<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">१६. पियवग्गो</p>

<p rend="subhead">१. तयोजनपब्बजितवत्थु</p>

<p rend="bodytext"><hi rend="bold">अयोगे</hi>ति <pb ed="V" n="2.0159"/> <pb ed="M" n="2.0178"/> <pb ed="P" n="3.0273"/> इमं धम्मदेसनं सत्था जेतवने विहरन्तो तयो पब्बजिते आरब्भ कथेसि।</p>

<p rend="bodytext">सावत्थियं किर एकस्मिं कुले मातापितूनं एकपुत्तको अहोसि पियो मनापो। सो एकदिवसं गेहे निमन्तितानं भिक्खूनं अनुमोदनं करोन्तानं धम्मकथं सुत्वा पब्बजितुकामो हुत्वा मातापितरो पब्बज्‍जं याचि। ते नानुजानिंसु। तस्स एतदहोसि – ‘‘अहं मातापितूनं अपस्सन्तानंयेव बहि गन्त्वा पब्बजिस्सामी’’ति। अथस्स पिता बहि निक्खमन्तो ‘‘इमं रक्खेय्यासी’’ति मातरं पटिच्छापेसि, माता बहि निक्खमन्ती पितरं पटिच्छापेसि। अथस्स एकदिवसं पितरि बहि गते माता ‘‘पुत्तं रक्खिस्सामी’’ति एकं द्वारबाहं निस्साय एकं पादेहि उप्पीळेत्वा छमाय निसिन्‍ना सुत्तं कन्तति। सो ‘‘इमं वञ्‍चेत्वा गमिस्सामी’’ति चिन्तेत्वा, ‘‘अम्म, थोकं ताव अपेहि, सरीरवलञ्‍जं करिस्सामी’’ति वत्वा ताय पादे समिञ्‍जिते निक्खमित्वा वेगेन विहारं गन्त्वा भिक्खू उपसङ्कमित्वा ‘‘पब्बाजेथ मं, भन्ते’’ति <pb ed="P" n="3.0274"/> याचित्वा तेसं सन्तिके पब्बजि।</p>

<p rend="bodytext">अथस्स पिता आगन्त्वा मातरं पुच्छि – ‘‘कहं मे पुत्तो’’ति? ‘‘सामि, इमस्मिं पदेसे अहोसी’’ति। सो ‘‘कहं नु खो मे पुत्तो’’ति ओलोकेन्तो तं अदिस्वा ‘‘विहारं गतो भविस्सती’’ति विहारं गन्त्वा पुत्तं पब्बजितं दिस्वा कन्दित्वा रोदित्वा, ‘‘तात, किं मं नासेसी’’ति वत्वा ‘‘मम पुत्ते पब्बजिते अहं इदानि गेहे किं करिस्सामी’’ति सयम्पि भिक्खू याचित्वा पब्बजि। अथस्स मातापि ‘‘किं नु खो मे पुत्तो च पति च चिरायन्ति, कच्‍चि विहारं गन्त्वा पब्बजिता’’ति ते ओलोकेन्ती विहारं गन्त्वा उभोपि पब्बजिते दिस्वा ‘‘इमेसं पब्बजितकाले मम गेहेन को अत्थो’’ति सयम्पि भिक्खुनिउपस्सयं गन्त्वा पब्बजि। ते पब्बजित्वापि विना भवितुं न सक्‍कोन्ति, विहारेपि भिक्खुनिउपस्सयेपि एकतोव निसीदित्वा सल्‍लपन्ता दिवसं वीतिनामेन्ति। तेन भिक्खूपि भिक्खूनियोपि उब्बाळ्हा होन्ति।</p>

<p rend="bodytext">अथेकदिवसं <pb ed="V" n="2.0160"/> <pb ed="M" n="2.0179"/> भिक्खू नेसं किरियं सत्थुं आरोचेसुं। सत्था ते पक्‍कोसापेत्वा ‘‘सच्‍चं किर तुम्हे एवं करोथा’’ति पुच्छित्वा ‘‘सच्‍च’’न्ति वुत्ते ‘‘कस्मा एवं करोथ? न हि एस पब्बजितानं योगो’’ति। ‘‘भन्ते, विना भवितुं न सक्‍कोमा’’ति। ‘‘पब्बजितकालतो पट्ठाय एवं करणं अयुत्तं। पियानञ्हि अदस्सनं, अप्पियानञ्‍च दस्सनं दुक्खमेव। तस्मा सत्तेसु च सङ्खारेसु च कञ्‍चि पियं वा अप्पियं वा कातुं न वट्टती’’ति वत्वा इमा गाथा अभासि –</p>

<p rend="hangnum" n="209"><hi rend="paranum">२०९</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘अयोगे युञ्‍जमत्तानं, योगस्मिञ्‍च अयोजयं।</p>

<p rend="gathalast">अत्थं हित्वा पियग्गाही, पिहेतत्तानुयोगिनं॥</p>

<p rend="hangnum" n="210"><hi rend="paranum">२१०</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘मा <pb ed="P" n="3.0275"/> पियेहि समागञ्छि, अप्पियेहि कुदाचनं।</p>

<p rend="gathalast">पियानं अदस्सनं दुक्खं, अप्पियानञ्‍च दस्सनं॥</p>

<p rend="hangnum" n="211"><hi rend="paranum">२११</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘तस्मा पियं न कयिराथ, पियापायो हि पापको।</p>

