<?xml version="1.0" encoding="UTF-16"?>
<?xml-stylesheet type="text/xsl" href="tipitaka-deva.xsl"?>
<TEI.2>
<teiHeader></teiHeader>
<text>
<front></front>
<body>
<p rend="chapter">७. कथिनक्खन्धकं</p>

<p rend="subhead">कथिनानुजाननकथा</p>

<p rend="bodytext" n="306"><hi rend="paranum">३०६</hi><hi rend="dot">.</hi> कथिनक्खन्धके <pb ed="M" n="0.0387"/> <pb ed="V" n="0.0365"/> – <hi rend="bold">पावेय्यका</hi>ति पावेय्यरट्ठवासिनो। पावेय्यं नाम कोसलेसु पच्छिमदिसाभागे रट्ठं; तत्थ <pb ed="P" n="5.1106"/> वासिनोति वुत्तं होति। कोसलरञ्‍ञो एकपितुकभातूनं भद्दवग्गियत्थेरानं एतं अधिवचनं। तेसु सब्बजेट्ठको अनागामी, सब्बपच्छिमको सोतापन्‍नो, एकोपि अरहा वा पुथुज्‍जनो वा नत्थि। <hi rend="bold">आरञ्‍ञिका</hi>ति धुतङ्गसमादानवसेन आरञ्‍ञिका; न अरञ्‍ञवासमत्तेन। पिण्डपातिकादिभावेपि तेसं एसेव नयो। सीसवसेन चेतं वुत्तं। इमे पन तेरसापि धुतङ्गानि समादायेव वत्तन्ति। <hi rend="bold">उदकसङ्गहे</hi>ति उदकेन सङ्गहिते घटिते संसट्ठे; थले च निन्‍ने च एकोदकीभूतेति अत्थो।</p>

<p rend="bodytext"><hi rend="bold">उदकचिक्खल्‍ले</hi>ति अक्‍कन्तअक्‍कन्तट्ठाने उदकचिक्खल्‍लो उट्ठहित्वा याव आनिसदा पहरति, ईदिसे चिक्खल्‍लेति अत्थो। <hi rend="bold">ओकपुण्णेही</hi>ति उदकपुण्णेहि। तेसं किर चीवरानि घनानि, तेसु पतितं उदकं न पग्घरति घनत्ता पुटबद्धं विय तिट्ठति। तेन वुत्तं – ‘‘ओकपुण्णेहि चीवरेही’’ति। ‘‘ओघपुण्णेही’’तिपि पाठो।</p>

<p rend="bodytext"><hi rend="bold">अविवदमाना वस्सं वसिम्हा</hi>ति एत्थ आगन्तुकट्ठाने सेनासनफासुताय अभावेन च भगवतो दस्सनालाभेन उक्‍कण्ठितताय च ते भिक्खू फासुं न वसिंसु, तस्मा ‘‘अविवदमाना फासुकं वस्सं वसिम्हा’’ति नावोचुं। <hi rend="bold">धम्मिं कथं कत्वा</hi>ति भगवा तेसं भिक्खूनं अनमतग्गियकथं कथेसि। ते सब्बेपि कथापरियोसाने अरहत्तं पापुणित्वा निसिन्‍नट्ठानतोयेव आकासे उप्पतित्वा अगमंसु, तं सन्धाय वुत्तं – ‘‘धम्मिं कथं कत्वा’’ति। ततो भगवा ‘‘सचे कथिनत्थारो पञ्‍ञत्तो अभविस्स, एते भिक्खू एकं चीवरं ठपेत्वा सन्तरुत्तरेन आगच्छन्ता न एवं किलन्ता अस्सु, कथिनत्थारो च नामेस सब्बबुद्धेहि अनुञ्‍ञातो’’ति चिन्तेत्वा कथिनत्थारं अनुजानितुकामो भिक्खू आमन्तेसि, आमन्तेत्वा च पन <hi rend="bold">‘‘अनुजानामि भिक्खवे’’</hi>तिआदिमाह।</p>

