" n="0.0170"/>, भगवा इमं तेमासं वस्सावास’’न्ति। अधिवासेसि भगवा तुण्हीभावेन। ततो ते अत्तनो जनपदे नियुत्तकपुरिसस्स <pb ed="P" n="0.0203"/> लेखं पेसेसुं ‘‘इमं तेमासं अम्हेहि भगवा उपट्ठातब्बो, विहारं आदिं कत्वा सब्बं भगवतो उपट्ठानसम्भारं करोही’’ति। सो तं सब्बं सम्पादेत्वा पटिनिवेदेसि। ते कासायवत्थनिवत्था हुत्वा अड्ढतेय्येहि पुरिससहस्सेहि वेय्यावच्‍चकरेहि भगवन्तं सक्‍कच्‍चं उपट्ठहमाना जनपदं नेत्वा विहारं निय्यातेत्वा वसापेसुं।</p>

<p rend="bodytext">तेसं भण्डागारिको एको गहपतिपुत्तो सपजापतिको सद्धो अहोसि पसन्‍नो। सो बुद्धप्पमुखस्स सङ्घस्स दानवत्तं सक्‍कच्‍चं अदासि। जनपदे नियुत्तकपुरिसो तं गहेत्वा जानपदेहि एकादसमत्तेहि पुरिससहस्सेहि सद्धिं सक्‍कच्‍चमेव दानं पवत्तापेसि। तत्थ केचि जानपदा पटिहतचित्ता अहेसुं। ते दानस्स अन्तरायं कत्वा देय्यधम्मे अत्तना खादिंसु, भत्तसालञ्‍च अग्गिना दहिंसु। पवारिते राजपुत्ता भगवतो महन्तं सक्‍कारं कत्वा भगवन्तं पुरक्खत्वा <pb ed="V" n="0.0161"/> पितुनो सकासमेव अगमंसु। तत्थ गन्त्वा एव भगवा परिनिब्बायि। राजा च राजपुत्ता च जनपदे नियुत्तकपुरिसो च भण्डागारिको च अनुपुब्बेन कालं कत्वा सद्धिं परिसाय सग्गे उप्पज्‍जिंसु, पटिहतचित्तजना निरयेसु निब्बत्तिंसु। एवं तेसं द्विन्‍नं गणानं सग्गतो सग्गं, निरयतो निरयं उपपज्‍जन्तानं द्वानवुतिकप्पा वीतिवत्ता।</p>

<p rend="bodytext">अथ इमस्मिं भद्दकप्पे कस्सपबुद्धस्स काले ते पटिहतचित्तजना पेतेसु उप्पन्‍ना। तदा मनुस्सा अत्तनो ञातकानं पेतानं अत्थाय दानं दत्वा उद्दिसन्ति ‘‘इदं अम्हाकं ञातीनं होतू’’ति। ते सम्पत्तिं लभन्ति। अथ इमेपि पेता तं दिस्वा भगवन्तं कस्सपं उपसङ्कमित्वा पुच्छिंसु – ‘‘किं नु खो, भन्ते, मयम्पि एवरूपं सम्पत्तिं लभेय्यामा’’ति? भगवा आह – ‘‘इदानि न लभथ <pb ed="P" n="0.0204"/>, अपिच अनागते गोतमो नाम बुद्धो भविस्सति, तस्स भगवतो काले बिम्बिसारो नाम राजा भविस्सति, सो तुम्हाकं इतो द्वानवुतिकप्पे ञाति अहोसि, सो बुद्धस्स दानं दत्वा तुम्हाकं उद्दिसिस्सति, तदा लभिस्सथा’’ति। एवं वुत्ते किर तेसं पेतानं तं वचनं ‘‘स्वे लभिस्सथा’’ति वुत्तं विय अहोसि।</p>

<p rend="bodytext">अथ एकस्मिं बुद्धन्तरे वीतिवत्ते अम्हाकं भगवा लोके उप्पज्‍जि। तेपि तयो राजपुत्ता तेहि अड्ढतेय्येहि पुरिससहस्सेहि सद्धिं <pb ed="M" n="0.0171"/> देवलोका चवित्वा मगधरट्ठे ब्राह्मणकुले उप्पज्‍जित्वा अनुपुब्बेन इसिपब्बज्‍जं पब्बजित्वा गयासीसे तयो जटिला अहेसुं, जनपदे नियुत्तकपुरिसो, राजा अहोसि बिम्बिसारो, भण्डागारिको, गहपति विसाखो नाम महासेट्ठि अहोसि, तस्स पजापति धम्मदिन्‍ना नाम सेट्ठिधीता अहोसि। एवं सब्बापि अवसेसा परिसा रञ्‍ञो एव परिवारा हुत्वा निब्बत्ता।</p>

<p rend="bodytext">अम्हाकं भगवा लोके उप्पज्‍जित्वा सत्तसत्ताहं अतिक्‍कमित्वा अनुपुब्बेन बाराणसिं आगम्म धम्मचक्‍कं पवत्तेत्वा पञ्‍चवग्गिये आदिं कत्वा याव अड्ढतेय्यसहस्सपरिवारे तयो जटिले विनेत्वा राजगहं अगमासि। तत्थ च तदहुपसङ्कमन्तंयेव राजानं बिम्बिसारं सोतापत्तिफले पतिट्ठापेसि एकादसनवुतेहि मागधकेहि ब्राह्मणगहपतिकेहि सद्धिं। अथ रञ्‍ञा स्वातनाय भत्तेन निमन्तितो भगवा अधिवासेत्वा दुतियदिवसे सक्‍केन देवानमिन्देन पुरतो पुरतो गच्छन्तेन –</p>

<p rend="gatha1">‘‘दन्तो दन्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि।</p>

<p rend="gathalast">सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा’’ति॥ (महाव॰ ५८) –</p>