<p rend="gathalast">गन्था तेसं न विज्‍जन्ति, येसं नत्थि पियाप्पिय’’न्ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">अयोगे</hi>ति अयुञ्‍जितब्बे अयोनिसोमनसिकारे। वेसियागोचरादिभेदस्स हि छब्बिधस्स अगोचरस्स सेवनं इध अयोनिसोमनसिकारो नाम, तस्मिं अयोनिसोमनसिकारे अत्तानं युञ्‍जन्तोति अत्थो। <hi rend="bold">योगस्मि</hi>न्ति तब्बिपरीते च योनिसोमनसिकारे अयुञ्‍जन्तोति अत्थो। <hi rend="bold">अत्थं हित्वा</hi>ति पब्बजितकालतो पट्ठाय अधिसीलादिसिक्खत्तयं अत्थो नाम, तं अत्थं हित्वा। <hi rend="bold">पियग्गाही</hi>ति पञ्‍चकामगुणसङ्खातं पियमेव गण्हन्तो। <hi rend="bold">पिहेतत्तानुयोगिन</hi>न्ति ताय पटिपत्तिया सासनतो चुतो गिहिभावं पत्वा पच्छा ये अत्तानुयोगं अनुयुत्ता सीलादीनि सम्पादेत्वा देवमनुस्सानं सन्तिका सक्‍कारं लभन्ति, तेसं पिहेति, ‘‘अहो वताहम्पि एवरूपो अस्स’’न्ति इच्छतीति अत्थो।</p>

<p rend="bodytext"><hi rend="bold">मा पियेही</hi>ति पियेहि सत्तेहि वा सङ्खारेहि वा कुदाचनं एकक्खणेपि न समागच्छेय्य, तथा अप्पियेहि। किं कारणा? पिया नञ्हि वियोगवसेन अदस्सनं अप्पियानञ्‍च उपसङ्कमनवसेन दस्सनं नाम दुक्खं। <hi rend="bold">तस्मा</hi>ति यस्मा इदं उभयम्पि दुक्खं, तस्मा कञ्‍चि सत्तं वा सङ्खारं वा पियं नाम न करेय्य। <hi rend="bold">पियापायो ही</hi>ति पियेहि <pb ed="P" n="3.0276"/> अपायो वियोगो <pb ed="M" n="2.0180"/>। <hi rend="bold">पापको</hi>ति लामको। <hi rend="bold">गन्था तेसं न विज्‍जन्ती</hi>ति येसं पियं नत्थि, तेसं अभिज्झाकायगन्थो <pb ed="V" n="2.0161"/> पहीयति। येसं अप्पियं नत्थि, तेसं ब्यापादो कायगन्थो। तेसु पन द्वीसु पहीनेसु सेसगन्था पहीना होन्ति। तस्मा पियं वा अप्पियं वा न कत्तब्बन्ति अत्थो।</p>

<p rend="bodytext">देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति। तेन पन तयो जना ‘‘मयं विना भवितुं न सक्‍कोमा’’ति विब्भमित्वा गेहमेव अगमिंसूति।</p>

<p rend="centre">तयोजनपब्बजितवत्थु पठमं।</p>

<p rend="subhead">२. अञ्‍ञतरकुटुम्बिकवत्थु</p>

<p rend="bodytext"><hi rend="bold">पियतो जायती</hi>ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्‍ञतरं कुटुम्बिकं आरब्भ कथेसि।</p>

<p rend="bodytext">सो हि अत्तनो पुत्ते कालकते पुत्तसोकाभिभूतो आळाहनं गन्त्वा रोदति, पुत्तसोकं सन्धारेतुं न सक्‍कोति। सत्था पच्‍चूसकाले लोकं वोलोकेन्तो तस्स सोतापत्तिमग्गस्सूपनिस्सयं दिस्वा पिण्डपातपटिक्‍कन्तो एकं पच्छासमणं गहेत्वा तस्स गेहद्वारं अगमासि। सो सत्थु आगतभावं सुत्वा ‘‘मया सद्धिं पटिसन्थारं कातुकामो भविस्सती’’ति सत्थारं पवेसेत्वा गेहमज्झे आसनं पञ्‍ञापेत्वा सत्थरि निसिन्‍ने आगन्त्वा एकमन्तं निसीदि। अथ नं सत्था ‘‘किं नु खो, उपासक, दुक्खितोसी’’ति पुच्छित्वा तेन पुत्तवियोगदुक्खे आरोचिते, ‘‘उपासक, मा चिन्तयि, इदं मरणं नाम न एकस्मिंयेव <pb ed="P" n="3.0277"/> ठाने, न च एकस्सेव होति, यावता पन भवुप्पत्ति नाम अत्थि, सब्बसत्तानं होतियेव। एकसङ्खारोपि निच्‍चो नाम नत्थि। तस्मा ‘मरणधम्मं मतं, भिज्‍जनधम्मं भिन्‍न’न्ति योनिसो पच्‍चवेक्खितब्बं, न सोचितब्बं। पोराणपण्डितापि हि पुत्तस्स मतकाले ‘मरणधम्मं मतं, भिज्‍जनधम्मं भिन्‍न’न्ति सोकं अकत्वा मरणस्सतिमेव भावयिंसू’’ति वत्वा, ‘‘भन्ते, के एवमकंसु, कदा च अकंसु, आचिक्खथ मे’’ति याचितो तस्सत्थस्स पकासनत्थं अतीतं आहरित्वा –</p>

<p rend="gatha1">‘‘उरगोव <pb ed="M" n="2.0181"/> तचं जिण्णं, हित्वा गच्छति सं तनुं।</p>

<p rend="gathalast">एवं सरीरे निब्भोगे, पेते कालकते सति॥</p>

<p rend="gatha1">‘‘डय्हमानो <pb ed="V" n="2.0162"/> न जानाति, ञातीनं परिदेवितं।</p>

<p rend="gathalast">तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति॥ (जा॰ १.५.१९-२०) –</p>

<p rend="unindented">इमं पञ्‍चकनिपाते <hi rend="bold">उरगजातकं</hi> वित्थारेत्वा ‘‘एवं पुब्बे पण्डिता पियपुत्ते कालकते यथा एतरहि त्वं कम्मन्ते विस्सज्‍जेत्वा निराहारो रोदन्तो विचरसि, तथा अविचरित्वा मरणस्सतिभावनाबलेन सोकं अकत्वा आहारं परिभुञ्‍जिंसु, कम्मन्तञ्‍च अधिट्ठहिंसु <pb ed="P" n="3.0278"/>। तस्मा ‘पियपुत्तो मे कालकतो’ति मा चिन्तयि। उप्पज्‍जमानो हि सोको वा भयं वा पियमेव निस्साय उप्पज्‍जती’’ति वत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="212"><hi rend="paranum">२१२</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘पियतो जायती सोको, पियतो जायती भयं।</p>