<p rend="bodytext">तत्थ <pb ed="M" n="0.0388"/> <pb ed="V" n="0.0366"/> <hi rend="bold">अत्थतकथिनानं वो</hi>ति निपातमत्तं वोकारो; अत्थतकथिनानन्ति अत्थो। एवञ्हि सति परतो ‘‘सो नेसं भविस्सती’’ति युज्‍जति। अथ वा <hi rend="bold">वो</hi>ति सामिवचनमेवेतं। <hi rend="bold">सो नेस</hi>न्ति एत्थ पन सो चीवरुप्पादो ये अत्थतकथिना, तेसं भविस्सतीति अत्थो।</p>

<p rend="bodytext">तत्थ <hi rend="bold">अनामन्तचारो</hi>ति याव कथिनं न उद्धरियति, ताव अनामन्तेत्वा चरणं कप्पिस्सति <pb ed="P" n="5.1107"/>, चारित्तसिक्खापदेन अनापत्ति भविस्सतीति अत्थो। <hi rend="bold">असमादानचारो</hi>ति तिचीवरं असमादाय चरणं; चीवरविप्पवासो कप्पिस्सतीति अत्थो। <hi rend="bold">गणभोजन</hi>न्ति गणभोजनम्पि कप्पिस्सति। <hi rend="bold">यावदत्थचीवर</hi>न्ति यावत्तकेन चीवरेन अत्थो, तावत्तकं अनधिट्ठितं अविकप्पितं कप्पिस्सतीति अत्थो। <hi rend="bold">यो च तत्थ चीवरुप्पादो</hi>ति तत्थ कथिनत्थतसीमायं मतकचीवरं वा होतु सङ्घं उद्दिस्स दिन्‍नं वा सङ्घिकेन तत्रुप्पादेन आभतं वा, येन केनचि आकारेन यं सङ्घिकचीवरं उप्पज्‍जति, तं तेसं भविस्सतीति अत्थो।</p>

<p rend="bodytext"><hi rend="bold">एवञ्‍च पन भिक्खवे कथिनं अत्थरितब्ब</hi>न्ति एत्थ कथिनत्थारं के लभन्ति, के न लभन्तीति? गणनवसेन ताव पच्छिमकोटिया पञ्‍च जना लभन्ति, उद्धं सतसहस्सम्पि, पञ्‍चन्‍नं हेट्ठा न लभन्ति। वुत्थवस्सवसेन पुरिमिकाय वस्सं उपगन्त्वा पठमपवारणाय पवारिता लभन्ति, छिन्‍नवस्सा वा पच्छिमिकाय उपगता वा न लभन्ति, अञ्‍ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति महापच्‍चरियं वुत्तं। पुरिमिकाय उपगतानं पन सब्बे गणपूरका होन्ति, आनिसंसं न लभन्ति, आनिसंसो इतरेसंयेव होति। सचे पुरिमिकाय उपगता चत्तारो वा होन्ति तयो वा द्वे वा एको वा, इतरे गणपूरके कत्वा कथिनं अत्थरितब्बं। अथ चत्तारो भिक्खू उपगता, एको परिपुण्णवस्सो सामणेरो, सो चे पच्छिमिकाय उपसम्पज्‍जति, गणपूरको चेव होति, आनिसंसञ्‍च लभति। तयो भिक्खू द्वे सामणेरा, द्वे भिक्खू तयो सामणेरा, एको भिक्खु चत्तारो सामणेराति एत्थापि एसेव नयो। सचे पुरिमिकाय उपगता कथिनत्थारकुसला न होन्ति, अत्थारकुसला खन्धकभाणकथेरा परियेसित्वा आनेतब्बा। कम्मवाचं सावेत्वा कथिनं अत्थरापेत्वा दानञ्‍च भुञ्‍जित्वा गमिस्सन्ति। आनिसंसो पन इतरेसंयेव होति।</p>