<p rend="unindented">एवमादीहि <pb ed="V" n="0.0162"/> गाथाहि अभित्थवियमानो राजगहं पविसित्वा रञ्‍ञो निवेसने महादानं सम्पटिच्छि। ते पेता ‘‘इदानि राजा <pb ed="P" n="0.0205"/> अम्हाकं दानं उद्दिसिस्सति, इदानि उद्दिसिस्सती’’ति आसाय परिवारेत्वा अट्ठंसु।</p>

<p rend="bodytext">राजा दानं दत्वा ‘‘कत्थ नु खो भगवा विहरेय्या’’ति भगवतो विहारट्ठानमेव चिन्तेसि, न तं दानं कस्सचि उद्दिसि। पेता छिन्‍नासा हुत्वा रत्तिं रञ्‍ञो निवेसने अतिविय भिंसनकं विस्सरमकंसु। राजा भयसंवेगसन्तासमापज्‍जि, ततो पभाताय रत्तिया भगवतो आरोचेसि – ‘‘एवरूपं सद्दमस्सोसिं, किं नु खो मे, भन्ते, भविस्सती’’ति। भगवा आह – ‘‘मा भायि, महाराज, न ते किञ्‍चि पापकं भविस्सति, अपिच खो ते पुराणञातका पेतेसु उप्पन्‍ना सन्ति, ते एकं बुद्धन्तरं तमेव पच्‍चासीसमाना विचरन्ति ‘बुद्धस्स दानं दत्वा अम्हाकं उद्दिसिस्सती’ति <pb ed="M" n="0.0172"/>, न तेसं त्वं हिय्यो उद्दिसि, ते छिन्‍नासा तथारूपं विस्सरमकंसू’’ति।</p>

<p rend="bodytext">सो आह ‘‘इदानि पन, भन्ते, दिन्‍ने लभेय्यु’’न्ति? ‘‘आम, महाराजा’’ति। ‘‘तेन हि मे, भन्ते, अधिवासेतु भगवा अज्‍जतनाय दानं, तेसं उद्दिसिस्सामी’’ति? भगवा अधिवासेसि। राजा निवेसनं गन्त्वा महादानं पटियादेत्वा भगवतो कालं आरोचापेसि। भगवा राजन्तेपुरं गन्त्वा पञ्‍ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन। तेपि खो पेता ‘‘अपि नाम अज्‍ज लभेय्यामा’’ति गन्त्वा तिरोकुट्टादीसु अट्ठंसु। भगवा तथा अकासि, यथा ते सब्बेव रञ्‍ञो पाकटा अहेसुं। राजा दक्खिणोदकं देन्तो ‘‘इदं मे ञातीनं होतू’’ति उद्दिसि, तङ्खणञ्‍ञेव तेसं पेतानं पदुमसञ्छन्‍ना पोक्खरणियो निब्बत्तिंसु। ते तत्थ न्हत्वा च पिवित्वा च पटिप्पस्सद्धदरथकिलमथपिपासा सुवण्णवण्णा अहेसुं। राजा यागुखज्‍जकभोजनानि दत्वा उद्दिसि, तङ्खणञ्‍ञेव तेसं दिब्बयागुखज्‍जकभोजनानि निब्बत्तिंसु। ते तानि परिभुञ्‍जित्वा पीणिन्द्रिया अहेसुं। अथ वत्थसेनासनानि दत्वा उद्दिसि। तेसं <pb ed="P" n="0.0206"/> दिब्बवत्थदिब्बयानदिब्बपासाददिब्बपच्‍चत्थरणदिब्बसेय्यादिअलङ्कारविधयो निब्बत्तिंसु। सापि तेसं सम्पत्ति यथा सब्बाव पाकटा होति, तथा भगवा अधिट्ठासि। राजा अतिविय अत्तमनो अहोसि। ततो भगवा भुत्तावी पवारितो रञ्‍ञो मागधस्स अनुमोदनत्थं <hi rend="bold">‘‘तिरोकुट्टेसु तिट्ठन्ती’’</hi>ति इमा गाथा अभासि।</p>

<p rend="bodytext">एत्तावता च <hi rend="bold">‘‘येन यत्थ यदा यस्मा, तिरोकुट्टं पकासितं, पकासेत्वान तं सब्ब’’</hi>न्ति अयं मातिका सङ्खेपतो वित्थारतो च विभत्ता होति।</p>

<p rend="subhead">पठमगाथावण्णना</p>

<p rend="bodytext" n="1"><hi rend="paranum">१</hi><hi rend="dot">.</hi> इदानि <pb ed="V" n="0.0163"/> इमस्स तिरोकुट्टस्स यथाक्‍कमं <hi rend="bold">अत्थवण्णनं</hi> करिस्साम। सेय्यथिदं – पठमगाथाय ताव <hi rend="bold">तिरोकुट्टा</hi>ति कुट्टानं परभागा वुच्‍चन्ति। <hi rend="bold">तिट्ठन्ती</hi>ति निसज्‍जादिप्पटिक्खेपतो ठानकप्पनवचनमेतं। तेन यथा पाकारपरभागं पब्बतपरभागञ्‍च गच्छन्तं ‘‘तिरोपाकारं तिरोपब्बतं असज्‍जमानो गच्छती’’ति वदन्ति, एवमिधापि कुट्टस्स परभागेसु तिट्ठन्ते ‘‘तिरोकुट्टेसु <pb ed="M" n="0.0173"/> तिट्ठन्ती’’ति आह। <hi rend="bold">सन्धिसिङ्घाटकेसु चा</hi>ति एत्थ <hi rend="bold">सन्धियो</hi>ति चतुक्‍कोणरच्छा वुच्‍चन्ति घरसन्धिभित्तिसन्धिआलोकसन्धियो चापि। <hi rend="bold">सिङ्घाटका</hi>ति तिकोणरच्छा वुच्‍चन्ति, तदेकज्झं कत्वा पुरिमेन सद्धिं सङ्घटेन्तो ‘‘सन्धिसिङ्घाटकेसु चा’’ति आह। <hi rend="bold">द्वारबाहासु तिट्ठन्ती</hi>ति नगरद्वारघरद्वारानं बाहा निस्साय तिट्ठन्ति। <hi rend="bold">आगन्त्वान सकं घर</hi>न्ति एत्थ सकं घरं नाम पुब्बञातिघरम्पि अत्तना सामिकभावेन अज्झावुत्थपुब्बघरम्पि। तदुभयम्पि यस्मा ते सकघरसञ्‍ञाय आगच्छन्ति, तस्मा ‘‘आगन्त्वान सकं घर’’न्ति आह।</p>