<p rend="gathalast">पियतो विप्पमुत्तस्स, नत्थि सोको कुतो भय’’न्ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">पियतो</hi>ति वट्टमूलको हि सोको वा भयं वा उप्पज्‍जमानं पियमेव सत्तं वा सङ्खारं वा निस्साय उप्पज्‍जति, ततो पन विप्पमुत्तस्स उभयम्पेतं नत्थीति अत्थो।</p>

<p rend="bodytext">देसनावसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति।</p>

<p rend="centre">अञ्‍ञतरकुटुम्बिकवत्थु दुतियं।</p>

<p rend="subhead">३. विसाखावत्थु</p>

<p rend="bodytext"><hi rend="bold">पेमतो जायती</hi>ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो विसाखं उपासिकं आरब्भ कथेसि।</p>

<p rend="bodytext">सा किर पुत्तस्स धीतरं सुदत्तं नाम कुमारिकं अत्तनो ठाने ठपेत्वा गेहे भिक्खुसङ्घस्स वेय्यावच्‍चं कारेसि। सा अपरेन समयेन कालमकासि। सा तस्सा सरीरनिक्खेपं कारेत्वा सोकं सन्धारेतुं असक्‍कोन्ती दुक्खिनी दुम्मना सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं <pb ed="M" n="2.0182"/> निसीदि। अथ नं सत्था ‘‘किं नु खो त्वं, विसाखे, दुक्खिनी दुम्मना अस्सुमुखा <pb ed="V" n="2.0163"/> रोदमाना निसिन्‍ना’’ति <pb ed="P" n="3.0279"/> आह। सा तमत्थं आरोचेत्वा ‘‘पिया मे, भन्ते, सा कुमारिका वत्तसम्पन्‍ना, इदानि तथारूपं न पस्सामी’’ति आह। ‘‘कित्तका पन, विसाखे, सावत्थियं मनुस्सा’’ति? ‘‘भन्ते, तुम्हेहियेव मे कथितं सत्त जनकोटियो’’ति। ‘‘सचे पनायं एत्तको जनो तव नत्ताय सदिसो भवेय्य, इच्छेय्यासि न’’न्ति? ‘‘आम, भन्ते’’ति। ‘‘कति पन जना सावत्थियं देवसिकं कालं करोन्ती’’ति? ‘‘बहू, भन्ते’’ति। ‘‘ननु एवं, भन्ते, तव असोचनकालो न भवेय्य, रत्तिन्दिवं रोदन्तीयेव विचरेय्यासी’’ति। ‘‘होतु, भन्ते, ञातं मया’’ति। अथ नं सत्था ‘‘तेन हि मा सोचि, सोको वा भयं वा पेमतोव जायती’’ति वत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="213"><hi rend="paranum">२१३</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘पेमतो जायती सोको, पेमतो जायती भयं।</p>

<p rend="gathalast">पेमतो विप्पमुत्तस्स, नत्थि सोको कुतो भय’’न्ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">पेमतो</hi>ति पुत्तधीतादीसु कतं पेममेव निस्साय सोको जायतीति अत्थो।</p>

<p rend="bodytext">देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।</p>

<p rend="centre">विसाखावत्थु ततियं।</p>

<p rend="subhead">४. लिच्छवीवत्थु</p>

<p rend="bodytext"><hi rend="bold">रतिया जायती</hi>ति इमं धम्मदेसनं सत्था वेसालिं निस्साय कूटागारसालायं विहरन्तो लिच्छवी आरब्भ कथेसि।</p>

<p rend="bodytext">ते <pb ed="P" n="3.0280"/> किर एकस्मिं छणदिवसे अञ्‍ञमञ्‍ञं असदिसेहि अलङ्कारेहि अलङ्करित्वा उय्यानगमनत्थाय नगरा निक्खमिंसु। सत्था पिण्डाय पविसन्तो ते दिस्वा भिक्खू आमन्तेसि – ‘‘पस्सथ, भिक्खवे, लिच्छवयो, येहि देवा तावतिंसा न दिट्ठपुब्बा, ते इमे ओलोकेन्तू’’ति वत्वा नगरं पाविसि। तेपि उय्यानं गच्छन्ता एकं नगरसोभिनिं इत्थिं आदाय गन्त्वा तं निस्साय इस्साभिभूता अञ्‍ञमञ्‍ञं पहरित्वा लोहितं <pb ed="M" n="2.0183"/> नदिं विय पवत्तयिंसु। अथ ने मञ्‍चेनादाय उक्खिपित्वा आगमंसु। सत्थापि कतभत्तकिच्‍चो नगरा निक्खमि। भिक्खूपि लिच्छवयो तथा नीयमाने दिस्वा सत्थारं आहंसु – ‘‘भन्ते, लिच्छविराजानो <pb ed="V" n="2.0164"/> पातोव अलङ्कतपटियत्ता देवा विय नगरा निक्खमित्वा इदानि एकं इत्थिं निस्साय इमं ब्यसनं पत्ता’’ति। सत्था, ‘‘भिक्खवे, सोको वा भयं वा उप्पज्‍जमानं रतिं निस्साय उप्पज्‍जतियेवा’’ति वत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="214"><hi rend="paranum">२१४</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘रतिया जायती सोको, रतिया जायती भयं।</p>

<p rend="gathalast">रतिया विप्पमुत्तस्स, नत्थि सोको कुतो भय’’न्ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">रतिया</hi>ति पञ्‍चकामगुणरतितो, तं निस्सायाति अत्थो।</p>

<p rend="bodytext">देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।</p>

<p rend="centre">लिच्छवीवत्थु चतुत्थं।</p>

<p rend="subhead">५. अनित्थिगन्धकुमारवत्थु</p>

<p rend="bodytext"><hi rend="bold">कामतो</hi>ति <pb ed="P" n="3.0281"/> इमं धम्मदेसनं सत्था जेतवने विहरन्तो अनित्थिगन्धकुमारं नाम आरब्भ कथेसि।</p>

