<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">२१. पकिण्णकवग्गो</p>

<p rend="subhead">१. अत्तनोपुब्बकम्मवत्थु</p>

<p rend="bodytext"><hi rend="bold">मत्तासुखपरिच्‍चागा</hi>ति <pb ed="V" n="2.0250"/> <pb ed="P" n="3.0436"/> <pb ed="M" n="2.0273"/> इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अत्तनो पुब्बकम्मं आरब्भ कथेसि।</p>

<p rend="bodytext">एकस्मिञ्हि समये वेसाली इद्धा अहोसि फीता बहुजना आकिण्णमनुस्सा। तत्थ हि वारेन वारेन रज्‍जं कारेन्तानं खत्तियानंयेव सत्तसताधिकानि सत्तसहस्सानि सत्त च खत्तिया अहेसुं। तेसं वसनत्थाय तत्तकायेव पासादा तत्तकानेव कूटागारानि उय्याने विहारत्थाय तत्तकायेव आरामा च पोक्खरणियो च अहेसुं। सा अपरेन समयेन दुब्भिक्खा अहोसि दुस्सस्सा। तत्थ छातकभयेन पठमं दुग्गतमनुस्सा कालमकंसु। तेसं तेसं तत्थ तत्थ छड्डितानं कुणपानं गन्धेन अमनुस्सा नगरं पविसिंसु। अमनुस्सूपद्दवेन बहुतरा कालमकंसु। तेसं <pb ed="P" n="3.0437"/> कुणपगन्धपटिक्‍कूलताय सत्तानं अहिवातरोगो उप्पज्‍जि। एवं दुब्भिक्खभयं अमनुस्सभयं रोगभयन्ति तीणि भयानि उप्पज्‍जिंसु।</p>

<p rend="bodytext">नगरवासिनो सन्‍निपतित्वा राजानं आहंसु – ‘‘महाराज, इमस्मिं नगरे तीणि भयानि उप्पन्‍नानि, इतो पुब्बे याव सत्तमा राजपरिवट्टा एवरूपं भयं नाम न उप्पन्‍नपुब्बं। अधम्मिकराजूनञ्हि काले एवरूपं भयं उप्पज्‍जती’’ति। राजा सन्थागारे सब्बेसं सन्‍निपातं कारेत्वा ‘‘सचे मे अधम्मिकभावो अत्थि, तं विचिनथा’’ति आह। वेसालिवासिनो सब्बं पवेणि विचिनन्ता रञ्‍ञो कञ्‍चि दोसं अदिस्वा, ‘‘महाराज, नत्थि ते दोसो’’ति वत्वा ‘‘कथं नु खो इदं अम्हाकं भयं वूपसमं गच्छेय्या’’ति मन्तयिंसु। तत्थ एकच्‍चेहि ‘‘बलिकम्मेन आयाचनाय मङ्गलकिरियाया’’ति वुत्ते सब्बम्पि तं विधिं कत्वा पटिबाहितुं नासक्खिंसु। अथञ्‍ञे एवमाहंसु – ‘‘छ सत्थारो महानुभावा, तेसु इधागतमत्तेसु भयं वूपसमेय्या’’ति। अपरे ‘‘सम्मासम्बुद्धो लोके उप्पन्‍नो। सो हि भगवा सब्बसत्तहिताय धम्मं देसेति, महिद्धिको <pb ed="P" n="3.0438"/> महानुभावो। तस्मिं इध आगते इमानि <pb ed="M" n="2.0274"/> भयानि वूपसमेय्यु’’न्ति आहंसु। तेसं वचनं सब्बेपि अभिनन्दित्वा ‘‘कहं नु खो सो भगवा एतरहि विहरती’’ति आहंसु <pb ed="V" n="2.0251"/>। तदा पन सत्था उपकट्ठाय वस्सूपनायिकाय रञ्‍ञो बिम्बिसारस्स पटिञ्‍ञं दत्वा वेळुवने विहरति। तेन च समयेन बिम्बिसारसमागमे बिम्बिसारेन सद्धिं सोतापत्तिफलं पत्तो महालि नाम लिच्छवी तस्सं परिसायं निसिन्‍नो होति।</p>

<p rend="bodytext">वेसालिवासिनो महन्तं पण्णाकारं सज्‍जेत्वा राजानं बिम्बिसारं सञ्‍ञापेत्वा ‘‘सत्थारं इधानेथा’’ति महालिञ्‍चेव लिच्छविं पुरोहितपुत्तञ्‍च पहिणिंसु। ते गन्त्वा रञ्‍ञो पण्णाकारं दत्वा तं पवत्तिं निवेदेत्वा, ‘‘महाराज, सत्थारं अम्हाकं नगरं पेसेथा’’ति याचिंसु। राजा ‘‘तुम्हेव जानाथा’’ति न सम्पटिच्छि। ते भगवन्तं उपसङ्कमित्वा वन्दित्वा याचिंसु – ‘‘भन्ते, वेसालियं तीणि भयानि उप्पन्‍नानि, तानि तुम्हेसु आगतेसु वूपसमिस्सन्ति, एथ, भन्ते, गच्छामा’’ति। सत्था तेसं वचनं सुत्वा आवज्‍जेन्तो ‘‘वेसालियं <hi rend="bold">रतनसुत्ते</hi> (खु॰ पा॰ ६.१ आदयो; सु॰ नि॰ २२४ आदयो) वुत्ते सा रक्खा चक्‍कवाळानं कोटिसतसहस्सं फरिस्सति, सुत्तपरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो <pb ed="P" n="3.0439"/> भविस्सति, तानि च भयानि वूपसमिस्सन्ती’’ति ञत्वा तेसं वचनं सम्पटिच्छि।</p>

<p rend="bodytext">राजा बिम्बिसारो ‘‘सत्थारा किर वेसालिगमनं सम्पटिच्छित’’न्ति सुत्वा नगरे घोसनं कारेत्वा सत्थारं उपसङ्कमित्वा ‘‘किं, भन्ते, वेसालिगमनं सम्पटिच्छित’’न्ति पुच्छित्वा ‘‘आम, महाराजा’’ति वुत्ते ‘‘तेन हि, भन्ते, आगमेथ, ताव मग्गं पटियादेस्सामी’’ति वत्वा राजगहस्स च गङ्गाय च अन्तरे पञ्‍चयोजनभूमिं समं कारेत्वा योजने योजने विहारं पतिट्ठापेत्वा सत्थु गमनकालं आरोचेसि। सत्था पञ्‍चहि भिक्खुसतेहि सद्धिं मग्गं पटिपज्‍जि। राजा योजनन्तरे जण्णुमत्तेन ओधिना पञ्‍चवण्णानि पुप्फानि ओकिरापेत्वा धजपटाककदलीआदीनि उस्सापेत्वा भगवतो छत्तातिछत्तं कत्वा द्वे सेतच्छत्तानि एकमेकस्स भिक्खुनो एकमेकं सेतच्छत्तं उपरि धारेत्वा सपरिवारो पुप्फगन्धादीहि पूजं करोन्तो सत्थारं एकेकस्मिं विहारे वसापेत्वा महादानादीनि दत्वा पञ्‍चहि दिवसेहि गङ्गातीरं पापेत्वा तत्थ <pb ed="M" n="2.0275"/> नावं अलङ्करोन्तो वेसालिकानं सासनं पेसेसि – ‘‘मग्गं पटियादेत्वा सत्थु पच्‍चुग्गमनं करोन्तू’’ति। ते ‘‘दिगुणं पूजं करिस्सामा’’ति वेसालिया च गङ्गाय च अन्तरे तियोजनभूमिं <pb ed="P" n="3.0440"/> समं कारेत्वा भगवतो चतूहि सेतच्छत्तेहि एकमेकस्स भिक्खुनो द्वीहि द्वीहि सेतच्छत्तेहि छत्तातिछत्तानि सज्‍जेत्वा पूजं कुरुमाना आगन्त्वा गङ्गातीरे अट्ठंसु। बिम्बिसारो द्वे नावा सङ्घाटेत्वा मण्डपं कारेत्वा पुप्फदामादीहि अलङ्कारापेत्वा सब्बरतनमयं बुद्धासनं पञ्‍ञापेसि। भगवा तस्मिं निसीदि। भिक्खूपि नावं अभिरुहित्वा भगवन्तं परिवारेत्वा निसीदिंसु। राजा अनुगच्छन्तो गलप्पमाणं उदकं ओतरित्वा ‘‘याव, भन्ते, भगवा <pb ed="V" n="2.0252"/> आगच्छति, तावाहं इधेव गङ्गातीरे वसिस्सामी’’ति वत्वा नावं उय्योजेत्वा निवत्ति। सत्था योजनमत्तं अद्धानं गङ्गाय गन्त्वा वेसालिकानं सीमं पापुणि।</p>

<p rend="bodytext">लिच्छवीराजानो सत्थारं पच्‍चुग्गन्त्वा गलप्पमाणं उदकं ओतरित्वा नावं तीरं उपनेत्वा सत्थारं नावातो ओतारयिंसु। सत्थारा ओतरित्वा तीरे अक्‍कन्तमत्तेयेव महामेघो उट्ठहित्वा पोक्खरवस्सं वस्सि। सब्बत्थ जण्णुप्पमाणऊरुप्पमाणकटिप्पमाणादीनि उदकानि सन्दन्तानि सब्बकुणपानि गङ्गं पवेसयिंसु, परिसुद्धो भूमिभागो अहोसि। लिच्छवीराजानो सत्थारं योजने योजने वसापेत्वा महादानं दत्वा दिगुणं पूजं करोन्ता तीहि दिवसेहि <pb ed="P" n="3.0441"/> वेसालिं नयिंसु। सक्‍को देवराजा देवगणपरिवुतो आगमासि, महेसक्खानं देवानं सन्‍निपातेन अमनुस्सा येभुय्येन पलायिंसु। सत्था सायं नगरद्वारे ठत्वा आनन्दत्थेरं आमन्तेसि – ‘‘इमं, आनन्द, रतनसुत्तं उग्गण्हित्वा लिच्छवीकुमारेहि सद्धिं विचरन्तो वेसालिया तिण्णं पाकारानं अन्तरे परित्तं करोही’’ति।</p>