<p rend="bodytext">कथिनं <pb ed="M" n="0.0389"/> केन दिन्‍नं वट्टति? येन केनचि देवेन वा मनुस्सेन वा पञ्‍चन्‍नं वा सहधम्मिकानं अञ्‍ञतरेन दिन्‍नं वट्टति। कथिनदायकस्स वत्तं अत्थि, सचे सो तं अजानन्तो पुच्छति – ‘‘भन्ते कथं कथिनं दातब्ब’’न्ति तस्स एवं आचिक्खितब्बं – ‘‘तिण्णं चीवरानं अञ्‍ञतरप्पहोनकं सूरियुग्गमनसमये वत्थं ‘कथिनचीवरं देमा’ति दातुं वट्टति <pb ed="P" n="5.1108"/>, तस्स परिकम्मत्थं <pb ed="V" n="0.0367"/> एत्तका नाम सूचियो, एत्तकं सुत्तं, एत्तकं रजनं, परिकम्मं करोन्तानं एत्तकानं भिक्खूनं यागुभत्तञ्‍च दातुं वट्टती’’ति।</p>

<p rend="bodytext">कथिनत्थारकेनापि धम्मेन समेन उप्पन्‍नं कथिनं अत्थरन्तेन वत्तं जानितब्बं। तन्तवायगेहतो हि आभतसन्तानेनेव खलिमक्खितसाटको न वट्टति, मलीनसाटकोपि न वट्टति, तस्मा कथिनत्थारसाटकं लभित्वा सुट्ठु धोवित्वा सूचिआदीनि चीवरकम्मूपकरणानि सज्‍जेत्वा बहूहि भिक्खूहि सद्धिं तदहेव सिब्बित्वा निट्ठितसूचिकम्मं रजित्वा कप्पबिन्दुं दत्वा कथिनं अत्थरितब्बं। सचे तस्मिं अनत्थतेयेव अञ्‍ञं कथिनसाटकं आहरति, अञ्‍ञानि च बहूनि कथिनानिसंसवत्थानि देति, यो आनिसंसं बहुं देति, तस्स सन्तकेनेव अत्थरितब्बं। इतरो यथा तथा ओवदित्वा सञ्‍ञापेतब्बो।</p>

<p rend="bodytext">कथिनं पन केन अत्थरितब्बं? यस्स सङ्घो कथिनचीवरं देति। सङ्घेन पन कस्स दातब्बं? यो जिण्णचीवरो होति। सचे बहू जिण्णचीवरा होन्ति, वुड्ढस्स दातब्बं। वुड्ढेसुपि यो महापरिसो तदहेव चीवरं कत्वा अत्थरितुं सक्‍कोति, तस्स दातब्बं। सचे वुड्ढो न सक्‍कोति नवकतरो सक्‍कोति, तस्स दातब्बं। अपिच सङ्घेन महाथेरस्स सङ्गहं कातुं वट्टति, तस्मा ‘‘तुम्हे भन्ते गण्हथ, मयं कत्वा दस्सामा’’ति वत्तब्बं। तीसु चीवरेसु यं जिण्णं होति, तदत्थाय दातब्बं। पकतिया दुपट्टचीवरस्स दुपट्टत्थायेव दातब्बं। सचेपिस्स एकपट्टचीवरं घनं होति, कथिनसाटको च पेलवो, सारुप्पत्थाय दुपट्टप्पहोनकमेव दातब्बं, ‘‘अहं अलभन्तो एकपट्टं पारुपामी’’ति वदन्तस्सापि दुपट्टं दातुं वट्टति। यो पन लोभपकतिको होति, तस्स न दातब्बं। तेनापि ‘‘कथिनं अत्थरित्वा पच्छा सिब्बित्वा द्वे चीवरानि करिस्सामी’’ति न गहेतब्बं। यस्स पन दीयति, तस्स येन विधिना दातब्बं, तं <pb ed="M" n="0.0390"/> दस्सेतुं ‘‘एवञ्‍च पन भिक्खवे कथिनं अत्थरितब्ब’’न्ति आरभित्वा <hi rend="bold">सुणातु मे भन्ते</hi>तिआदिका दानकम्मवाचा ताव वुत्ता।</p>