<p rend="bodytext">सो किर ब्रह्मलोका चुतसत्तो सावत्थियं महाभोगकुले निब्बत्तो जातदिवसतो पट्ठाय इत्थिसमीपं उपगन्तुं न इच्छति, इत्थिया गय्हमानो रोदति। वत्थचुम्बटकेन नं गहेत्वा थञ्‍ञं पायेन्ति। सो वयप्पत्तो मातापितूहि, ‘‘तात, आवाहं ते करिस्सामा’’ति वुत्ते ‘‘न मे इत्थिया अत्थो’’ति पटिक्खिपित्वा पुनप्पुनं याचियमानो पञ्‍चसते सुवण्णकारे पक्‍कोसापेत्वा रत्तसुवण्णनिक्खसहस्सं दापेत्वा अतिविय पासादिकं घनकोट्टिमं इत्थिरूपं कारेत्वा पुन मातापितूहि, ‘‘तात, तयि आवाहं अकरोन्ते कुलवंसो न पतिट्ठहिस्सति, कुमारिकं ते आनेस्सामा’’ति वुत्ते ‘‘तेन हि सचे मे एवरूपं कुमारिकं आनेस्सथ, करिस्सामि वो वचन’’न्ति तं सुवण्णरूपकं दस्सेति। अथस्स मातापितरो अभिञ्‍ञाते ब्राह्मणे पक्‍कोसापेत्वा ‘‘अम्हाकं पुत्तो महापुञ्‍ञो, अवस्सं इमिना सद्धिं कतपुञ्‍ञा <pb ed="M" n="2.0184"/> कुमारिका भविस्सति, गच्छथ इमं सुवण्णरूपकं गहेत्वा एवरूपं कुमारिकं आहरथा’’ति पहिणिंसु। ते ‘‘साधू’’ति चारिकं चरन्ता मद्दरट्ठे सागलनगरं गता। तस्मिञ्‍च नगरे एका सोळसवस्सुद्देसिका अभिरूपा कुमारिका अहोसि, तं मातापितरो सत्तभूमिकस्स पासादस्सूपरिमतले <pb ed="V" n="2.0165"/> <pb ed="P" n="3.0282"/> परिवासेसुं। तेपि खो ब्राह्मणा ‘‘सचे इध एवरूपा कुमारिका भविस्सति, इमं दिस्वा ‘अयं असुकस्स कुलस्स धीता विय अभिरूपा’ति वक्खन्ती’’ति तं सुवण्णरूपकं तित्थमग्गे ठपेत्वा एकमन्तं निसीदिंसु।</p>

<p rend="bodytext">अथस्स कुमारिकाय धाती तं कुमारिकं न्हापेत्वा सयम्पि न्हायितुकामा हुत्वा तित्थं आगता तं रूपकं दिस्वा ‘‘धीता मे’’ति सञ्‍ञाय ‘‘दुब्बिनीतासि, इदानेवाहं न्हापेत्वा निक्खन्ता, त्वं मया पुरेतरं इधागतासी’’ति हत्थेन पहरित्वा थद्धभावञ्‍चेव निब्बिकारतञ्‍च ञत्वा ‘‘अहं मे, धीताति सञ्‍ञमकासिं, किं नामेत’’न्ति आह। अथ नं ते ब्राह्मणा ‘‘एवरूपा ते, अम्म, धीता’’ति पुच्छिंसु। अयं मम धीतु सन्तिके किं अग्घतीति? तेन हि ते धीतरं अम्हाकं दस्सेहीति। सा तेहि सद्धिं गेहं गन्त्वा सामिकानं आरोचेसि। ते ब्राह्मणेहि सद्धिं कतपटिसम्मोदना धीतरं ओतारेत्वा हेट्ठापासादे सुवण्णरूपकस्स सन्तिके ठपेसुं। सुवण्णरूपकं निप्पभं अहोसि, कुमारिका सप्पभा अहोसि। ब्राह्मणा तं तेसं दत्वा कुमारिकं पटिच्छापेत्वा गन्त्वा अनित्थिगन्धकुमारस्स मातापितूनं आरोचयिंसु। ते तुट्ठमानसा ‘‘गच्छथ, नं सीघं आनेथा’’ति महन्तेन सक्‍कारेन पहिणिंसु।</p>

<p rend="bodytext">कुमारोपि तं पवत्तिं सुत्वा ‘‘कञ्‍चनरूपतोपि किर अभिरूपतरा दारिका अत्थी’’ति सवनवसेनेव सिनेहं उप्पादेत्वा ‘‘सीघं आनेन्तू’’ति <pb ed="P" n="3.0283"/> आह। सापि खो यानं आरोपेत्वा आनीयमाना अतिसुखुमालताय यानुग्घातेन समुप्पादितवातरोगा अन्तरामग्गेयेव कालमकासि। कुमारोपि ‘‘आगता’’ति निरन्तरं पुच्छति, तस्स अतिसिनेहेन पुच्छन्तस्स सहसाव अनारोचेत्वा कतिपाहं विक्खेपं कत्वा तमत्थं आरोचयिंसु। सो ‘‘तथारूपाय नाम इत्थिया सद्धिं समागमं नालत्थ’’न्ति उप्पन्‍नदोमनस्सो पब्बतेन विय सोकदुक्खेन अज्झोत्थटो <pb ed="M" n="2.0185"/> अहोसि। सत्था तस्सूपनिस्सयं दिस्वा पिण्डाय चरन्तो तं गेहद्वारं अगमासि। अथस्स मातापितरो सत्थारं अन्तोगेहं पवेसेत्वा सक्‍कच्‍चं परिविसिंसु। सत्था भत्तकिच्‍चावसाने ‘‘कहं अनित्थिगन्धकुमारो’’ति पुच्छि। ‘‘एसो, भन्ते, आहारूपच्छेदं कत्वा अन्तोगब्भे निसिन्‍नो’’ति। ‘‘पक्‍कोसथ न’’न्ति। सो आगन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदि। सत्था ‘‘किं नु खो, कुमार, बलवसोको उप्पन्‍नो’’ति वुत्ते, ‘‘आम, भन्ते, ‘एवरूपा नाम इत्थी अन्तरामग्गे कालकता’ति सुत्वा बलवसोको उप्पन्‍नो, भत्तम्पि मे नच्छादेती’’ति। अथ नं सत्था ‘‘जानासि पन त्वं, कुमार, किं ते निस्साय सोको उप्पन्‍नो’’ति? ‘‘न जानामि, भन्ते’’ति। ‘‘कामं निस्साय, कुमार, बलवसोको उप्पन्‍नो, सोको वा भयं वा कामं निस्साय उप्पज्‍जती’’ति वत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="215"><hi rend="paranum">२१५</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘कामतो <pb ed="V" n="2.0166"/> जायती सोको, कामतो जायती भयं।</p>