<p rend="bodytext">थेरो सत्थारा दिन्‍नं रतनसुत्तं उग्गण्हित्वा सत्थु सेलमयपत्तेन उदकं आदाय नगरद्वारे ठितो पणिधानतो पट्ठाय तथागतस्स दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समतिंस पारमियो पञ्‍च महापरिच्‍चागे लोकत्थचरिया ञातत्थचरिया बुद्धत्थचरियाति तिस्सो चरियायो पच्छिमभवे गब्भवोक्‍कन्तिं जातिं अभिनिक्खमनं पधानचरियं बोधिपल्‍लङ्के मारविजयं सब्बञ्‍ञुतञ्‍ञाणपटिवेधं धम्मचक्‍कपवत्तनं <pb ed="M" n="2.0276"/> नवलोकुत्तरधम्मेति सब्बेपिमे बुद्धगुणे आवज्‍जेत्वा नगरं पविसित्वा तियामरत्तिं तीसु पाकारन्तरेसु परित्तं करोन्तो विचरि। तेन ‘‘यंकिञ्‍ची’’ति वुत्तमत्तेयेव उद्धं खित्तउदकं अमनुस्सानं उपरि पति। ‘‘यानीध भूतानी’’ति गाथाकथनतो पट्ठाय रजतवटंसका विय उदकबिन्दूनि आकासेन गन्त्वा गिलानमनुस्सानं उपरि पतिंसु। तावदेव वूपसन्तरोगा मनुस्सा उट्ठायुट्ठाय थेरं परिवारेसुं <pb ed="P" n="3.0442"/>। ‘‘यंकिञ्‍ची’’ति वुत्तपदतो पट्ठाय पन उदकफुसितेहि फुट्ठफुट्ठा सब्बे अपलायन्ता सङ्कारकूटभित्तिपदेसादिनिस्सिता अमनुस्सा तेन तेन द्वारेन पलायिंसु। द्वारानि अनोकासानि अहेसुं। ते ओकासं अलभन्ता पाकारं भिन्दित्वापि पलायिंसु।</p>

<p rend="bodytext">महाजनो नगरमज्झे सन्थागारं सब्बगन्धेहि उपलिम्पेत्वा उपरि सुवण्णतारकादिविचित्तं वितानं बन्धित्वा बुद्धासनं पञ्‍ञापेत्वा सत्थारं आनेसि। सत्था पञ्‍ञत्ते आसने निसीदि। भिक्खुसङ्घोपि लिच्छवीगणोपि सत्थारं परिवारेत्वा निसीदि। सक्‍को देवराजा देवगणपरिवुतो पतिरूपे ओकासे अट्ठासि। थेरोपि सकलनगरं अनुविचरित्वा वूपसन्तरोगेन महाजनेन सद्धिं <pb ed="V" n="2.0253"/> आगन्त्वा सत्थारं वन्दित्वा निसीदि। सत्था परिसं ओलोकेत्वा तदेव रतनसुत्तं अभासि। देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि। एवं पुनदिवसेपीति सत्ताहं तदेव रतनसुत्तं देसेत्वा सब्बभयानं वूपसन्तभावं ञत्वा लिच्छवीगणं आमन्तेत्वा वेसालितो निक्खमि। लिच्छवीराजानो दिगुणं सक्‍कारं करोन्ता पुन तीहि दिवसेहि सत्थारं गङ्गातीरं नयिंसु।</p>

<p rend="bodytext">गङ्गाय निब्बत्तनागराजानो चिन्तेसुं – ‘‘मनुस्सा तथागतस्स <pb ed="P" n="3.0443"/> सक्‍कारं करोन्ति, मयं किं न करोमा’’ति। ते सुवण्णरजतमणिमया नावायो मापेत्वा सुवण्णरजतमणिमये पल्‍लङ्के पञ्‍ञापेत्वा पञ्‍चवण्णपदुमसञ्छन्‍नं उदकं करित्वा, ‘‘भन्ते, अम्हाकम्पि अनुग्गहं करोथा’’ति अत्तनो अत्तनो नावं अभिरुहणत्थाय सत्थारं याचिंसु। ‘‘मनुस्सा च नागा च तथागतस्स पूजं करोन्ति, मयं पन किं न करोमा’’ति भूमट्ठकदेवेपि आदिं कत्वा याव अकनिट्ठब्रह्मलोका सब्बे देवा सक्‍कारं करिंसु। तत्थ नागा योजनिकानि छत्तातिछत्तानि उक्खिपिंसु। एवं हेट्ठा नागा <pb ed="M" n="2.0277"/> भूमितले रुक्खगच्छपब्बतादीसु भूमट्ठका देवता, अन्तलिक्खे आकासट्ठदेवाति नागभवनं आदिं कत्वा चक्‍कवाळपरियन्तेन याव ब्रह्मलोका छत्तातिछत्तानि उस्सापितानि अहेसुं। छत्तन्तरेसु धजा, धजन्तरेसु पटाका, तेसं अन्तरन्तरा पुप्फदामवासचुण्णधुमादीहि सक्‍कारो अहोसि। सब्बलङ्कारपटिमण्डिता देवपुत्ता छणवेसं गहेत्वा उग्घोसयमाना आकासे विचरिंसु। तयो एव किर समागमा महन्ता अहेसुं – यमकपाटिहारियसमागमो देवोरोहणसमागमो अयं गङ्गोरोहणसमागमोति।</p>

<p rend="bodytext">परतीरे बिम्बिसारोपि लिच्छवीहि कतसक्‍कारतो दिगुणं सक्‍कारं सज्‍जेत्वा <pb ed="P" n="3.0444"/> भगवतो आगमनं उदिक्खमानो अट्ठासि। सत्था गङ्गाय उभोसु पस्सेसु राजूनं महन्तं परिच्‍चागं ओलोकेत्वा नागादीनञ्‍च अज्झासयं विदित्वा एकेकाय नावाय पञ्‍चपञ्‍चभिक्खुसतपरिवारं एकेकं निम्मितबुद्धं मापेसि। सो एकेकस्स सेतच्छत्तस्स चेव कप्परुक्खस्स च पुप्फदामस्स च हेट्ठा नागगणपरिवुतो निसिन्‍नो होति। भूमट्ठकदेवतादीसुपि एकेकस्मिं ओकासे सपरिवारं एकेकं निम्मितबुद्धं मापेसि। एवं सकलचक्‍कवाळगब्भे एकालङ्कारे एकुस्सवे एकछणेयेव च जाते सत्था नागानमनुग्गहं करोन्तो एकं रतननावं अभिरुहि। भिक्खूसुपि एकेको एकेकमेव अभिरुहि। नागराजानो बुद्धप्पमुखं भिक्खुसङ्घं नागभवनं पवेसेत्वा सब्बरत्तिं सत्थु सन्तिके धम्मकथं सुत्वा दुतियदिवसे दिब्बेन खादनीयेन भोजनीयेन बुद्धप्पमुखं भिक्खुसङ्घं परिविसिंसु। सत्था अनुमोदनं कत्वा नागभवना निक्खमित्वा सकलचक्‍कवाळदेवताहि पूजियमानो पञ्‍चहि नावासतेहि गङ्गानदिं अतिक्‍कमि।</p>

<p rend="bodytext">राजा <pb ed="V" n="2.0254"/> पच्‍चुग्गन्त्वा सत्थारं नावातो ओतारेत्वा आगमनकाले लिच्छवीति कतसक्‍कारतो दिगुणं सक्‍कारं कत्वा पुरिमनयेनेव पञ्‍चहि दिवसेहि राजगहं अभिनेसि। दुतियदिवसे <pb ed="P" n="3.0445"/> भिक्खू पिण्डपातपटिक्‍कन्ता सायन्हसमये धम्मसभायं सन्‍निसिन्‍ना कथं समुट्ठापेसुं – ‘‘अहो बुद्धानं महानुभावो, अहो सत्थरि देवमनुस्सानं पसादो, गङ्गाय नाम ओरतो <pb ed="M" n="2.0278"/> च पारतो च अट्ठयोजने मग्गे बुद्धगतेन पसादेन राजूहि समतलं भूमिं कत्वा वालुका ओकिण्णा, जण्णुमत्तेन ओधिना नानावण्णानि पुप्फानि सन्थतानि, गङ्गाय उदकं नागानुभावेन पञ्‍चवण्णेहि पदुमेहि सञ्छन्‍नं, याव अकनिट्ठभवना छत्तातिछत्तानि उस्सापितानि, सकलचक्‍कवाळगब्भं एकालङ्कारं एकुस्सवं विय जात’’न्ति। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्‍निसिन्‍ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, एस पूजासक्‍कारो मय्हं बुद्धानुभावेन निब्बत्तो, न नागदेवब्रह्मानुभावेन। अतीते पन अप्पमत्तकपरिच्‍चागानुभावेन निब्बत्तो’’ति वत्वा भिक्खूहि याचितो अतीतं आहरि।</p>