<p rend="bodytext">एवं दिन्‍ने पन कथिने सचे तं कथिनदुस्सं निट्ठितपरिकम्ममेव होति <pb ed="P" n="5.1109"/>, इच्‍चेतं कुसलं। नो चे निट्ठितपरिकम्मं होति, ‘‘अहं थेरो’’ति वा ‘‘बहुस्सुतो’’ति वा एकेनापि अकातुं न लब्भति, सब्बेहेव सन्‍निपतित्वा धोवनसिब्बनरजनानि निट्ठापेतब्बानि। इदञ्हि कथिनवत्तं नाम बुद्धप्पसत्थं। अतीते पदुमुत्तरोपि भगवा कथिनवत्तं अकासि। तस्स किर अग्गसावको सुजातत्थेरो नाम कथिनं गण्हि, तं सत्था अट्ठसट्ठिया भिक्खुसतसहस्सेहि सद्धिं निसीदित्वा अकासि।</p>

<p rend="bodytext">कतपरियोसितं <pb ed="V" n="0.0368"/> पन कथिनं गहेत्वा अत्थारकेन भिक्खुना ‘‘सचे सङ्घाटिया कथिनं अत्थरितुकामो होति, पोराणिका सङ्घाटि पच्‍चुद्धरितब्बा, नवा सङ्घाटि अधिट्ठातब्बा। ‘इमाय सङ्घाटिया कथिनं अत्थरामी’ति वाचा भिन्दितब्बा’’तिआदिना परिवारे वुत्तविधानेन कथिनं अत्थरितब्बं। अत्थरित्वा च पन ‘‘तेन कथिनत्थारकेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा अञ्‍जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अत्थतं भन्ते सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदथा’ति तेहि अनुमोदकेहि भिक्खूहि एकंसं उत्तरासङ्गं करित्वा अञ्‍जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अत्थतं आवुसो सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदामा’’ति एवमादिना परिवारे वुत्तविधानेनेव अनुमोदापेतब्बं, इतरेहि च अनुमोदितब्बं। एवं सब्बेसं अत्थतं होति कथिनं। वुत्तञ्हेतं परिवारे ‘‘द्विन्‍नं पुग्गलानं अत्थतं होति कथिनं – अत्थारकस्स च अनुमोदकस्स चा’’ति (परि॰ ४०३)। पुनपि वुत्तं – ‘‘न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरति, सङ्घस्स अनुमोदना गणस्स अनुमोदना पुग्गलस्स अत्थारा सङ्घस्स अत्थतं होति कथिनं, गणस्स अत्थतं होति कथिनं, पुग्गलस्स अत्थतं होति कथिनं’’ति (परि॰ ४१४)।</p>

<p rend="bodytext">एवं अत्थते पन कथिने सचे कथिनचीवरेन सद्धिं आभतं आनिसंसं दायका ‘‘येन अम्हाकं कथिनं गहितं, तस्सेव देमा’’ति देन्ति <pb ed="M" n="0.0391"/>, भिक्खुसङ्घो अनिस्सरो। अथ अविचारेत्वाव दत्वा गच्छन्ति, भिक्खुसङ्घो इस्सरो। तस्मा सचे कथिनत्थारकस्स सेसचीवरानिपि दुब्बलानि होन्ति, सङ्घेन अपलोकेत्वा तेसम्पि अत्थाय वत्थानि दातब्बानि। कम्मवाचा पन एकायेव वट्टति। अवसेसे कथिनानिसंसे बलववत्थानि <pb ed="P" n="5.1110"/> वस्सावासिकट्ठितिकाय दातब्बानि, ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानि, गरुभण्डं न भाजेतब्बं। सचे पन एकसीमाय बहू विहारा होन्ति, सब्बे भिक्खू सन्‍निपातेत्वा एकत्थ कथिनं अत्थरितब्बं, विसुं विसुं अत्थरितुं न वट्टति।</p>