<p rend="gathalast">कामतो विप्पमुत्तस्स, नत्थि सोको कुतो भय’’न्ति॥</p>

<p rend="bodytext">तत्थ <pb ed="P" n="3.0284"/> <hi rend="bold">कामतो</hi>ति वत्थुकामकिलेसकामतो, दुविधम्पेतं कामं निस्सायाति अत्थो।</p>

<p rend="bodytext">देसनावसाने अनित्थिगन्धकुमारो सोतापत्तिफले पतिट्ठहि।</p>

<p rend="centre">अनित्थिगन्धकुमारवत्थु पञ्‍चमं।</p>

<p rend="subhead">६. अञ्‍ञतरब्राह्मणवत्थु</p>

<p rend="bodytext"><hi rend="bold">तण्हाय जायती</hi>ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्‍ञतरं ब्राह्मणं आरब्भ कथेसि।</p>

<p rend="bodytext">सो किर मिच्छादिट्ठिको एकदिवसं नदीतीरं गन्त्वा खेत्तं सोधेति। सत्था तस्स उपनिस्सयसम्पत्तिं दिस्वा तस्स सन्तिकं अगमासि। सो सत्थारं दिस्वापि सामीचिकम्मं अकत्वा तुण्ही अहोसि। अथ नं सत्था पुरेतरं आलपित्वा, ‘‘ब्राह्मण, किं करोसी’’ति आह। ‘‘खेत्तं, भो गोतम, सोधेमी’’ति। सत्था एत्तकमेव वत्वा गतो। पुनदिवसेपि तस्स खेत्तं कसितुं आगतस्स सन्तिकं गन्त्वा, ‘‘ब्राह्मण, किं करोसी’’ति पुच्छित्वा ‘‘खेत्तं कसामि, भो गोतमा’’ति सुत्वा पक्‍कामि। पुनदिवसादीसुपि तथेव गन्त्वा पुच्छित्वा, ‘‘भो गोतम, खेत्तं वपामि निद्देमि रक्खामी’’ति <pb ed="M" n="2.0186"/> सुत्वा पक्‍कामि। अथ नं एकदिवसं ब्राह्मणो आह – ‘‘भो गोतम, त्वं मम खेत्तसोधनदिवसतो पट्ठाय आगतो। सचे मे सस्सं सम्पज्‍जिस्सति, तुय्हम्पि संविभागं करिस्सामि, तुय्हं अदत्वा सयं न खादिस्सामि, इतो दानि पट्ठाय त्वं मम सहायो’’ति।</p>

<p rend="bodytext">अथस्स अपरेन समयेन सस्सं सम्पज्‍जि <pb ed="P" n="3.0285"/>, तस्स ‘‘सम्पन्‍नं मे सस्सं, स्वे दानि लायापेस्सामी’’ति लायनत्थं कत्तब्बकिच्‍चस्स रत्तिं महामेघो वस्सित्वा सब्बं सस्सं हरि, खेत्तं तच्छेत्वा ठपितसदिसं अहोसि। सत्था पन पठमदिवसंयेव ‘‘तं सस्सं न सम्पज्‍जिस्सती’’ति अञ्‍ञासि। ब्राह्मणो पातोव ‘‘खेत्तं ओलोकेस्सामी’’ति गतो तुच्छं खेत्तं दिस्वा उप्पन्‍नबलवसोको चिन्तेसि – ‘‘समणो गोतमो मम खेत्तसोधनकालतो पट्ठाय आगतो <pb ed="V" n="2.0167"/>, अहम्पि नं ‘इमस्मिं सस्से निप्फन्‍ने तुय्हम्पि संविभागं करिस्सामि, तुय्हं अदत्वा सयं न खादिस्सामि, इतो पट्ठाय दानि त्वं मम सहायो’ति अवचं। सोपि मे मनोरथो मत्थकं न पापुणी’’ति आहारूपच्छेदं कत्वा मञ्‍चके निपज्‍जि। अथस्स सत्था गेहद्वारं अगमासि। सो सत्थु आगमनं सुत्वा ‘‘सहायं मे आनेत्वा इध निसीदापेथा’’ति आह। परिजनो तथा अकासि। सत्था निसीदित्वा ‘‘कहं ब्राह्मणो’’ति पुच्छित्वा ‘‘गब्भे निपन्‍नो’’ति वुत्ते ‘‘पक्‍कोसथ न’’न्ति पक्‍कोसापेत्वा आगन्त्वा एकमन्तं निसिन्‍नं आह ‘‘किं, ब्राह्मणा’’ति? भो गोतम, तुम्हे मम खेत्तसोधनदिवसतो पट्ठाय आगता, अहम्पि ‘‘सस्से निप्फन्‍ने तुम्हाकं संविभागं करिस्सामी’’ति अवचं। सो मे मनोरथो अनिप्फन्‍नो, तेन मे सोको उप्पन्‍नो, भत्तम्पि मे नच्छादेतीति। अथ नं सत्था ‘‘जानासि पन, ब्राह्मण, किं ते निस्साय सोको उप्पन्‍नो’’ति पुच्छित्वा ‘‘न जानामि, भो गोतम, त्वं पन जानासी’’ति वुत्ते, ‘‘आम, ब्राह्मण, उप्पज्‍जमानो सोको वा भयं वा तण्हं निस्साय उप्पज्‍जती’’ति वत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="216"><hi rend="paranum">२१६</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘तण्हाय <pb ed="P" n="3.0286"/> जायती सोको, तण्हाय जायती भयं।</p>