<p rend="bodytext">अतीते तक्‍कसिलायं सङ्खो नाम ब्राह्मणो अहोसि। तस्स पुत्तो सुसीमो नाम माणवो सोळसवस्सुद्देसिको एकदिवसं पितरं उपसङ्कमित्वा आह – ‘‘इच्छामहं, तात, बाराणसिं गन्त्वा मन्ते अज्झायितु’’न्ति। अथ नं पिता आह – ‘‘तेन हि, तात, असुको नाम ब्राह्मणो मम <pb ed="P" n="3.0446"/> सहायको, तस्स सन्तिकं गन्त्वा अधीयस्सू’’ति। सो ‘‘साधू’’ति पटिस्सुणित्वा अनुपुब्बेन बाराणसिं गन्त्वा तं ब्राह्मणं उपसङ्कमित्वा पितरा पहितभावमाचिक्खि। अथ नं सो ‘‘सहायकस्स मे पुत्तो’’ति सम्पटिच्छित्वा पटिपस्सद्धदरथं भद्दकेन दिवसेन मन्ते वाचेतुमारभि। सो लहुञ्‍च गण्हन्तो बहुञ्‍च गण्हन्तो अत्तनो उग्गहितुग्गहितं सुवण्णभाजने पक्खित्तसीहतेलमिव अविनस्समानं धारेन्तो न चिरस्सेव आचरियस्स सम्मुखतो उग्गण्हितब्बं सब्बं उग्गण्हित्वा सज्झायं करोन्तो अत्तनो उग्गहितसिप्पस्स आदिमज्झमेव पस्सति, नो परियोसानं।</p>

<p rend="bodytext">सो आचरियं उपसङ्कमित्वा ‘‘अहं इमस्स सिप्पस्स आदिमज्झमेव पस्सामि, नो परियोसान’’न्ति वत्वा आचरियेन ‘‘अहम्पि, तात, न पस्सामी’’ति वुत्ते ‘‘अथ को, आचरिय, परियोसानं जानाती’’ति पुच्छित्वा ‘‘इमे, तात, इसयो इसिपतने विहरन्ति, ते जानेय्युं, तेसं सन्तिकं उपसङ्कमित्वा पुच्छस्सू’’ति आचरियेन वुत्ते पच्‍चेकबुद्धे उपसङ्कमित्वा पुच्छि – ‘‘तुम्हे किर परियोसानं जानाथा’’ति? ‘‘आम, जानामा’’ति। ‘‘तेन हि मे आचिक्खथा’’ति? ‘‘न मयं अपब्बजितस्स आचिक्खाम। सचे ते परियोसानेनत्थो <pb ed="P" n="3.0447"/>, पब्बजस्सू’’ति <pb ed="V" n="2.0255"/>। सो ‘‘साधू’’ति सम्पटिच्छित्वा <pb ed="M" n="2.0279"/> तेसं सन्तिके पब्बजि। अथस्स ते ‘‘इदं ताव सिक्खस्सू’’ति वत्वा ‘‘एवं ते निवासेतब्बं, एवं पारुपितब्ब’’न्तिआदिना नयेन आभिसमाचारिकं आचिक्खिंसु। सो तत्थ सिक्खन्तो उपनिस्सयसम्पन्‍नत्ता नचिरस्सेव पच्‍चेकसम्बोधिं अभिसम्बुज्झित्वा सकलबाराणसिनगरे गगनतले पुण्णचन्दो विय पाकटो लाभग्गयसग्गप्पत्तो अहोसि, सो अप्पायुकसंवत्तनिकस्स कम्मस्स कतत्ता न चिरस्सेव परिनिब्बायि। अथस्स पच्‍चेकबुद्धा च महाजनो च सरीरकिच्‍चं कत्वा धातुयो च गहेत्वा नगरद्वारे थूपं कारेसुं।</p>

<p rend="bodytext">सङ्खोपि ब्राह्मणो ‘‘पुत्तो मे चिरं गतो, पवत्तिमस्स जानिस्सामी’’ति तं दट्ठुकामो तक्‍कसिलातो निक्खमित्वा अनुपुब्बेन बाराणसिं पत्वा महाजनकायं सन्‍निपतितं दिस्वा ‘‘अद्धा इमेसु एकोपि मे पुत्तस्स पवत्तिं जानिस्सती’’ति उपसङ्कमित्वा पुच्छि – ‘‘सुसीमो नाम माणवो इधागमि, अपि नु खो तस्स पवत्तिं जानाथा’’ति? ‘‘आम, ब्राह्मण, जानाम, असुकस्स ब्राह्मणस्स सन्तिके तयो वेदे सज्झायित्वा पब्बजित्वा पच्‍चेकसम्बोधिं सच्छिकत्वा परिनिब्बुतो, अयमस्स थूपो पतिट्ठापितो’’ति। सो भूमिं हत्थेन पहरित्वा रोदित्वा कन्दित्वा <pb ed="P" n="3.0448"/> तं चेतियङ्गणं गन्त्वा तिणानि उद्धरित्वा उत्तरसाटकेन वालुकं आहरित्वा चेतियङ्गणे आकिरित्वा कमण्डलुतो उदकेन परिप्फोसित्वा वनपुप्फेहि पूजं कत्वा साटकेन पटाकं आरोपेत्वा थूपस्स उपरि अत्तनो छत्तकं बन्धित्वा पक्‍कामि।</p>

<p rend="bodytext">सत्था इदं अतीतं आहरित्वा ‘‘तदा, भिक्खवे, अहं सङ्खो ब्राह्मणो अहोसिं। मया सुसीमस्स पच्‍चेकबुद्धस्स चेतियङ्गणे तिणानि उद्धटानि, तस्स मे कम्मस्स निस्सन्देन अट्ठयोजनमग्गं विहतखाणुककण्टकं कत्वा सुद्धं समतलं करिंसु। मया तत्थ वालुका ओकिण्णा, तस्स मे निस्सन्देन अट्ठयोजनमग्गे वालुकं ओकिरिंसु। मया तत्थ वनकुसुमेहि पूजा कता, तस्स मे निस्सन्देन अट्ठयोजनमग्गे नानावण्णानि पुप्फानि ओकिण्णानि, एकयोजनट्ठाने गङ्गाय उदकं पञ्‍चवण्णेहि पदुमेहि सञ्छन्‍नं। मया तत्थ कमण्डलुउदकेन भूमि परिप्फोसिता, तस्स मे निस्सन्देन वेसालियं पोक्खरवस्सं वस्सि। मया तत्थ पटाका, आरोपिता, छत्तकञ्‍च बद्धं, तस्स मे निस्सन्देन याव अकनिट्ठभवना धजपटाकछत्तातिछत्तादीहि सकलचक्‍कवाळगब्भं एकुस्सवं विय <pb ed="M" n="2.0280"/> जातं। इति खो, भिक्खवे, एस पूजासक्‍कारो मय्हं नेव बुद्धानुभावेन निब्बत्तो, न नागदेवब्रह्मानुभावेन, अतीते पन अप्पमत्तकपरिच्‍चागानुभावेना’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –</p>

<p rend="hangnum" n="290"><hi rend="paranum">२९०</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘मत्तासुखपरिच्‍चागा <pb ed="V" n="2.0256"/> <pb ed="P" n="3.0449"/>, पस्से चे विपुलं सुखं।</p>

<p rend="gathalast">चजे मत्तासुखं धीरो, सम्पस्सं विपुलं सुख’’न्ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">मत्तासुखपरिच्‍चागा</hi>ति <hi rend="bold">मत्तासुख</hi>न्ति पमाणयुत्तकं परित्तसुखं वुच्‍चति, तस्स परिच्‍चागेन। <hi rend="bold">विपुलं सुख</hi>न्ति उळारं सुखं निब्बानसुखं वुच्‍चति, तं चे पस्सेय्याति अत्थो। इदं वुत्तं होति – एकञ्हि भोजनपातिं सज्‍जापेत्वा भुञ्‍जन्तस्स मत्तासुखं नाम उप्पज्‍जति, तं पन परिच्‍चजित्वा उपोसथं वा करोन्तस्स दानं वा ददन्तस्स विपुलं उळारं निब्बानसुखं नाम निब्बत्तति। तस्मा सचे एवं तस्स मत्तासुखस्स परिच्‍चागा विपुलं सुखं पस्सति, अथेतं विपुलं सुखं सम्मा पस्सन्तो पण्डितो तं मत्तासुखं चजेय्याति।</p>

<p rend="bodytext">देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।</p>

<p rend="centre">अत्तनोपुब्बकम्मवत्थु पठमं।</p>

<p rend="subhead">२. कुक्‍कुटअण्डखादिकावत्थु</p>

<p rend="bodytext"><hi rend="bold">परदुक्खूपधानेना</hi>ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं कुक्‍कुटअण्डखादिकं आरब्भ कथेसि।</p>

<p rend="bodytext">सावत्थिया किर अविदूरे पण्डुरं नाम एको गामो, तत्थेको केवट्टो वसति। सो सावत्थिं गच्छन्तो अचिरवतियं कच्छपअण्डानि दिस्वा तानि आदाय सावत्थिं गन्त्वा एकस्मिं गेहे पचापेत्वा खादन्तो तस्मिं गेहे कुमारिकायपि <pb ed="P" n="3.0450"/> एकं अण्डं अदासि। सा तं खादित्वा ततो पट्ठाय अञ्‍ञं खादनीयं नाम न इच्छि। अथस्सा माता कुक्‍कुटिया विजातट्ठानतो एकं अण्डं गहेत्वा अदासि। सा तं खादित्वा रसतण्हाय बद्धा ततो पट्ठाय सयमेव कुक्‍कुटिया अण्डानि गहेत्वा खादति। कुक्‍कुटी विजातविजातकाले तं अत्तनो अण्डानि गहेत्वा <pb ed="M" n="2.0281"/> खादन्तिं दिस्वा ताय उपद्दुता आघातं बन्धित्वा ‘‘इतो दानि चुता यक्खिनी हुत्वा तव जातदारके खादितुं समत्था हुत्वा निब्बत्तेय्य’’न्ति पत्थनं पट्ठपेत्वा कालं कत्वा तस्मिंयेव गेहे मज्‍जारी हुत्वा निब्बत्ति। इतरापि कालं कत्वा तत्थेव कुक्‍कुटी हुत्वा निब्बत्ति। कुक्‍कुटी अण्डानि विजायि, मज्‍जारी आगन्त्वा तानि खादित्वा दुतियम्पि ततियम्पि खादियेव। कुक्‍कुटी ‘‘तयो वारे मम अण्डानि खादित्वा इदानि मम्पि खादितुकामासि <pb ed="V" n="2.0257"/>, इतो चुता सपुत्तकं तं खादितुं लभेय्य’’न्ति पत्थनं कत्वा ततो चुता दीपिनी हुत्वा निब्बत्ति। इतरापि कालं कत्वा मिगी हुत्वा निब्बत्ति। तस्सा विजातकाले दीपिनी आगन्त्वा तं सद्धिं पुत्तेहि खादि। एवं खादन्ता पञ्‍चसु अत्तभावसतेसु अञ्‍ञमञ्‍ञस्स दुक्खं उप्पादेत्वा अवसाने एका यक्खिनी हुत्वा निब्बत्ति, एका सावत्थियं कुलधीता हुत्वा निब्बत्ति। इतो परं ‘‘न हि वेरेन वेरानी’’ति (ध॰ प॰ ५) गाथाय वुत्तनयेनेव वेदितब्बं। इध पन सत्था ‘‘वेरञ्हि अवेरेन उपसम्मति, नो वेरेना’’ति वत्वा उभिन्‍नम्पि धम्मं देसेन्तो इमं गाथमाह –</p>