<p rend="bodytext" n="308"><hi rend="paranum">३०८</hi><hi rend="dot">.</hi> इदानि यथा च कथिनं अत्थतं होति, यथा च अनत्थतं, तं विधिं वित्थारतो दस्सेतुं <hi rend="bold">एवञ्‍च पन भिक्खवे अत्थतं होति कथिनं एवं अनत्थत</hi>न्ति वत्वा अकरणीयञ्‍चेव महाभूमिकञ्‍च अनत्थतलक्खणं ताव दस्सेन्तो <hi rend="bold">न उल्‍लिखितमत्तेना</hi>तिआदिके चतुवीसति आकारे दस्सेसि। ततो परं अत्थतलक्खणं दस्सेन्तो <hi rend="bold">अहतेन अत्थत</hi>न्तिआदिके सत्तरस आकारे दस्सेसि। परिवारेपि हि ‘‘चतुवीसतिया आकारेहि अनत्थतं होति कथिनं, सत्तरसहि आकारेहि अत्थतं होति कथिन’’न्ति इदमेव लक्खणं वुत्तं।</p>

<p rend="bodytext">तत्थ <pb ed="V" n="0.0369"/> <hi rend="bold">उल्‍लिखितमत्तेना</hi>ति दीघतो च पुथुलतो च पमाणग्गहणमत्तेन। पमाणञ्हि गण्हन्तो तस्स तस्स पदेसस्स सञ्‍जाननत्थं नखादीहि वा परिच्छेदं दस्सेन्तो उल्‍लिखति, नलाटादीसु वा घंसति, तस्मा तं पमाणग्गहणं ‘‘उल्‍लिखितमत्त’’न्ति वुच्‍चति। <hi rend="bold">धोवनमत्तेना</hi>ति कथिनदुस्सधोवनमत्तेन। <hi rend="bold">चीवरविचारणमत्तेना</hi>ति ‘‘पञ्‍चकं वा सत्तकं वा नवकं वा एकादसकं वा होतू’’ति एवं विचारितमत्तेन। <hi rend="bold">छेदनमत्तेना</hi>ति यथाविचारितस्स वत्थस्स छेदनमत्तेन। <hi rend="bold">बन्धनमत्तेना</hi>ति मोघसुत्तकारोपनमत्तेन। <hi rend="bold">ओवट्टियकरणमत्तेना</hi>ति मोघसुत्तकानुसारेन दीघसिब्बितमत्तेन। <hi rend="bold">कण्डुसकरणमत्तेना</hi>ति मुद्धियपत्तबन्धनमत्तेन। <hi rend="bold">दळ्हीकम्मकरणमत्तेना</hi>ति द्वे चिमिलिकायो एकतो कत्वा सिब्बितमत्तेन। अथ वा पठमचिमिलिका घटेत्वा ठपिता होति, कथिनसाटकं तस्सा कुच्छिचिमिलिकं कत्वा सिब्बितमत्तेनातिपि अत्थो। महापच्‍चरियं <pb ed="M" n="0.0392"/> ‘‘पकतिचीवरस्स उपस्सयदानेना’’ति वुत्तं। कुरुन्दियं पन ‘‘पकतिपत्तबद्धचीवरं दुपट्टं कातुं कुच्छिचिमिलिकं अल्‍लियापनमत्तेना’’ति वुत्तं। <hi rend="bold">अनुवातकरणमत्तेना</hi>ति पिट्ठिअनुवातारोपनमत्तेन। <hi rend="bold">परिभण्डकरणमत्तेना</hi>ति कुच्छिअनउवातारोपनमत्तेन। <hi rend="bold">ओवद्धेय्यकरणमत्तेना</hi>ति आगन्तुकपत्तारोपनमत्तेन <pb ed="P" n="5.1111"/>। कथिनचीवरतो वा पत्तं गहेत्वा अञ्‍ञस्मिं अकथिनचीवरे पत्तारोपनमत्तेन।</p>