<p rend="gathalast">तण्हाय विप्पमुत्तस्स, नत्थि सोको कुतो भय’’न्ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">तण्हाया</hi>ति छद्वारिकाय तण्हाय, एतं तण्हं निस्साय उप्पज्‍जतीति अत्थो।</p>

<p rend="bodytext">देसनावसाने ब्राह्मणो सोतापत्तिफले पतिट्ठहीति।</p>

<p rend="centre">अञ्‍ञतरब्राह्मणवत्थु छट्ठं।</p>

<p rend="subhead">७. पञ्‍चसतदारकवत्थु</p>

<p rend="bodytext"><hi rend="bold">सीलदस्सनसम्पन्‍न</hi>न्ति <pb ed="M" n="2.0187"/> इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अन्तरामग्गे पञ्‍चसतदारके आरब्भ कथेसि।</p>

<p rend="bodytext">एकदिवसञ्हि सत्था असीतिमहाथेरेहि सद्धिं पञ्‍चसतभिक्खुपरिवारो राजगहं पिण्डाय पविसन्तो एकस्मिं छणदिवसे पञ्‍चसते दारके पूवपच्छियो उक्खिपापेत्वा नगरा निक्खम्म उय्यानं गच्छन्ते अद्दस। तेपि सत्थारं वन्दित्वा पक्‍कमिंसु, ते एकं भिक्खुम्पि ‘‘पूवं गण्हथा’’ति <pb ed="V" n="2.0168"/> न वदिंसु। सत्था तेसं गतकाले भिक्खू आह – ‘‘खादिस्सथ, भिक्खवे, पूवे’’ति। ‘‘कहं भन्ते, पूवा’’ति? ‘‘किं न पस्सथ ते दारके पूवपच्छियो उक्खिपापेत्वा अतिक्‍कन्ते’’ति? ‘‘भन्ते, एवरूपा नाम दारका कस्सचि पूवं न देन्ती’’ति। ‘‘भिक्खवे, किञ्‍चापि एते मं वा तुम्हे वा पूवेहि न निमन्तयिंसु, पूवसामिको पन भिक्खु पच्छतो आगच्छति, पूवे खादित्वाव गन्तुं वट्टती’’ति। बुद्धानञ्हि <pb ed="P" n="3.0287"/> एकपुग्गलेपि इस्सा वा दोसो वा नत्थि, तस्मा इमं वत्वा भिक्खुसङ्घं आदाय एकस्मिं रुक्खमूले छायाय निसीदि। दारका महाकस्सपत्थेरं पच्छतो आगच्छन्तं दिस्वा उप्पन्‍नसिनेहा पीतिवेगेन परिपुण्णसरीरा हुत्वा पच्छियो ओतारेत्वा थेरं पञ्‍चपतिट्ठितेन वन्दित्वा पूवे पच्छीहि सद्धिंयेव उक्खिपित्वा ‘‘गण्हथ, भन्ते’’ति थेरं वदिंसु। अथ ने थेरो आह – ‘‘एस सत्था भिक्खुसङ्घं गहेत्वा रुक्खमूले निसिन्‍नो, तुम्हाकं देय्यधम्मं आदाय गन्त्वा भिक्खुसङ्घस्स संविभागं करोथा’’ति। ते ‘‘साधु, भन्ते’’ति निवत्तित्वा थेरेन सद्धिंयेव गन्त्वा पूवे दत्वा ओलोकयमाना एकमन्ते ठत्वा परिभोगावसाने उदकं अदंसु। भिक्खू उज्झायिंसु ‘‘दारकेहि मुखोलोकनेन भिक्खा दिन्‍ना, सम्मासम्बुद्धं वा महाथेरे वा पूवेहि अनापुच्छित्वा महाकस्सपत्थेरं दिस्वा पच्छीहि सद्धिंयेव आदाय आगमिंसू’’ति। सत्था तेसं कथं सुत्वा, ‘‘भिक्खवे, मम पुत्तेन महाकस्सपेन सदिसो भिक्खु देवमनुस्सानं पियो होति, ते च तस्स चतुपच्‍चयेन पूजं करोन्तियेवा’’ति वत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="217"><hi rend="paranum">२१७</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘सीलदस्सनसम्पन्‍नं, धम्मट्ठं सच्‍चवेदिनं।</p>

<p rend="gathalast">अत्तनो कम्म कुब्बानं, तं जनो कुरुते पिय’’न्ति॥</p>

<p rend="bodytext">तत्थ <pb ed="M" n="2.0188"/> <pb ed="P" n="3.0288"/> <hi rend="bold">सीलदस्सनसम्पन्‍न</hi>न्ति चतुपारिसुद्धिसीलेन चेव मग्गफलसम्पयुत्तेन च सम्मादस्सनेन सम्पन्‍नं। <hi rend="bold">धम्मट्ठ</hi>न्ति नवविधलोकुत्तरधम्मे ठितं, सच्छिकतलोकुत्तरधम्मन्ति अत्थो। <hi rend="bold">सच्‍चवेदिन</hi>न्ति चतुन्‍नं सच्‍चानं सोळसहाकारेहि सच्छिकतत्ता सच्‍चञाणेन सच्‍चवेदिनं। <hi rend="bold">अत्तनो कम्म कुब्बान</hi>न्ति अत्तनो कम्मं नाम तिस्सो सिक्खा, ता पूरयमानन्ति अत्थो। <hi rend="bold">तं जनो</hi>ति तं पुग्गलं लोकियमहाजनो पियं करोति, दट्ठुकामो वन्दितुकामो पच्‍चयेन पूजेतुकामो होतियेवाति अत्थो।</p>

<p rend="bodytext">देसनावसाने सब्बेपि ते दारका सोतापत्तिफले पतिट्ठहिंसूति।</p>

<p rend="centre">पञ्‍चसतदारकवत्थु सत्तमं।</p>

<p rend="subhead">८. एकअनागामित्थेरवत्थु</p>

<p rend="bodytext"><hi rend="bold">छन्दजातो</hi>ति <pb ed="V" n="2.0169"/> इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं अनागामित्थेरं आरब्भ कथेसि।</p>