<p rend="hangnum" n="291"><hi rend="paranum">२९१</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘परदुक्खूपधानेन, अत्तनो सुखमिच्छति।</p>

<p rend="gathalast">वेरसंसग्गसंसट्ठो, वेरा सो न परिमुच्‍चती’’ति॥</p>

<p rend="bodytext">तत्थ <pb ed="P" n="3.0451"/> <hi rend="bold">परदुक्खूपधानेना</hi>ति परस्मिं दुक्खूपधानेन, परस्स दुक्खुप्पादनेनाति अत्थो। <hi rend="bold">वेरसंसग्गसंसट्ठो</hi>ति यो पुग्गलो अक्‍कोसनपच्‍चक्‍कोसनपहरणपटिहरणादीनं वसेन अञ्‍ञमञ्‍ञं कतेन वेरसंसग्गेन संसट्ठो। <hi rend="bold">वेरा सो न परिमुच्‍चती</hi>ति निच्‍चकालं वेरवसेन दुक्खमेव पापुणातीति अत्थो।</p>

<p rend="bodytext">देसनावसाने यक्खिनी सरणेसु पतिट्ठाय पञ्‍च सीलानि समादियित्वा वेरतो मुच्‍चि, इतरापि सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति।</p>

<p rend="centre">कुक्‍कुटअण्डखादिकावत्थु दुतियं।</p>

<p rend="subhead">३. भद्दियभिक्खुवत्थु</p>

<p rend="bodytext"><hi rend="bold">यञ्हि</hi> <pb ed="M" n="2.0282"/> <hi rend="bold">किच्‍च</hi>न्ति इमं धम्मदेसनं सत्था भद्दियं निस्साय जातियावने विहरन्तो भद्दिये भिक्खू आरब्भ कथेसि।</p>

<p rend="bodytext">ते किर पादुकमण्डने उय्युत्ता अहेसुं। यथाह – ‘‘तेन खो पन समयेन भद्दिया भिक्खू अनेकविहितं पादुकमण्डनानुयोगमनुयुत्ता विहरन्ति, तिणपादुकं करोन्तिपि कारापेन्तिपि, मुञ्‍जपादुकं करोन्तिपि कारापेन्तिपि, पब्बजपादुकं हिन्तालपादुकं कमलपादुकं कम्बलपादुकं करोन्तिपि कारापेन्तिपि, रिञ्‍चन्ति उद्देसं परिपुच्छं अधिसीलं अधिचित्तं अधिपञ्‍ञ’’न्ति <pb ed="V" n="2.0258"/> (महाव॰ २५१)। भिक्खू तेसं तथाकरणभावं जानित्वा उज्झायित्वा <pb ed="P" n="3.0452"/> सत्थु आरोचेसुं। सत्था ते भिक्खू गरहित्वा, ‘‘भिक्खवे, तुम्हे अञ्‍ञेन किच्‍चेन आगता अञ्‍ञस्मिंयेव किच्‍चे उय्युत्ता’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –</p>

<p rend="hangnum" n="292"><hi rend="paranum">२९२</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘यञ्हि किच्‍चं अपविद्धं, अकिच्‍चं पन करीयति।</p>

<p rend="gathalast">उन्‍नळानं पमत्तानं, तेसं वड्ढन्ति आसवा॥</p>

<p rend="hangnum" n="293"><hi rend="paranum">२९३</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘येसञ्‍च सुसमारद्धा, निच्‍चं कायगता सति।</p>

<p rend="gatha2">अकिच्‍चं ते न सेवन्ति, किच्‍चे सातच्‍चकारिनो।</p>

<p rend="gathalast">सतानं सम्पजानानं, अत्थं गच्छन्ति आसवा’’ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">यञ्हि किच्‍च</hi>न्ति भिक्खुनो हि पब्बजितकालतो पट्ठाय अपरिमाणसीलक्खन्धगोपनं अरञ्‍ञावासो धुतङ्गपरिहरणं भावनारामताति एवमादीनि किच्‍चं नाम। इमेहि पन यं अत्तनो किच्‍चं, तं अपविद्धं छड्डितं। <hi rend="bold">अकिच्‍च</hi>न्ति भिक्खुनो छत्तमण्डनं उपाहनमण्डनं पादुकपत्तथालकधम्मकरणकायबन्धनअंसबद्धकमण्डनं अकिच्‍चं नाम। येहि तं कयिरति, तेसं माननळं उक्खिपित्वा चरणेन उन्‍नळानं सतिवोस्सग्गेन पमत्तानं चत्तारो आसवा वड्ढन्तीति अत्थो। <hi rend="bold">सुसमारद्धा</hi>ति सुपग्गहिता। <hi rend="bold">कायगता सती</hi>ति कायानुपस्सनाभावना। <hi rend="bold">अकिच्‍च</hi>न्ति ते एतं छत्तमण्डनादिकं अकिच्‍चं न सेवन्ति न करोन्तीति अत्थो। <hi rend="bold">किच्‍चे</hi>ति पब्बजितकालतो पट्ठाय कत्तब्बे अपरिमाणसीलक्खन्धगोपनादिके करणीये। <hi rend="bold">सातच्‍चकारिनो</hi>ति सततकारिनो अट्ठितकारिनो। तेसं सतिया अविप्पवासेन सतानं <pb ed="P" n="3.0453"/> सात्थकसम्पजञ्‍ञं <pb ed="M" n="2.0283"/> सप्पायसम्पजञ्‍ञं गोचरसम्पजञ्‍ञं असम्मोहसम्पजञ्‍ञन्ति चतूहि सम्पजञ्‍ञेहि सम्पजानानं चत्तारोपि आसवा अत्थं गच्छन्ति, परिक्खयं अभावं गच्छन्तीति अत्थो।</p>

<p rend="bodytext">देसनावसाने ते भिक्खू अरहत्ते पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति।</p>

<p rend="centre">भद्दियवत्थु ततियं।</p>

<p rend="subhead">४. लकुण्डकभद्दियत्थेरवत्थु</p>

<p rend="bodytext"><hi rend="bold">मातर</hi>न्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो लकुण्डकभद्दियत्थेरं आरब्भ कथेसि।</p>

<p rend="bodytext">एकदिवसञ्हि <pb ed="V" n="2.0259"/> सम्बहुला आगन्तुका भिक्खू सत्थारं दिवाट्ठाने निसिन्‍नं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदिंसु। तस्मिं खणे लकुण्डकभद्दियत्थेरो भगवतो अविदूरे अतिक्‍कमति। सत्था तेसं भिक्खूनं चित्ताचारं ञत्वा ओलोकेत्वा ‘‘पस्सथ, भिक्खवे, अयं भिक्खु मातापितरो हन्त्वा निद्दुक्खो हुत्वा याती’’ति वत्वा तेहि भिक्खूहि ‘‘किं नु खो सत्था वदती’’ति अञ्‍ञमञ्‍ञं मुखानि ओलोकेत्वा संसयपक्खन्देहि, ‘‘भन्ते, किं नामेतं वदेथा’’ति वुत्ते तेसं धम्मं देसेन्तो इमं गाथमाह –</p>

<p rend="hangnum" n="294"><hi rend="paranum">२९४</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘मातरं पितरं हन्त्वा, राजानो द्वे च खत्तिये।</p>

<p rend="gathalast">रट्ठं सानुचरं हन्त्वा, अनीघो याति ब्राह्मणो’’ति॥</p>

<p rend="bodytext">तत्थ <pb ed="P" n="3.0454"/> <hi rend="bold">सानुचर</hi>न्ति आयसाधकेन आयुत्तकेन सहितं। एत्थ हि ‘‘तण्हा जनेति पुरिस’’न्ति (सं॰ नि॰ १.५५-५७) वचनतो तीसु भवेसु सत्तानं जननतो तण्हा माता नाम। ‘‘अहं असुकस्स नाम रञ्‍ञो वा राजमहामत्तस्स वा पुत्तो’’ति पितरं निस्साय अस्मिमानस्स उप्पज्‍जनतो अस्मिमानो पिता नाम। लोको विय राजानं यस्मा सब्बदिट्ठिगतानि द्वे सस्सतुच्छेददिट्ठियो भजन्ति, तस्मा द्वे सस्सतुच्छेददिट्ठियो द्वे खत्तियराजानो नाम। द्वादसायतनानि वित्थतट्ठेन रट्ठदिसत्ता रट्ठं नाम। आयसाधको <pb ed="M" n="2.0284"/> आयुत्तकपुरिसो विय तन्‍निस्सितो नन्दिरागो अनुचरो नाम। <hi rend="bold">अनीघो</hi>ति निद्दुक्खो। <hi rend="bold">ब्राह्मणो</hi>ति खीणासवो। एतेसं तण्हादीनं अरहत्तमग्गञाणासिना हतत्ता खीणासवो निद्दुक्खो हुत्वा यातीति अयमेत्थत्थो।</p>