<p rend="bodytext"><hi rend="bold">कम्बलमद्दनमत्तेना</hi>ति एकवारंयेव रजने पक्खित्तेन दन्तवण्णेन पण्डुपलासवण्णेन वा। सचे पन सकिं वा द्विक्खत्तुं वा रत्तम्पि सारुप्पं होति, वट्टति। <hi rend="bold">निमित्तकतेना</hi>ति ‘‘इमिना दुस्सेन कथिनं अत्थरिस्सामी’’ति एवं निमित्तकतेन। एत्तकमेव हि परिवारे वुत्तं। अट्ठकथासु पन ‘‘अयं साटको सुन्दरो, सक्‍का इमिना कथिनं अत्थरितु’न्ति एवं निमित्तकम्मं कत्वा लद्धेना’’ति वुत्तं। <hi rend="bold">परिकथाकतेना</hi>ति ‘‘कथिनं नाम दातुं वट्टति, कथिनदायको बहुं पुञ्‍ञं पसवती’’ति एवं परिकथाय उप्पादितेन। कथिनं नाम अतिउक्‍कट्ठं वट्टति, मातरम्पि विञ्‍ञापेतुं न वट्टति, आकासतो ओतिण्णसदिसमेव वट्टतीति। <hi rend="bold">कुक्‍कुकतेना</hi>ति तावकालिकेन। <hi rend="bold">सन्‍निधिकतेना</hi>ति एत्थ दुविधो सन्‍निधि करणसन्‍निधि च निचयसन्‍निधि च। तत्थ तदहेव अकत्वा ठपेत्वा करणं करणसन्‍निधि। सङ्घो अज्‍ज कथिनदुस्सं लभित्वा पुनदिवसे देति, अयं निचयसन्‍निधि।</p>

<p rend="bodytext"><hi rend="bold">निस्सग्गियेना</hi>ति रत्तिनिस्सग्गियेन। परिवारेपि वुत्तं – ‘‘निस्सग्गियं नाम करियमाने अरुणं उट्ठहती’’ति। <hi rend="bold">अकप्पकतेना</hi>ति अनादिन्‍नकप्पबिन्दुना। <hi rend="bold">अञ्‍ञत्र सङ्घाटिया</hi>तिआदीसु ठपेत्वा सङ्घाटिउत्तरासङ्गअन्तरवासके अञ्‍ञेन पच्‍चत्थरणादिना अत्थतं अनत्थतं होतीति। <hi rend="bold">अञ्‍ञत्र पञ्‍चकेन वा अतिरेकपञ्‍चकेन वा</hi>ति पञ्‍च वा अतिरेकानि वा खण्डानि कत्वा महामण्डलअड्ढमण्डलानि <pb ed="V" n="0.0370"/> दस्सेत्वा कतेनेव वट्टति। एवञ्हि समण्डलिकतं होति, तं ठपेत्वा अञ्‍ञेन अच्छिन्‍नकेन वा द्वत्तिचतुखण्डेन वा न वट्टति। <hi rend="bold">अञ्‍ञत्र पुग्गलस्स अत्थारा</hi>ति पुग्गलस्स अत्थारं ठपेत्वा न अञ्‍ञेन सङ्घस्स वा गणस्स वा अत्थारेन अत्थतं होति। <hi rend="bold">निस्सीमट्ठो अनुमोदती</hi>ति बहिउपचारसीमाय ठितो अनुमोदति।</p>

<p rend="bodytext" n="309"><hi rend="paranum">३०९</hi><hi rend="dot">.</hi> <hi rend="bold">अहतेना</hi>ति <pb ed="M" n="0.0393"/> अपरिभुत्तेन। <hi rend="bold">अहतकप्पेना</hi>ति अहतसदिसेन एकवारं वा द्विक्खत्तुं वा धोतेन। <hi rend="bold">पिलोतिकाया</hi>ति हतवत्थकसाटकेन <pb ed="P" n="5.1112"/>। <hi rend="bold">पंसुकूलेना</hi>ति तेवीसतिया खेत्तेसु उप्पन्‍नपंसुकूलेन। पंसुकूलिकभिक्खुना चोळकभिक्खं आहिण्डित्वा लद्धचोळकेहि कतचीवरेनातिपि कुरुन्दिमहापच्‍चरीसु वुत्तं। <hi rend="bold">पापणिकेना</hi>ति आपणद्वारे पतितपिलोतिकं गहेत्वा कथिनत्थाय देति, तेनापि वट्टतीति अत्थो। सेसं वुत्तविपल्‍लासेनेव वेदितब्बं। इमस्मिं पन ठाने ‘‘सह कथिनस्स अत्थारा कति धम्मा जायन्ती’’तिआदि बहुअट्ठकथासु वुत्तं, तं सब्बं परिवारे पाळिआरूळ्हमेव, तस्मा तत्थ आगतनयेनेव वेदितब्बं। न हि तेन इध अवुच्‍चमानेन कथिनत्थारकस्स किञ्‍चि परिहायति।</p>