<p rend="subhead">दुतियगाथावण्णना</p>

<p rend="bodytext" n="2"><hi rend="paranum">२</hi><hi rend="dot">.</hi> एवं भगवा पुब्बे अनज्झावुत्थपुब्बम्पि पुब्बञातिघरं बिम्बिसारनिवेसनं सकघरसञ्‍ञाय आगन्त्वा तिरोकुट्टसन्धिसिङ्घाटकद्वारबाहासु ठिते इस्सामच्छरियफलं अनुभवन्ते, अप्पेकच्‍चे दीघमस्सुकेसविकारधरे <pb ed="P" n="0.0207"/> अन्धकारमुखे सिथिलबन्धनविलम्बमानकिसफरुसकाळकङ्गपच्‍चङ्गे तत्थ तत्थ ठितवनदाहदड्ढतालरुक्खसदिसे, अप्पेकच्‍चे जिघच्छापिपासारणिनिम्मथनेन उदरतो उट्ठाय मुखतो विनिच्छरन्ताय अग्गिजालाय परिडय्हमानसरीरे, अप्पेकच्‍चे सूचिछिद्दाणुमत्तकण्ठबिलताय पब्बताकारकुच्छिताय च लद्धम्पि पानभोजनं यावदत्थं भुञ्‍जितुं असमत्थताय खुप्पिपासापरेते अञ्‍ञं रसमविन्दमाने, अप्पेकच्‍चे अञ्‍ञमञ्‍ञस्स अञ्‍ञेसं वा सत्तानं पभिन्‍नगण्डपिळकमुखा पग्घरितरुधिरपुब्बलसिकादिं लद्धा अमतमिव सायमाने अतिविय दुद्दसिकविरूपभयानकसरीरे बहू पेते रञ्‍ञो निदस्सेन्तो –</p>

<p rend="gatha1">‘‘तिरोकुट्टेसु तिट्ठन्ति, सन्धिसिङ्घाटकेसु च।</p>

<p rend="gathalast">द्वारबाहासु तिट्ठन्ति, आगन्त्वान सकं घर’’न्ति॥ –</p>

<p rend="unindented">वत्वा पुन तेहि कतस्स कम्मस्स दारुणभावं दस्सेन्तो <hi rend="bold">‘‘पहूते अन्‍नपानम्ही’’</hi>ति दुतियगाथमाह।</p>

<p rend="bodytext">तत्थ <pb ed="V" n="0.0164"/> <hi rend="bold">पहूते</hi>ति अनप्पके बहुम्हि, यावदत्थिकेति वुत्तं होति। भ-कारस्स हि ह-कारो लब्भति ‘‘पहु सन्तो न भरती’’तिआदीसु (सु॰ नि॰ ९८) विय। केचि पन ‘‘बहूते’’ इति च ‘‘बहूके’’ इति च पठन्ति। पमादपाठा एते <pb ed="M" n="0.0174"/>। अन्‍ने च पानम्हि च <hi rend="bold">अन्‍नपानम्हि</hi>। खज्‍जे च भोज्‍जे च <hi rend="bold">खज्‍जभोज्‍जे,</hi> एतेन असितपीतखायितसायितवसेन चतुब्बिधं आहारं दस्सेति। <hi rend="bold">उपट्ठिते</hi>ति उपगम्म ठिते, सज्‍जिते पटियत्ते समोहितेति वुत्तं होति। <hi rend="bold">न तेसं कोचि सरति, सत्तान</hi>न्ति तेसं पेत्तिविसये उप्पन्‍नानं सत्तानं कोचि माता वा पिता वा पुत्तो वा न सरति। किं कारणा? <hi rend="bold">कम्मपच्‍चया,</hi> अत्तना कतस्स अदानदानप्पटिसेधनादिभेदस्स कदरियकम्मस्स <pb ed="P" n="0.0208"/> पच्‍चया। तञ्हि तेसं कम्मं ञातीनं सरितुं न देति।</p>

<p rend="subhead">ततियगाथावण्णना</p>

<p rend="bodytext" n="3"><hi rend="paranum">३</hi><hi rend="dot">.</hi> एवं भगवा अनप्पकेपि अन्‍नपानादिम्हि पच्‍चुपट्ठिते ‘‘अपि नाम अम्हे उद्दिस्स किञ्‍चि ददेय्यु’’न्ति ञाती पच्‍चासीसन्तानं विचरतं तेसं पेतानं तेहि कतस्स अतिकटुकविपाककरस्स कम्मस्स पच्‍चयेन कस्सचि ञातिनो अनुस्सरणमत्ताभावं दस्सेन्तो –</p>

<p rend="gatha1">‘‘पहूते अन्‍नपानम्हि, खज्‍जभोज्‍जे उपट्ठिते।</p>

<p rend="gathalast">न तेसं कोचि सरति, सत्तानं कम्मपच्‍चया’’ति॥ –</p>

<p rend="unindented">वत्वा पुन रञ्‍ञो पेत्तिविसयूपपन्‍ने ञातके उद्दिस्स दिन्‍नं दानं पसंसन्तो <hi rend="bold">‘‘एवं ददन्ति ञातीन’’</hi>न्ति ततियगाथमाह।</p>