<p rend="bodytext">एकदिवसञ्हि तं थेरं सद्धिविहारिका पुच्छिंसु – ‘‘अत्थि पन वो, भन्ते, विसेसाधिगमो’’ति। थेरो ‘‘अनागामिफलं नाम गहट्ठापि पापुणन्ति, अरहत्तं पत्तकालेयेव तेहि सद्धिं कथेस्सामी’’ति हरायमानो किञ्‍चि अकथेत्वाव कालकतो सुद्धावासदेवलोके निब्बत्ति। अथस्स सद्धिविहारिका रोदित्वा परिदेवित्वा सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा रोदन्ताव एकमन्तं निसीदिंसु। अथ <pb ed="P" n="3.0289"/> ने सत्था ‘‘किं, भिक्खवे, रोदथा’’ति आह। ‘‘उपज्झायो नो, भन्ते, कालकतो’’ति। ‘‘होतु, भिक्खवे, मा चिन्तयित्थ, धुवधम्मो नामेसो’’ति? ‘‘आम, भन्ते, मयम्पि जानाम, अपिच मयं उपज्झायं विसेसाधिगमं पुच्छिम्हा, सो किञ्‍चि अकथेत्वाव कालकतो, तेनम्ह दुक्खिता’’ति। सत्था, ‘‘भिक्खवे, मा चिन्तयित्थ, उपज्झायेन वो अनागामिफलं पत्तं, सो ‘गिहीपेतं पापुणन्ति, अरहत्तं पत्वाव नेसं कथेस्सामी’ति हरायन्तो तुम्हाकं किञ्‍चि अकथेत्वा कालं कत्वा सुद्धावासे निब्बत्तो, अस्सासथ, भिक्खवे, उपज्झायो वो कामेसु अप्पटिबद्धचित्ततं पत्तो’’ति वत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="218"><hi rend="paranum">२१८</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘छन्दजातो <pb ed="M" n="2.0189"/> अनक्खाते, मनसा च फुटो सिया।</p>

<p rend="gathalast">कामेसु च अप्पटिबद्धचित्तो, उद्धंसोतोति वुच्‍चती’’ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">छन्दजातो</hi>ति कत्तुकामतावसेन जातछन्दो उस्साहपत्तो। <hi rend="bold">अनक्खाते</hi>ति निब्बाने। तञ्हि ‘‘असुकेन कतं वा नीलादीसु एवरूपं वा’’ति अवत्तब्बताय अनक्खातं नाम। <hi rend="bold">मनसा च फुटो सिया</hi>ति हेट्ठिमेहि तीहि मग्गफलचित्तेहि फुटो पूरितो भवेय्य। <hi rend="bold">अप्पटिबद्धचित्तो</hi>ति अनागामिमग्गवसेन कामेसु अप्पटिबद्धचित्तो। <hi rend="bold">उद्धंसोतो</hi>ति एवरूपो भिक्खु अविहेसु <pb ed="P" n="3.0290"/> निब्बत्तित्वा ततो पट्ठाय पटिसन्धिवसेन अकनिट्ठं गच्छन्तो उद्धंसोतोति वुच्‍चति, तादिसो वो उपज्झायोति अत्थो।</p>

<p rend="bodytext">देसनावसाने ते भिक्खू अरहत्तफले पतिट्ठहिंसु, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति।</p>

<p rend="centre">एकअनागामित्थेरवत्थु अट्ठमं।</p>

<p rend="subhead">९. नन्दियवत्थु</p>

<p rend="bodytext"><hi rend="bold">चिरप्पवासि</hi>न्ति <pb ed="V" n="2.0170"/> इमं धम्मदेसनं सत्था इसिपतने विहरन्तो नन्दियं आरब्भ कथेसि।</p>

<p rend="bodytext">बाराणसियं किर सद्धासम्पन्‍नस्स कुलस्स नन्दियो नाम पुत्तो अहोसि, सो मातापितूनं अनुरूपो सद्धासम्पन्‍नो सङ्घुपट्ठाको अहोसि। अथस्स मातापितरो वयप्पत्तकाले सम्मुखगेहतो मातुलधीतरं रेवतिं नाम आनेतुकामा अहेसुं। सा पन अस्सद्धा अदानसीला, नन्दियो तं न इच्छि। अथस्स माता रेवतिं आह – ‘‘अम्म, त्वं इमस्मिं गेहे भिक्खुसङ्घस्स निसज्‍जनट्ठानं उपलिम्पित्वा आसनानि पञ्‍ञापेहि, आधारके ठपेहि, भिक्खूनं आगतकाले पत्तं गहेत्वा निसीदापेत्वा धम्मकरणेन पानीयं परिस्सावेत्वा भुत्तकाले पत्ते धोव, एवं मे पुत्तस्स आराधिता भविस्ससी’’ति। सा तथा अकासि। अथ नं ‘‘ओवादक्खमा जाता’’ति पुत्तस्स आरोचेत्वा तेन साधूति सम्पटिच्छिते दिवसं ठपेत्वा आवाहं करिंसु <pb ed="P" n="3.0291"/>।</p>

<p rend="bodytext">अथ <pb ed="M" n="2.0190"/> नं नन्दियो आह – ‘‘सचे भिक्खुसङ्घञ्‍च मातापितरो च मे उपट्ठहिस्ससि, एवं इमस्मिं गेहे वसितुं लभिस्ससि, अप्पमत्ता होही’’ति। सा ‘‘साधू’’ति पटिस्सुणित्वा कतिपाहं सद्धा विय हुत्वा भत्तारं उपट्ठहन्ती द्वे पुत्ते विजायि। नन्दियस्सापि मातापितरो कालमकंसु, गेहे सब्बिस्सरियं तस्सायेव अहोसि। नन्दियोपि मातापितूनं कालकिरियतो पट्ठाय महादानपति हुत्वा भिक्खुसङ्घस्स दानं पट्ठपेसि। कपणद्धिकादीनम्पि गेहद्वारे पाकवत्तं पट्ठपेसि। सो अपरभागे सत्थु धम्मदेसनं सुत्वा आवासदाने आनिसंसं सल्‍लक्खेत्वा इसिपतने महाविहारे चतूहि गब्भेहि पटिमण्डितं चतुसालं कारेत्वा मञ्‍चपीठादीनि अत्थरापेत्वा तं आवासं निय्यादेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा तथागतस्स दक्खिणोदकं अदासि। सत्थु हत्थे दक्खिणोदकपतिट्ठानेन सद्धिंयेव तावतिंसदेवलोके सब्बदिसासु द्वादसयोजनिको उद्धं योजनसतुब्बेधो सत्तरतनमयो नारीगणसम्पन्‍नो दिब्बपासादो उग्गच्छि।</p>