<p rend="bodytext" n="310"><hi rend="paranum">३१०</hi><hi rend="dot">.</hi> एवं कथिनत्थारं दस्सेत्वा इदानि उब्भारं दस्सेतुं <hi rend="bold">कथञ्‍च भिक्खवे उब्भतं होति कथिन</hi>न्तिआदिमाह। तत्थ <hi rend="bold">मातिका</hi>ति मातरो; जनेत्तियोति अत्थो। कथिनुब्भारञ्हि एता अट्ठ जनेत्तियो। तासु पक्‍कमनं अन्तो अस्साति <hi rend="bold">पक्‍कमनन्तिका</hi>। एवं सेसापि वेदितब्बा।</p>

<p rend="subhead">आदायसत्तककथा</p>

<p rend="bodytext" n="311"><hi rend="paranum">३११</hi><hi rend="dot">.</hi> <hi rend="bold">न पच्‍चेस्स</hi>न्ति न पुन आगमिस्सं। एतस्मिं पन पक्‍कमनन्तिके कथिनुद्धारे पठमं चीवरपलिबोधो छिज्‍जति, पच्छा आवासपलिबोधो। एवं पक्‍कमतो हि चीवरपलिबोधो अन्तोसीमायमेव छिज्‍जति, आवासपलिबोधो सीमातिक्‍कमे। वुत्तम्पि चेतं परिवारे –</p>

<p rend="gatha1">‘‘पक्‍कमनन्तिको कथिनुद्धारो, वुत्तो आदिच्‍चबन्धुना।</p>

<p rend="gatha2">एतञ्‍च ताहं विस्सज्‍जिस्सं, चीवरपलिबोधो पठमं छिज्‍जति।</p>

<p rend="gathalast">पच्छा आवासपलिबोधो छिज्‍जती’’ति॥ (परि॰ ४१५)।</p>

<p rend="bodytext"><hi rend="bold">चीवरं आदाया</hi>ति अकतचीवरं आदाय। <hi rend="bold">बहिसीमगतस्सा</hi>ति अञ्‍ञं सामन्तविहारं गतस्स। <hi rend="bold">एवं होती</hi>ति तस्मिं विहारे सेनासनफासुकं वा सहायसम्पत्तिं वा दिस्वा एवं होति <pb ed="V" n="0.0371"/>। एतस्मिं पन निट्ठानन्तिके कथिनुद्धारे आवासपलिबोधो पठमं छिज्‍जति, सो हि ‘‘न पच्‍चेस्स’’न्ति चित्ते उप्पन्‍नमत्तेयेव छिज्‍जति। वुत्तम्पि चेतं –</p>

<p rend="gatha1">‘‘निट्ठानन्तिको <pb ed="M" n="0.0394"/> कथिनुद्धारो, वुत्तो आदिच्‍चबन्धुना।</p>

<p rend="gatha2">एतञ्‍च ताहं विस्सज्‍जिस्सं, आवासपलिबोधो पठमं छिज्‍जति।</p>

<p rend="gathalast">चीवरे निट्ठिते चीवरपलिबोधो छिज्‍जती’’ति॥</p>

<p rend="bodytext">एतेन <pb ed="P" n="5.1113"/> नयेन सेसमातिकाविभजनेपि अत्थो वेदितब्बो। अयं पन विसेसो – ‘‘सन्‍निट्ठानन्तिके द्वेपि पलिबोधा नेविमं चीवरं कारेस्सं, न पच्‍चेस्सन्ति चित्ते उप्पन्‍नमत्तेयेव एकतो छिज्‍जन्तीति। वुत्तञ्हेतं –</p>

<p rend="gatha1">‘‘सन्‍निट्ठानन्तिको कथिनुद्धारो, वुत्तो आदिच्‍चबन्धुना।</p>

<p rend="gathalast">एतञ्‍च ताहं विस्सज्‍जिस्सं, द्वे पलिबोधा अपुब्बं अचरिमं छिज्‍जन्ती’’ति॥</p>