<p rend="bodytext">तत्थ <hi rend="bold">एव</hi>न्ति उपमावचनं। तस्स द्विधा सम्बन्धो – तेसं सत्तानं कम्मपच्‍चया असरन्तेपि किस्मिञ्‍चि ददन्ति, ञातीनं, ये एवं अनुकम्पका होन्तीति च यथा तया, महाराज, दिन्‍नं, एवं सुचिं पणीतं कालेन कप्पियं पानभोजनं ददन्ति ञातीनं, ये होन्ति अनुकम्पकाति च। <hi rend="bold">ददन्ती</hi>ति देन्ति उद्दिसन्ति निय्यातेन्ति। <hi rend="bold">ञातीन</hi>न्ति मातितो च पितितो च सम्बन्धानं। <hi rend="bold">ये</hi>ति ये केचि पुत्ता वा धीतरो वा भातरो वा <hi rend="bold">होन्ती</hi>ति भवन्ति। <hi rend="bold">अनुकम्पका</hi>ति अत्थकामा हितेसिनो। <hi rend="bold">सुचि</hi>न्ति विमलं दस्सनेय्यं मनोरमं धम्मिकं धम्मलद्धं। <hi rend="bold">पणीत</hi>न्ति उत्तमं सेट्ठं। <hi rend="bold">कालेना</hi>ति ञातिपेतानं तिरोकुट्टादीसु आगन्त्वा ठितकालेन। <hi rend="bold">कप्पिय</hi>न्ति अनुच्छविकं पतिरूपं अरियानं परिभोगारहं। <hi rend="bold">पानभोजन</hi>न्ति पानञ्‍च भोजनञ्‍च। इध पानभोजनमुखेन सब्बोपि देय्यधम्मो अधिप्पेतो।</p>

<p rend="subhead">चतुत्थगाथापुब्बद्धवण्णना</p>

<p rend="bodytext" n="4"><hi rend="paranum">४</hi><hi rend="dot">.</hi> एवं <pb ed="V" n="0.0165"/> <pb ed="M" n="0.0175"/> भगवा रञ्‍ञा मागधेन पेतभूतानं ञातीनं अनुकम्पाय दिन्‍नं पानभोजनं पसंसन्तो –</p>

<p rend="gatha1">‘‘एवं ददन्ति ञातीनं, ये होन्ति अनुकम्पका।</p>

<p rend="gathalast">सुचिं पणीतं कालेन, कप्पियं पानभोजन’’न्ति॥ –</p>

<p rend="unindented">वत्वा पुन येन पकारेन दिन्‍नं तेसं होति, तं दस्सेन्तो <hi rend="bold">‘‘इदं वो ञातीनं होतू’’</hi>ति चतुत्थगाथाय पुब्बद्धमाह तं ततियगाथाय पुब्बद्धेन सम्बन्धितब्बं –</p>

<p rend="gatha1">‘‘एवं ददन्ति ञातीनं, ये होन्ति अनुकम्पका <pb ed="P" n="0.0209"/>।</p>

<p rend="gathalast">इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो’’ति॥</p>

<p rend="bodytext">तेन ‘‘इदं वो ञातीनं होतूति एवं ददन्ति, नो अञ्‍ञथा’’ति एत्थ आकारत्थेन एवंसद्देन दातब्बाकारनिदस्सनं कतं होति।</p>

<p rend="bodytext">तत्थ <hi rend="bold">इद</hi>न्ति देय्यधम्मनिदस्सनं। <hi rend="bold">वो</hi>ति ‘‘कच्‍चि पन वो अनुरुद्धा समग्गा सम्मोदमाना’’ति च (म॰ नि॰ १.३२६; महाव॰ ४६६), ‘‘येहि वो अरिया’’ति च एवमादीसु विय केवलं निपातमत्तं, न सामिवचनं। <hi rend="bold">ञातीनं होतू</hi>ति पेत्तिविसये उप्पन्‍नानं ञातकानं होतु। <hi rend="bold">सुखिता होन्तु ञातयो</hi>ति ते पेत्तिविसयूपपन्‍ना ञातयो इदं पच्‍चनुभवन्ता सुखिता होन्तूति।</p>

<p rend="subhead">चतुत्थगाथापरद्धपञ्‍चमगाथापुब्बद्धवण्णना</p>

<p rend="bodytext" n="4-5"><hi rend="paranum">४-५</hi><hi rend="dot">.</hi> एवं भगवा येन पकारेन पेत्तिविसयूपपन्‍नानं ञातीनं दातब्बं, तं दस्सेन्तो ‘‘इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो’’ति वत्वा पुन यस्मा ‘‘इदं वो ञातीनं होतू’’ति वुत्तेपि न अञ्‍ञेन कतं कम्मं अञ्‍ञस्स फलदं होति, केवलन्तु तथा उद्दिस्स दिय्यमानं तं वत्थु ञातीनं कुसलकम्मस्स पच्‍चयो होति। तस्मा यथा तेसं तस्मिंयेव वत्थुस्मिं तङ्खणे फलनिब्बत्तकं कुसलकम्मं होति, तं दस्सेन्तो <hi rend="bold">‘‘ते च तत्था’’</hi>ति चतुत्थगाथाय पच्छिमद्धं <hi rend="bold">‘‘पहूते अन्‍नपानम्ही’’</hi>ति पञ्‍चमगाथाय पुब्बद्धञ्‍च आह।</p>