<p rend="bodytext">अथेकदिवसे महामोग्गल्‍लानत्थेरो देवचारिकं गन्त्वा तस्स पासादस्स अविदूरे ठितो अत्तनो सन्तिके आगते देवपुत्ते पुच्छि – ‘‘कस्सेसो अच्छरागणपरिवुतो दिब्बपासादो निब्बत्तो’’ति। अथस्स देवपुत्ता विमानसामिकं आचिक्खन्ता आहंसु – ‘‘भन्ते, येन नन्दियेन नाम गहपतिपुत्तेन इसिपतने <pb ed="P" n="3.0292"/> सत्थु विहारं कारेत्वा दिन्‍नो, तस्सत्थाय एतं विमानं निब्बत्त’’न्ति <pb ed="V" n="2.0171"/>। अच्छरासङ्घोपि नं दिस्वा पासादतो ओरोहित्वा आह – ‘‘भन्ते, मयं ‘नन्दियस्स परिचारिका भविस्सामा’ति इध निब्बत्ता, तं पन अपस्सन्ती अतिविय उक्‍कण्ठितम्हा, मत्तिकपातिं भिन्दित्वा सुवण्णपातिगहणं विय मनुस्ससम्पत्तिं जहित्वा दिब्बसम्पत्तिगहणं, इधागमनत्थाय नं वदेय्याथा’’ति। थेरो ततो आगन्त्वा सत्थारं उपसङ्कमित्वा पुच्छि – ‘‘निब्बत्तति नु खो, भन्ते, मनुस्सलोके ठितानंयेव कतकल्याणानं दिब्बसम्पत्ती’’ति। ‘‘मोग्गल्‍लान, ननु ते देवलोके नन्दियस्स निब्बत्ता दिब्बसम्पत्ति सामं दिट्ठा, कस्मा मं पुच्छसी’’ति। ‘‘एवं, भन्ते, निब्बत्तती’’ति।</p>

<p rend="bodytext">अथ नं सत्था ‘‘मोग्गल्‍लानं किं नामेतं कथेसि। यथा हि चिरप्पवुट्ठं पुत्तं वा भातरं वा विप्पवासतो आगच्छन्तं गामद्वारे ठितो कोचिदेव <pb ed="M" n="2.0191"/> दिस्वा वेगेन गेहं आगन्त्वा ‘असुको नाम आगतो’ति आरोचेय्य, अथस्स ञातका हट्ठपहट्ठा वेगेन निक्खमित्वा ‘आगतोसि, तात, अरोगोसि, ताता’ति तं अभिनन्देय्युं, एवमेव इध कतकल्याणं इत्थिं वा पुरिसं वा इमं लोकं जहित्वा परलोकं गतं दसविधं दिब्बपण्णाकारं आदाय ‘अहं पुरतो <pb ed="P" n="3.0293"/>, अहं पुरतो’ति पच्‍चुग्गन्त्वा देवता अभिनन्दन्ती’’ति वत्वा इमा गाथा अभासि –</p>

<p rend="hangnum" n="219"><hi rend="paranum">२१९</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं।</p>

<p rend="gathalast">ञातिमित्ता सुहज्‍जा च, अभिनन्दन्ति आगतं॥</p>

<p rend="hangnum" n="220"><hi rend="paranum">२२०</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘तथेव कतपुञ्‍ञम्पि, अस्मा लोका परं गतं।</p>

<p rend="gathalast">पुञ्‍ञानि पटिगण्हन्ति, पियं ञातीव आगत’’न्ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">चिरप्पवासि</hi>न्ति चिरप्पवुट्ठं। <hi rend="bold">दूरतो सोत्थिमागत</hi>न्ति वणिज्‍जं वा राजपोरिसं वा कत्वा लद्धलाभं निप्फन्‍नसम्पत्तिं अनुपद्दवेन दूरट्ठानतो आगतं। <hi rend="bold">ञातिमित्ता सुहज्‍जा चा</hi>ति कुलसम्बन्धवसेन ञाती च सन्दिट्ठादिभावेन मित्ता च सुहदयभावेन सुहज्‍जा च। <hi rend="bold">अभिनन्दन्ति आगत</hi>न्ति नं दिस्वा आगतन्ति वचनमत्तेन वा अञ्‍जलिकरणमत्तेन वा गेहसम्पत्तं पन नानप्पकारपण्णाकाराभिहरणवसेन अभिनन्दन्ति। <hi rend="bold">तथेवा</hi>ति तेनेवाकारेन कतपुञ्‍ञम्पि पुग्गलं इमस्मा लोका परलोकं गतं दिब्बं आयुवण्णसुखयसआधिपतेय्यं, दिब्बं रूपसद्दगन्धरसफोट्ठब्बन्ति इमं दसविधं पण्णाकारं आदाय मातापितुट्ठाने ठितानि पुञ्‍ञानि अभिनन्दन्तानि <pb ed="P" n="3.0294"/> पटिग्गण्हन्ति। <hi rend="bold">पियं ञातीवा</hi>ति इधलोके पियञातकं आगतं सेसञातका वियाति अत्थो।</p>

<p rend="bodytext">देसनावसाने <pb ed="V" n="2.0172"/> बहू सोतापत्तिफलादीनि पापुणिंसूति।</p>

<p rend="centre">नन्दियवत्थु नवमं।</p>

<p rend="centre">पियवग्गवण्णना निट्ठिता।</p>

<p rend="centre">सोळसमो वग्गो।</p>

</body>
<back></back>
</text>
</TEI.2>