<p rend="bodytext">देसनावसाने ते भिक्खू अरहत्ते पतिट्ठहिंसु।</p>

<p rend="bodytext">दुतियगाथायपि वत्थु पुरिमसदिसमेव। तदा हि सत्था लकुण्डकभद्दियत्थेरमेव आरब्भ कथेसि। तेसं धम्मं देसेन्तो इमं गाथमाह –</p>

<p rend="hangnum" n="295"><hi rend="paranum">२९५</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘मातरं पितरं हन्त्वा, राजानो द्वे च सोत्थिये।</p>

<p rend="gathalast">वेयग्घपञ्‍चमं हन्त्वा, अनीघो याति ब्राह्मणो’’ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">द्वे च सोत्थिये</hi>ति द्वे च ब्राह्मणे। इमिस्सा गाथाय सत्था अत्तनो धम्मिस्सरताय च देसनाविधिकुसलताय च सस्सतुच्छेददिट्ठियो द्वे ब्राह्मणराजानो <pb ed="P" n="3.0455"/> च कत्वा कथेसि। <hi rend="bold">वेयग्घपञ्‍चम</hi>न्ति एत्थ ब्यग्घानुचरितो सप्पटिभयो दुप्पटिपन्‍नो मग्गो वेयग्घो नाम, विचिकिच्छानीवरणम्पि <pb ed="V" n="2.0260"/> तेन सदिसताय वेयग्घं नाम, तं पञ्‍चमं अस्साति नीवरणपञ्‍चकं वेयग्घपञ्‍चमं नाम। इदञ्‍च वेयग्घपञ्‍चमं अरहत्तमग्गञाणासिना निस्सेसं हन्त्वा अनीघोव याति ब्राह्मणोति अयमेत्थत्थो। सेसं पुरिमसदिसमेवाति।</p>

<p rend="centre">लकुण्डकभद्दियत्थेरवत्थु चतुत्थं।</p>

<p rend="subhead">५. दारुसाकटिकपुत्तवत्थु</p>

<p rend="bodytext"><hi rend="bold">सुप्पबुद्ध</hi>न्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो दारुसाकटिकस्स पुत्तं आरब्भ कथेसि।</p>

<p rend="bodytext">राजगहस्मिञ्हि सम्मादिट्ठिकपुत्तो मिच्छादिट्ठिकपुत्तोति द्वे दारका अभिक्खणं गुळकीळं कीळन्ति। तेसु सम्मादिट्ठिकपुत्तो गुळं खिपमानो बुद्धानुस्सतिं आवज्‍जेत्वा ‘‘नमो बुद्धस्सा’’ति वत्वा वत्वा गुळं खिपति। इतरो तित्थियगुणे उद्दिसित्वा ‘‘नमो अरहन्तान’’न्ति वत्वा वत्वा खिपति। तेसु सम्मादिट्ठिकस्स <pb ed="M" n="2.0285"/> पुत्तो जिनाति, इतरो पन पराजयति। सो तस्स किरियं दिस्वा ‘‘अयं <pb ed="P" n="3.0456"/> एवं अनुस्सरित्वा एवं वत्वा गुळं खिपन्तो ममं जिनाति, अहम्पि एवरूपं करिस्सामी’’ति बुद्धानुस्सतियं परिचयमकासि। अथेकदिवसं तस्स पिता सकटं योजेत्वा दारूनं अत्थाय गच्छन्तो तम्पि दारकं आदाय गन्त्वा अटवियं दारूनं सकटं पूरेत्वा आगच्छन्तो बहिनगरे सुसानसामन्ते उदकफासुकट्ठाने गोणे मोचेत्वा भत्तविस्सग्गमकासि। अथस्स ते गोणा सायन्हसमये नगरं पविसन्तेन गोगणेन सद्धिं नगरमेव पविसिंसु। साकटिकोपि गोणे अनुबन्धन्तो नगरं पविसित्वा सायं गोणे दिस्वा आदाय निक्खमन्तो द्वारं न सम्पापुणि। तस्मिञ्हि असम्पत्तेयेव द्वारं पिहितं।</p>

<p rend="bodytext">अथस्स पुत्तो एककोव रत्तिभागे सकटस्स हेट्ठा निपज्‍जित्वा निद्दं ओक्‍कमि। राजगहं पन पकतियापि अमनुस्सबहुलं। अयञ्‍च सुसानसन्तिके निपन्‍नो। तत्थ नं द्वे अमनुस्सा पस्सिंसु। एको सासनस्स पटिकण्डको मिच्छादिट्ठिको, एको सम्मादिट्ठिको। तेसु मिच्छादिट्ठिको आह – ‘‘अयं नो भक्खो, इमं खादिस्सामा’’ति। इतरो ‘‘अलं मा ते रुच्‍ची’’ति निवारेति। सो तेन निवारियमानोपि तस्स वचनं अनादियित्वा दारकं पादेसु गहेत्वा आकड्ढि। सो बुद्धानुस्सतिया परिचितत्ता <pb ed="P" n="3.0457"/> तस्मिं खणे ‘‘नमो बुद्धस्सा’’ति आह। अमनुस्सो <pb ed="V" n="2.0261"/> महाभयभीतो पटिक्‍कमित्वा अट्ठासि। अथ नं इतरो ‘‘अम्हेहि अकिच्‍चं कतं, दण्डकम्मं तस्स करोमा’’ति वत्वा तं रक्खमानो अट्ठासि। मिच्छादिट्ठिको नगरं पविसित्वा रञ्‍ञो भोजनपातिं पूरेत्वा भोजनं आहरि। अथ नं उभोपि तस्स मातापितरो विय हुत्वा उपट्ठापेत्वा भोजेत्वा ‘‘इमानि अक्खरानि राजाव पस्सतु, मा अञ्‍ञो’’ति तं पवत्तिं पकासेन्ता यक्खानुभावेन भोजनपातियं अक्खरानि छिन्दित्वा पातिं दारुसकटे पक्खिपित्वा सब्बरत्तिं आरक्खं कत्वा पक्‍कमिंसु।</p>

<p rend="bodytext">पुनदिवसे ‘‘राजकुलतो चोरेहि भोजनभण्डं अवहट’’न्ति कोलाहलं करोन्ता द्वारानि पिदहित्वा ओलोकेन्ता तत्थ अपस्सन्ता नगरा निक्खमित्वा इतो चितो च ओलोकेन्ता दारुसकटे सुवण्णपातिं दिस्वा ‘‘अयं चोरो’’ति तं दारकं गहेत्वा रञ्‍ञो दस्सेसुं। राजा अक्खरानि दिस्वा ‘‘किं एतं, ताता’’ति पुच्छित्वा ‘‘नाहं <pb ed="M" n="2.0286"/>, देव, जानामि, मातापितरो मे आगन्त्वा रत्तिं भोजेत्वा रक्खमाना अट्ठंसु, अहम्पि मातापितरो मं रक्खन्तीति निब्भयोव निद्दं उपगतो। एत्तकं अहं जानामी’’ति। अथस्स मातापितरोपि तं ठानं आगमंसु। राजा तं पवत्तिं ञत्वा ते तयोपि जने आदाय <pb ed="P" n="3.0458"/> सत्थु सन्तिकं गन्त्वा सब्बं आरोचेत्वा ‘‘किं नु खो, भन्ते, बुद्धानुस्सति एव रक्खा होति, उदाहु धम्मानुस्सतिआदयोपी’’ति पुच्छि। अथस्स सत्था, ‘‘महाराज, न केवलं बुद्धानुस्सतियेव रक्खा, येसं पन छब्बिधेन चित्तं सुभावितं, तेसं अञ्‍ञेन रक्खावरणेन वा मन्तोसधेहि वा किच्‍चं नत्थी’’ति वत्वा छ ठानानि दस्सेन्तो इमा गाथा अभासि।</p>

<p rend="hangnum" n="296"><hi rend="paranum">२९६</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।</p>

<p rend="gathalast">येसं दिवा च रत्तो च, निच्‍चं बुद्धगता सति॥</p>

<p rend="hangnum" n="297"><hi rend="paranum">२९७</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।</p>

<p rend="gathalast">येसं दिवा च रत्तो च, निच्‍चं धम्मगता सति॥</p>

<p rend="hangnum" n="298"><hi rend="paranum">२९८</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।</p>

<p rend="gathalast">येसं दिवा च रत्तो च, निच्‍चं सङ्घगता सति॥</p>

<p rend="hangnum" n="299"><hi rend="paranum">२९९</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।</p>

<p rend="gathalast">येसं दिवा च रत्तो च, निच्‍चं कायगता सति॥</p>

<p rend="hangnum" n="300"><hi rend="paranum">३००</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘सुप्पबुद्धं <pb ed="V" n="2.0262"/> पबुज्झन्ति, सदा गोतमसावका।</p>

<p rend="gathalast">येसं दिवा च रत्तो च, अहिंसाय रतो मनो॥</p>

<p rend="hangnum" n="301"><hi rend="paranum">३०१</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका।</p>