<p rend="bodytext">तेसं <pb ed="V" n="0.0166"/> <pb ed="M" n="0.0176"/> अत्थो – ते ञातिपेता यत्थ तं दानं दीयति, तत्थ समन्ततो आगन्त्वा समागन्त्वा, समोधाय वा एकज्झं हुत्वाति वुत्तं होति, सम्मा आगता समागता ‘‘इमे नो ञातयो अम्हाकं अत्थाय दानं उद्दिसिस्सन्ती’’ति एतदत्थं सम्मा आगता हुत्वाति वुत्तं होति। <hi rend="bold">पहूते अन्‍नपानम्ही</hi>ति तस्मिं अत्तनो उद्दिस्समाने पहूते अन्‍नपानम्हि। सक्‍कच्‍चं <hi rend="bold">अनुमोदरे</hi>ति अभिसद्दहन्ता कम्मफलं अविजहन्ता चित्तीकारं अविक्खित्तचित्ता हुत्वा ‘‘इदं नो दानं हिताय सुखाय होतू’’ति मोदन्ति अनुमोदन्ति, पीतिसोमनस्सजाता होन्तीति।</p>

<p rend="subhead">पञ्‍चमगाथापरद्धछट्ठगाथापुब्बद्धवण्णना</p>

<p rend="bodytext" n="5-6"><hi rend="paranum">५-६</hi><hi rend="dot">.</hi> एवं <pb ed="P" n="0.0210"/> भगवा यथा पेत्तिविसयूपपन्‍नानं तङ्खणे फलनिब्बत्तकं कुसलं कम्मं होति, तं दस्सेन्तो –</p>

<p rend="gatha1">‘‘ते च तत्थ समागन्त्वा, ञातिपेता समागता।</p>

<p rend="gathalast">पहूते अन्‍नपानम्हि, सक्‍कच्‍चं अनुमोदरे’’ति॥ –</p>

<p rend="unindented">वत्वा पुन ञातके निस्साय निब्बत्तकुसलकम्मफलं पच्‍चनुभोन्तानं तेसं ञाती आरब्भ थोमनाकारं दस्सेन्तो <hi rend="bold">‘‘चिरं जीवन्तू’’</hi>ति पञ्‍चमगाथाय पच्छिमद्धं <hi rend="bold">‘‘अम्हाकञ्‍च कता पूजा’’</hi>ति छट्ठगाथाय पुब्बद्धञ्‍च आह।</p>

<p rend="bodytext">तेसं अत्थो – <hi rend="bold">चिरं जीवन्तू</hi>ति चिरजीविनो दीघायुका होन्तु। <hi rend="bold">नो ञाती</hi>ति अम्हाकं ञातका। <hi rend="bold">येसं हेतू</hi>ति ये निस्साय येसं कारणा। <hi rend="bold">लभामसे</hi>ति लभाम। अत्तना तङ्खणं पटिलद्धसम्पत्तिं अपदिसन्ता भणन्ति। पेतानञ्हि अत्तनो अनुमोदनेन, दायकानं उद्देसेन, दक्खिणेय्यसम्पदाय चाति तीहि अङ्गेहि दक्खिणा समिज्झति, तङ्खणे फलनिब्बत्तिका होति। तत्थ दायका विसेसहेतु। तेनाहंसु ‘‘येसं हेतु लभामसे’’ति। <hi rend="bold">अम्हाकञ्‍च कता पूजा</hi>ति ‘‘इदं वो ञातीनं होतू’’ति एवं इमं दानं उद्दिसन्तेहि अम्हाकञ्‍च पूजा कता। <hi rend="bold">दायका च अनिप्फला</hi>ति यम्हि सन्ताने परिच्‍चागमयं कम्मं कतं, तस्स तत्थेव फलदानतो दायका च अनिप्फलाति।</p>

<p rend="bodytext">एत्थाह <pb ed="M" n="0.0177"/> – ‘‘किं पन पेत्तिविसयूपपन्‍ना एव ञातयो लभन्ति, उदाहु अञ्‍ञेपि लभन्ती’’ति <pb ed="V" n="0.0167"/>? वुच्‍चते – भगवता एवेतं ब्याकतं जाणुस्सोणिना ब्राह्मणेन पुट्ठेन, किमेत्थ अम्हेहि वत्तब्बं अत्थि। वुत्तं हेतं –</p>

<p rend="indent">‘‘मयमस्सु, भो गोतम, ब्राह्मणा नाम दानानि देम, सद्धानि करोम ‘इदं दानं पेतानं ञातिसालोहितानं उपकप्पतु, इदं दानं पेता ञातिसालोहिता परिभुञ्‍जन्तू’ति, कच्‍चि तं, भो गोतम, दानं पेतानं ञातिसालोहितानं उपकप्पति, कच्‍चि ते पेता ञातिसालोहिता तं दानं परिभुञ्‍जन्तीति। ठाने खो, ब्राह्मण, उपकप्पति, नो अट्ठानेति।</p>

<p rend="indent">‘‘कतमं पन तं, भो गोतम, ठानं, कतमं अट्ठानन्ति? इध, ब्राह्मण, एकच्‍चो पाणातिपाती होति…पे॰… मिच्छादिट्ठिको होति, सो <pb ed="P" n="0.0211"/> कायस्स भेदा परं मरणा निरयं उपपज्‍जति। यो नेरयिकानं सत्तानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति। इदं खो, ब्राह्मण, अट्ठानं, यत्थ ठितस्स तं दानं न उपकप्पति।</p>

<p rend="indent">‘‘इध पन, ब्राह्मण, एकच्‍चो पाणातिपाती होति…पे॰… मिच्छादिट्ठिको होति, सो कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपज्‍जति। यो तिरच्छानयोनिकानं सत्तानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति। इदम्पि खो, ब्राह्मण, अट्ठानं, यत्थ ठितस्स तं दानं न उपकप्पति।</p>

<p rend="indent">‘‘इध पन, ब्राह्मण, एकच्‍चो पाणातिपाता पटिविरतो होति…पे॰… सम्मादिट्ठिको होति, सो कायस्स भेदा परं मरणा मनुस्सानं सहब्यतं उपपज्‍जति…पे॰… देवानं सहब्यतं उपपज्‍जति। यो देवानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति। इदम्पि खो, ब्राह्मण, अट्ठानं, यत्थ ठितस्स तं दानं न उपकप्पति।</p>