<p rend="bodytext">एवं सब्बकथिनुद्धारेसु पलिबोधुपच्छेदो वेदितब्बो। सो पन यस्मा इमिना च वुत्तनयेन परिवारे च आगतभावेन सक्‍का जानितुं, तस्मा वित्थारतो न वुत्तो। अयं पनेत्थ सङ्खेपो – नासनन्तिके आवासपलिबोधो पठमं छिज्‍जति, चीवरे नट्ठे चीवरपलिबोधो छिज्‍जति। यस्मा चीवरे नट्ठे चीवरपलिबोधो छिज्‍जति, तस्मा ‘‘नासनन्तिको’’ति वुत्तं।</p>

<p rend="bodytext">सवनन्तिके चीवरपलिबोधो पठमं छिज्‍जति, तस्मा तस्स सह सवनेन आवासपलिबोधो छिज्‍जति।</p>

<p rend="bodytext">आसावच्छेदिके आवासपलिबोधो पठमं छिज्‍जति। चीवरासाय उपच्छिन्‍नाय चीवरपलिबोधो छिज्‍जति। अयं पन यस्मा ‘‘अनासाय लभति; आसाय न लभति; तस्स एवं होति ‘इधेविमं चीवरं कारेस्सं, न पच्‍चेस्स’’’न्तिआदिना नयेन इतरेहि उद्धारेहि सद्धिं वोमिस्सकदेसनो अनेकप्पभेदो होति, तस्मा परतो विसुं वित्थारेत्वा वुत्तो, इध न वुत्तो। इध पन सवनन्तिकस्स अनन्तरं सीमातिक्‍कन्तिको वुत्तो। तत्थ चीवरपलिबोधो पठमं छिज्‍जति, तस्स बहिसीमे आवासपलिबोधो छिज्‍जति। सहुब्भारे द्वे पलिबोधा अपुब्बं अचरिमं छिज्‍जन्तीति।</p>

<p rend="bodytext" n="316-325"><hi rend="paranum">३१६-३२५</hi><hi rend="dot">.</hi> एवं <pb ed="M" n="0.0395"/> <pb ed="V" n="0.0372"/> आदायवारे सत्तकथिनुद्धारे दस्सेत्वा पुन समादायवारेपि विप्पकतचीवरस्स आदायसमादायवारेसुपि यथासम्भवं तेयेव दस्सिता। ततो परं अन्तोसीमायं ‘‘पच्‍चेस्सं न पच्‍चेस्स’’न्ति इमं विधिं अनामसित्वाव ‘‘न पच्‍चेस्स’’न्ति इममेव आमसित्वा अनधिट्ठितेना’’तिआदिना नयेन च ये ये युज्‍जन्ति, ते ते दस्सिता। ततो परं ‘‘चीवरासाय पक्‍कमती’’तिआदिना नयेन इतरेहि सद्धिं वोमिस्सकनयेन अनेकक्खत्तुं आसावच्छेदिकं दस्सेत्वा पुन दिसंगमियवसेन च फासुविहारिकवसेन च निट्ठानन्तिकेसु युज्‍जमाना कथिनुद्धारा दस्सिता। एवं <pb ed="P" n="5.1114"/> पभेदतो कथिनुद्धारं दस्सेत्वा इदानि ये तेन तेन कथिनुद्धारेन पलिबोधा छिज्‍जन्तीति वुत्ता, तेसं पटिपक्खे दस्सेन्तो <hi rend="bold">द्वेमे भिक्खवे कथिनस्स पलिबोधा</hi>तिआदिमाह। तत्थ <hi rend="bold">चत्तेना</hi>ति येन चित्तेन सो आवासो चत्तो होति, तं चत्तं नाम, तेन चत्तेन। <hi rend="bold">वन्तमुत्तेसुपि</hi> एसेव नयो। सेसं सब्बत्थ उत्तानमेवाति।</p>

<p rend="centre">कथिनक्खन्धकवण्णना निट्ठिता।</p>

</body>
<back></back>
</text>
</TEI.2>