<p rend="gathalast">येसं दिवा च रत्तो च, भावनाय रतो मनो’’ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">सुप्पबुद्धं पबुज्झन्ती</hi>ति बुद्धगतं सतिं गहेत्वा सुपन्ता, गहेत्वायेव च पबुज्झन्ता सुप्पबुद्धं पबुज्झन्ति नाम। <hi rend="bold">सदा गोतमसावका</hi>ति गोतमगोत्तस्स बुद्धस्स सवनन्ते जातत्ता तस्सेव <pb ed="P" n="3.0459"/> अनुसासनिया सवनताय गोतमसावका। <hi rend="bold">बुद्धगता सती</hi>ति येसं ‘‘इतिपि सो भगवा’’तिआदिप्पभेदे बुद्धगुणे आरब्भ उप्पज्‍जमाना सति निच्‍चकालं अत्थि, ते सदापि सुप्पबुद्धं पबुज्झन्तीति अत्थो। तथा असक्‍कोन्ता पन एकदिवसं <pb ed="M" n="2.0287"/> तीसु कालेसु द्वीसु कालेसु एकस्मिम्पि काले बुद्धानुस्सतिं मनसि करोन्ता सुप्पबुद्धं पबुज्झन्तियेव नाम। <hi rend="bold">धम्मगता सती</hi>ति ‘‘स्वाखातो भगवता धम्मो’’तिआदिप्पभेदे धम्मगुणे आरब्भ उप्पज्‍जमाना सति। <hi rend="bold">सङ्घगता सती</hi>ति ‘‘सुप्पटिपन्‍नो भगवतो सावकसङ्घो’’तिआदिप्पभेदे सङ्घगुणे आरब्भ उप्पज्‍जमाना सति। <hi rend="bold">कायगता सती</hi>ति द्वत्तिंसाकारवसेन वा नवसिवथिकावसेन वा चतुधातुववत्थानवसेन वा अज्झत्तनीलकसिणादिरूपज्झानवसेन वा उप्पज्‍जमाना सति। <hi rend="bold">अहिंसाय रतो</hi>ति ‘‘सो करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (विभ॰ ६४२) एवं वुत्ताय करुणाभावनाय रतो। <hi rend="bold">भावनाया</hi>ति मेत्ताभावनाय। किञ्‍चापि हेट्ठा करुणाभावनाय वुत्तत्ता इध सब्बापि अवसेसा भावना नाम, इध पन मेत्ताभावनाव अधिप्पेता। सेसं पठमगाथाय वुत्तनयेनेव वेदितब्बं।</p>

<p rend="bodytext">देसनावसाने दारको सद्धिं मातापितूहि सोतापत्तिफले <pb ed="P" n="3.0460"/> पतिट्ठहि। पच्छा पन पब्बजित्वा सब्बेपि अरहत्तं पापुणिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति।</p>

<p rend="centre">दारुसाकटिकपुत्तवत्थु पञ्‍चमं।</p>

<p rend="subhead">६. वज्‍जिपुत्तकभिक्खुवत्थु</p>

<p rend="bodytext"><hi rend="bold">दुप्पब्बज्‍ज</hi>न्ति इमं धम्मदेसनं सत्था वेसालिं निस्साय महावने विहरन्तो अञ्‍ञतरं वज्‍जिपुत्तकं भिक्खुं आरब्भ कथेसि। तं सन्धाय वुत्तं – अञ्‍ञतरो वज्‍जिपुत्तको भिक्खु वेसालियं <pb ed="V" n="2.0263"/> विहरति अञ्‍ञतरस्मिं वनसण्डे, तेन खो पन समयेन वेसालियं सब्बरत्तिछणो होति। अथ खो सो भिक्खु वेसालिया तूरियताळितवादितनिग्घोससद्दं सुत्वा परिदेवमानो तायं वेलायं इमं गाथं अभासि –</p>

<p rend="gatha1">‘‘एकका मयं अरञ्‍ञे विहराम,</p>

<p rend="gatha2">अपविद्धंव वनस्मिं दारुकं।</p>

<p rend="gatha3">एतादिसिकाय रत्तिया,</p>

<p rend="gathalast">कोसु नामम्हेहि पापियो’’ति॥ (सं॰ नि॰ १.२२९)।</p>

<p rend="bodytext">सो <pb ed="M" n="2.0288"/> किर वज्‍जिरट्ठे राजपुत्तो वारेन सम्पत्तं रज्‍जं पहाय पब्बजितो वेसालियं चातुमहाराजिकेहि सद्धिं एकाबद्धं <pb ed="P" n="3.0461"/> कत्वा सकलनगरे धजपटाकादीहि पटिमण्डिते कोमुदिया पुण्णमाय सब्बरत्तिं छणवारे वत्तमाने भेरियादीनं तूरियानं ताळितानं निग्घोसं वीणादीनञ्‍च वादितानं सद्दं सुत्वा यानि वेसालियं सत्त राजसहस्सानि सत्त राजसतानि सत्त राजानो, तत्तका एव च नेसं उपराजसेनापतिआदयो, तेसु अलङ्कतपटियत्तेसु नक्खत्तकीळनत्थाय वीथिं ओतिण्णेसु सट्ठिहत्थे महाचङ्कमे चङ्कममानो गगनमज्झे ठितं पुण्णचन्दं दिस्वा चङ्कमकोटियं फलकं निस्साय ठितो वेठनालङ्कारविरहितत्ता वने छड्डितदारुकं विय अत्तभावं ओलोकेत्वा ‘‘अत्थि नु खो अञ्‍ञो अम्हेहि लामकतरो’’ति चिन्तेन्तो पकतिया आरञ्‍ञकादिगुणयुत्तोपि तस्मिं खणे अनभिरतिया पीळितो एवमाह। सो तस्मिं वनसण्डे अधिवत्थाय देवताय ‘‘इमं भिक्खुं संवेजेस्सामी’’ति अधिप्पायेन –</p>

<p rend="gatha1">‘‘एककोव त्वं अरञ्‍ञे विहरसि, अपविद्धंव वनस्मिं दारुकं।</p>

<p rend="gathalast">तस्स ते बहुका पिहयन्ति, नेरयिका विय सग्गगामिन’’न्ति॥ (सं॰ नि॰ १.२२९) –</p>

<p rend="unindented">वुत्तं इमं गाथं सुत्वा पुनदिवसे सत्थारं उपसङ्कमित्वा वन्दित्वा निसीदि। सत्था तं पवत्तिं ञत्वा घरावासस्स <pb ed="P" n="3.0462"/> दुक्खतं पकासेतुकामो पञ्‍च दुक्खानि समोधानेत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="302"><hi rend="paranum">३०२</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘दुप्पब्बज्‍जं दुरभिरमं, दुरावासा घरा दुखा।</p>

<p rend="gatha2">दुक्खोसमानसंवासो, दुक्खानुपतितद्धगू।</p>

<p rend="gathalast">तस्मा न चद्धगू सिया, न च दुक्खानुपतितो सिया’’ति॥</p>

<p rend="bodytext">तत्थ <pb ed="V" n="2.0264"/> <hi rend="bold">दुप्पब्बज्‍ज</hi>न्ति अप्पं वा महन्तं वा भोगक्खन्धञ्‍चेव ञातिपरिवट्टञ्‍च पहाय इमस्मिं सासने उरं दत्वा पब्बज्‍जं नाम दुक्खं। <hi rend="bold">दुरभिरम</hi>न्ति एवं पब्बजितेनापि भिक्खाचरियाय जीवितवुत्तिं घटेन्तेन अपरिमाणसीलक्खन्धगोपनधम्मानुधम्मप्पटिपत्तिपूरणवसेन अभिरमितुं दुक्खं। <hi rend="bold">दुरावासा</hi>ति यस्मा पन घरं आवसन्तेन राजूनं राजकिच्‍चं, इस्सरानं इस्सरकिच्‍चं वहितब्बं, परिजना चेव धम्मिका समणब्राह्मणा च सङ्गहितब्बा। एवं सन्तेपि घरावासो छिद्दघटो विय महासमुद्दो विय च दुप्पूरो। तस्मा घरावासा <pb ed="M" n="2.0289"/> नामेते दुरावासा दुक्खा आवसितुं, तेनेव कारणेन दुक्खाति अत्थो। <hi rend="bold">दुक्खो समानसंवासो</hi>ति गिहिनो वा हि ये जातिगोत्तकुलभोगेहि <pb ed="P" n="3.0463"/> पब्बजिता वा सीलाचारबाहुसच्‍चादीहि समानापि हुत्वा ‘‘कोसि त्वं, कोस्मि अह’’न्तिआदीनि वत्वा अधिकरणपसुता होन्ति, ते असमाना नाम, तेहि सद्धिं संवासो दुक्खोति अत्थो। <hi rend="bold">दुक्खानुपतितद्धगू</hi>ति ये वट्टसङ्खातं अद्धानं पटिपन्‍नत्ता अद्धगू, ते दुक्खे अनुपतिताव। <hi rend="bold">तस्मा न चद्धगू</hi>ति यस्मा दुक्खानुपतितभावोपि दुक्खो अद्धगूभावोपि, तस्मा वट्टसङ्खातं अद्धानं गमनताय अद्धगू न भवेय्य, वुत्तप्पकारेन दुक्खेन अनुपतितोपि न भवेय्याति अत्थो।</p>

<p rend="bodytext">देसनावसाने सो भिक्खु पञ्‍चसु ठानेसु दस्सिते दुक्खे निब्बिन्दन्तो पञ्‍चोरम्भागियानि पञ्‍च उद्धम्भागियानि संयोजनानि पदालेत्वा अरहत्ते पतिट्ठहीति।</p>

<p rend="centre">वज्‍जिपुत्तकभिक्खुवत्थु छट्ठं।</p>

<p rend="subhead">७. चित्तगहपतिवत्थु</p>

<p rend="bodytext"><hi rend="bold">सद्धो</hi>ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो चित्तगहपतिं आरब्भ कथेसि। वत्थु बालवग्गे ‘‘असन्तं भावनमिच्छेय्या’’ति <pb ed="P" n="3.0464"/> गाथावण्णनाय वित्थारितं। गाथापि तत्थेव वुत्ता। वुत्तञ्हेतं तत्थ (ध॰ प॰ अट्ठ॰ १.७४) –</p>