<p rend="indent">‘‘इध पन, ब्राह्मण, एकच्‍चो पाणातिपाती होति…पे॰… मिच्छादिट्ठिको होति, सो कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्‍जति। यो पेत्तिवेसयिकानं सत्तानं आहारो, तेन <pb ed="M" n="0.0178"/> सो तत्थ यापेति, तेन सो तत्थ तिट्ठति। यं वा पनस्स इतो अनुपवेच्छन्ति <pb ed="V" n="0.0168"/> मित्तामच्‍चा वा ञातिसालोहिता वा, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति। इदं खो, ब्राह्मण, ठानं, यत्थ ठितस्स तं दानं उपकप्पतीति।</p>

<p rend="indent">‘‘सचे पन, भो गोतम, सो पेतो ञातिसालोहितो तं ठानं अनुपपन्‍नो होति, को तं दानं परिभुञ्‍जतीति? अञ्‍ञेपिस्स, ब्राह्मण, पेता ञातिसालोहिता तं ठानं उपपन्‍ना होन्ति, ते तं दानं परिभुञ्‍जन्तीति।</p>

<p rend="indent">‘‘सचे पन, भो गोतम, सो चेव पेतो ञातिसालोहितो तं ठानं अनुपपन्‍नो होति, अञ्‍ञेपिस्स पेता ञातिसालोहिता तं ठानं अनुपपन्‍ना होन्ति, को तं दानं परिभुञ्‍जतीति? अट्ठानं खो एतं ब्राह्मण अनवकासो, यं तं ठानं विवित्तं अस्स इमिना दीघेन अद्धुना यदिदं पेतेहि ञातिसालोहितेहि। अपिच ब्राह्मण दायकोपि अनिप्फलो’’ति (अ॰ नि॰ १०.१७७)।</p>

<p rend="subhead">छट्ठगाथापरद्धसत्तमगाथावण्णना</p>

<p rend="bodytext" n="6-7"><hi rend="paranum">६-७</hi><hi rend="dot">.</hi> एवं <pb ed="P" n="0.0212"/> भगवा रञ्‍ञो मागधस्स पेत्तिविसयूपपन्‍नानं पुब्बञातीनं सम्पत्तिं निस्साय थोमेन्तो ‘‘एते ते, महाराज, ञाती इमाय दानसम्पदाय अत्तमना एवं थोमेन्ती’’ति दस्सेन्तो –</p>

<p rend="gatha1">‘‘चिरं जीवन्तु नो ञाती, येसं हेतु लभामसे।</p>

<p rend="gathalast">अम्हाकञ्‍च कता पूजा, दायका च अनिप्फला’’ति॥ –</p>

<p rend="unindented">वत्वा पुन तेसं पेत्तिविसयूपपन्‍नानं अञ्‍ञस्स कसिगोरक्खादिनो सम्पत्तिपटिलाभकारणस्स अभावं इतो दिन्‍नेन यापनभावञ्‍च दस्सेन्तो <hi rend="bold">‘‘न हि तत्थ कसी अत्थी</hi>’’ति छट्ठगाथाय पच्छिमद्धं <hi rend="bold">‘‘वणिज्‍जा तादिसी’’</hi>ति इमं सत्तमगाथञ्‍च आह।</p>

<p rend="bodytext">तत्रायं अत्थवण्णना – न हि, महाराज, तत्थ पेत्तिविसये कसि अत्थि, यं निस्साय ते पेता सम्पत्तिं पटिलभेय्युं। <hi rend="bold">गोरक्खेत्थ न विज्‍जती</hi>ति न केवलं कसि एव, गोरक्खापि एत्थ पेत्तिविसये न विज्‍जति, यं <pb ed="M" n="0.0179"/> निस्साय ते सम्पत्तिं पटिलभेय्युं। <hi rend="bold">वणिज्‍जा तादिसी नत्थी</hi>ति वाणिज्‍जापि तादिसी नत्थि, या तेसं सम्पत्तिपटिलाभहेतु भवेय्य। <hi rend="bold">हिरञ्‍ञेन कयाकय</hi>न्ति <pb ed="V" n="0.0169"/> हिरञ्‍ञेन कयविक्‍कयम्पि तत्थ तादिसं नत्थि, यं तेसं सम्पत्तिपटिलाभहेतु भवेय्य। <hi rend="bold">इतो दिन्‍नेन यापेन्ति, पेता कालगता तहि</hi>न्ति केवलं पन इतो ञातीहि वा मित्तामच्‍चेहि वा दिन्‍नेन यापेन्ति, अत्तभावं गमेन्ति। <hi rend="bold">पेता</hi>ति पेत्तिविसयूपपन्‍ना सत्ता। <hi rend="bold">कालगता</hi>ति अत्तनो मरणकालेन गता, ‘‘कालकता’’ति वा पाठो, कतकाला कतमरणाति अत्थो। <hi rend="bold">तहि</hi>न्ति तस्मिं पेत्तिविसये।</p>

<p rend="subhead">अट्ठमनवमगाथाद्वयवण्णना</p>

<p rend="bodytext" n="8-9"><hi rend="paranum">८-९</hi><hi rend="dot">.</hi> एवं ‘‘इतो दिन्‍नेन यापेन्ति, पेता कालगता तहि’’न्ति वत्वा इदानि उपमाहि तमत्थं पकासेन्तो <hi rend="bold">‘‘उन्‍नमे उदकं वुट्ठ</hi>’’न्ति इदं गाथाद्वयमाह।</p>

<p rend="bodytext">तस्सत्थो – यथा उन्‍नते थले उस्सादे भूमिभागे मेघेहि अभिवुट्ठं उदकं निन्‍नं पवत्तति, यो यो भूमिभागो निन्‍नो ओणतो, तं तं पवत्तति गच्छति पापुणाति, एवमेव <pb ed="P" n="0.0213"/> इतो दिन्‍नं दानं पेतानं उपकप्पति निब्बत्तति, पातुभवतीति अत्थो। निन्‍नमिव हि उदकप्पवत्तिया ठानं पेतलोको दानुपकप्पनाय। यथाह – ‘‘इदं खो, ब्राह्मण, ठानं, यत्थ ठितस्स तं दानं उपकप्पती’’ति (अ॰ नि॰ १०.१७७)। यथा च कन्दरपदरसाखापसाखकुसोब्भमहासोब्भसन्‍निपातेहि वारिवहा महानज्‍जो पूरा हुत्वा सागरं परिपूरेन्ति, एवम्पि इतो दिन्‍नदानं पुब्बे वुत्तनयेनेव पेतानं उपकप्पतीति।</p>

<p rend="subhead">दसमगाथावण्णना</p>

<p rend="bodytext" n="10"><hi rend="paranum">१०</hi><hi rend="dot">.</hi> एवं भगवा ‘‘इतो दिन्‍नेन यापेन्ति, पेता कालगता तहि’’न्ति इमं अत्थं उपमाहि पकासेत्वा पुन यस्मा ते पेता ‘‘इतो किञ्‍चि लच्छामा’’ति आसाभिभूता ञातिघरं आगन्त्वापि ‘‘इदं नाम नो देथा’’ति याचितुं असमत्था, तस्मा तेसं इमानि अनुस्सरणवत्थूनि अनुस्सरन्तो <pb ed="M" n="0.0180"/> कुलपुत्तो दक्खिणं दज्‍जाति दस्सेन्तो <hi rend="bold">‘‘अदासि मे’’</hi>ति इमं गाथमाह।</p>

<p rend="bodytext">तस्सत्थो – ‘‘इदं नाम मे धनं वा धञ्‍ञं वा अदासी’’ति च, ‘‘इदं नाम मे किच्‍चं अत्तना उय्योगमापज्‍जन्तो अकासी’’ति च, ‘‘अमु मे मातितो वा पितितो वा सम्बन्धत्ता ञाती’’ति च सिनेहवसेन ताणसमत्थताय ‘‘मित्ता’’ति च, ‘‘असुको मे सह पंसुकीळको सखा’’ति <pb ed="V" n="0.0170"/> च एवं सब्बमनुस्सरन्तो पेतानं दक्खिणं दज्‍जा, दानं निय्यातेय्याति। अपरो पाठो <hi rend="bold">‘‘पेतानं दक्खिणा दज्‍जा’’</hi>ति। तस्सत्थो – दातब्बाति दज्‍जा। का सा? पेतानं दक्खिणा, तेनेव ‘‘अदासि मे’’तिआदिना नयेन पुब्बे कतमनुस्सरं अनुस्सरताति वुत्तं होति। करणवचनप्पसङ्गे पच्‍चत्तवचनं वेदितब्बं।</p>

<p rend="subhead">एकादसमगाथावण्णना</p>

<p rend="bodytext" n="11"><hi rend="paranum">११</hi><hi rend="dot">.</hi> एवं भगवा पेतानं दक्खिणानिय्यातने कारणभूतानि अनुस्सरणवत्थूनि दस्सेन्तो –</p>

<p rend="gatha1">‘‘अदासि मे अकासि मे, ञातिमित्ता सखा च मे।</p>

<p rend="gathalast">पेतानं दक्खिणं दज्‍जा, पुब्बे कतमनुस्सर’’न्ति॥ –</p>

<p rend="bodytext">वत्वा <pb ed="P" n="0.0214"/> पुन ये ञातिमरणेन रुण्णसोकादिपरा एव हुत्वा तिट्ठन्ति, न तेसं अत्थाय किञ्‍चि देन्ति, तेसं तं रुण्णसोकादि केवलं अत्तपरितापनमेव होति, न पेतानं किञ्‍चि अत्थं निप्फादेतीति दस्सेन्तो <hi rend="bold">‘‘न हि रुण्णं वा’’</hi>ति इमं गाथमाह।</p>

<p rend="bodytext">तत्थ <hi rend="bold">रुण्ण</hi>न्ति रोदना रोदितत्तं अस्सुपातनं, <hi rend="bold">एतेन</hi> कायपरिस्समं दस्सेति। <hi rend="bold">सोको</hi>ति सोचना सोचितत्तं, एतेन चित्तपरिस्समं दस्सेति। <hi rend="bold">या चञ्‍ञा</hi>ति या च रुण्णसोकेहि अञ्‍ञा। <hi rend="bold">परिदेवना</hi>ति ञातिब्यसनेन फुट्ठस्स लालप्पना, ‘‘कहं एकपुत्तक पिय मनापा’’ति एवमादिना नयेन गुणसंवण्णना, एतेन वचीपरिस्समं दस्सेति।</p>

<p rend="subhead">द्वादसमगाथावण्णना</p>

<p rend="bodytext" n="12"><hi rend="paranum">१२</hi><hi rend="dot">.</hi> एवं <pb ed="M" n="0.0181"/> भगवा ‘‘रुण्णं वा सोको वा या चञ्‍ञा परिदेवना, सब्बम्पि तं पेतानं अत्थाय न होति, केवलन्तु अत्तानं परितापनमत्तमेव, एवं तिट्ठन्ति ञातयो’’ति रुण्णादीनं निरत्थकभावं दस्सेत्वा पुन मागधराजेन या दक्खिणा दिन्‍ना, तस्सा सात्थकभावं दस्सेन्तो <hi rend="bold">‘‘अयञ्‍च खो दक्खिणा’’</hi>ति इमं गाथमाह।</p>