<p rend="bodytext">‘‘किं पन, भन्ते, एतस्स तुम्हाकं सन्तिकं आगच्छन्तस्सेवायं लाभसक्‍कारो उप्पज्‍जति, उदाहु अञ्‍ञत्थ गच्छन्तस्सापि उप्पज्‍जती’’ति। ‘‘आनन्द, मम सन्तिकं आगच्छन्तस्सापि अञ्‍ञत्थ गच्छन्तस्सापि तस्स उप्पज्‍जतेव। अयञ्हि उपासको सद्धो पसन्‍नो सम्पन्‍नसीलो, एवरूपो पुग्गलो यं यं पदेसं भजति, तत्थ तत्थेवस्स लाभसक्‍कारो निब्बत्तती’’ति वत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="303"><hi rend="paranum">३०३</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘सद्धो <pb ed="V" n="2.0265"/> सीलेन सम्पन्‍नो, यसोभोगसमप्पितो।</p>

<p rend="gathalast">यं यं पदेसं भजति, तत्थ तत्थेव पूजितो’’ति॥ (ध॰ प॰ अट्ठ॰ १.७४)।</p>

<p rend="bodytext">तत्थ <pb ed="M" n="2.0290"/> <hi rend="bold">सद्धो</hi>ति लोकियलोकुत्तरसद्धाय समन्‍नागतो। <hi rend="bold">सीलेना</hi>ति आगारियसीलं, अनागारियसीलन्ति दुविधं सीलं। तेसु इध आगारियसीलं अधिप्पेतं, तेन समन्‍नागतोति अत्थो। <hi rend="bold">यसोभोगसमप्पितो</hi>ति यादिसो अनाथपिण्डिकादीनं पञ्‍चउपासकसतपरिवारसङ्खातो आगारिययसो, तादिसेनेव यसेन धनधञ्‍ञादिको चेव सत्तविधअरियधनसङ्खातो चाति दुविधो भोगो, तेन समन्‍नागतोति अत्थो। <hi rend="bold">यं यं पदेस</hi>न्ति पुरत्थिमादीसु <pb ed="P" n="3.0465"/> दिसासु एवरूपो कुलपुत्तो यं यं पदेसं भजति, तत्थ तत्थ एवरूपेन लाभसक्‍कारेन पूजितोव होतीति अत्थो।</p>

<p rend="bodytext">देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।</p>

<p rend="centre">चित्तगहपतिवत्थु सत्तमं।</p>

<p rend="subhead">८. चूळसुभद्दावत्थु</p>

<p rend="bodytext"><hi rend="bold">दूरे सन्तो</hi>ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अनाथपिण्डिकस्स धीतरं चूळसुभद्दं नाम आरब्भ कथेसि।</p>

<p rend="bodytext">अनाथपिण्डिकस्स किर दहरकालतो पट्ठाय उग्गनगरवासी उग्गो नाम सेट्ठिपुत्तो सहायको अहोसि। ते एकाचरियकुले सिप्पं उग्गण्हन्ता अञ्‍ञमञ्‍ञं कतिकं करिंसु ‘‘अम्हाकं वयप्पत्तकाले पुत्तधीतासु जातासु यो पुत्तस्स धीतरं वारेति, तेन तस्स धीता दातब्बा’’ति। ते उभोपि वयप्पत्ता अत्तनो अत्तनो नगरे सेट्ठिट्ठाने पतिट्ठहिंसु। अथेकस्मिं समये उग्गसेट्ठि वणिज्‍जं पयोजेन्तो पञ्‍चहि सकटसतेहि सावत्थिं अगमासि। अनाथपिण्डिको अत्तनो धीतरं चूळसुभद्दं आमन्तेत्वा, ‘‘अम्म, पिता ते उग्गसेट्ठि नाम आगतो, तस्स कत्तब्बकिच्‍चं सब्बं तव भारो’’ति आणापेसि। सा ‘‘साधू’’ति पटिस्सुणित्वा तस्स आगतदिवसतो पट्ठाय सहत्थेनेव सूपब्यञ्‍जनादीनि सम्पादेति, मालागन्धविलेपनादीनि अभिसङ्खरोति <pb ed="P" n="3.0466"/>, भोजनकाले तस्स न्हानोदकं पटियादापेत्वा न्हानकालतो पट्ठाय सब्बकिच्‍चानि साधुकं करोति।</p>

<p rend="bodytext">उग्गसेट्ठि <pb ed="V" n="2.0266"/> <pb ed="M" n="2.0291"/> तस्सा आचारसम्पत्तिं दिस्वा पसन्‍नचित्तो एकदिवसं अनाथपिण्डिकेन सद्धिं सुखकथाय सन्‍निसिन्‍नो ‘‘मयं दहरकाले एवं नाम कतिकं करिम्हा’’ति सारेत्वा चूळसुभद्दं अत्तनो पुत्तस्सत्थाय वारेसि। सो पन पकतियाव मिच्छादिट्ठिको। तस्मा दसबलस्स तमत्थं आरोचेत्वा सत्थारा उग्गसेट्ठिस्सूपनिस्सयं दिस्वा अनुञ्‍ञातो भरियाय सद्धिं मन्तेत्वा तस्स वचनं सम्पटिच्छित्वा दिवसं ववत्थपेत्वा धीतरं विसाखं दत्वा उय्योजेन्तो धनञ्‍चयसेट्ठि विय महन्तं सक्‍कारं कत्वा सुभद्दं आमन्तेत्वा, ‘‘अम्म, ससुरकुले वसन्तिया नाम अन्तोअग्गि बहि न नीहरितब्बो’’ति (अ॰ नि॰ अट्ठ॰ १.१.२५९; ध॰ प॰ अट्ठ॰ १.५२ विसाखावत्थु) धनञ्‍चयसेट्ठिना विसाखाय दिन्‍ननयेनेव दस ओवादे दत्वा ‘‘सचे मे गतट्ठाने धीतु दोसो उप्पज्‍जति, तुम्हेहि सोधेतब्बो’’ति अट्ठ कुटुम्बिके पाटिभोगे गहेत्वा तस्सा उय्योजनदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा पुरिमभवे धीतरा कतानं सुचरितानं फलविभूतिं लोकस्स पाकटं कत्वा दस्सेन्तो विय महन्तेन सक्‍कारेन धीतरं उय्योजेसि। तस्सा अनुपुब्बेन उग्गनगरं पत्तकाले ससुरकुलेन सद्धिं <pb ed="P" n="3.0467"/> महाजनो पच्‍चुग्गमनमकासि।</p>

<p rend="bodytext">सापि अत्तनो सिरिविभवं पाकटं कातुं विसाखा विय सकलनगरस्स अत्तानं दस्सेन्ती रथे ठत्वा नगरं पविसित्वा नागरेहि पेसिते पण्णाकारे गहेत्वा अनुरूपवसेन तेसं तेसं पेसेन्ती सकलनगरं अत्तनो गुणेहि एकाबद्धमकासि। मङ्गलदिवसादीसु पनस्सा ससुरो अचेलकानं सक्‍कारं करोन्तो ‘‘आगन्त्वा अम्हाकं समणे वन्दतू’’ति पेसेसि। सा लज्‍जाय नग्गे पस्सितुं असक्‍कोन्ती गन्तुं न इच्छति। सो पुनप्पुनं पेसेत्वापि ताय पटिक्खित्तो कुज्झित्वा ‘‘नीहरथ न’’न्ति आह। सा ‘‘न सक्‍का मम अकारणेन दोसं आरोपेतु’’न्ति कुटुम्बिके पक्‍कोसापेत्वा तमत्थं आरोचेसि। ते तस्सा निद्दोसभावं ञत्वा सेट्ठिं सञ्‍ञापेसुं। सो ‘‘अयं मम समणे अहिरिकाति न वन्दी’’ति भरियाय आरोचेसि। सा ‘‘कीदिसा नु खो इमिस्सा समणा, अतिविय तेसं पसंसती’’ति तं पक्‍कोसापेत्वा आह –</p>

<p rend="gatha1">‘‘कीदिसा समणा तुय्हं, बाळ्हं खो ने पसंससि।</p>

<p rend="gathalast">किंसीला किंसमाचारा, तं मे अक्खाहि पुच्छिता’’ति॥ (अ॰ नि॰ अट्ठ॰ २.४.२४)।</p>

<p rend="bodytext">अथस्सा <pb ed="M" n="2.0292"/> सुभद्दा बुद्धानञ्‍चेव बुद्धसावकानञ्‍च गुणे पकासेन्ती –</p>

<p rend="gatha1">‘‘सन्तिन्द्रिया <pb ed="V" n="2.0267"/> सन्तमानसा, सन्तं तेसं गतं ठितं।</p>

<p rend="gathalast">ओक्खित्तचक्खू मितभाणी, तादिसा समणा मम॥ (अ॰ नि॰ अट्ठ॰ २.४.२४)।</p>

<p rend="gatha1">‘‘कायकम्मं सुचि नेसं, वाचाकम्मं अनाविलं।</p>

<p rend="gathalast">मनोकम्मं सुविसुद्धं, तादिसा समणा मम॥</p>

<p rend="gatha1">‘‘विमला <pb ed="P" n="3.0468"/> सङ्खमुत्ताभा, सुद्धा अन्तरबाहिरा।</p>