<p rend="bodytext">तस्सत्थो – अयञ्‍च खो, महाराज, दक्खिणा तया अज्‍ज अत्तनो ञातिगणं उद्दिस्स दिन्‍ना <pb ed="V" n="0.0171"/>, सा यस्मा सङ्घो अनुत्तरं पुञ्‍ञक्खेत्तं लोकस्स, तस्मा सङ्घम्हि सुप्पतिट्ठिता अस्स पेतजनस्स दीघरत्तं हिताय उपकप्पति सम्पज्‍जति फलतीति वुत्तं होति। <hi rend="bold">उपकप्पती</hi>ति च ठानसो उपकप्पति, तंखणंयेव उपकप्पति, न चिरेन। यथा हि तंखणञ्‍ञेव पटिभन्तं ‘‘ठानसोवेतं तथागतं पटिभाती’’ति वुच्‍चति, एवमिधापि तंखणंयेव उपकप्पन्ता ‘‘ठानसो उपकप्पती’’ति वुत्ता। यं वा तं ‘‘इदं खो, ब्राह्मण, ठानं, यत्थ ठितस्स तं दानं उपकप्पती’’ति (अ॰ नि॰ १०.१७७) वुत्तं, तत्थ खुप्पिपासिकवन्तासपरदत्तूपजीविनिज्झामतण्हिकादिभेदभिन्‍ने ठाने उपकप्पतीति वुत्तं यथा कहापणं देन्तो ‘‘कहापणसो देती’’ति <pb ed="P" n="0.0215"/> लोके वुच्‍चति। इमस्मिञ्‍च अत्थविकप्पे <hi rend="bold">उपकप्पती</hi>ति पातुभवति, निब्बत्ततीति वुत्तं होति।</p>

<p rend="subhead">तेरसमगाथावण्णना</p>

<p rend="bodytext" n="13"><hi rend="paranum">१३</hi><hi rend="dot">.</hi> एवं भगवा रञ्‍ञा दिन्‍नाय दक्खिणाय सात्थकभावं दस्सेन्तो –</p>

<p rend="gatha1">‘‘अयञ्‍च खो दक्खिणा दिन्‍ना, सङ्घम्हि सुप्पतिट्ठिता।</p>

<p rend="gathalast">दीघरत्तं हितायस्स, ठानसो उपकप्पती’’ति॥ –</p>

<p rend="unindented">वत्वा पुन यस्मा इमं दक्खिणं देन्तेन ञातीनं ञातीहि कत्तब्बकिच्‍चकरणवसेन ञातिधम्मो निदस्सितो, बहुजनस्स पाकटीकतो, निदस्सनं वा कतो, तुम्हेहिपि ञातीनं एवमेव ञातीहि कत्तब्बकिच्‍चकरणवसेन ञातिधम्मो परिपूरेतब्बो, न निरत्थकेहि रुण्णादीहि अत्ता परितापेतब्बोति च पेते दिब्बसम्पत्तिं अधिगमेन्तेन पेतानं पूजा कता उळारा, बुद्धप्पमुखञ्‍च भिक्खुसङ्घं अन्‍नपानादीहि सन्तप्पेन्तेन भिक्खूनं बलं अनुपदिन्‍नं, अनुकम्पादिगुणपरिवारञ्‍च चागचेतनं निब्बत्तेन्तेन अनप्पकं पुञ्‍ञं <pb ed="M" n="0.0182"/> पसुतं, तस्मा भगवा इमेहि यथाभुच्‍चगुणेहि राजानं सम्पहंसेन्तो –</p>

<p rend="gatha1">‘‘सो ञातिधम्मो च अयं निदस्सितो,</p>

<p rend="gatha2">पेतान पूजा च कता उळारा।</p>

<p rend="gatha3">बलञ्‍च भिक्खूनमनुप्पदिन्‍नं,</p>

<p rend="gathalast">तुम्हेहि पुञ्‍ञं पसुतं अनप्पक’’न्ति॥ –</p>

<p rend="bodytext">इमाय गाथाय देसनं परियोसापेति।</p>

<p rend="bodytext">अथ <pb ed="V" n="0.0172"/> वा <hi rend="bold">‘‘सो ञातिधम्मो च अयं निदस्सितो’’</hi>ति इमिना गाथापदेन भगवा राजानं धम्मिया कथाय सन्दस्सेति। ञातिधम्मनिदस्सनमेव हि एत्थ सन्दस्सनं <hi rend="bold">पेतान पूजा च कता उळारा</hi>ति इमिना समादपेति। उळाराति पसंसनमेव हि एत्थ पुनप्पुनं पूजाकरणे समादपनं। <hi rend="bold">बलञ्‍च भिक्खूनमनुप्पदिन्‍न</hi>न्ति इमिना समुत्तेजेति। बलानुप्पदानमेव हि एत्थ एवं दानं, बलानुप्पदानताति तस्स उस्साहवड्ढनेन समुत्तेजनं। <hi rend="bold">तुम्हेहि पुञ्‍ञं पसुतं अनप्पक</hi>न्ति इमिना सम्पहंसेति। पुञ्‍ञप्पसुतकित्तनमेव हि एत्थ तस्स यथाभुच्‍चगुणसंवण्णनभावेन सम्पहंसनजननतो <pb ed="P" n="0.0216"/> सम्पहंसनन्ति वेदितब्बं।</p>

<p rend="bodytext">देसनापरियोसाने च पेत्तिविसयूपपत्तिआदीनवसंवण्णनेन संविग्गानं योनिसो पदहतं चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि। दुतियदिवसेपि भगवा देवमनुस्सानं इदमेव तिरोकुट्टं देसेसि, एवं याव सत्तमदिवसा तादिसो एव धम्माभिसमयो अहोसीति।</p>

<p rend="centre">परमत्थजोतिकाय खुद्दकपाठ-अट्ठकथाय</p>

<p rend="centre">तिरोकुट्टसुत्तवण्णना निट्ठिता।</p>

</body>
<back></back>
</text>
</TEI.2>