<p rend="gathalast">पुण्णा सुद्धेहि धम्मेहि, तादिसा समणा मम॥</p>

<p rend="gatha1">‘‘लाभेन उन्‍नतो लोको, अलाभेन च ओनतो।</p>

<p rend="gathalast">लाभालाभेन एकट्ठा, तादिसा समणा मम॥</p>

<p rend="gatha1">‘‘यसेन उन्‍नतो लोको, अयसेन च ओनतो।</p>

<p rend="gathalast">यसायसेन एकट्ठा, तादिसा समणा मम॥</p>

<p rend="gatha1">‘‘पसंसायुन्‍नतो लोको, निन्दायापि च ओनतो।</p>

<p rend="gathalast">समा निन्दापसंसासु, तादिसा समणा मम॥</p>

<p rend="gatha1">‘‘सुखेन उन्‍नतो लोको, दुक्खेनापि च ओनतो।</p>

<p rend="gathalast">अकम्पा सुखदुक्खेसु, तादिसा समणा ममा’’ति॥ –</p>

<p rend="unindented">एवमादीहि वचनेहि सस्सुं तोसेसि।</p>

<p rend="bodytext">अथ नं ‘‘सक्‍का तव समणे अम्हाकम्पि दस्सेतु’’न्ति वत्वा ‘‘सक्‍का’’ति वुत्ते ‘‘तेन हि यथा मयं ते पस्साम, तथा करोही’’ति वुत्ते सा ‘‘साधू’’ति बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं सज्‍जेत्वा उपरिपासादतले ठत्वा जेतवनाभिमुखी सक्‍कच्‍चं पञ्‍चपतिट्ठितेन वन्दित्वा बुद्धगुणे आवज्‍जेत्वा गन्धवासपुप्फधुमेहि पूजं कत्वा, ‘‘भन्ते, स्वातनाय बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेमि, इमिना मे सञ्‍ञाणेन सत्था निमन्तितभावं जानातू’’ति <pb ed="P" n="3.0469"/> सुमनपुप्फानं अट्ठ मुट्ठियो आकासे खिपि। पुप्फानि गन्त्वा चतुपरिसमज्झे धम्मं <pb ed="V" n="2.0268"/> देसेन्तस्स सत्थुनो उपरि मालावितानं हुत्वा अट्ठंसु। तस्मिं खणे अनाथपिण्डिकोपि धम्मकथं सुत्वा स्वातनाय सत्थारं निमन्तेसि। सत्था ‘‘अधिवुत्थं मया, गहपति, स्वातनाय भत्त’’न्ति वत्वा, ‘‘भन्ते, मया पुरेतरं आगतो नत्थि, कस्स नु खो वो अधिवुत्थ’’न्ति वुत्ते ‘‘चूळसुभद्दाय, गहपति, निमन्तितो’’ति <pb ed="M" n="2.0293"/> वत्वा ‘‘ननु, भन्ते, चूळसुभद्दा दूरे वसति इतो वीसतियोजनसतमत्थके’’ति वुत्ते, ‘‘आम गहपति, दूरे वसन्तापि हि सप्पुरिसा अभिमुखे ठिता विय पकासेन्ती’’ति वत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="304"><hi rend="paranum">३०४</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो।</p>

<p rend="gathalast">असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">सन्तो</hi>ति रागादीनं सन्तताय बुद्धादयो सन्ता नाम। इध पन पुब्बबुद्धेसु कताधिकारा उस्सन्‍नकुसलमूला भावितभावना सत्ता सन्तोति अधिप्पेता। <hi rend="bold">पकासेन्ती</hi>ति दूरे ठितापि बुद्धानं ञाणपथं आगच्छन्ता पाकटा होन्ति। <hi rend="bold">हिमवन्तो वा</hi>ति यथा हि तियोजनसहस्सवित्थतो पञ्‍चयोजनसतुब्बेधो चतुरासीतिया <pb ed="P" n="3.0470"/> कूटसहस्सेहि पटिमण्डितो हिमवन्तपब्बतो दूरे ठितानम्पि अभिमुखे ठितो विय पकासेति, एवं पकासेन्तीति अत्थो। <hi rend="bold">असन्तेत्था</hi>ति दिट्ठधम्मगरुका वितिण्णपरलोका आमिसचक्खुका जीविकत्थाय पब्बजिता बालपुग्गला असन्तो नाम, ते एत्थ बुद्धानं दक्खिणस्स जाणुमण्डलस्स सन्तिके निसिन्‍नापि न दिस्सन्ति न पञ्‍ञायन्ति। <hi rend="bold">रत्तिं खित्ता</hi>ति रत्तिं चतुरङ्गसमन्‍नागते अन्धकारे खित्तसरा विय तथारूपस्स उपनिस्सयभूतस्स पुब्बहेतुनो अभावेन न पञ्‍ञायन्तीति अत्थो।</p>

<p rend="bodytext">देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।</p>

<p rend="bodytext">सक्‍को देवराजा ‘‘सत्थारा सुभद्दाय निमन्तनं अधिवासित’’न्ति ञत्वा विस्सकम्मदेवपुत्तं आणापेसि – ‘‘पञ्‍च कूटागारसतानि निम्मिनित्वा स्वे बुद्धप्पमुखं भिक्खुसङ्घं उग्गनगरं नेही’’ति। सो पुनदिवसे पञ्‍चसतानि कूटागारानि निम्मिनित्वा जेतवनद्वारे अट्ठासि। सत्था उच्‍चिनित्वा विसुद्धखीणासवानंयेव पञ्‍चसतानि आदाय सपरिवारो कूटागारेसु निसीदित्वा उग्गनगरं अगमासि। उग्गसेट्ठिपि सपरिवारो सुभद्दाय दिन्‍ननयेनेव तथागतस्स आगतमग्गं ओलोकेन्तो सत्थारं महन्तेन सिरिविभवेन <pb ed="P" n="3.0471"/> आगच्छन्तं दिस्वा पसन्‍नमानसो मालादीहि महन्तं सक्‍कारं करोन्तो सपरिवारो सम्पटिच्छित्वा वन्दित्वा महादानं दत्वा पुनप्पुनं निमन्तेत्वा सत्ताहं महादानं अदासि। सत्थापिस्स सप्पायं सल्‍लक्खेत्वा <pb ed="V" n="2.0269"/> धम्मं <pb ed="M" n="2.0294"/> देसेसि। तं आदिं कत्वा चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि। सत्था ‘‘चूळसुभद्दाय अनुग्गहणत्थं त्वं इधेव होही’’ति अनुरुद्धत्थेरं निवत्तापेत्वा सावत्थिमेव अगमासि। ततो पट्ठाय तं नगरं सद्धासम्पन्‍नं अहोसीति।</p>

<p rend="centre">चूळसुभद्दावत्थु अट्ठमं।</p>

<p rend="subhead">९. एकविहारित्थेरवत्थु</p>

<p rend="bodytext"><hi rend="bold">एकासन</hi>न्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकविहारित्थेरं नाम आरब्भ कथेसि।</p>

<p rend="bodytext">सो किर थेरो एककोव सेय्यं कप्पेति, एककोव निसीदति, एककोव चङ्कमति, एककोव तिट्ठतीति चतुपरिसन्तरे पाकटो अहोसि। अथ नं भिक्खू, ‘‘भन्ते, एवरूपो नामायं थेरो’’ति तथागतस्सारोचेसुं। सत्था ‘‘साधु साधू’’ति <pb ed="P" n="3.0472"/> तस्स साधुकारं दत्वा ‘‘भिक्खुना नाम पविवित्तेन भवितब्ब’’न्ति विवेके आनिसंसं कथेत्वा इमं गाथमाह –</p>

<p rend="hangnum" n="305"><hi rend="paranum">३०५</hi><hi rend="dot">.</hi></p>

<p rend="gatha1"> ‘‘एकासनं एकसेय्यं, एको चरमतन्दितो।</p>

<p rend="gathalast">एको दमयमत्तानं, वनन्ते रमितो सिया’’ति॥</p>

<p rend="bodytext">तत्थ <hi rend="bold">एकासनं एकसेय्य</hi>न्ति भिक्खुसहस्समज्झेपि मूलकम्मट्ठानं अविजहित्वा तेनेव मनसिकारेन निसिन्‍नस्स आसनं एकासनं नाम। लोहपासादसदिसेपि च पासादे भिक्खुसहस्समज्झेपि पञ्‍ञत्ते विचित्रपच्‍चत्थरणूपधाने महारहे सयने सतिं उपट्ठपेत्वा दक्खिणेन पस्सेन मूलकम्मट्ठानमनसिकारेन निपन्‍नस्स भिक्खुनो सेय्या एकसेय्या नाम। एवरूपं एकासनञ्‍च एकसेय्यञ्‍च भजेथाति अत्थो। <hi rend="bold">अतन्दितो</hi>ति जङ्घबलं निस्साय जीवितकप्पनेन अकुसीतो हुत्वा सब्बीरियापथेसु एककोव चरन्तोति अत्थो। <hi rend="bold">एको दमय</hi>न्ति रत्तिट्ठानादीसु <pb ed="M" n="2.0295"/> कम्मट्ठानं अनुयुञ्‍जित्वा मग्गफलाधिगमवसेन एकोव हुत्वा अत्तानं दमेन्तोति अत्थो। <hi rend="bold">वनन्ते रमितो सिया</hi>ति एवं अत्तानं दमेन्तो इत्थिपुरिससद्दादीहि पविवित्ते वनन्तेयेव अभिरमितो भवेय्य। न हि सक्‍का आकिण्णविहारिना एवं अत्तानं दमेतुन्ति अत्थो।</p>

<p rend="bodytext">देसनावसाने <pb ed="V" n="2.0270"/> <pb ed="P" n="3.0473"/> बहू सोतापत्तिफलादीनि पापुणिंसु। ततो पट्ठाय महाजनो एकविहारिकमेव पत्थेसीति।</p>

<p rend="centre">एकविहारित्थेरवत्थु नवमं।</p>

<p rend="centre">पकिण्णकवग्गवण्णना निट्ठिता।</p>

<p rend="centre">एकवीसतिमो वग्गो।</p>

</body>
<back></back>
</text>
</TEI.2>
